Shree Naval Kishori

शारीरस्थानम् - १. कतिधापुरुषीयशारीरम्

अथातः कतिधापुरुषीयं शारीरं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||

कतिधा पुरुषो धीमन्! धातुभेदेन भिद्यते|
पुरुषः कारणं कस्मात्, प्रभवः पुरुषस्य कः||३||
किमज्ञो ज्ञः, स नित्यः किं किमनित्यो निदर्शितः|
प्रकृतिः का, विकाराः के, किं लिङ्गं पुरुषस्य च||४||
निष्क्रियं च स्वतन्त्रं च वशिनं सर्वगं विभुम्|
वदन्त्यात्मानमात्मज्ञाः क्षेत्रज्ञं साक्षिणं तथा||५||
निष्क्रियस्य क्रिया तस्य भगवन्! विद्यते कथम्|
स्वतन्त्रश्चेदनिष्टासु कथं योनिषु जायते||६||
वशी यद्यसुखैः कस्माद्भावैराक्रम्यते बलात्|
सर्वाः सर्वगतत्वाच्च वेदनाः किं न वेत्ति सः||७||
न पश्यति विभुः कस्माच्छैलकुड्यतिरस्कृतम्|
क्षेत्रज्ञः क्षेत्रमथवा किं पूर्वमिति संशयः||८||
ज्ञेयं क्षेत्रं विना पूर्वं क्षेत्रज्ञो हि न युज्यते|
क्षेत्रं च यदि पूर्वं स्यात् क्षेत्रज्ञः स्यादशाश्वतः||९||
साक्षिभूतश्च कस्यायं कर्ता ह्यन्यो न विद्यते|
स्यात् कथं चाविकारस्य विशेषो वेदनाकृतः||१०||
अथ चार्तस्य भगवंस्तिसृणां कां चिकित्सति|
अतीतां वेदनां वैद्यो वर्तमानां भविष्यतीम्||११||
भविष्यन्त्या असम्प्राप्तिरतीताया अनागमः|
साम्प्रतिक्या अपि स्थानं नास्त्यर्तेः संशयो ह्यतः||१२||
कारणं वेदनानां किं, किमधिष्ठानमुच्यते|
क्व चैता वेदनाः सर्वा निवृत्तिं यान्त्यशेषतः||१३||
सर्ववित् सर्वसन्न्यासी सर्वसंयोगनिःसृतः|
एकः प्रशान्तो भूतात्मा कैर्लिङ्गैरुपलभ्यते||१४||
इत्यग्निवेशस्य वचः श्रुत्वा मतिमतां वरः|
सर्वं यथावत् प्रोवाच प्रशान्तात्मा पुनर्वसुः||१५||

खादयश्चेतनाषष्ठा धातवः पुरुषः स्मृतः|
चेतनाधातुरप्येकः स्मृतः पुरुषसञ्ज्ञकः||१६||

पुनश्च धातुभेदेन चतुर्विंशतिकः स्मृतः|
मनो दशेन्द्रियाण्यर्थाः प्रकृतिश्चाष्टधातुकी||१७||

लक्षणं मनसो ज्ञानस्याभावो भाव एव च|
सति ह्यात्मेन्द्रियार्थानां सन्निकर्षे न वर्तते||१८||
वैवृत्त्यान्मनसो ज्ञानं सान्निध्यात्तच्च वर्तते|
अणुत्वमथ चैकत्वं द्वौ गुणौ मनसः स्मृतौ||१९||

चिन्त्यं विचार्यमूह्यं च ध्येयं सङ्कल्प्यमेव च|
यत्किञ्चिन्मनसो ज्ञेयं तत् सर्वं ह्यर्थसञ्ज्ञकम्||२०||
इन्द्रियाभिग्रहः कर्म मनसः स्वस्य निग्रहः|
ऊहो विचारश्च, ततः परं बुद्धिः प्रवर्तते||२१||

इन्द्रियेणेन्द्रियार्थो हि समनस्केन गृह्यते|
कल्प्यते मनसा तूर्ध्वं गुणतो दोषतोऽथवा||२२||
जायते विषये तत्र या बुद्धिर्निश्चयात्मिका|
व्यवस्यति तया वक्तुं कर्तुं वा बुद्धिपूर्वकम्||२३||
एकैकाधिकयुक्तानि खादीनामिन्द्रियाणि तु|
पञ्च कर्मानुमेयानि येभ्यो बुद्धिः प्रवर्तते||२४||

हस्तौ पादौ गुदोपस्थं वागिन्द्रियमथापि च|
कर्मेन्द्रियाणि पञ्चैव पादौ गमनकर्मणि||२५||
पायूपस्थं विसर्गार्थं हस्तौ ग्रहणधारणे|
जिह्वा वागिन्द्रियं वाक् च सत्या ज्योतिस्तमोऽनृता||२६||
महाभूतानि खं वायुरग्निरापः क्षितिस्तथा|
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च तद्गुणाः||२७||

तेषामेकगुणः पूर्वो गुणवृद्धिः परे परे|
पूर्वः पूर्वगुणश्चैव क्रमशो गुणिषु स्मृतः||२८||

खरद्रवचलोष्णत्वं भूजलानिलतेजसाम्|
आकाशस्याप्रतीघातो दृष्टं लिङ्गं यथाक्रमम्||२९||
लक्षणं सर्वमेवैतत् स्पर्शनेन्द्रियगोचरम्|
स्पर्शनेन्द्रियविज्ञेयः स्पर्शो हि सविपर्ययः||३०||

गुणाः शरीरे गुणिनां निर्दिष्टाश्चिह्नमेव च|३१|

अर्थाः शब्दादयो ज्ञेया गोचरा विषया गुणाः||३१||

या यदिन्द्रियमाश्रित्य जन्तोर्बुद्धिः प्रवर्तते|
याति सा तेन निर्देशं मनसा च मनोभवा||३२||
भेदात् कार्येन्द्रियार्थानां बह्व्यो वै बुद्धयः स्मृताः|
आत्मेन्द्रियमनोर्थानामेकैका सन्निकर्षजा||३३||
अङ्गुल्यङ्गुष्ठतलजस्तन्त्रीवीणानखोद्भवः|
दृष्टः शब्दो यथा बुद्धिर्दृष्टा संयोगजा तथा||३४||

बुद्धीन्द्रियमनोर्थानां विद्याद्योगधरं परम्|
चतुर्विंशतिको ह्येष राशिः पुरुषसञ्ज्ञकः||३५||
रजस्तमोभ्यां युक्तस्य संयोगोऽयमनन्तवान्|
ताभ्यां निराकृताभ्यां तु सत्त्ववृद्ध्या निवर्तते||३६||
अत्र कर्म फलं चात्र ज्ञानं चात्र प्रतिष्ठितम्|
अत्र मोहः सुखं दुःखं जीवितं मरणं स्वता||३७||
एवं यो वेद तत्त्वेन स वेद प्रलयोदयौ|
पारम्पर्यं चिकित्सां च ज्ञातव्यं यच्च किञ्चन||३८||
भास्तमः सत्यमनृतं वेदाः कर्म शुभाशुभम्|
न स्युः कर्ता च बोद्धा च पुरुषो न भवेद्यदि||३९||
नाश्रयो न सुखं नार्तिर्न गतिर्नागतिर्न वाक्|
न विज्ञानं न शास्त्राणि न जन्म मरणं न च||४०||
न बन्धो न च मोक्षः स्यात् पुरुषो न भवेद्यदि|
कारणं पुरुषस्तस्मात् कारणज्ञैरुदाहृतः||४१||
न चेत् कारणमात्मा स्याद्भादयः स्युरहेतुकाः|
न चैषु सम्भवेज् ज्ञानं न च तैः स्यात् प्रयोजनम्||४२||
कृतं मृद्दण्डचक्रैश्च कुम्भकारादृते घटम्|
कृतं मृत्तृणकाष्ठैश्च गृहकाराद्विना गृहम्||४३||
यो वदेत् स वदेद्देहं सम्भूय करणैः कृतम्|
विना कर्तारमज्ञानाद्युक्त्यागमबहिष्कृतः||४४||
कारणं पुरुषः सर्वैः प्रमाणैरुपलभ्यते|
येभ्यः प्रमेयं सर्वेभ्य आगमेभ्यः प्रमीयते||४५||
न ते तत्सदृशास्त्वन्ये पारम्पर्यसमुत्थिताः|
सारूप्याद्ये त एवेति निर्दिश्यन्ते नवा नवाः||४६||
भावास्तेषां समुदयो निरीशः सत्त्वसञ्ज्ञकः|
कर्ता भोक्ता न स पुमानिति केचिद्व्यवस्थिताः||४७||
तेषामन्यैः कृतस्यान्ये भावा भावैर्नवाः फलम्|
भुञ्जते सदृशाः प्राप्तं यैरात्मा नोपदिश्यते||४८||

करणान्यान्यता दृष्टा कर्तुः कर्ता स एव तु|
कर्ता हि करणैर्युक्तः कारणं सर्वकर्मणाम्||४९||

निमेषकालाद्भावानां कालः शीघ्रतरोऽत्यये|
भग्नानां न पुनर्भावः कृतं नान्यमुपैति च||५०||
मतं तत्त्वविदामेतद्यस्मात्तस्मात् स कारणम्|
क्रियोपभोगे भूतानां नित्यः पुरुषसञ्ज्ञकः||५१||

अहङ्कारः फलं कर्म देहान्तरगतिः स्मृतिः|
विद्यते सति भूतानां कारणे देहमन्तरा||५२||
प्रभवो न ह्यनादित्वाद्विद्यते परमात्मनः|
पुरुषो राशिसञ्ज्ञस्तु मोहेच्छाद्वेषकर्मजः||५३||

आत्मा ज्ञः करणैर्योगाज् ज्ञानं त्वस्य प्रवर्तते|
करणानामवैमल्यादयोगाद्वा न वर्तते||५४||
पश्यतोऽपि यथाऽऽदर्शे सङ्क्लिष्टे नास्ति दर्शनम्|
तत्त्वं जले वा कलुषे चेतस्युपहते तथा||५५||

करणानि मनो बुद्धिर्बुद्धिकर्मेन्द्रियाणि च|
कर्तुः संयोगजं कर्म वेदना बुद्धिरेव च||५६||
नैकः प्रवर्तते कर्तुं भूतात्मा नाश्नुते फलम्|
संयोगाद्वर्तते सर्वं तमृते नास्ति किञ्चन||५७||

न ह्येको वर्तते भावो वर्तते नाप्यहेतुकः|
शीघ्रगत्वात्स्वभावात्त्वभावो न व्यतिवर्तते||५८||

अनादिः पुरुषो नित्यो विपरीतस्तु हेतुजः|
सदकारणवन्नित्यं दृष्टं हेतुजमन्यथा||५९||

तदेव भावादग्राह्यं नित्यत्व न कुतश्चन|
भावाज्ज्ञेयं तदव्यक्तमचिन्त्यं व्यक्तमन्यथा||६०||
अव्यक्तमात्मा क्षेत्रज्ञः शाश्वतो विभुरव्ययः|
तस्माद्यदन्यत्तद्व्यक्तं, वक्ष्यते चापरं द्वयम्||६१||
व्यक्तमैन्द्रियकं चैव गृह्यते तद्यदिन्द्रियैः|
अतोऽन्यत् पुनरव्यक्तं लिङ्गग्राह्यमतीन्द्रियम्||६२||

खादीनि बुद्धिरव्यक्तमहङ्कारस्तथाऽष्टमः|
भूतप्रकृतिरुद्दिष्टा विकाराश्चैव षोडश||६३||
बुद्धीन्द्रियाणि पञ्चैव पञ्च कर्मेन्द्रियाणि च|
समनस्काश्च पञ्चार्था विकारा इति सञ्ज्ञिताः||६४||

इति क्षेत्रं समुद्दिष्टं सर्वमव्यक्तवर्जितम्|
अव्यक्तमस्य क्षेत्रस्य क्षेत्रज्ञमृषयो विदुः||६५||

जायते बुद्धिरव्यक्ताद्बुद्ध्याऽहमिति मन्यते|
परं खादीन्यहङ्कारादुत्पद्यन्ते यथाक्रमम्||६६||
ततः सम्पूर्णसर्वाङ्गो जातोऽभ्युदित उच्यते|६७|

पुरुषः प्रलये चेष्टैः पुनर्भावैर्वियुज्यते||६७||
अव्यक्ताद्व्यक्ततां याति व्यक्तादव्यक्ततां पुनः|
रजस्तमोभ्यामाविष्टश्चक्रवत् परिवर्तते||६८||
येषां द्वन्द्वे परा सक्तिरहङ्कारपराश्च ये|
उदयप्रलयौ तेषां न तेषां ये त्वतोऽन्यथा||६९||

प्राणापानौ निमेषाद्या जीवनं मनसो गतिः|
इन्द्रियान्तरसञ्चारः प्रेरणं धारणं च यत्||७०||
देशान्तरगतिः स्वप्ने पञ्चत्वग्रहणं तथा|
दृष्टस्य दक्षिणेनाक्ष्णा सव्येनावगमस्तथा||७१||
इच्छा द्वेषः सुखं दुःखं प्रयत्नश्चेतना धृतिः|
बुद्धिः स्मृतिरहङ्कारो लिङ्गानि परमात्मनः||७२||
यस्मात् समुपलभ्यन्ते लिङ्गान्येतानि जीवतः|
न मृतस्यात्मलिङ्गानि तस्मादाहुर्महर्षयः||७३||
शरीरं हि गते तस्मिञ् शून्यागारमचेतनम्|
पञ्चभूतावशेषत्वात् पञ्चत्वं गतमुच्यते||७४||

अचेतनं क्रियावच्च मनश्चेतयिता परः|
युक्तस्य मनसा तस्य निर्दिश्यन्ते विभोः क्रियाः||७५||
चेतनावान् यतश्चात्मा ततः कर्ता निरुच्यते|
अचेतनत्वाच्च मनः क्रियावदपि नोच्यते||७६||

यथास्वेनात्मनाऽऽत्मानं सर्वः सर्वासु योनिषु|
प्राणैस्तन्त्रयते प्राणी नह्यन्योऽस्त्यस्य तन्त्रकः||७७||

वशी तत् कुरुते कर्म यत् कृत्वा फलमश्नुते|
वशी चेतः समाधत्ते वशी सर्वं निरस्यति||७८||
देही सर्वगतोऽप्यात्मा स्वे स्वे संस्पर्शनेन्द्रिये|
सर्वाः सर्वाश्रयस्थास्तु नात्माऽतो वेत्ति वेदनाः||७९||

विभुत्वमत एवास्य यस्मात् सर्वगतो महान्|
मनसश्च समाधानात् पश्यत्यात्मा तिरस्कृतम्||८०||
नित्यानुबन्धं मनसा देहकर्मानुपातिना|
सर्वयोनिगतं विद्यादेकयोनावपि स्थितम्||८१||

आदिर्नास्त्यात्मनः क्षेत्रपारम्पर्यमनादिकम्|
अतस्तयोरनादित्वात् किं पूर्वमिति नोच्यते||८२||
ज्ञः साक्षीत्युच्यते नाज्ञः साक्षी त्वात्मा यतः स्मृतः|
सर्वे भावा हि सर्वेषां भूतानामात्मसाक्षिकाः||८३||

नैकः कदाचिद्भूतात्मा लक्षणैरुपलभ्यते|
विशेषोऽनुपलभ्यस्य तस्य नैकस्य विद्यते||८४||
संयोगपुरुषस्येष्टो विशेषो वेदनाकृतः|
वेदना यत्र नियता विशेषस्तत्र तत्कृतः||८५||

चिकित्सति भिषक् सर्वास्त्रिकाला वेदना इति|
यया युक्त्या वदन्त्येके सा युक्तिरुपधार्यताम्||८६||
पुनस्तच्छिरसः शूलं ज्वरः स पुनरागतः|
पुनः स कासो बलवांश्छर्दिः सा पुनरागता||८७||
एभिः प्रसिद्धवचनैरतीतागमनं मतम्|
कालश्चायमतीतानामर्तीनां पुनरागतः||८८||
तमर्तिकालमुद्दिश्य भेषजं यत् प्रयुज्यते|
अतीतानां प्रशमनं वेदनानां तदुच्यते||८९||
आपस्ताः पुनरागुर्मा याभिः शस्यं पुरा हतम्|
यथा प्रक्रियते सेतुः प्रतिकर्म तथाऽऽश्रये||९०||
पूर्वरूपं विकाराणां दृष्ट्वा प्रादुर्भविष्यताम्|
या क्रिया क्रियते सा च वेदनां हन्त्यनागताम्||९१||
पारम्पर्यानबन्धस्तु दुःखानां विनिवर्तते|
सुखहेतूपचारेण सुखं चापि प्रवर्तते||९२||
न समा यान्ति वैषम्यं विषमाः समतां न च|
हेतुभिः सदृशा नित्यं जायन्ते देहधातवः||९३||
युक्तिमेतां पुरस्कृत्य त्रिकालां वेदनां भिषक्|
हन्तीत्युक्तं चिकित्सा तु नैष्ठिकी या विनोपधाम्||९४||

उपधा हि परो हेतुर्दुःखदुःखाश्रयप्रदः|
त्यागः सर्वोपधानां च सर्वदुःखव्यपोहकः||९५||
कोषकारो यथा ह्यंशूनुपादत्ते वधप्रदान् |
उपादत्ते तथाऽर्थेभ्यस्तृष्णामज्ञः सदाऽऽतुरः||९६||
यस्त्वग्निकल्पानर्थाञ् ज्ञो ज्ञात्वा तेभ्यो निवर्तते|
अनारम्भादसंयोगात्तं दुःखं नोपतिष्ठते||९७||

धीधृतिस्मृतिविभ्रंशः सम्प्राप्तिः कालकर्मणाम्|
असात्म्यार्थागमश्चेति ज्ञातव्या दुःखहेतवः||९८||
विषमाभिनिवेशो यो नित्यानित्ये हिताहिते|
ज्ञेयः स बुद्धिविभ्रंशः समं बुद्धिर्हि पश्यति||९९||
विषयप्रवणं सत्त्वं धृतिभ्रंशान्न शक्यते|
नियन्तुमहितादर्थाद्धृतिर्हि नियमात्मिका||१००||

तत्त्वज्ञाने स्मृतिर्यस्य रजोमोहावृतात्मनः|
भ्रश्यते स स्मृतिभ्रंशः स्मर्तव्यं हि स्मृतौ स्थितम्||१०१||

धीधृतिस्मृतिविभ्रष्टः कर्म यत् कुरुतेऽशुभम्|
प्रज्ञापराधं तं विद्यात् सर्वदोषप्रकोपणम्||१०२||
उदीरणं गतिमतामुदीर्णानां च निग्रहः|
सेवनं साहसानां च नारीणां चातिसेवनम्||१०३||
कर्मकालातिपातश्च मिथ्यारम्भश्च कर्मणाम्|
विनयाचारलोपश्च पूज्यानां चाभिधर्षणम्||१०४||
ज्ञातानां स्वयमर्थानामहितानां निषेवणम्|
परमौन्मादिकानां च प्रत्ययानां निषेवणम्||१०५||
अकालादेशसञ्चारौ मैत्री सङ्क्लिष्टकर्मभिः|
इन्द्रियोपक्रमोक्तस्य सद्वृत्तस्य च वर्जनम्||१०६||
ईर्ष्यामानभयक्रोधलोभमोहमदभ्रमाः|
तज्जं वा कर्म यत् क्लिष्टं क्लिष्टं यद्देहकर्म च||१०७||
यच्चान्यदीदृशं कर्म रजोमोहसमुत्थितम्|
प्रज्ञापराधं तं शिष्टा ब्रुवते व्याधिकारणम् ||१०८||
बुद्ध्या विषमविज्ञानं विषमं च प्रवर्तनम्|
प्रज्ञापराधं जानीयान्मनसो गोचरं हि तत्||१०९||

निर्दिष्टा कालसम्प्राप्तिर्व्याधीनां व्याधिसङ्ग्रहे|
चयप्रकोपप्रशमाः पित्तादीनां यथा पुरा||११०||
मिथ्यातिहीनलिङ्गाश्च वर्षान्ता रोगहेतवः|
जीर्णभुक्तप्रजीर्णान्नकालाकालस्थितिश्च या||१११||
पूर्वमध्यापराह्णाश्च रात्र्या यामास्त्रयश्च ये|
एषु कालेषु नियता ये रोगास्ते च कालजाः||११२||

अन्येद्युष्को द्व्यहग्राही तृतीयकचतुर्थकौ|
स्वे स्वे काले प्रवर्तन्ते काले ह्येषां बलागमः||११३||

एते चान्ये च ये केचित् कालजा विविधा गदाः|
अनागते चिकित्स्यास्ते बलकालौ विजानता||११४||

कालस्य परिणामेन जरामृत्युनिमित्तजाः|
रोगाः स्वाभाविका दृष्टाः स्वभावो निष्प्रतिक्रियः||११५||
निर्दिष्टं दैवशब्देन कर्म यत् पौर्वदेहिकम्|
हेतुस्तदपि कालेन रोगाणामुपलभ्यते||११६||

न हि कर्म महत् किञ्चित् फलं यस्य न भुज्यते|
क्रियाघ्नाः कर्मजा रोगाः प्रशमं यान्ति तत्क्षयात्||११७||
अत्युग्रशब्दश्रवणाच्छ्रवणात् सर्वशो न च|
शब्दानां चातिहीनानां भवन्ति श्रवणाज्जडाः||११८||
परुषोद्भीषणाशस्ताप्रियव्यसनसूचकैः|
शब्दैः श्रवणसंयोगो मिथ्यासंयोग उच्यते||११९||
असंस्पर्शोऽतिसंस्पर्शो हीनसंस्पर्श एव च|
स्पृश्यानां सङ्ग्रहेणोक्तः स्पर्शनेन्द्रियबाधकः||१२०||
यो भूतविषवातानामकालेनागतश्च यः|
स्नेहशीतोष्णसंस्पर्शो मिथ्यायोग स उच्यते||१२१||
रूपाणां भास्वतां दृष्टिर्विनश्यत्यतिदर्शनात्|
दर्शनाच्चातिसूक्ष्माणां सर्वशश्चाप्यदर्शनात्||१२२||
द्विष्टभैरवबीभत्सदूरातिश्लिष्टदर्शनात् |
तामसानां च रूपाणां मिथ्यासंयोग उच्यते||१२३||
अत्यादानमनादानमोकसात्म्यादिभिश्च यत्|
रसानां विषमादानमल्पादानं च दूषणम्||१२४||
अतिमृद्वतितीक्ष्णानां गन्धानामुपसेवनम्|
असेवनं सर्वशश्च घ्राणेन्द्रियविनाशनम्||१२५||
पूतिभूतविषद्विष्टा गन्धा ये चाप्यनार्तवाः|
तैर्गन्धैर्घ्राणसंयोगो मिथ्यायोगः स उच्यते||१२६||
इत्यसात्म्यार्थसंयोगस्त्रिविधो दोषकोपनः|१२७|

असात्म्यमिति तद्विद्याद्यन्न याति सहात्मताम्||१२७||

मिथ्यातिहीनयोगेभ्यो यो व्याधिरुपजायते|
शब्दादीनां स विज्ञेयो व्याधिरैन्द्रियको बुधैः||१२८||

वेदनानामशान्तानामित्येते हेतवः स्मृताः|
सुखहेतुः समस्त्वेकः समयोगः सुदुर्लभः||१२९||

नेन्द्रियाणि न चैवार्थाः सुखदुःखस्य हेतवः|
हेतुस्तु सुखदुःखस्य योगो दृष्टश्चतुर्विधः||१३०||
सन्तीन्द्रियाणि सन्त्यर्था योगो न च न चास्ति रुक्|
न सुखं, कारणं तस्माद्योग एव चतुर्वधः||१३१||

नात्मेन्द्रियं मनो बुद्धिं गोचरं कर्म वा विना|
सुखदुःखं, यथा यच्च बोद्धव्यं तत्तथोच्यते||१३२||

स्पर्शनेन्द्रियसंस्पर्शः स्पर्शो मानस एव च|
द्विविधः सुखदुःखानां वेदनानां प्रवर्तकः||१३३||

इच्छाद्वेषात्मिका तृष्णा सुखदुःखात् प्रवर्तते|
तृष्णा च सुखदुःखानां कारणं पुनरुच्यते||१३४||
उपादत्ते हि सा भावान् वेदनाश्रयसञ्ज्ञकान्|
स्पृश्यते नानुपादाने नास्पृष्टो वेत्ति वेदनाः||१३५||
वेदनानामधिष्ठानं मनो देहश्च सेन्द्रियः|
केशलोमनखाग्रान्नमलद्रवगुणैर्विना||१३६||

योगे मोक्षे च सर्वासां वेदनानामवर्तनम्|
मोक्षे निवृत्तिर्निःशेषा योगो मोक्षप्रवर्तकः||१३७||

आत्मेन्द्रियमनोर्थानां सन्निकर्षात् प्रवर्तते|
सुखदुःखमनारम्भादात्मस्थे मनसि स्थिरे||१३८||
निवर्तते तदुभयं वशित्वं चोपजायते|
सशरीरस्य योगज्ञास्तं योगमृषयो विदुः||१३९||

आवेशश्चेतसो ज्ञानमर्थानां छन्दतः क्रिया|
दृष्टिः श्रोत्रं स्मृतिः कान्तिरिष्टतश्चाप्यदर्शनम्||१४०||
इत्यष्टविधमाख्यातं योगिनां बलमैश्वरम्|
शुद्धसत्त्वसमाधानात्तत् सर्वमुपजायते||१४१||

मोक्षो रजस्तमोऽभावात् बलवत्कर्मसङ्क्षयात्|
वियोगः सर्वसंयोगैरपुनर्भव उच्यते||१४२||

सतामुपासनं सम्यगसतां परिवर्जनम्|
व्रतचर्योपवासौ च नियमाश्च पृथग्विधाः||१४३||
धारणं धर्मशास्त्राणां विज्ञानं विजने रतिः|
विषयेष्वरतिर्मोक्षे व्यवसायः परा धृतिः||१४४||
कर्मणामसमारम्भः कृतानां च परिक्षयः|
नैष्क्रम्यमनहङ्कारः संयोगे भयदर्शनम्||१४५||
मनोबुद्धिसमाधानमर्थतत्त्वपरीक्षणम्|
तत्त्वस्मृतेरुपस्थानात् सर्वमेतत् प्रवर्तते||१४६||

स्मृतिः सत्सेवनाद्यैश्च धृत्यन्तैरुपजायते|
स्मृत्वा स्वभावं भावानां स्मरन् दुःखात् प्रमुच्यते||१४७||
वक्ष्यन्ते कारणान्यष्टौ स्मृतिर्यैरुपजायते|
निमित्तरूपग्रहणात् सादृश्यात् सविपर्ययात्||१४८||
सत्त्वानुबन्धादभ्यासाज्ज्ञानयोगात् पुनः श्रुतात्|
दृष्टश्रुतानुभूतानां स्मारणात् स्मृतिरुच्यते||१४९||

एतत्तदेकमयनं मुक्तैर्मोक्षस्य दर्शितम्|
तत्त्वस्मृतिबलं, येन गता न पुनरागताः||१५०||
अयनं पुनराख्यातमेतद्योगस्य योगिभिः|
सङ्ख्यातधर्मैः साङ्ख्यैश्च मुक्तैर्मोक्षस्य चायनम्||१५१||

सर्वं कारणवद्दुःखमस्वं चानित्यमेव च|
न चात्मकृतकं तद्धि तत्र चोत्पद्यते स्वता||१५२||
यावन्नोत्पद्यते सत्या बुद्धिर्नैतदहं यया|
नैतन्ममेति विज्ञाय ज्ञः सर्वमतिवर्तते||१५३||

तस्मिंश्चरमसन्न्यासे समूलाः सर्ववेदनाः|
ससञ्ज्ञाज्ञानविज्ञाना निवृत्तिं यान्त्यशेषतः||१५४||

अतः परं ब्रह्मभूतो भूतात्मा नोपलभ्यते|
निःसृतः सर्वभावेभ्यश्चिह्नं यस्य न विद्यते|
ज्ञानं ब्रह्मविदां चात्र नाज्ञस्तज्ज्ञातुमर्हति||१५५||


तत्र श्लोकः-


प्रश्नाः पुरुषमाश्रित्य त्रयोविंशतिरुत्तमाः|
कतिधापुरुषीयेऽस्मिन्निर्णीतास्तत्त्वदर्शिना||१५६||

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते शारीरस्थाने कतिधापुरुषीयं शारीरं नाम प्रथमोऽध्यायः||१||