Shree Naval Kishori

इन्द्रियस्थानम् - २. पुष्पितकमिन्द्रियम्

अथातः पुष्पितकमिन्द्रियं व्याख्यास्यामह||१||
इति ह स्माह भगवानात्रेयः||२||
पुष्पं यथा पूर्वरूपं फलस्येह भविष्यतः|
तथा लिङ्गमरिष्टाख्यं पूर्वरूपं मरिष्यतः||३||

अप्येवं तु भवेत् पुष्पं फलेनाननुबन्धि यत्|
फलं चापि भवेत् किञ्चिद्यस्य पुष्पं न पूर्वजम् ||४||
न त्वरिष्टस्य जातस्य नाशोऽस्ति मरणादृते|
मरणं चापि तन्नास्ति यन्नारिष्टपुरःसरम्||५||

मिथ्यादृष्टमरिष्टाभमनरिष्टमजानता|
अरिष्टं वाऽप्यसम्बुद्धमेतत् प्रज्ञापराधजम्||६||

ज्ञानसम्बोधनार्थं तु लिङ्गैर्मरणपूर्वजैः|
पुष्पितानुपदेक्ष्यामो नरान् बहुविधैर्बहून् ||७||

नानापुष्पोपमो गन्धो यस्य भाति दिवानिशम्|
पुष्पितस्य वनस्येव नानाद्रुमलतावतः||८||
तमाहुः पुष्पितं धीरा नरं मरणलक्षणैः|
स ना संवत्सराद्देहं जहातीति विनिश्चयः||९||
एवमेकैकशः पुष्पैर्यस्य गन्धः समो भवेत्|
इष्टैर्वा यदि वाऽनिष्टैः स च पुष्पित उच्यते||१०||
समासेनाशुभान् गन्धानेकत्वेनाथवा पुनः|
आजिघ्रेद्यस्य गात्रेषु तं विद्यात् पुष्पितं भिषक्||११||
आप्लुतानाप्लुते काये यस्य गन्धाः शुभाशुभाः|
व्यत्यासेनानिमित्ताः स्युः स च पुष्पित उच्यते||१२||
तद्यथा- चन्दनं कुष्ठं तगरागुरुणी मधु|
माल्यं मूत्रपुरीषे च मृतानि कुणपानि च||१३||
ये चान्ये विविधात्मानो गन्धा विविधयोनयः|
तेऽप्यनेनानुमानेन विज्ञेया विकृतिं गताः||१४||
इदं चाप्यतिदेशार्थं लक्षणं गन्धसंश्रयम्|
वक्ष्यामो यदभिज्ञाय भिषङ्मरणमादिशेत्||१५||
वियोनिर्विदुरो गन्धो यस्य गात्रेषु जायते|
इष्टो वा यदि वाऽनिष्टो न स जीवति तां समाम्||१६||
एतावद्गन्धविज्ञानंरसज्ञानमतः परम्|
आतुराणां शरीरेषु वक्ष्यते विधिपूर्वकम्||१७||
यो रसः प्रकृतिस्थानां नराणां देहसम्भवः|
स एषां चरमे काले विकारं भजते द्वयम्||१८||
कश्चिदेवास्यवैरस्यमत्यर्थमुपपद्यते|
स्वादुत्वमपरश्चापि विपुलं भजते रसः||१९||
तमनेनानुमानेन विद्याद्विकृतिमागतम्|
मनुष्यो हि मनुष्यस्य कथं रसमवाप्नुयात्||२०||
मक्षिकाश्चैव यूकाश्च दंशाश्च मशकैः सह|
विरसादपसर्पन्ति जन्तोः कायान्मुमूर्षतः||२१||
अत्यर्थरसिकं कायं कालपक्वस्य मक्षिकाः|
अपि स्नातानुलिप्तस्य भृशमायान्ति सर्वशः||२२||

 

तत्र श्लोकः-


सामान्येन मयोक्तानि लिङ्गानि रसगन्धयोः|
पुष्पितस्य नरस्यैतत्फलं मरणमादिशेत्||२३||

 

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थानेपुष्पितकमिन्द्रियं नाम द्वितीयोऽध्यायः||२||