Shree Naval Kishori

सूत्रस्थानम् - २. अपामार्गतण्डुलीयोऽध्यायः

अथातोऽपामार्गतण्डुलीयमध्यायं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
अपामार्गस्य बीजानि पिप्पलीर्मरिचानि च|
विडङ्गान्यथ शिग्रूणि सर्षपांस्तुम्बुरूणि च||३||
अजाजीं चाजगन्धां च पीलून्येलां हरेणुकाम्|
पृथ्वीकां सुरसां श्वेतां कुठेरकफणिज्झकौ||४||
शिरीषबीजं लशुनं हरिद्रे लवणद्वयम्|
ज्योतिष्मतीं नागरं च दद्याच्छीर्षविरेचने||५||
गौरवे शिरसः शूले पीनसेऽर्धावभेदके|
क्रिमिव्याधावपस्मारे घ्राणनाशे प्रमोहके||६||

मदनं मधुकं निम्बं जीमूतं कृतवेधनम्|
पिप्पलीकुटजेक्ष्वाकूण्येलां धामार्गवाणि च||७||
उपस्थिते श्लेष्मपित्ते व्याधावामाशयाश्रये|
वमनार्थं प्रयुञ्जीत भिषग्देहमदूषयन्||८||

त्रिवृतां त्रिफलां दन्तीं नीलिनीं सप्तलां वचाम्|
कम्पिल्लकं गवाक्षीं च क्षीरिणीमुदकीर्यकाम्||९||
पीलून्यारग्वधं द्राक्षां द्रवन्तीं निचुलानि च|
पक्वाशयगते दोषे विरेकार्थं प्रयोजयेत्||१०||

पाटलां चाग्निमन्थं च बिल्वं श्योनाकमेव च|
काश्मर्यं शालपर्णीं च पृश्निपर्णीं निदिग्धिकाम्||११||
बलां श्वदंष्ट्रां बृहतीमेरण्डं सपुनर्नवम्|
यवान् कुलत्थान् कोलानि गुडूचीं मदनानि च||१२||
पलाशं कत्तृणं चैव स्नेहांश्च लवणानि च|
उदावर्ते विबन्धेषु युञ्ज्यादास्थापनेषु च||१३||
अत एवौषधगणात् सङ्कल्प्यमनुवासनम्|
मारुतघ्नमिति प्रोक्तः सङ्ग्रहः पाञ्चकर्मिकः||१४||

तान्युपस्थितदोषाणां स्नेहस्वेदोपपादनैः|
पञ्चकर्माणि कुर्वीत मात्राकालौ विचारयन्||१५||

मात्राकालाश्रया युक्तिः, सिद्धिर्युक्तौ प्रतिष्ठिता|
तिष्ठत्युपरि युक्तिज्ञो द्रव्यज्ञानवतां सदा||१६||

अत ऊर्ध्वं प्रवक्ष्यामि यवागूर्विविधौषधाः|
विविधानां विकाराणां तत्साध्यानां निवृत्तये||१७||

पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः|
यवागूर्दीपनीया स्याच्छूलघ्नी चोपसाधिता||१८||
दधित्थबिल्वचाङ्गेरीतक्रदाडिमसाधिता|
पाचनी ग्राहिणी, पेया सवाते पाञ्चमूलिकी||१९||
शालपर्णीबलाबिल्वैः पृश्निपर्ण्या च साधिता|
दाडिमाम्ला हिता पेया पित्तश्लेष्मातिसारिणाम्||२०||
पयस्यर्धोदके च्छागे ह्रीवेरोत्पलनागरैः|
पेया रक्तातिसारघ्नी पृश्निपर्ण्या च साधिता||२१||
दद्यात् सातिविषां पेयां सामे साम्लां सनागराम्|
श्वदंष्ट्राकण्टकारीभ्यां मूत्रकृच्छ्रे सफाणिताम्||२२||
विडङ्गपिप्पलीमूलशिग्रुभिर्मरिचेन च|
तक्रसिद्धा यवागूः स्यात् क्रिमिघ्नी ससुवर्चिका||२३||
मृद्वीकासारिवालाजपिप्पलीमधुनागरैः|
पिपासाघ्नी, विषघ्नी च सोमराजीविपाचिता||२४||
सिद्धा वराहनिर्यूहे यवागूर्बृंहणी मता|
गवेधुकानां भृष्टानां कर्शनीया समाक्षिका||२५||
सर्पिष्मती बहुतिला स्नेहनी लवणान्विता|
कुशामलकनिर्यूहे श्यामाकानां विरूक्षणी||२६||
दशमूलीशृता कासहिक्काश्वासकफापहा|
यमके मदिरासिद्धा पक्वाशयरुजापहा||२७||
शाकैर्मांसैस्तिलैर्माषैः सिद्धा वर्चो निरस्यति|
जम्ब्वाम्रास्थिदधित्थाम्लबिल्वैः साङ्ग्राहिकी मता||२८||
क्षारचित्रकहिङ्ग्वम्लवेतसैर्भेदिनी मता|
अभयापिप्पलीमूलविश्वैर्वातानुलोमनी ||२९||
तक्रसिद्धा यवागूः स्याद्धृतव्यापत्तिनाशिनी|
तैलव्यापदि शस्ता स्यात्तक्रपिण्याकसाधिता||३०||
गव्यमांसरसैः साम्ला विषमज्वरनाशिनी|
कण्ठ्या यवानां यमके पिप्पल्यामलकैः शृता||३१||
ताम्रचूडरसे सिद्धा रेतोमार्गरुजापहा|
समाषविदला वृष्या घृतक्षीरोपसाधिता||३२||
उपोदिकादधिभ्यां तु सिद्धा मदविनाशिनी|
क्षुधं हन्यादपामार्गक्षीरगोधारसैः शृता||३३||

 

तत्र श्लोकः-


अष्टाविंशतिरित्येता यवाग्वः परिकीर्तिताः|
पञ्चकर्माणि चाश्रित्य प्रोक्तो भैषज्यसङ्ग्रहः||३४||
पूर्वं मूलफलज्ञानहेतोरुक्तं यदौषधम्|
पञ्चकर्माश्रयज्ञानहेतोस्तत् कीर्तितं पुनः||३५||
स्मृतिमान् हेतुयुक्तिज्ञो जितात्मा प्रतिपत्तिमान्|
भिषगौषधसंयोगैश्चिकित्सां कर्तुमर्हति||३६||

 

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थानेऽपामार्गतण्डुलीयो नाम द्वितीयोऽध्यायः||२||