Shree Naval Kishori

विमानस्थानम् - २. त्रिविधकुक्षीयविमानम्

अथातस्त्रिविधकुक्षीयं विमानं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||

त्रिविधं कुक्षौ स्थापयेदवकाशांशमाहारस्याहारमुपयुञ्जानः; तद्यथा- एकमवकाशांशं मूर्तानामाहारविकाराणाम्, एकं द्रवाणाम्, एकं पुनर्वातपित्तश्लेष्मणाम्; एतावतीं 

ह्याहारमात्रामुपयुञ्जानो नामात्राहारजं किञ्चिदशुभं प्राप्नोति||३||

न च केवलं मात्रावत्त्वादेवाहारस्य कृत्स्नमाहारफलसौष्ठवमवाप्तुं शक्यं, प्रकृत्यादीनामष्टानामाहारविधिविशेषायतनानां 

प्रविभक्तफलत्वात्||४||

तत्रायं तावदाहारराशिमधिकृत्य मात्रामात्राफलविनिश्चयार्थः प्रकृतः|
एतावानेव ह्याहारराशिविधिविकल्पो यावन्मात्रावत्त्वममात्रावत्त्वं च||५||
तत्र मात्रावत्त्वं पूर्वमुद्दिष्टं कुक्ष्यंशविभागेन, तद्भूयो विस्तरेणानुव्याख्यास्यामः|
तद्यथा- कुक्षेरप्रणीडनमाहारेण, हृदयस्यानवरोधः, पार्श्वयोरविपाटनम्, अनतिगौरवमुदरस्य, प्रीणनमिन्द्रियाणां, 

क्षुत्पिपासोपरमः, स्थानासनशयनगमनोच्छ्वासप्रश्वासहास्यसङ्कथासु सुखानुवृत्तिः, सायं प्रातश्च सुखेन परिणमनं, 

बलवर्णोपचयकरत्वं च; इति मात्रावतो लक्षणमाहारस्य भवति||६||

अमात्रावत्त्वं पुनर्द्विविधमाचक्षते- हीनम्, अधिकं च|
तत्र हीनमात्रमाहारराशिं बलवर्णोपचयक्षयकरमतृप्तिकरमुदावर्तकरमनायुष्यवृष्यमनौजस्यं 

शरीरमनोबुद्धीन्द्रियोपघातकरं सारविधमनमलक्ष्म्यावहमशीतेश्च वातविकाराणामायतनमाचक्षते, 

अतिमात्रं पुनः सर्वदोषप्रकोपणमिच्छन्ति कुशलाः|
यो हि मूर्तानामाहारजातानां सौहित्यं गत्वा द्रवैस्तृप्तिमापद्यते भूयस्तस्यामाशयगता 

वातपित्तश्लेष्माणोऽभ्यवहारेणातिमात्रेणातिप्रपीड्यमानाः सर्वे युगपत् प्रकोपमापद्यन्ते, ते 

प्रकुपितास्तमेवाहारराशिमपरिणतमाविश्य कुक्ष्येकदेशमन्नाश्रिता विष्टम्भयन्तः सहसा वाऽप्युत्तराधराभ्यां 

मार्गाभ्यां प्रच्यावयन्तः पृथक् पृथगिमान् विकारानभिनिर्वर्तयन्त्यतिमात्रभोक्तुः|
तत्र वातः शूलानाहाङ्गमर्दमुखशोषमूर्च्छाभ्रमाग्निवैषम्य- पार्श्वपृष्ठकटिग्रहसिराकुञ्चनस्तम्भनानि करोति, पित्तं पुनर्ज्वरातीसारान्तर्दाहतृष्णामदभ्रमप्रलपनानि, 

श्लेष्मा तु छर्द्यरोचकाविपाकशीतज्वरालस्यगात्रगौरवाणि||७||

न च खलु केवलमतिमात्रमेवाहारराशिमामप्रदोषकरमिच्छन्ति, अपि तु खलु 

गुरुरूक्षशीतशुष्कद्विष्टविष्टम्भिविदाह्यशुचिविरुद्धानामकाले चान्नपानानामुपसेवनं, 

कामक्रोधलोभमोहेर्ष्याह्रीशोकमानोद्वेगभयोपतप्तमनसा वा यदन्नपानमुपयुज्यते, तदप्याममेव प्रदूषयति||८||

भवति चात्र-

मात्रयाऽप्यभ्यवहृतं पथ्यं चान्नं न जीर्यति|
चिन्ताशोकभयक्रोधदुःखशय्याप्रजागरैः||९||

तं द्विविधमामप्रदोषमाचक्षते भिषजः- विसूचिकाम्, अलसकं च||१०||
तत्र विसूचिकामूर्ध्वं चाधश्च प्रवृत्तामदोषां यथोक्तरूपां विद्यात्||११||

अलसकमुपदेक्ष्यामः- दुर्बलस्याल्पाग्नेर्बहुश्लेष्मणो वातमूत्रपुरीषवेगविधारिणः स्थिरगुरुबहुरूक्षशीतशुष्कान्नसेविनस्तदन्नपानमनिलप्रपीडितं 

श्लेष्मणा च विबद्धमार्गमतिमात्रप्रलीनमलसत्वान्न बहिर्मुखीभवति, 

ततश्छर्द्यतीसारवर्ज्यान्यामप्रदोषलिङ्गान्यभिदर्शयत्यतिमात्राणि|
अतिमात्रप्रदुष्टाश्च दोषाः प्रदुष्टामबद्धमार्गास्तिर्यग्गच्छन्तः कदाचिदेव केवलमस्य शरीरं दण्डवत् स्तम्भयन्ति, 

ततस्तं दण्डालसकमसाध्यं ब्रुवते|
विरुद्धाध्यशनाजीर्णाशनशीलिनः पुनरामदोषमामविषमित्याचक्षते भिषजः, विषसदृशलिङ्गत्वात्; तत् परमसाध्यम्, 

आशुकारित्वाद्विरुद्धोपक्रमत्वाच्चेति||१२||

तत्र साध्यमामं प्रदुष्टमलसीभूतमुल्लेखयेदादौ पाययित्वा सलवणमुष्णं वारि, ततः 

स्वेदनवर्तिप्रणिधानाभ्यामुपाचरेदुपवासयेच्चैनम्|
विसूचिकायां तु लङ्घनमेवाग्रे विरिक्तवच्चानुपूर्वी|
आमप्रदोषेषु त्वन्नकाले जीर्णाहारं पुनर्दोषावलिप्तामाशयं स्तिमितगुरुकोष्ठमनन्नाभिलाषिणमभिसमीक्ष्य 

पाययेद्दोषशेषपाचनार्थमौषधमग्निसन्धुक्षणार्थं च, नत्वेवाजीर्णाशनम्; आमप्रदोषदुर्बलो ह्यग्निर्न 

युगपद्दोषमौषधमाहारजातं च शक्तः पक्तुम्|
अपि चामप्रदोषाहारौषधविभ्रमोऽतिबलत्वादुपरतकायाग्निं सहसैवातुरमबलमतिपातयेत्|
आमप्रदोषजानां पुनर्विकाराणामपतर्पणेनैवोपरमो भवति, सति त्वनुबन्धे कृतापतर्पणानां व्याधीनां निग्रहे 

निमित्तविपरीतमपास्यौषधमातङ्कविपरीतमेवावचारयेद्यथास्वम्|
सर्वविकाराणामपि च निग्रहे हेतुव्याधिविपरीतमौषधमिच्छन्ति कुशलाः, तदर्थकारि वा|
विमुक्तामप्रदोषस्य पुनः परिपक्वदोषस्य दीप्ते चाग्नावभ्यङ्गास्थापनानुवासनं विधिवत् स्नेहपानं च युक्त्या 

प्रयोज्यं प्रसमीक्ष्य दोषभेषजदेशकालबलशरीराहारसात्म्यसत्त्वप्रकृतिवयसामवस्थान्तराणि विकारांश्च सम्यगिति||१३||

भवति चात्र-

आहारविध्यायतनानि चाष्टौ सम्यक् परीक्ष्यात्महितं विदध्यात्|
अन्यश्च यः कश्चिदिहास्ति मार्गो हितोपयोगेषु भजेत तं च||१४||

अशितं खादितं पीतं लीढं च क्व विपच्यते|
एतत्त्वां धीर! पृच्छामस्तन्न आचक्ष्व बुद्धिमन्||१५||
इत्यग्निवेशप्रमुखैः शिष्यैः पृष्टः पुनर्वसुः|
आचचक्षे ततस्तेभ्यो यत्राहारो विपच्यते||१६||
नाभिस्तनान्तरं जन्तोरामाशय इति स्मृतः|
अशितं खादितं पीतं लीढं चात्र विपच्यते||१७||
आमाशयगतः पाकमाहारः प्राप्य केवलम्|
पक्वः सर्वाशयं पश्चाद्धमनीभिः प्रपद्यते||१८||

तत्र श्लोकः-

तस्य मात्रावतो लिङ्गं फलं चोक्तं यथायथम्|
अमात्रस्य तथा लिङ्गं फलं चोक्तं विभागशः||१९||

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते विमानस्थाने त्रिविधकुक्षीयविमानं नाम द्वितीयोऽध्यायः||२||