सिद्धिस्थानम् - ३. बस्तिसूत्रीया सिद्धिः
अथातो बस्तिसूत्रीयां सिद्धिं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
कृतक्षणं शैलवरस्य रम्ये स्थितं धनेशायतनस्य पार्श्वे|
महर्षिसङ्घैर्वृतमग्निवेशः पुनर्वसुं प्राञ्जलिरन्वपृच्छत्||३||
बस्तिर्नरेभ्यः किमपेक्ष्य दत्तः स्यात् सिद्धिमान् किम्मयमस्य नेत्रम्|
कीदृक्प्रमाणाकृति किङ्गुणं च केभ्यश्च किंयोनिगुणश्च बस्तिः||४||
निरूहकल्पः प्रणिधानमात्रा स्नेहस्य का वा शयने विधिः कः|
के बस्तयः केषु हिता इतीदं श्रुत्वोत्तरं प्राह वचो महर्षिः||५||
समीक्ष्य दोषौषधदेशकालसात्म्याग्निसत्त्वादिवयोबलानि|
बस्तिः प्रयुक्तो नियतं गुणाय स्यात् सर्वकर्माणि च सिद्धिमन्ति||६||
सुवर्णरूप्यत्रपुताम्ररीतिकांस्यास्थिशस्त्रद्रुमवेणुदन्तैः |
नलैर्विषाणैर्मणिभिश्च तैस्तैर्नेत्राणि कार्याणि सु(त्रि)कर्णिकानि ||७||
षड्द्वादशाष्टाङ्गुलसम्मितानि षड्विंशतिद्वादशवर्षजानाम्|
स्युर्मुद्गकर्कन्धुसतीनवाहिच्छिद्राणि वर्त्याऽपिहितानि चैव||८||
यथावयोऽङ्गुष्ठकनिष्ठिकाभ्यां मूलाग्रयोः स्युः परिणाहवन्ति|
ऋजूनि गोपुच्छसमाकृतीनि श्लक्ष्णानि च स्युर्गुडिकामुखानि||९||
स्यात् कर्णिकैकाऽग्रचतुर्थभागे मूलाश्रिते बस्तिनिबन्धने द्वे|१०|
जारद्गवो माहिषहारिणौ वा स्याच्छौकरो बस्तिरजस्य वाऽपि||१०||
दृढस्तनुर्नष्टसिरो विगन्धः कषायरक्तः सुमृदुः सुशुद्धः |
नृणां वयो वीक्ष्य यथानुरूपं नेत्रेषु योज्यस्तु सुबद्धसूत्रः||११||
बस्तेरलाभे प्लवजो गलो वा स्यादङ्कपादः सुघनः पटो वा|१२|
आस्थापनार्हं पुरुषं विधिज्ञः समीक्ष्य पुण्येऽहनि शुक्लपक्षे||१२||
प्रशस्तनक्षत्रमुहूर्तयोगे जीर्णान्नमेकाग्रमुपक्रमेत |१३|
बलां गुडूचीं त्रिफलां सरास्नां द्वे पञ्चमूले च पलोन्मितानि||१३||
अष्टौ फलान्यर्धतुलां च मांसाच्छागात् पचेदप्सु चतुर्थशेषम्|
पूतं यवानीफलबिल्वकुष्ठवचाशताह्वाघनपिप्पलीनाम्||१४||
कल्कैर्गुडक्षौद्रघृतैः सतैलैर्युतं सुखोष्णैस्तु पिचुप्रमाणैः|
गुडात् पलं द्विप्रसृतां तु मात्रां स्नेहस्य युक्त्या मधु सैन्धवं च||१५||
प्रक्षिप्य बस्तौ मथितं खजेन सुबद्धमुच्छ्वास्य च निर्वलीकम्|
अङ्गुष्ठमध्येन मुखं पिधाय नेत्राग्रसंस्थामपनीय वर्तिम्||१६||
तैलाक्तगात्रं कृतमूत्रविट्कं नातिक्षुधार्तं शयने मनुष्यम्|
समेऽथवेषन्नतशीर्षके वा नात्युच्छ्रिते स्वास्तरणोपपन्ने||१७||
सव्येन पार्श्वेन सुखं शयानं कृत्वर्जुदेहं स्वभुजोपधानम्|
सङ्कोच्य सव्येतरदस्य सक्थि वामं प्रसार्य प्रणयेत्ततस्तम्||१८||
स्निग्धे गुदे नेत्रचतुर्थभागं स्निग्धं शनैरृज्वन पृष्ठवंशम्|
अकम्पनावेपनलाघवादीन् पाण्योर्गुणांश्चापि विदर्शयंस्तम् ||१९||
प्रपीड्य चैकग्रहणेन दत्तं नेत्रं शनैरेव ततोऽपकर्षेत्|२०|
तिर्यक् प्रणीते तु न याति धारा गुदे व्रणः स्याच्चलिते तु नेत्रे||२०||
दत्तः शनैर्नाशयमेति बस्तिः कण्ठं प्रधावत्यतिपीडितश्च|
शीतस्त्वतिस्तम्भकरो विदाहं मूर्च्छां च कुर्यादतिमात्रमुष्णः||२१||
स्निग्धोऽतिजाड्यं पवनं तु रूक्षस्तन्वल्पमात्रालवणस्त्वयोगम्|
करोति मात्राभ्यधिकोऽतियोगं क्षामं तु सान्द्रः सुचिरेण चैति||२२||
दाहातिसारौ लवणोऽति कुर्यात्तस्मात् सुयुक्तं सममेव दद्यात्|२३|
पूर्वं हि दद्यान्मधु सैन्धवं तु स्नेहं विनिर्मथ्यं ततोऽनु कल्कम्||२३||
विमथ्य संयोज्य पुनर्द्रवैस्तं बस्तौ निदध्यान्मथितं खजेन|२४|
वामाश्रये हि ग्रहणीगुदे च तत् पार्श्वसंस्थस्य सुखोपलब्धिः||२४||
लीयन्त एवं वलयश्च तस्मात् सव्यं शयानोऽर्हति बस्तिदानम्|२५|
विड्वातवेगो यदि चार्धदत्ते निष्कृष्य मुक्ते प्रणयेदशेषम् ||२५||
उत्तानदेहश्च कृतोपधानः स्याद्वीर्यमाप्नोति तथाऽस्य देहम् |२६|
एकोऽपकर्षत्यनिलं स्वमार्गात् पित्तं द्वितीयस्तु कफं तृतीयः||२६||
प्रत्यागते कोष्णजलावसिक्तः शाल्यन्नमद्यात्तनुना रसेन|
जीर्णे तु सायं लघु चाल्पमात्रं भुक्तोऽनुवास्यः परिबृंहणार्थम्||२७||
निरूहपादांशसमेन तैलेनाम्लानिलघ्नौषधसाधितेन|
दत्त्वा स्फिचौ पाणितलेन हन्यात् स्नेहस्य शीघ्रागमरक्षणार्थम्||२८||
ईषच्च पादाङ्गुलियुग्ममाञ्छेदुत्तानदेहस्य तलौ प्रमृज्यात्|
स्नेहेन पार्ष्ण्यङ्गुलिपिण्डिकाश्च ये चास्य गात्रावयवा रुगार्ताः||२९||
तांश्चावमद्गीत सुखं ततश्च निद्रामुपासीत कृतोपधानः|३०|
भागाः कषायस्य तु पञ्च, पित्ते स्नेहस्य षष्ठः प्रकृतौ स्थिते च||३०||
वाते विवृद्धे तु चतुर्थभागो, मात्रा निरूहेषु कफेऽष्टभागः|३१|
निरूहमात्रा प्रसृतार्धमाद्ये वर्षे ततोऽर्धप्रसृताभिवृद्धिः||३१||
आद्वादशात् स्यात् प्रसृताभिवृद्धिरष्टादशाद् द्वादशतः परं स्युः|
आसप्ततेस्तद्विहितं प्रमाणमतः परं षोडशवद्विधेयम्||३२||
निरूहमात्रा प्रसृतप्रमाणा बाले च वृद्धे च मृदुर्विशेषः|३३|
नात्युच्छ्रितं नाप्यतिनीचपादं सपादपीठं शयनं प्रशस्तम्||३३||
प्रधानमृद्वास्तरणोपपन्नं प्राक्शीर्षकं शुक्लपटोत्तरीयम्|३४|
भोज्यं पुनर्व्याधिमवेक्ष्य तद्वत् प्रकल्पयेद्यूषपयोरसाद्यैः||३४||
सर्वेषु विद्याद्विधिमेतमाद्यं वक्ष्यामि बस्तीनत उत्तरीयान्|३५|
द्विपञ्चमूलस्य रसोऽम्लयुक्तः सच्छागमांसस्य सपूर्वपेष्यः||३५||
त्रिस्नेहयुक्तः प्रवरो निरूहः सर्वानिलव्याधिहरः प्रदिष्टः|
स्थिरादिवर्गस्य बलापटोलत्रायन्तिकैरण्डयवैर्युतस्य||३६||
प्रस्थो रसाच्छागरसार्धयुक्तः साध्यः पुनः प्रस्थसमस्तु यावत्|
प्रियङ्गुकृष्णाघनकल्कयुक्तः सतैलसर्पिर्मधुसैन्धवश्च||३७||
स्याद्दीपनो मांसबलप्रदश्च चक्षुर्बलं चापि ददाति बस्तिः |
एरण्डमूलं त्रिपलं पलाशा ह्रस्वानि मूलानि च यानि पञ्च||३८||
रास्नाश्वगन्धातिबलागुडूची पुनर्नवारग्वधदेवदारु|
भागाः पलांशा मदनाष्टयुक्ता जलद्विकंसे क्वथितेऽष्टशेषे||३९||
पेष्याः शताह्वा हपुषा प्रियङ्गुः सपिप्पलीकं मधुकं बला च|
रसाञ्जनं वत्सकबीजमुस्तं भागाक्षमात्रं लवणांशयुक्तम्||४०||
समाक्षिकस्तैलयुतः समूत्रो बस्तिर्नृणां दीपनलेखनीयः|
जङ्घोरुपादत्रिकपृष्ठशूलं कफावृतिं मारुतनिग्रहं च||४१||
विण्मूत्रवातग्रहणं सशूलमाध्मानतामश्मरिशर्करे च|
आनाहमर्शोग्रहणीप्रदोषानेरण्डबस्तिः शमयेत् प्रयुक्तः||४२||
चतुष्पले तैलघृतस्य भृष्टाच्छागाच्छतार्धो दधिदाडिमाम्लः|
रसः सपेष्यो बलमांसवर्णरेतोग्निदश्चान्ध्यशिरोर्तिशस्तः ||४३||
जलद्विकंसेऽष्टपलं पलाशात् पक्त्वा रसोऽर्धाढकमात्रशेषः|
कल्कैर्वचामागधिकापलाभ्यां युक्तः शताह्वाद्विपलेन चापि||४४||
ससैन्धवः क्षौद्रयुतः सतैलो देयो निरूहो बलवर्णकारी|
आनाहपार्श्वामययोनिदोषान् गुल्मानुदावर्तरुजं च हन्यात्||४५||
यष्ट्याह्वयस्याष्टपलेन सिद्धं पयः शताह्वाफलपिप्पलीभिः|
युक्तं ससर्पिर्मधु वातरक्तवैस्वर्यवीसर्पहितो निरूहः||४६||
यष्ट्याह्वलोध्राभयचन्दनैश्च शृतं पयोऽग्र्यं कमलोत्पलैश्च|
सशर्करं क्षौद्रयुतं सुशीतं पित्तामयान् हन्ति सजीवनीयम्||४७||
द्विकार्षिकाश्चन्दनपद्मकर्धियष्ट्याह्वरास्नावृषसारिवाश्च|
सलोध्रमञ्जिष्ठमथाप्यनन्ताबलास्थिरादितृणपञ्चमूलम् ||४८||
तोये समुत्क्वाथ्य रसेन तेन शृतं पयोऽर्धाढकमम्बुहीनम्|
जीवन्तिमेदर्धिशतावरीभिर्वीराद्विकाकोलिकशेरुकाभिः||४९||
सितोपलाजीवकपद्मरेणु प्रपौण्डरीकैः कमलोत्पलैश्च|
लोध्रात्मगुप्तामधुकैर्विदारीमुञ्जातकैः केशरचन्दनैश्च||५०||
पिष्टैर्घृतक्षौद्रयुतैर्निरूहं ससैन्धवं शीतलमेव दद्यात्|
प्रत्यागते धन्वरसेन शालीन् क्षीरेण वाऽद्यात् परिषिक्तगात्रः||५१||
दाहातिसारप्रदरास्रपित्तहृत्पाण्डुरोगान् विषमज्वरं च|
सगुल्ममूत्रग्रहकामलादीन् सर्वामयान् पित्तकृतान्निहन्ति||५२||
द्राक्षादिकाश्मर्यमधूकसेव्यैः ससारिवाचन्दनशीतपाक्यैः|
पयः शृतं श्रावणिमुद्गपर्णीतुगात्मगुप्तामधुयष्टिकल्कैः||५३||
गोधूमचूर्णैश्च तथाऽक्षमात्रैः सक्षौद्रसर्पिर्मधुयष्टितैलैः|
पथ्याविदारीक्षुरसैर्गुडेन बस्तिं युतं पित्तहरं विदध्यात्||५४||
हृन्नाभिपार्श्वोत्तमदेहदाहे दाहेऽन्तरस्थे च सकृच्छ्रमूत्रे|
क्षीणे क्षते रेतसि चापि नष्टे पैत्तेऽतिसारे च नृणां प्रशस्तः||५५||
कोषातकारग्वधदेवदारुशार्ङ्गेष्टमूर्वाकुटजार्कपाठाः |
पक्त्वा कुलत्थान् बृहतीं च तोये रसस्य तस्य प्रसृता दश स्युः||५६||
तान् सर्षपैलामदनैः सकुष्ठैरक्षप्रमाणैः प्रसृतैश्च युक्तान्|
फलाह्वतैलस्य समाक्षिकस्य क्षारस्य तैलस्य च सार्षपस्य||५७||
दद्यान्निरूहं कफरोगिणे ज्ञो मन्दाग्नये चाप्यशनद्विषे च|
पटोलपथ्यामरदारुभिर्वा सपिप्पलीकैः क्वथितैर्जलेऽग्नौ||५८||
द्विपञ्चमूले त्रिफलां सबिल्वां फलानि गोमूत्रयुतः कषायः|
कलिङ्गपाठाफलमुस्तकल्कः ससैन्धवः क्षारयुतः सतैलः||५९||
निरूहमुख्यः कफजान् विकारान् सपाण्डुरोगालसकामदोषान्|
हन्यात्तथा मारुतमूत्रसङ्गं बस्तेस्तथाऽऽटोपमथापि घोरम्||६०||
रास्नामृतैरण्डविडङ्गदार्वीसप्तच्छदोशीरसुराह्वनिम्बैः|
शम्पाकभूनिम्बपटोलपाठातिक्ताखुपर्णीदशमूलमुस्तैः||६१||
त्रायन्तिकाशिग्रुफलत्रिकैश्च क्वाथः सपिण्डीतकतोयमूत्रः|
यष्ट्याह्वकृष्णाफलिनीशताह्वारसाञ्जनश्वेतवचाविडङ्गैः||६२||
कलिङ्गपाठाम्बुदसैन्धवैश्च कल्कैः ससर्पिर्मधुतैलमिश्रः|
अयं निरूहः क्रिमिकुष्ठमेहब्रध्नोदराजीर्णकफातुरेभ्यः||६३||
रूक्षौषधैरप्यपतर्पितेभ्य एतेषु रोगेष्वपि सत्सु दत्तः|
निहत्य वातं ज्वलनं प्रदीप्य विजित्य रोगांश्च बलं करोति||६४||
पुनर्नवैरण्डवृषाश्मभेदवृश्चीरभूतीकबलापलाशाः |
द्विपञ्चमूलं च पलांशिकानि क्षुण्णानि धौतानि फलानि चाष्टौ||६५||
बिल्वं यवान् कोलकुलत्थधान्यफलानि चैव प्रसृतोन्मितानि|
पयोजलद्व्याढकवच्छृतं तत् क्षीरावशेषं सितवस्त्रपूतम्||६६||
वचाशताह्वामरदारुकुष्ठयष्ट्याह्वसिद्धार्थकपिप्पलीनाम् |
कल्कैर्यवान्या मदनैश्च युक्तं नात्युष्णशीतं गुडसैन्धवाक्तम्||६७||
क्षौद्रस्य तैलस्य च सर्पिषश्च तथैव युक्तं प्रसृतैस्त्रिभिश्च |
दद्यान्निरूहं विधिना विविज्ञः स सर्वसंसर्गकृतामयघ्नः||६८||
स्निग्धोष्ण एकः पवने समांसो द्वौ स्वादुशीतौ पयसा च पित्ते|
त्रयः समूत्राः कटुकोष्णतीक्ष्णाः कफे निरूहा न परं विधेयाः||६९||
रसेन वाते प्रतिभोजनं स्यात् क्षीरेण पित्ते तु कफे च यूषैः|
तथाऽनुवास्येषु च बिल्वतैलं स्याज्जीवनीयं फलसाधितं च||७०||
इतीदमुक्तं निखिलं यथावद्बस्तिप्रदानस्य विधानमग्र्यम्|
योऽधीत्य विद्वानिह बस्तिकर्म करोति लोके लभते स सिद्धिम्||७१||
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरितेसिद्धिस्थाने
बस्तिसूत्रीयसिद्धिर्नाम तृतीयोऽध्यायः||३||