विमानस्थानम् - ४. त्रिविधरोगविशेषविज्ञानीयविमानम्
अथातस्त्रिविधरोगविशेषविज्ञानीयं विमानं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
त्रिविधं खलु रोगविशेषविज्ञानं भवति; तद्यथा आप्तोपदेशः, प्रत्यक्षम्, अनुमानं चेति||३||
तत्राप्तोपदेशो नामाप्तवचनम्|
आप्ता ह्यवितर्कस्मृतिविभागविदो निष्प्रीत्युपतापदर्शिनश्च|
तेषामेवङ्गुणयोगाद्यद्वचनं तत् प्रमाणम्|
अप्रमाणं पुनर्मत्तोन्मत्तमूर्खरक्तदुष्टादुष्टवचनमिति; प्रत्यक्षं तु खलु तद्यत् स्वयमिन्द्रियैर्मनसा चोपलभ्यते|
अनुमानं खलु तर्को युक्त्यपेक्षः||४||
त्रिविधेन खल्वनेन ज्ञानसमुदायेन पूर्वं परीक्ष्य रोगं सर्वथा सर्वमथोत्तरकालमध्यवसानमदोषं भवति, न हि
ज्ञानावयवेन कृत्स्ने ज्ञेये ज्ञानमुत्पद्यते|
त्रिविधे त्वस्मिन् ज्ञानसमुदये पूर्वमाप्तोपदेशाज्ज्ञानं, ततः प्रत्यक्षानुमानाभ्यां परीक्षोपपद्यते|
किं ह्यनुपदिष्टं पूर्वं यत्तत् प्रत्यक्षानुमानाभ्यां परीक्षमाणो विद्यात्|
तस्माद्द्विविधा परीक्षा ज्ञानवतां प्रत्यक्षम्, अनुमानं च; त्रिविधा वा सहोपदेशेन||५||
तत्रेदमुपदिशन्ति बुद्धिमन्तः- रोगमेकैकमेवम्प्रकोपणमेवंयोनिमेवमुत्थानमेवमात्मानमेवमधिष्ठानमेवंवेदनमेवं
संस्थानमेवंशब्दस्पर्शरूपरसगन्धमेवमुपद्रवमेवंवृद्धिस्थानक्षयसमन्वितमेवमुदर्क मेवन्नामानमेवंयोगं
विद्यात्; तस्मिन्नियं प्रतीकारार्था प्रवृत्तिरथवा निवृत्तिरित्युपदेशाज्ज्ञायते||६||
प्रत्यक्षतस्तु खलु रोगतत्त्वं बुभुत्सुः सर्वैरिन्द्रियैः सर्वानिन्द्रियार्थानातुरशरीरगतान् परीक्षेत, अन्यत्र रसज्ञानात्;
तद्यथा- अन्त्रकूजनं, सन्धिस्फुटनमङ्गुलीपर्वणां च, स्वरविशेषांश्च, ये चान्येऽपि केचिच्छरीरोपगताः शब्दाः
स्युस्ताञ्छ्रोत्रेण परीक्षेत; वर्णसंस्थानप्रमाणच्छायाः, शरीरप्रकृतिविकारौ, चक्षुर्वैषयिकाणि यानि चान्यान्यनुक्तानि
तानि चक्षुषा परीक्षेत; रसं तु खल्वातुरशरीरगतमिन्द्रियवैषयिकमप्यनुमानादवगच्छेत्, न ह्यस्य प्रत्यक्षेण
ग्रहणमुपपद्यते, तस्मादातुरपरिप्रश्नेनैवातुरमुखरसं विद्यात्, यूकापसर्पणेन त्वस्य शरीरवैरस्यं, मक्षिकोपसर्पणेन
शरीरमाधुर्यं, लोहितपित्तसन्देहे तु किं धारिलोहितं लोहितपित्तं वेति
श्वकाकभक्षणाद्धारिलोहितमभक्षणाल्लोहितपित्तमित्यनुमातव्यम्, एवमन्यानप्यातुरशरीरगतान् रसाननुमिमीत;
गन्धांस्तु खलु सर्वशरीरगतानातुरस्य प्रकृतिवैकारिकान् घ्राणेन परीक्षेत; स्पर्शं च पाणिना प्रकृतिविकृतियुक्तम्|
इति प्रत्यक्षतोऽनुमानादुपदेशतश्च परीक्षणमुक्तम्||७||
इमे तु खल्वन्येऽप्येवमेव भूयोऽनुमानज्ञेया भवन्ति भावाः|
तद्यथा- अग्निं जरणशक्त्या परीक्षेत, बलं व्यायामशक्त्या, श्रोत्रादीनि शब्दाद्यर्थग्रहणेन, मनोऽर्थाव्यभिचरणेन,
विज्ञानं व्यवसायेन, रजःसङ्गेन, मोहमविज्ञानेन, क्रोधमभिद्रोहेण, शोकं दैन्येन, हर्षमामोदेन, प्रीतिं तोषेण,
भयं विषादेन, धैर्यमविषादेन, वीर्यमुत्थानेन, अवस्थानमविभ्रमेण, श्रद्धामभिप्रायेण, मेधां ग्रहणेन, सञ्ज्ञां
नामग्रहणेन, स्मृतिं स्मरणेन, ह्रियमपत्रपणेन, शीलमनुशीलनेन, द्वेषं प्रतिषेधेन, उपधिमनुबन्धेन, धृतिमलौल्येन,
वश्यतां विधेयतया, वयोभक्तिसात्म्यव्याधिसमुत्थानानि कालदेशोपशयवेदनाविशेषेण,
गूढलिङ्गं व्याधिमुपशयानुपशयाभ्यां, दोषप्रमाणविशेषमपचारविशेषेण, आयुषः क्षयमरिष्टैः, उपस्थितश्रेयस्त्वं
कल्याणाभिनिवेशेन, अमलं सत्त्वमविकारेण, ग्रहण्यास्तु मृदुदारुणत्वं स्वप्नदर्शनमभिप्रायं
द्विष्टेष्टसुखदुःखानि चातुरपरिप्रश्नेनैव विद्यादिति||८||
भवन्ति चात्र-
आप्ततश्चोपदेशेन प्रत्यक्षकरणेन च|
अनुमानेन च व्याधीन् सम्यग्विद्याद्विचक्षणः||९||
सर्वथा सर्वमालोच्य यथासम्भवमर्थवित्|
अथाध्यवस्येत्तत्त्वे च कार्ये च तदनन्तरम्||१०||
कार्यतत्त्वविशेषज्ञः प्रतिपत्तौ न मुह्यति|
अमूढः फलमाप्नोति यदमोहनिमित्तजम्||११||
ज्ञानबुद्धिप्रदीपेन यो नाविशति तत्त्ववित् |
आतुरस्यान्तरात्मानं न स रोगांश्चिकित्सति||१२||
तत्र श्लोकौ-
सर्वरोगविशेषाणां त्रिविधं ज्ञानसङ्ग्रहम्|
यथा चोपदिशन्त्याप्ताः प्रत्यक्षं गृह्यते यथा||१३||
ये यथा चानुमानेन ज्ञेयास्तांश्चाप्युदारधीः|
भावांस्त्रिरोगविज्ञाने विमाने मुनिरुक्तवान्||१४||
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते विमानस्थाने
त्रिविधरोगविशेषविज्ञानीयं विमानं नाम चतुर्थोऽध्यायः||४||