निदानस्थानम् - ४. प्रमेहनिदानम्
अथातः प्रमेहनिदानं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
त्रिदोषकोपनिमित्ता विंशतिः प्रमेहा भवन्ति विकाराश्चापरेऽपरिसङ्ख्येयाः|
तत्र यथा त्रिदोषप्रकोपः प्रमेहानभिनिर्वर्तयति तथाऽनुव्याख्यास्यामः||३||
इह खलु निदानदोषदूष्यविशेषेभ्यो विकारविघातभावाभावप्रतिविशेषा भवन्ति|
यदा ह्येते त्रयो निदानादिविशेषाः परस्परं नानुबध्नन्त्यथवा कालप्रकर्षादबलीयांसोऽथवाऽनुबध्नन्ति न तदा
विकाराभिनिर्वृत्तिः, चिराद्वाऽप्यभिनिर्वर्तन्ते, तनवो वा भवन्त्ययथोक्तसर्वलिङ्गा वा; विपर्यये विपरीताः;
इति सर्वविकारविघातभावाभावप्रतिविशेषाभिनिर्वृत्तिहेतुर्भवत्युक्तः||४||
तत्रेमे त्रयो निदानादिविशेषाः श्लेष्मनिमित्तानां प्रमेहाणामाश्वभिर्निर्वृत्तिकरा भवन्ति; तद्यथा- हायनकयवकचीनकोद्दालकनैषधेत्कटमुकुन्दकमहाव्रीहिप्रमोदकसुगन्धकानां नवानामतिवेलमतिप्रमाणेन
चोपयोगः, तथा सर्पिष्मतां नवहरेणुमाषसूप्यानां, ग्राम्यानूपौदकानां च मांसानां,
शाकतिलपललपिष्टान्नपायसकृशराविलेपीक्षुविकाराणां, क्षीरनवमद्यमन्दकदधिद्रवमधुरतरुणप्रायाणां
चोपयोगः, मृजाव्यायामवर्जनं, स्वप्नशयनासनप्रसङ्गः, यश्च कश्चिद्विधिरन्योऽपि श्लेष्ममेदोमूत्रसञ्जननः,
स सर्वो निदानविशेषः||५||
बहुद्रवः श्लेष्मा दोषविशेषः||६||
बह्वबद्धं मेदो मांसं शरीरजक्लेदः शुक्रं शोणितं वसा मज्जा लसीका रसश्चौजःसङ्ख्यात इति दूष्यविशेषाः||७||
त्रयाणामेषां निदानादिविशेषाणां सन्निपाते क्षिप्रं श्लेष्मा प्रकोपमापद्यते, प्रागतिभूयस्त्वात्; स प्रकुपितः क्षिप्रमेव
शरीरे विसृप्तिं लभते, शरीरशैथिल्यात्; स विसर्पञ् शरीरे मेदसैवादितो मिश्रीभावं गच्छति, मेदसश्चैव
बह्वबद्धत्वान्मेदसश्च गुणैः समानगुणभूयिष्ठत्वात्; स मेदसा मिश्रीभवन् दूषयत्येनत्, विकृतत्वात्; स विकृतो दुष्टेन
मेदसोपहितः शरीरक्लेदमांसाभ्यां संसर्गं गच्छति, क्लेदमांसयोरतिप्रमाणाभिवृद्धत्वात्; स मांसे मांसप्रदोषात्
पूतिमांसपिडकाः शराविकाकच्छपिकाद्याः सञ्जनयति, अप्रकृतिभूतत्वात्; शरीरक्लेदं पुनर्दूषयन् मूत्रत्वेन
परिणमयति, मूत्रवहानां च स्रोतसां वङ्क्षणबस्तिप्रभवाणां मेदःक्लेदोपहितानि गुरूणि मुखान्यासाद्य प्रतिरुध्यते;
ततः प्रमेहांस्तेषां स्थैर्यमसाध्यतां वा जनयति, प्रकृतिविकृतिभूतत्वात्||८||
शरीरक्लेदस्तु श्लेष्ममेदोमिश्रः प्रविशन् मूत्राशयं मूत्रत्वमापद्यमानः श्लैष्मिकैरेभिर्दशभिर्गुणैरुपसृज्यते वैषम्ययुक्तैः;
तद्यथा- श्वेतशीतमूर्तपिच्छिलाच्छस्निग्धगुरुमधुरसान्द्रप्रसादमन्दैः, तत्र येन गुणेनैकेनानेकेन वा भूयस्तरमुपसृज्यते
तत्समाख्यं गौणं नामविशेषं प्राप्नोति||९||
ते तु खल्विमे दश प्रमेहा नामविशेषेण भवन्ति; तद्यथा- उदकमेहश्च, इक्षुवालिकारसमेहश्च, सान्द्रमेहश्च, सान्द्रप्रसादमेहश्च, शुक्लमेहश्च, शुक्रमेहश्च, शीतमेहश्च,
सिकतामेहश्च, शनैर्मेहश्च, आलालमेहश्चेति||१०||
ते दश प्रमेहाः साध्याः; समानगुणमेदःस्थानकत्वात्, कफस्य प्राधान्यात्, समक्रियत्वाच्च||११||
तत्र श्लोकाः श्लेष्मप्रमेहविशेषविज्ञानार्था भवन्ति-||१२||
अच्छं बहु सितं शीतं निर्गन्धमुदकोपमम्|
श्लेष्मकोपान्नरो मूत्रमुदमेही प्रमेहति||१३||
अत्यर्थमधुरं शीतमीषत्पिच्छिलमाविलम्|
काण्डेक्षुरसमङ्काशं श्लेष्मकोपात् प्रमेहति||१४||
यस्य पर्युषितं मूत्रं सान्द्रीभवति भाजने|
पुरुषं कफकोपेन तमाहुः सान्द्रमेहिनम्||१५||
यस्य संहन्यते मूत्रं किञ्चित् किञ्चित् प्रसीदति|
सान्द्रप्रसादमेहीति तमाहुः श्लेष्मकोपतः||१६||
शुक्लं पिष्टनिभं मूत्रमभीक्ष्णं यः प्रमेहति|
पुरुषं कफकोपेन तमाहुः शुक्लमेहिनम्||१७||
शुक्राभं शुक्रमिश्रं वा मुहुर्मेहति यो नरः|
शुक्रमेहिनमाहुस्तं पुरुषं श्लेष्मकोपतः||१८||
अत्यर्थमधुरं शीतं मूत्रं मेहति यो भृशम्|
शीतमेहिनमाहुस्तं पुरुषं श्लेष्मकोपतः||१९||
मूर्तान्मूत्रगतान् दोषानणून्मेहति यो नरः|
सिकतामेहिनं विद्यात्तं नरं श्लेष्मकोपतः||२०||
मन्दं मन्दमवेगं तु कृच्छ्रं यो मूत्रयेच्छनैः|
शनैर्मेहिनमाहुस्तं पुरुषं श्लेष्मकोपतः||२१||
तन्तुबद्धमिवालालं पिच्छिलं यः प्रमेहति|
आलालमेहिनं विद्यात्तं नरं श्लेष्मकोपतः||२२||
इत्येते दश प्रमेहाः श्लेष्मप्रकोपनिमित्ता व्याख्याता भवन्ति||२३||
उष्णाम्ललवणक्षारकटुकाजीर्णभोजनोपसेविनस्तथाऽतितीक्ष्णातपाग्निसन्तापश्रम क्रोधविषमाहारोपसेविनश्च
तथाविधशरीरस्यैव क्षिप्रं पित्तं प्रकोपमापद्यते, तत्तु प्रकुपितं तयैवानुपूर्व्या प्रमेहानिमान् षट्
क्षिप्रतरमभिनिर्वर्तयति||२४||
तेषामपि तु खलु पित्तगुणविशेषेणैव नामविशेषा भवन्ति; तद्यथा- क्षारमेहश्च, कालमेहश्च, नीलमेहश्च, लोहितमेहश्च, माञ्जिष्ठमेहश्च, हारिद्रमेहश्चेति||२५||
ते षड्भिरेव क्षाराम्ललवणकटुकविस्रोष्णैः पित्तगुणैः पूर्ववद्युक्ता भवन्ति||२६||
सर्व एव ते याप्याः संसृष्टदोषमेदःस्थानत्वाद्विरुद्धोपक्रमत्वाच्चेति||२७||
तत्र श्लोकाः पित्तप्रमेहविशेषविज्ञानार्था भवन्ति-||२८||
गन्धवर्णरसस्पर्शैर्यथा क्षारस्तथाविधम्|
पित्तकोपान्नरो मूत्रं क्षारमेही प्रमेहति||२९||
मसीवर्णमजस्रं यो मूत्रमुष्णं प्रमेहति|
पित्तस्य परिकोपेण तं विद्यात् कालमेहिनम्||३०||
चाषपक्षनिभं मूत्रमम्लं मेहति यो नरः|
पित्तस्य परिकोपेण तं विद्यान्नीलमेहिनम्||३१||
विस्रं लवणमुष्णं च रक्तं मेहति यो नरः|
पित्तस्य परिकोपेण तं विद्याद्रक्तमेहिनम्||३२||
मञ्जिष्ठोदकसङ्काशं भृशं विस्रं प्रमेहति|
पित्तस्य परिकोपात्तं विद्यान्माञ्जिष्ठमेहिनम्||३३||
हरिद्रोदकसङ्काशं कटुकं यः प्रमेहति|
पित्तस्य परिकोपात्तं विद्याद्धारिद्रमेहिनम्||३४||
इत्येते षट् प्रमेहाः पित्तप्रकोपनिमित्ता व्याख्याता भवन्ति||३५||
कषायकटुतिक्तरूक्षलघुशीतव्यवायव्यायामवमनविरेचनास्थापन-शिरोविरेचनातियोगसन्धारणानशनाभिघातातपोद्वेगशोकशोणितातिषेक- जागरणविषमशरीरन्यासानुपसेवमानस्य तथाविधशरीरस्यैव क्षिप्रं वातः प्रकोपमापद्यते||३६||
स प्रकुपितस्तथाविधे शरीरे विसर्पन् यदा वसामादाय मूत्रवहानि स्रोतांसि प्रतिपद्यते तदा वसामेहमभिनिर्वर्तयति;
यदा पुनर्मज्जानं मूत्रबस्तावाकर्षति तदा मज्जमेहमभिनिर्वर्तयति; यदा तु लसीकां मूत्राशयेऽभिवहन्मूत्रमनुबन्धं
च्योतयति लसीकातिबहुत्वाद्विक्षेपणाच्च वायोः खल्वस्यातिमूत्रप्रवृत्तिसङ्गं करोति, तदा स मत्त इव गजः
क्षरत्यजस्रं मूत्रमवेगं, तं हस्तिमेहिनमाचक्षते; ओजः पुनर्मधुरस्वभावं, तद् यदा रौक्ष्याद्वायुः कषायत्वेनाभिसंसृज्य
मूत्राशयेऽभिवहति तदा मधुमेहं करोति||३७||
इमांश्चतुरः प्रमेहान् वातजानसाध्यानाचक्षते भिषजः, महात्ययिकत्वाद्विरुद्धोपक्रमत्वाच्चेति||३८||
तेषामपि पूर्ववद्गुणविशेषेण नामविशेषा भवन्ति; तद्यथा- वसामेहश्च, मज्जमेहश्च, हस्तिमेहश्च, मधुमेहश्चेति||३९||
तत्र श्लोका वातप्रमेहविशेषविज्ञानार्था भवन्ति-||४०||
वसामिश्रं वसाभं वा मुहुर्मेहति यो नरः|
वसामेहिनमाहुस्तमसाध्यं वातकोपतः||४१||
मज्जानं सह मूत्रेण मुहुर्मेहति यो नरः|
मज्जमेहिनमाहुस्तमसाध्यं वातकोपतः||४२||
हस्ती मत्त इवाजस्रं मूत्रं क्षरति यो भृशम्|
हस्तिमेहिनमाहुस्तमसाध्यं वातकोपतः||४३||
कषायमधुरं पाण्डु रूक्षं मेहति यो नरः|
वातकोपादसाध्यं तं प्रतीयान्मधुमेहिनम्||४४||
इत्येते चत्वारः प्रमेहा वातप्रकोपनिमित्ता व्याख्याता भवन्ति||४५||
एवं त्रिदोषप्रकोपनिमित्ता विंशतिः प्रमेहा व्याख्याता भवन्ति||४६||
त्रयस्तु खलु दोषाः प्रकुपिताः प्रमेहानभिनिर्वर्तयिष्यन्त इमानि पूर्वरूपाणि दर्शयन्ति; तद्यथा- जटिलीभावं केशेषु, माधुर्यमास्यस्य, करपादयोः सुप्ततादाहौ, मुखतालुकण्ठशोषं, पिपासाम्, आलस्यं,
मलं काये, कायच्छिद्रेषूपदेहं, परिदाहं सुप्ततां चाङ्गेषु, षट्पदपिपीलिकाभिश्च शरीरमूत्राभिसरणं, मूत्रे च
मूत्रदोषान्, विस्रं शरीरगन्धं, निद्रां, तन्द्रां च सर्वकालमिति||४७||
उपद्रवास्तु खलु प्रमेहिणां तृष्णातीसारज्वरदाहदौर्बल्यारोचकाविपाकाः पूतिमांसपिडकालजीविद्रध्यादयश्च
तत्प्रसङ्गाद्भवन्ति||४८||
तत्र साध्यान् प्रमेहान् संशोधनोपशमनैर्यथार्हमुपपादयंश्चिकित्सेदिति||४९||
तत्र श्लोकाः- हेतुर्व्याधिविशेषाणां प्रमेहाणां च कारणम्|
दोषधातुसमायोगो रूपं विविधमेव च||५३||
दश श्लेष्मकृता यस्मात् प्रमेहाः षट् च पित्तजाः|
यथा च वायुश्चतुरः प्रमेहान् कुरुते बली||५४||
साध्यासाध्यविशेषाश्च पूर्वरूपाण्युपद्रवाः|
प्रमेहाणां निदानेऽस्मिन् क्रियासूत्रं च भाषितम्||५५||
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते निदानस्थाने प्रमेहनिदानं नाम चतुर्थोऽध्यायः||४||