Shree Naval Kishori

सिद्धिस्थानम् - ५. नेत्रबस्तिव्यापत्सिद्धिः

अथातो नेत्रबस्तिव्यापत्सिद्धिं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
अथ नेत्राणि बस्तींश्च शृणु वर्ज्यानि कर्मसु|
नेत्रस्याज्ञप्रणीतस्य व्यापदः सचिकित्सिताः||३||

ह्रस्वं दीर्घं तनु स्थूलं जीर्णं शिथिलबन्धनम्|
पार्श्वच्छिद्रं तथा वक्रमष्टौ नेत्राणि वर्जयेत्||४||
अप्राप्त्यतिगतिक्षोभकर्षणक्षणनस्रवाः|
गुदपीडा गतिर्जिह्मा तेषां दोषा यथाक्रमम्||५||

विषममांसलच्छिन्नस्थूलजालिकवातलाः|
स्निग्धः क्लिन्नश्च तानष्टौ बस्तीन् कर्मसु वर्जयेत्||६||
गतिवैषम्यविस्रत्वस्रावदौर्ग्राह्यनिस्रवाः|
फेनिलच्युत्यधार्यत्वं बस्तेः स्युर्बस्तिदोषतः||७||

सवातातिद्रुतोत्क्षिप्ततिर्यगुल्लुप्तकम्पिताः|
अतिबाह्यगमन्दातिवेगदोषाः प्रणेतृतः||८||

अनुच्छ्वास्य च बद्धे वा दत्ते निःशेष एव वा|
प्रविश्य कुपितो वायुः शूलतोदकरो भवेत्||९||
तत्राभ्यङ्गो गुदे स्वेदो वातघ्नान्यशनानि च|१०|

द्रुतं प्रणीते निष्कृष्टे सहसोत्क्षिप्त एव वा||१०||
स्यात् कटीगुदजङ्घार्तिबस्तिस्तम्भोरुवेदनाः |
भोजनं तत्र वातघ्नं स्नेहाः स्वेदाः सबस्तयः||११||

तिर्यग्वल्यावृतद्वारे बद्धे वाऽपि न गच्छति|
नेत्रे तदृजु निष्कृष्य संशोध्य च प्रवेशयेत्||१२||

पीड्यमानेऽन्तरा मुक्ते गुदे प्रतिहतोऽनिलः|
उरःशिरोर्तिमूर्वोश्च सदनं जनयेद्बली||१३||
बस्तिः स्यात्तत्र बिल्वादिफलश्यामादिमूत्रवान्|
स्याद्दाहो दवथुः शोफः कम्पनाभिहते गुदे||१४||
कषायमधुराः शीताः सेकास्तत्र सबस्तयः|१५|

अतिमात्रप्रणीतेन नेत्रेण क्षणनाद्वलेः||१५||
स्यात् सार्ति दाहनिस्तोदगुदवर्चःप्रवर्तनम्|
तत्र सर्पिः पिचुः क्षीरं पिच्छाबस्तिश्च शस्यते||१६||

न भावयति मन्दस्तु बाह्यस्त्वाशु निवर्तते|
स्नेहस्तत्र पुनः सम्यक् प्रणेयः सिद्धिमिच्छता||१७||
अतिप्रपीडितः कोष्ठे तिष्ठत्यायाति वा गलम्|
तत्र बस्तिर्विरेकश्च गलपीडादि कर्म च||१८||

तत्र श्लोकः-

नेत्रबस्तिप्रणेतॄणां दोषानेतान् सभेषजान्|
वेत्ति यस्तेन मतिमान् बस्तिकर्माणि कारयेत्||१९||

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरितेसिद्धिस्थाने 

नेत्रबस्तिव्यापत्सिद्धिर्नाम पञ्चमोऽध्यायः||५||