सूत्रस्थानम् - ६. तस्याशितीयोऽध्यायः
अथातस्तस्याशितीयमध्यायं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
तस्याशिताद्यादाहाराद्बलं वर्णश्च वर्धते|
यस्यर्तुसात्म्यं विदितं चेष्टाहारव्यपाश्रयम्||३||
इह खलु संवत्सरं षडङ्गमृतुविभागेन विद्यात् |
तत्रादित्यस्योदगयनमादानं च त्रीनृतूञ्छिशिरादीन् ग्रीष्मान्तान् व्यवस्येत्, वर्षादीन् पुनर्हेमन्तान्तान् दक्षिणायनं
विसर्गं च||४||
विसर्गे पुनर्वायवो नातिरूक्षाः प्रवान्ति, इतरे पुनरादाने; सोमश्चाव्याहतबलः शिशिराभिर्भाभिरापूरयञ्जगदाप्याययति
शश्वत्, अतो विसर्गः सौम्यः|
आदानं पुनराग्नेयं; तावेतावर्कवायू सोमश्च कालस्वभावमार्गपरिगृहीताः कालर्तुरसदोषदेहबलनिर्वृत्तिप्रत्ययभूताः
समुपदिश्यन्ते||५||
तत्र रविर्भाभिराददानो जगतः स्नेहं वायवस्तीव्ररूक्षाश्चोपशोषयन्तः शिशिरवसन्तग्रीष्मेषु यथाक्रमं रौक्ष्यमुत्पादयन्तो
रूक्षान् रसांस्तिक्तकषायकटुकांश्चाभिवर्धयन्तो नृणां दौर्बल्यमावहन्ति||६||
वर्षाशरद्धेमन्तेषु तु दक्षिणाभिमुखेऽर्के कालमार्गमेघवातवर्षाभिहतप्रतापे, शशिनि चाव्याहतबले,
माहेन्द्रसलिलप्रशान्तसन्तापे जगति, अरूक्षा रसाः प्रवर्धन्तेऽम्ललवणमधुरा यथाक्रमं तत्र बलमुपचीयते नृणामिति||७||
भवति चात्र-
आदावन्ते च दौर्बल्यं विसर्गादानयोर्नृणाम्|
मध्ये मध्यबलं, त्वन्ते श्रेष्ठमग्रे च निर्दिशेत्||८||
शीते शीतानिलस्पर्शसंरुद्धो बलिनां बली|
पक्ता भवति हेमन्ते मात्राद्रव्यगुरुक्षमः||९||
स यदा नेन्धनं युक्तं लभते देहजं तदा|
रसं हिनस्त्यतो वायुः शीतः शीते प्रकुप्यति||१०||
तस्मात्तुषारसमये स्निग्धाम्ललवणान् रसान्|
औदकानूपमांसानां मेद्यानामुपयोजयेत्||११||
बिलेशयानां मांसानि प्रसहानां भृतानि च|
भक्षयेन्मदिरां शीधुं मधु चानुपिबेन्नरः||१२||
गोरसानिक्षुविकृतीर्वसां तैलं नवौदनम्|
हेमन्तेऽभ्यस्यतस्तोयमुष्णं चायुर्न हीयते||१३||
अभ्यङ्गोत्सादनं मूर्ध्नि तैलं जेन्ताकमातपम्|
भजेद्भूमिगृहं चोष्णमुष्णं गर्भगृहं तथा||१४||
शीतेषु संवृतं सेव्यं यानं शयनमासनम्|
प्रावाराजिनकौषेयप्रवेणीकुथकास्तृतम्||१५||
गुरूष्णवासा दिग्धाङ्गो गुरुणाऽगुरुणा सदा|
शयने प्रमदां पीनां विशालोपचितस्तनीम्||१६||
आलिङ्ग्यागुरुदिग्धाङ्गीं सुप्यात् समदमन्मथः|
प्रकामं च निषेवेत मैथुनं शिशिरागमे||१७||
वर्जयेदन्नपानानि वातलानि लघूनि च|
प्रवातं प्रमिताहारमुदमन्थं हिमागमे||१८||
हेमन्तशिशिरौ तुल्यौ शिशिरेऽल्पं विशेषणम्|
रौक्ष्यमादानजं शीतं मेघमारुतवर्षजम्||१९||
तस्माद्धैमन्तिकः सर्वः शिशिरे विधिरिष्यते|
निवातमुष्णं त्वधिकं शिशिरे गृहमाश्रयेत्||२०||
कटुतिक्तकषायाणि वातलानि लघूनि च|
वर्जयेदन्नपानानि शिशिरे शीतलानि च||२१||
वसन्ते निचितः श्लेष्मा दिनकृद्भाभिरीरितः|
कायाग्निं बाधते रोगांस्ततः प्रकुरुते बहून्||२२||
तस्माद्वसन्ते कर्माणि वमनादीनि कारयेत्|
गुर्वम्लस्निग्धमधुरं दिवास्वप्नं च वर्जयेत्||२३||
व्यायामोद्वर्तनं धूमं कवलग्रहमञ्जनम्|
सुखाम्बुना शौचविधिं शीलयेत् कुसुमागमे||२४||
चन्दनागुरुदिग्धाङ्गो यवगोधूमभोजनः|
शारभं शाशमैणेयं मांसं लावकपिञ्जलम्||२५||
भक्षयेन्निर्गदं सीधुं पिबेन्माध्वीकमेव वा|
वसन्तेऽनुभवेत् स्त्रीणां काननानां च यौवनम्||२६||
मयूखैर्जगतः स्नेहं ग्रीष्मे पेपीयते रविः|
स्वादु शीतं द्रवं स्निग्धमन्नपानं तदा हितम्||२७||
शीतं सशर्करं मन्थं जाङ्गलान्मृगपक्षिणः|
घृतं पयः सशाल्यन्नं भजन् ग्रीष्मे न सीदति||२८||
मद्यमल्पं न वा पेयमथवा सुबहूदकम्|
लवणाम्लकटूष्णानि व्यायामं च विवर्जयेत् ||२९||
दिवा शीतगृहे निद्रां निशि चन्द्रांशुशीतले|
भजेच्चन्दनदिग्धाङ्गः प्रवाते हर्म्यमस्तके||३०||
व्यजनैः पाणिसंस्पर्शैश्चन्दनोदकशीतलैः|
सेव्यमानो भजेदास्यां मुक्तामणिविभूषितः||३१||
काननानि च शीतानि जलानि कुसुमानि च|
ग्रीष्मकाले निषेवेत मैथुनाद्विरतो नरः||३२||
आदानदुर्बले देहे पक्ता भवति दुर्बलः|
स वर्षास्वनिलादीनां दूषणैर्बाध्यते पुनः||३३||
भूबाष्पान्मेघनिस्यन्दात् पाकादम्लाज्जलस्य च|
वर्षास्वग्निबले क्षीणे कुप्यन्ति पवनादयः||३४||
तस्मात् साधारणः सर्वो विधिर्वर्षासु शस्यते|
उदमन्थं दिवास्वप्नमवश्यायं नदीजलम्||३५||
व्यायाममातपं चैव व्यवायं चात्र वर्जयेत्|
पानभोजनसंस्कारान् प्रायः क्षौद्रान्वितान् भजेत्||३६||
व्यक्ताम्ललवणस्नेहं वातवर्षाकुलेऽहनि|
विशेषशीते भोक्तव्यं वर्षास्वनिलशान्तये||३७||
अग्निसंरक्षणवता यवगोधूमशालयः|
पुराणा जाङ्गलैर्मांसैर्भोज्या यूषैश्च संस्कृतैः||३८||
पिबेत् क्षौद्रान्वितं चाल्पं माध्वीकारिष्टमम्बु वा|
माहेन्द्रं तप्तशीतं वा कौपं सारसमेव वा||३९||
प्रघर्षोद्वर्तनस्नानगन्धमाल्यपरो भवेत्|
लघुशुद्धाम्बरः स्थानं भजेदक्लेदि वार्षिकम्||४०||
वर्षाशीतोचिताङ्गानां सहसैवार्करश्मिभिः|
तप्तानामाचितं पित्तं प्रायः शरदि कुप्यति||४१||
तत्रान्नपानं मधुरं लघु शीतं सतिक्तकम्|
पित्तप्रशमनं सेव्यं मात्रया सुप्रकाङ्क्षितैः||४२||
लावान् कपिञ्जलानेणानुरभ्राञ्छरभान् शशान्|
शालीन् सयवगोधूमान् सेव्यानाहुर्घनात्यये||४३||
तिक्तस्य सर्पिषः पानं विरेको रक्तमोक्षणम्|
धाराधरात्यये कार्यमातपस्य च वर्जनम्||४४||
वसां तैलमवश्यायमौदकानूपमामिषम्|
क्षारं दधि दिवास्वप्नं प्राग्वातं चात्र वर्जयेत्||४५||
दिवा सूर्यांशुसन्तप्तं निशि चन्द्रांशुशीतलम्|
कालेन पक्वं निर्दोषमगस्त्येनाविषीकृतम्||४६||
हंसोदकमिति ख्यातं शारदं विमलं शुचि|
स्नानपानावगाहेषु हितमम्बु यथाऽमृतम् ||४७||
शारदानि च माल्यानि वासांसि विमलानि च|
शरत्काले प्रशस्यन्ते प्रदोषे चेन्दुरश्मयः||४८||
इत्युक्तमृतुसात्म्यं यच्चेष्टाहारव्यपाश्रयम्|
उपशेते यदौचित्यादोकःसात्म्यं तदुच्यते||४९||
देशानामामयानां च विपरीतगुणं गुणैः|
सात्म्यमिच्छन्ति सात्म्यज्ञाश्चेष्टितं चाद्यमेव च||५०||
तत्र श्लोकः-
ऋतावृतौ नृभिः सेव्यमसेव्यं यच्च किञ्चन|
तस्याशितीये निर्दिष्टं हेतुमत् सात्म्यमेव च||५१||
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने तस्याशितीयो नाम षष्ठोऽध्यायः||६||