Shree Naval Kishori

सूत्रस्थानम् - ७. नवेगान्धारणीयोऽध्यायः

अथातो नवेगान्धारणीयमध्यायं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||

न वेगान् धारयेद्धीमाञ्जातान् मूत्रपुरीषयोः|
न रेतसो न वातस्य न छर्द्याः क्षवथोर्न च||३||
नोद्गारस्य न जृम्भाया न वेगान् क्षुत्पिपासयोः|
न बाष्पस्य न निद्राया निःश्वासस्य श्रमेण च||४||

एतान् धारयतो जातान् वेगान् रोगा भवन्ति ये|
पृथक्पृथक्चिकित्सार्थं तान्मे निगदतः शृणु||५||
बस्तिमेहनयोः शूलं मूत्रकृच्छ्रं शिरोरुजा |
विनामो वङ्क्षणानाहः स्याल्लिङ्गं मूत्रनिग्रहे||६||
स्वेदावगाहनाभ्यङ्गान् सर्पिषश्चावपीडकम्  |
मूत्रे प्रतिहते कुर्यात्त्रिविधं बस्तिकर्म च||७||
पक्वाशयशिरःशूलं वातवर्चोऽप्रवर्तनम्  |
पिण्डिकोद्वेष्टनाध्मानं पुरीषे स्याद्विधारिते||८||
स्वेदाभ्यङ्गावगाहाश्च वर्तयो बस्तिकर्म च|
हितं प्रतिहते वर्चस्यन्नपानं प्रमाथि च||९||
मेढ्रे वृषणयोः शूलमङ्गमर्दो हृदि व्यथा|
भवेत् प्रतिहते शुक्रे विबद्धं मूत्रमेव च||१०||
तत्राभ्यङ्गोऽवगाहश्च मदिरा चरणायुधाः|
शालिः पयो निरूहश्च शस्तं मैथुनमेव च||११||
सङ्गो विण्मूत्रवातानामाध्मानं वेदना क्लमः|
जठरे वातजाश्चान्ये रोगाः स्युर्वातनिग्रहात्||१२||
स्नेहस्वेदविधिस्तत्र वर्तयो भोजनानि च|
पानानि बस्तयश्चैव शस्तं वातानुलोमनम्||१३||
कण्डूकोठारुचिव्यङ्गशोथपाण्ड्वामयज्वराः|
कुष्ठहृल्लासवीसर्पाश्छर्दिनिग्रहजा गदाः||१४||
भुक्त्वा प्रच्छर्दनं धूमो लङ्घनं रक्तमोक्षणम्|
रूक्षान्नपानं व्यायामो विरेकश्चात्र शस्यते||१५||
मन्यास्तम्भः शिरःशूलमर्दितार्धावभेदकौ|
इन्द्रियाणां च दौर्बल्यं क्षवथोः स्याद्विधारणात्||१६||
तत्रोर्ध्वजत्रुकेऽभ्यङ्गः स्वेदो धूमः सनावनः|
हितं वातघ्नमाद्यं च घृतं चौत्तरभक्तिकम्||१७||
हिक्का श्वासोऽरुचिः कम्पो विबन्धो हृदयोरसोः|
उद्गारनिग्रहात्तत्र हिक्कायास्तुल्यमौषधम्||१८||
विनामाक्षेपसङ्कोचाः सुप्तिः कम्पः प्रवेपनम्|
जृम्भाया निग्रहात्तत्र सर्वं वातघ्नमौषधम्||१९||
कार्श्यदौर्बल्यवैवर्ण्यमङ्गमर्दोऽरुचिर्भ्रमः|
क्षुद्वेगनिग्रहात्तत्र स्निग्धोष्णं लघु भोजनम्||२०||
कण्ठास्यशोषो बाधिर्यं श्रमः सादो हृदि व्यथा|
पिपासानिग्रहात्तत्र शीतं तर्पणमिष्यते||२१||
प्रतिश्यायोऽक्षिरोगश्च हृद्रोगश्चारुचिर्भ्रमः|
बाष्पनिग्रहणात्तत्र स्वप्नो मद्यं प्रियाः कथाः||२२||
जृम्भाऽङ्गमर्दस्तन्द्रा च शिरोरोगोऽक्षिगौरवम्|
निद्राविधारणात्तत्र स्वप्नः संवाहनानि च||२३||
गुल्महृद्रोगसम्मोहाः श्रमनिःश्वासधारणात्|
जायन्ते तत्र विश्रामो वातघ्न्यश्च क्रिया हिताः||२४||
वेगनिग्रहजा रोगा य एते परिकीर्तिताः|
इच्छंस्तेषामनुत्पत्तिं वेगानेतान्न धारयेत्||२५||

इमांस्तु धारयेद्वेगान् हितार्थी प्रेत्य चेह च|
साहसानामशस्तानां मनोवाक्कायकर्मणाम्||२६||

लोभशोकभयक्रोधमानवेगान् विधारयेत्|
नैर्लज्ज्येर्ष्यातिरागाणामभिध्यायाश्च बुद्धिमान्||२७||

परुषस्यातिमात्रस्य सूचकस्यानृतस्य च|
वाक्यस्याकालयुक्तस्य धारयेद्वेगमुत्थितम्||२८||

देहप्रवृत्तिर्या काचिद्विद्यते परपीडया|
स्त्रीभोगस्तेयहिंसाद्या तस्यावेगान्विधारयेत्||२९||

पुण्यशब्दो विपापत्वान्मनोवाक्कायकर्मणाम्|
धर्मार्थकामान् पुरुषः सुखी भुङ्क्ते चिनोति च||३०||

शरीरचेष्टा या चेष्टा स्थैर्यार्था बलवर्धिनी|
देहव्यायामसङ्ख्याता मात्रया तां समाचरेत्||३१||

लाघवं कर्मसामर्थ्यं स्थैर्यं दुःखसहिष्णुता |
दोषक्षयोऽग्निवृद्धिश्च व्यायामादुपजायते||३२||
श्रमः क्लमः क्षयस्तृष्णा रक्तपित्तं प्रतामकः|
अतिव्यायामतः कासो ज्वरश्छर्दिश्च जायते||३३||
व्यायामहास्यभाष्याध्वग्राम्यधर्मप्रजागरान्|
नोचितानपि सेवेत बुद्धिमानतिमात्रया||३४||

एतानेवंविधांश्चान्यान् योऽतिमात्रं निषेवते|
गजं सिंह इवाकर्षन् सहसा स विनश्यति||३५||

उचितादहिताद्धीमान् क्रमशो विरमेन्नरः|
हितं क्रमेण सेवेत क्रमश्चात्रोपदिश्यते||३६||
प्रक्षेपापचये ताभ्यां क्रमः पादांशिको भवेत्|
एकान्तरं ततश्चोर्ध्वं द्व्यन्तरं त्र्यन्तरं तथा||३७||

क्रमेणापचिता दोषाः क्रमेणोपचिता गुणाः|
सन्तो यान्त्यपुनर्भावमप्रकम्प्या भवन्ति च||३८||

समपित्तानिलकफाः केचिद्गर्भादि मानवाः|
दृश्यन्ते वातलाः केचित्पित्तलाः श्लेष्मलास्तथा||३९||
तेषामनातुराः पूर्वे वातलाद्याः सदातुराः|
दोषानुशयिता ह्येषां देहप्रकृतिरुच्यते||४०||

विपरीतगुणस्तेषां स्वस्थवृत्तेर्विधिर्हितः|
समसर्वरसं सात्म्यं समधातोः प्रशस्यते||४१||

द्वे अधः सप्त शिरसि खानि स्वेदमुखानि च|
मलायनानि बाध्यन्ते दुष्टैर्मात्राधिकैर्मलैः||४२||
मलवृद्धिं गुरुतया लाघवान्मलसङ्क्षयम्|
मलायनानां बुध्येत सङ्गोत्सर्गादतीव च||४३||

तान् दोषलिङ्गैरादिश्य व्याधीन् साध्यानुपाचरेत्|
व्याधिहेतुप्रतिद्वन्द्वैर्मात्राकालौ विचारयन्||४४||

विषमस्वस्थवृत्तानामेते रोगास्तथाऽपरे|
जायन्तेऽनातुरस्तस्मात् स्वस्थवृत्तपरो भवेत्||४५||
माधवप्रथमे मासि नभस्यप्रथमे पुनः|
सहस्यप्रथमे चैव हारयेद्दोषसञ्चयम्||४६||
स्निग्धस्विन्नशरीराणामूर्ध्वं चाधश्च नित्यशः|
बस्तिकर्म ततः कुर्यान्नस्यकर्म च बुद्धिमान्||४७||
यथाक्रमं यथायोग्यमत ऊर्ध्वं प्रयोजयेत्|
रसायनानि सिद्धानि वृष्ययोगांश्च कालवित्||४८||
रोगास्तथा न जायन्ते प्रकृतिस्थेषु धातुषु|
धातवश्चाभिवर्धन्ते जरा मान्द्यमुपैति च||४९||
विधिरेष विकाराणामनुत्पत्तौ निदर्शितः|
निजानामितरेषां तु पृथगेवोपदेक्ष्यते||५०||

ये भूतविषवाय्वग्निसम्प्रहारादिसम्भवाः|
नृणामागन्तवो रोगाः प्रज्ञा तेष्वपराध्यति||५१||
ईर्ष्याशोकभयक्रोधमानद्वेषादयश्च ये|
मनोविकारास्तेऽप्युक्ताः सर्वे प्रज्ञापराधजाः||५२||

त्यागः प्रज्ञापराधानामिन्द्रियोपशमः स्मृतिः|
देशकालात्मविज्ञानं सद्वृत्तस्यानुवर्तनम्||५३||
आगन्तूनामनुत्पत्तावेष मार्गो निदर्शितः|
प्राज्ञः प्रागेव तत् कुर्याद्धितं विद्याद्यदात्मनः||५४||

आप्तोपदेशप्रज्ञानं प्रतिपत्तिश्च कारणम्|
विकाराणामनुत्पत्तावुत्पन्नानां च शान्तये||५५||

पापवृत्तवचःसत्त्वाः सूचकाः कलहप्रियाः|
मर्मोपहासिनो लुब्धाः परवृद्धिद्विषः शठाः||५६||
परापवादरतयश्चपला रिपुसेविनः|
निर्घृणास्त्यक्तधर्माणः परिवर्ज्या नराधमाः||५७||
बुद्धिविद्यावयःशीलधैर्यस्मृतिसमाधिभिः|
वृद्धोपसेविनो वृद्धाः स्वभावज्ञा गतव्यथाः||५८||
सुमुखाः सर्वभूतानां प्रशान्ताः शंसितव्रताः|
सेव्याः सन्मार्गवक्तारः पुण्यश्रवणदर्शनाः||५९||

आहाराचारचेष्टासु सुखार्थी प्रेत्य चेह च|
परं प्रयत्नमातिष्ठेद्बुद्धिमान् हितसेवने||६०||

न नक्तं दधि भुञ्जीत न चाप्यघृतशर्करम्|
नामुद्गयूषं नाक्षौद्रं नोष्णं नामलकैर्विना ||६१||
ज्वरासृक्पित्तवीसर्पकुष्ठपाण्ड्वामयभ्रमान्|
प्राप्नुयात्कामलां चोग्रां विधिं हित्वा दधिप्रियः||६२||

 

तत्र श्लोकाः-

वेगा वेगसमुत्थाश्च रोगास्तेषां च भेषजम्|
येषां वेगा विधार्याश्च यदर्थं यद्धिताहितम्||६३||
उचिते चाहिते वर्ज्ये सेव्ये चानुचिते क्रमः|
यथाप्रकृति चाहारो मलायनगदौषधम्||६४||
भविष्यतामनुत्पत्तौ रोगाणामौषधं च यत्|
वर्ज्याः सेव्याश्च पुरुषा धीमताऽऽत्मसुखार्थिना||६५||
विधिना दधि सेव्यं च येन यस्मात्तदत्रिजः|
नवेगान्धारणेऽध्याये सर्वमेवावदन्मुनिः||६६||

 

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने नवेगान्धारणीयो नाम सप्तमोऽध्यायः||७||