इन्द्रियस्थानम् - ७. पन्नरूपीयमिन्द्रियम्
अथातः पन्नरूपीयमिन्द्रियं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
दृष्ट्यां यस्य विजानीयात् पन्नरूपां कुमारिकाम्|
प्रतिच्छायामयीमक्ष्णोर्नैनमिच्छेच्चिकित्सितुम्||३||
ज्योत्स्नायामातपे दीपे सलिलादर्शयोरपि|
अङ्गेषु विकृता यस्य च्छाया प्रेतस्तथैव सः||४||
छिन्ना भिन्नाऽऽकुला च्छाया हीना वाऽप्यधिकाऽपि वा|
नष्टा तन्वी द्विधा च्छिन्ना विकृता विशिरा च या||५||
एताश्चान्याश्च याः काश्चित् प्रतिच्छाया विगर्हिताः|
सर्वा मुमूर्षतां ज्ञेया न चेल्लक्ष्यनिमित्तजाः||६||
संस्थानेन प्रमाणेन वर्णेन प्रभया तथा|
छाया विवर्तते यस्य स्वस्थोऽपि प्रेत एव सः||७||
संस्थानमाकृतिर्ज्ञेया सुषमा विषमा च सा|
मध्यमल्पं महच्चोक्तं प्रमाणं त्रिविधं नृणाम्||८||
प्रतिप्रमाणसंस्थाना जलादर्शातपादिषु|
छाया या सा प्रतिच्छाया च्छाया वर्णप्रभाश्रया||९||
खादीनां पञ्च पञ्चानां छाया विविधलक्षणाः|
नाभसी निर्मला नीला सस्नेहा सप्रभेव च||१०||
रूक्षा श्यावारुणा या तु वायवी सा हतप्रभा|
विशुद्धरक्ता त्वाग्नेयी दीप्ताभा दर्शनप्रिया||११||
शुद्धवैदूर्यविमला सुस्निग्धा चाम्भसी मता|
स्थिरा स्निग्धा घना श्लक्ष्णा श्यामा श्वेता च पार्थिवी||१२||
वायवी गर्हिता त्वासां चतस्रः स्युः सुखोदयाः |
वायवी तु विनाशाय क्लेशाय महतेऽपि वा||१३||
स्यात्तैजसी प्रभा सर्वा सा तु सप्तविधा स्मृता|
रक्ता पीता सिता श्यावा हरिता पाण्डुराऽसिता||१४||
तासां याः स्युर्विकासिन्यः स्निग्धाश्च विपुलाश्च याः|
ताः शुभा रूक्षमलिनाः सङ्क्षिप्ताश्चाशुभोदयाः ||१५||
वर्णमाक्रामति च्छाया भास्तु वर्णप्रकाशिनी|
आसन्ना लक्ष्यते च्छाया भाः प्रकृष्टा प्रकाशते||१६||
नाच्छायो नाप्रभः कश्चिद्विशेषाश्चिह्नयन्ति तु|
नृणां शुभाशुभोत्पत्तिं काले छायाप्रभाश्रयाः||१७||
कामलाऽक्ष्णोर्मुखं पूर्णं शङ्खयोर्मुक्तमांसता|
सन्त्रासश्चोष्णगात्रत्वं यस्य तं परिवर्जयेत्||१८||
उत्थाप्यमानः शयनात् प्रमोहं याति यो नरः|
मुहुर्मुहुर्न सप्ताहं स जीवति विकत्थनः ||१९||
संसृष्टा व्याधयो यस्य प्रतिलोमानुलोमगाः|
व्यापन्ना ग्रहणी प्रायः सोऽर्धमासं न जीवति||२०||
उपरुद्धस्य रोगेण कर्शितस्याल्पमश्नतः|
बहु मूत्रपुरीषं स्याद्यस्य तं परिवर्जयेत्||२१||
दुर्बलो बहु भुङ्क्ते यः प्राग्भुक्तादन्नमातुरः |
अल्पमूत्रपुरीषश्च यथा प्रेतस्तथैव सः||२२||
इष्टं च गुणसम्पन्नमन्नमश्नाति यो नरः|
शश्वच्च बलवर्णाभ्यां हीयते न स जीवति||२३||
प्रकूजति प्रश्वसिति शिथिलं चातिसार्यते|
बलहीनः पिपासार्तः शुष्कास्यो न स जीवति||२४||
ह्रस्वं च यः प्रश्वसिति व्याविद्धं स्पन्दते च यः|
मृतमेव तमात्रेयो व्याचचक्षे पुनर्वसुः||२५||
ऊर्ध्वं च यः प्रश्वसिति श्लेष्मणा चाभिभूयते|
हीनवर्णबलाहारो यो नरो न स जीवति||२६||
ऊर्ध्वाग्रे नयने यस्य मन्ये चारतकम्पने|
बलहीनः पिपासार्तः शुष्कास्यो न स जीवति||२७||
यस्य गण्डावुपचितौ ज्वरकासौ च दारुणौ|
शूली प्रद्वेष्टि चाप्यन्नं तस्मिन् कर्म न सिध्यति||२८||
व्यावृत्तमूर्धजिह्वास्यो भ्रुवौ यस्य च विच्युते|
कण्टकैश्चाचिता जिह्वा यथा प्रेतस्तथैव सः||२९||
शेफश्चात्यर्थमुत्सिक्तं निःसृतौ वृषणौ भृशम्|
अतश्चैव विपर्यासो विकृत्या प्रेतलक्षणम्||३०||
निचितं यस्य मांसं स्यात्त्वगस्थिष्वेव दृश्यते|
क्षीणस्यानश्नतस्तस्य मासमायुः परं भवेत्||३१||
तत्र श्लोकः-
इदं लिङ्गमरिष्टाख्यमनेकमभिजज्ञिवान्|
आयुर्वेदविदित्याख्यां लभते कुशलो जनः||३२||
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थानेपन्नरूपीयमिन्द्रियं नाम सप्तमोऽध्यायः||७||