Shree Naval Kishori

चिकित्सास्थानम् - ७. कुष्ठचिकित्सितम्

अथातः कुष्ठचिकित्सितं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||

हेतुं द्रव्यं लिङ्गं कुष्ठानामाश्रयं प्रशमनं च|
शृण्वग्निवेश! सम्यग्विशेषतः स्पर्शनघ्नानाम्||३||

विरोधीन्यन्नपानानि द्रवस्निग्धगुरूणि च|
भजतामागतां छर्दिं वेगांश्चान्यान्प्रतिघ्नताम्||४||
व्यायाममतिसन्तापमतिभुक्त्वोपसेविनाम्|
शीतोष्णलङ्घनाहारान् क्रमं मुक्त्वा निषेविणाम्||५||
घर्मश्रमभयार्तानां द्रुतं शीताम्बुसेविनाम्|
अजीर्णाध्यशिनां चैव पञ्चकर्मापचारिणाम्||६||
नवान्नदधिमत्स्यातिलवणाम्लनिषेविणाम्|
माषमूलकपिष्टान्नतिलक्षीरगुडाशिनाम्||७||
व्यवायं चाप्यजीर्णेऽन्ने निद्रां च भजतां दिवा|
विप्रान् गुरून् धर्षयतां पापं कर्म च कुर्वताम्||८||

वातादयस्त्रयो दुष्टास्त्वग्रक्तं मांसमम्बु च|
दूषयन्ति स कुष्ठानां सप्तको द्रव्यसङ्ग्रहः||९||
अतः कुष्ठानि जायन्ते सप्त चैकादशैव च|
न चैकदोषजं किञ्चित् कुष्ठं समुपलभ्यते||१०||

स्पर्शाज्ञत्वमतिस्वेदो न वा वैवर्ण्यमुन्नतिः|
कोठानां लोमहर्षश्च कण्डूस्तोदः श्रमः क्लमः||११||
व्रणानामधिकं शूलं शीघ्रोत्पत्तिश्चिरस्थितिः|
दाहः सुप्ताङ्गता चेति कुष्ठलक्षणमग्रजम्||१२||

अत ऊर्ध्वमष्टादशानां कुष्ठानां कपालोदुम्बरमण्डलर्ष्यजिह्वपुण्डरीकसिध्मकाकणकैककुष्ठचर्माख्य-

 किटिमविपादिकालसकदद्रुचर्मदलपामाविस्फोटकशतारुर्विचर्चिकानां लक्षणान्युपदेक्ष्यामः||१३||
कृष्णारुणकपालाभं यद्रूक्षं परुषं तनु|
कापालं तोदबहुलं तत्कुष्ठं विषमं स्मृतम्||१४||
दाहकण्डूरुजारागपरीतं लोमपिञ्जरम्|
उदुम्बरफलाभासं कुष्ठमौदुम्बरं विदुः||१५||
श्वेतं रक्तं स्थिरं स्त्यानं स्निग्धमुत्सन्नमण्डलम्|
कृच्छ्रमन्योन्यसंसक्तं कुष्ठं मण्डलमुच्यते||१६||
कर्कशं रक्तपर्यन्तमन्तः श्यावं सवेदनम्|
यदृष्यजिह्वासंस्थानमृष्यजिह्वं तदुच्यते||१७||
सश्वेतं रक्तपर्यन्तं पुण्डरीकदलोपमम्|
सोत्सेधं च सदाहं च पुण्डरीकं तदुच्यते||१८||
श्वेतं ताम्रं तनु च यद्रजो घृष्टं विमुञ्चति|
अलाबूपुष्पवर्णं तत् सिध्मं प्रायेण चोरसि||१९||
यत् काकणन्तिकावर्णमपाकं तीव्रवेदनम्|
त्रिदोषलिङ्गं तत् कुष्ठं काकणं नैव सिध्यति||२०||
इति सप्तमहाकुष्ठानि|

अस्वेदनं महावास्तु यन्मत्स्यशकलोपमम्|
तदेककुष्टं, चर्माख्यं बहलं हस्तिचर्मवत्||२१||
श्यावं किणखरस्पर्शं परुषं किटिमं स्मृतम्|
वैपादिकं पाणिपादस्फुटनं तीव्रवेदनम्||२२||
कण्डूमद्भिः सरागैश्च गण्डैरलसकं चितम्|
सकण्डूरागपिडकं दद्रुमण्डलमुद्गतम्||२३||
रक्तं सकण्डु सस्फोटं सरुग्दलति चापि यत्|
तच्चर्मदलमाख्यातं संस्पर्शासहमुच्यते||२४||
पामाश्वेतारुणश्यावाः कण्डूलाः पिडका भृशम्|
स्फोटाः श्वेतारुणाभासो विस्फोटाः स्युस्तनुत्वचः||२५||
रक्तं श्यावं सदाहार्ति शतारुः स्याद्बहुव्रणम्|
सकण्डूः पिडका श्यावा बहुस्रावा विचर्चिका||२६||
इत्येकादश क्षुद्रकुष्ठानि|

वातेऽधिकतरे कुष्ठं कापालं मण्डलं कफे|
पित्ते त्वौदुम्बरं विद्यात् काकणं तु त्रदोषजम्||२७||
वातपित्ते श्लेष्मपित्ते वातश्लेष्मणि चाधिके|
ऋष्यजिह्वं पुण्डरीकं सिध्मकुष्ठं च जायते||२८||
चर्माख्यमेककुष्ठं च किटिमं सविपादिकम्|
कुष्ठं चालसकं ज्ञेयं प्रायो वातकफाधिकम्||२९||
पामा शतारुर्विस्फोटं दद्रुश्चर्मदलं तथा|
पित्तश्लेष्माधिकं प्रायः कफप्राया विचर्चिका||३०||

सर्वं त्रिदोषजं कुष्ठं दोषाणां तु बलाबलम्|
यथास्वैर्लक्षणैर्बुद्ध्वा कुष्ठानां क्रियते क्रिया||३१||
दोषस्य यस्य पश्येत् कुष्ठेषु विशेषलिङ्गमद्रिक्तम्|
तस्यैव शमं कुर्यात्ततः परं चानुबन्धस्य||३२||

कुष्ठविशेषैर्दोषा दोषविशेषैः पुनश्च कुष्ठानि|
ज्ञायन्ते तैर्हेतुर्हेतुस्तांश्च प्रकाशयति||३३||

रौक्ष्यं शोषस्तोदः शूलं सङ्कोचनं तथाऽऽयामः|
पारुष्यं खरभावो हर्षः श्यावारुणत्वं च||३४||
कुष्ठेषु वातलिङ्गं, दाहो रागः परिस्रवः पाकः|
विस्रो गन्धः क्लेदस्तथाऽङ्गपतनं च पित्तकृतम्||३५||
श्वैत्यं शैत्यं कण्डूः स्थैर्यं चोत्सेधगौरवस्नेहाः|
कुष्ठेषु तु कफलिङ्गं जन्तुभिरभिभक्षणं क्लेदः||३६||

सर्वैर्लिङ्गैर्युक्तं मतिमान् विवर्जयेदबलम्|
तृष्णादाहपरीतं शान्ताग्निं जन्तुभिर्जग्धम्||३७||
वातकफप्रबलं यद्यदेकदोषोल्बणं न तत् कृच्छ्रम्|
कफपित्त-वातपित्तप्रबलानि तु कृच्छ्रसाध्यानि||३८||

वातोत्तरेषु सर्पिर्वमनं श्लेष्मोत्तरेषु कुष्ठेषु|
पित्तोत्तरेषु मोक्षो रक्तस्य विरेचनं चाग्रे||३९||
वमनविरेचनयोगाः कल्पोक्ताः कुष्ठिनां प्रयोक्तव्याः|
प्रच्छनमल्पे कुष्ठे महति च शस्तं सिराव्यधनम्||४०||
बहुदोषः संशोध्यः कुष्ठी बहुशोऽनुरक्षता प्राणान्|
दोषे ह्यतिमात्रहृते वायुर्हन्यादबलमाशु||४१||
स्नेहस्य पानमिष्टं शुद्धे कोष्ठे प्रवाहिते रक्ते|
वायुर्हि शुद्धकोष्ठं कुष्ठिनमबलं विशति शीघ्रम्||४२||

दोषोत्क्लिष्टे हृदये वाम्यः कुष्ठेषु चोर्ध्वभागेषु|
कुटजफलमदनमधुकैः सपटोलैर्निम्बरसयुक्तैः||४३||
शीतरसः पक्वरसो मधूनि मधुकं च वमनानि|
कुष्ठेषु त्रिवृता दन्ती त्रिफला च विरेचने शस्ता||४४||
सौवीरकं तुषोदकमालोडनमासवाश्च सीधूनि|
शंसन्त्यधोहराणां यथाविरेकं क्रमश्चेष्टः||४५||
दार्वीबृहतीसेव्यैः पटोलपिचुमर्दमदनकृतमालैः|
सस्नेहैरास्थाप्यः कुष्ठी सकलिङ्गयवमुस्तैः||४६||
वातोल्बणं विरिक्तं निरूढमनुवासनार्हमालक्ष्य|
फलमधुकनिम्बकुटजैः सपटोलैः साधयेत्स्नेहम्||४७||
सैन्धवदन्तीमरिचं फणिज्झकः पिप्पली करञ्जफलम्|
नस्यं स्यात्सविडङ्गं क्रिमिकुष्ठकफप्रकोपघ्नम् ||४८||
वैरेचनिकैर्धूमैः श्लोकस्थानेरितैः प्रशाम्यन्ति|
कृमयः कुष्ठकिलासाः प्रयोजितैरुत्तमाङ्गस्थाः||४९||

स्थिरकठिनमण्डलानां स्विन्नानां प्रस्तरप्रणाडीभिः|
कूर्चैर्विघट्टितानां रक्तोत्क्लेशोऽपनेतव्यः||५०||
आनूपवारिजानां मांसानां पोट्टलैः सुखोष्णैश्च|
स्विन्नोत्सन्नं विलिखेत् कुष्ठं तीक्ष्णेन शस्त्रेण||५१||
रुधिरागमार्थमथवा शृङ्गालाबूनि योजयेत् कुष्ठे|
प्रच्छितमल्पं कुष्ठं विरेचयेद्वा जलौकोभिः||५२||
ये लेपाः कुष्ठानां युज्यन्ते निर्हृतास्रदोषाणाम्|
संशोधिताशयानां सद्यः सिद्धिर्भवेत्तेषाम्||५३||

येषु न शस्त्रं क्रमते स्पर्शेन्द्रियनाशनानि यानि स्युः|
तेषु निपात्यः क्षारो रक्तं दोषं च विस्राव्य||५४||
पाषाणकठिनपरुषे सुप्ते कुष्ठे स्थिरे पुराणे च|
पीतागदस्य कार्यो विषैः प्रदेहोऽगदैश्चानु||५५||
स्तब्धानि सुप्तसुप्तान्यस्वेदनकण्डुलानि कुष्ठानि|
कूर्चैर्दन्तीत्रिवृताकरवीरकरञ्जकुटजानाम्||५६||
जात्यर्कनिम्बजैर्वा पत्रैः शस्त्रैः समुद्रफेनैर्वा|
घृष्टानि गोमयैर्वा ततः प्रदेहैः प्रदेह्यानि||५७||

मारुतकफकुष्ठघ्नं कर्मोक्तं पित्तकुष्ठिनां कार्यम्|
कफपित्तरक्तहरणं तिक्तकषायैः प्रशमनं च||५८||
सर्पींषि तिक्तकानि च यच्चान्यद्रक्तपित्तनुत् कर्म|
बाह्याभ्यन्तरमग्र्यं तत् कार्यं पित्तकुष्ठेषु||५९||

दोषाधिक्यविभागादित्येतत् कर्म कुष्ठनुत् प्रोक्तम्|
वक्ष्यामि कुष्ठशमनं प्रायस्त्वग्दोषसामान्यात्||६०||
दार्वी रसाञ्जनं वा गोमूत्रेण प्रबाधते कुष्ठम्|
अभया प्रयोजिता वा मासं सव्योषगुडतैला||६१||
मूलं पटोलस्य तथा गवाक्ष्याः पृथक् पलांशं त्रिफलात्वचश्च |
स्यात्त्रायमाणा कटुरोहिणी च भागार्धिका नागरपादयुक्ता||६२||
पलं तथैषां सह चूर्णितानां जले शृतं दोषहरं पिबेन्ना|
जीर्णे रसैर्धन्वमृगद्विजानां पुराणशाल्योदनमाददीत||६३||
कुष्ठानि शोफं ग्रहणीप्रदोषमर्शांसि कृच्छ्राणि हलीमकं च|
षड्रात्रयोगेन निहन्ति चैष हृद्बस्तिशूलं विषमज्वरं च||६४||

मुस्तं व्योषं त्रिफला मञ्जिष्ठा दारु पञ्चमूल्यौ द्वे|
सप्तच्छदनिम्बत्वक् सविशालश्चित्रको मूर्वा||६५||
चूर्णं तर्पणभागैर्नवभिः संयोजितं समध्वाज्यम् |
सिद्धं कुष्ठनिबर्हणमेतत् प्रायोगिकं भक्ष्यम्||६६||
श्वयथुं सपाण्डुरोगं श्वित्रं ग्रहणीप्रदोषमर्शांसि|
ब्रघ्नभगन्दरपिडकाकण्डूकोठांश्च विनिहन्ति||६७||
इति मुस्तादिचूर्णम्|
त्रिफलातिविषाकटुकानिम्बकलिङ्गकवचापटोलानाम्|
मागधिकारजनीद्वयपद्मकमूर्वाविशालानाम्||६८||
भूनिम्बपलाशानां दद्याद्विपलं ततस्त्रिवृद्द्विगुणा|
तस्याश्च पुनर्ब्राह्मी तच्चूर्णं सुप्तिनुत् परमम्||६९||

लेलीतकप्रयोगो रसेन जात्याः समाक्षिकः परमः|
सप्तदशकुष्ठघाती माक्षिकधातुश्च मूत्रेण||७०||
श्रेष्ठं गन्धकयोगात् सुवर्णमाक्षिकप्रयोगाद्वा|
सर्वव्याधिनिबर्हणमद्यात् कुष्ठी रसं च निगृहीतम्||७१||
वज्रशिलाजतुसहितं सहितं वा योगराजेन|
सर्वव्याधिप्रशमनमद्यात्कुष्ठी निगृह्य नित्यं च||७२||

खदिरसुरदारुसारं श्रपयित्वा तद्रसेन तोयार्थः|
क्षौद्रप्रस्थे कार्यः कार्ये ते चाष्टपलिके च||७३||
तत्राश्चूर्णानामष्टपलं प्रक्षिपेत्तथाऽमूनि|
त्रिफलैले त्वङ्मरिचं पत्रं कनकं च कर्षांशम्||७४||
मत्स्यण्डिका मधुसमा तन्मासं जातमायसे भाण्डे|
मध्वासवमाचरतः कुष्ठकिलासे शमं यातः||७५||
इति मध्वासवः|

खदिरकषायद्रोणं कुम्भे घृतभाविते समावाप्य|
द्रव्याणि चूर्णितानि च षट्पलिकान्यत्र देयानि||७६||
त्रिफलाव्योषविडङ्गरजनीमुस्ताटरूषकेन्द्रयवाः|
सौवर्णी च तथा त्वक् छिन्नरुहा चेति तन्मासम्||७७||
निदधीत धान्यमध्ये प्रातः प्रातः पिबेत्ततो युक्त्या|
मासेन महाकुष्ठं हन्त्येवाल्पं तु पक्षेण||७८||
अर्शःश्वासभगन्दरकासकिलासप्रमेहशोषांश्च|
ना भवति कनकवर्णः पीत्वाऽरिष्टं कनकबिन्दुम्||७९||
इति कनकबिन्द्वरिष्टम्|
कुष्ठेष्वनिलकफकृतेष्वेवं पेयस्तथाऽपि पैत्तेषु|
कृतमालक्वाथश्चाप्येष विशेषात् कफकृतेषु||८०||

त्रिफलासवश्च गौडः सचित्रकः कुष्ठरोगविनिहन्ता|
क्रमुकदशमूलदन्तीवराङ्गमधुयोगसंयुक्तः||८१||

लघूनि चान्नानि हितानि विद्यात् कुष्ठेषु शाकनि च तिक्तकानि|
भल्लातकैः सत्रिफलैः सनिम्बैर्युक्तानि चान्नानि घृतानि चैव||८२||
पुराणधान्यान्यथ जाङ्गलानि मांसानि मुद्गाश्च पटोलयुक्ताः|
शस्ता, न गुर्वम्लपयोदधीनि नानूपमत्स्या न गुडस्तिलाश्च||८३||

एला कुष्ठं दार्वी शतपुष्पा चित्रको विडङ्गश्च|
कुष्ठालेपनमिष्टं रसाञ्जनं चाभया चैव||८४||
चित्रकमेलां बिम्बीं वृषकं त्रिवृदर्कनागरकम्|
चूर्णीकृतमष्टाहं भावयितव्यं पलाशस्य||८५||
क्षारेण गवां मूत्रस्रुतेन तेनास्य मण्डलान्याशु|
भिद्यन्ते विलयन्ति च लिप्तान्यर्काभितप्तानि||८६||
मांसी मरिचं लवणं रजनी तगरं सुधा गृहाद्धूमः|
मूत्रं पित्तं क्षारः पालाशः कुष्ठहा लेपः||८७||
त्रपु सीसमयश्चूर्णं मण्डलनुत् फल्गुचित्रकौ बृहती|
गोधारसः सलवणो दारु च मूत्रं च मण्डलनुत्||८८||
कदलीपलाशपाटलिनिचुलक्षाराम्भसा प्रसन्नेन|
मांसेषु तोयकार्यं कार्यं पिष्टे च किण्वे च||८९||
तैर्मेदकः सुजातः किण्वैर्जनितं प्रलेपनं शस्तम्|
मण्डलकुष्ठविनाशनमातपसंस्थं कृमिघ्नं च||९०||
मुस्तं मदनं त्रिफला करञ्ज आरग्वधकलिङ्गयवाः|
दार्वी ससप्तपर्णा स्नानं सिद्धार्थकं नाम||९१||
एष कषायो वमनं विरेचनं वर्णकस्तथोद्घर्षः|
त्वग्दोषकुष्ठशोफप्रबाधनः पाण्डुरोगघ्नः||९२||
कुष्ठं करञ्जबीजान्येडगजः कुष्ठसूदनो लेपः|
प्रपुन्नाडबीजसैन्धवरसाञ्जनकपित्थलोध्राश्च||९३||
श्वेतकरवीरमूलं कुटजकरञ्जयोः फलं त्वचो दार्व्याः|
सुमनःप्रवालयुक्तो लेपः कुष्ठापहः सिद्धः||९४||
लोध्रस्य धातकीनां वत्सकबीजस्य नक्तमालस्य|
कल्कश्च मालतीनां कुष्ठेषून्मर्दनालेपौ||९५||
शैरीषी त्वक् पुष्पं कार्पास्या राजवृक्षपत्राणि|
पिष्टा च काकमाची चतुर्विधः कुष्ठनुल्लेपः||९६||
इति लेपाः|

दार्व्या रसाञ्जनस्य च निम्बपटोलस्य खदिरसारस्य|
आरग्वधवृक्षकयोस्त्रिफलायाः सप्तपर्णस्य||९७||
इति षट् कषाययोगाः कुष्ठघ्नाः सप्तमश्च तिनिशस्य|
स्नाने पाने च हितास्तथाऽष्टमश्चाश्वमारस्य||९८||
आलेपनं प्रघर्षणमवचूर्णनमेत एव च कषायाः|
तैलघृतपाकयोगे चेष्यन्ते कुष्ठशान्त्यर्थम्||९९||
त्रिफला निम्बपटोलं मञ्जिष्ठा रोहिणी वचा रजनी|
एष कषायोऽभ्यस्तो निहन्ति कफपित्तजं कुष्ठम्||१००||
एतैरेव च सर्पिः सिद्धं वातोल्बणं जयति कुष्ठम्|
एष च कल्पो दिष्टः खदिरासनदारुनिम्बानाम्||१०१||

कुष्ठार्कतुत्थकट्फलमूलकबीजानि रोहिणी कटुका|
कुटजफलोत्पलमुस्तं बृहतीकरवीरकासीसम्||१०२||
एडगजनिम्बपाठा दुरालभा चित्रको विडङ्गश्च|
तिक्तालाबुकबीजं कम्पिल्लकसर्षपौ वचा दार्वी||१०३||
एतैस्तैलं सिद्धं कुष्ठघ्नं योग एष चालेपः|
उद्वर्तनं प्रघर्षणमवचूर्णनमेष एवेष्टः||१०४||

श्वेतकरवीरकरसो गोमूत्रं चित्रको विडङ्गश्च|
कुष्ठेषु तैलयोगः सिद्धोऽयं सम्मतो भिषजाम्||१०५||
इति श्वेतकरवीराद्यं तैलम्|

श्वेतकरवीरपल्लवमूलत्वग्वत्सको विडङ्गश्च|
कुष्ठार्कमूलसर्षपशिग्रुत्वग्रोहिणी कटुका||१०६||
एतैस्तैलं सिद्धं कल्कैः पादांशिकैर्गवां मूत्रम्|
दत्त्वा तैलचतुर्गुणमभ्यङ्गात् कुष्ठकण्डूघ्नम्||१०७||
इति श्वेतकरवीरपल्लवाद्यं तैलम्|

तिक्तालाबुकबीजं द्वे तुत्थे रोचना हरिद्रे द्वे|
बृहतीफलमेरण्डः सविशालश्चित्रको मूर्वा||१०८||
कासीसहिङ्गुशिग्रुत्र्यूषणसुरदारुतुम्बुरुविडङ्गम्|
लाङ्गालकं कुटजत्वक् कटुकाख्या रोहिणी चैव||१०९||
सर्षपतैलं कल्कैरेतैर्मूत्रे चतुर्गुणे साध्यम्|
कण्डूकुष्ठविनाशनमभ्यङ्गान्मारुतकफहन्तृ||११०||
इति तिक्तेक्ष्वाक्वादितैलम्|

कनकक्षीरी शैला भार्गी दन्त्याः फलानि मूलं च|
जातीप्रवालसर्षपलशुनविडङ्गं करञ्जत्वक्||१११||
सप्तच्छदार्कपल्लवमूलत्वङ्निम्बचित्रकास्फोताः|
गुञ्जैरण्डं बृहतीमूलकसुरसार्जकफलानि||११२||
कुष्ठं पाठा मुस्तं तुम्बुरुमूर्वावचाः सषड्ग्रन्थाः |
एडगजकुटजशिग्रुत्र्यूषणभल्लातकक्षवकाः||११३||
हरितालमवाक्पुष्पी तुत्थं कम्पिल्लकोऽमृतासञ्ज्ञः|
सौराष्ट्री कासीसं दार्वीत्वक् सर्जिकालवणम्||११४||
कल्कैरेतैस्तैलं करवीरकमूलपल्लवकषाये|
सार्षपमथवा तैलं गोमूत्रचतुर्गुणं साध्यम्||११५||
स्थाप्यं कटुकालाबुनि तत्सिद्धं तेन मण्डलान्याशु|
भिन्द्याद्भिषगभ्यङ्गात्कृमींश्च कण्डूं च विनिहन्यात्||११६||
इति कनकक्षीरीतैलम्|

कुष्ठं तमालपत्रं मरिचं समनःशिलं सकासीसम्|
तैलेन युक्तमुषितं सप्ताहं भाजने ताम्रे||११७||
तेनालिप्तं सिध्मं सप्ताहाह्येति तिष्ठतो घर्मे|
मासान्नवं किलासं स्नानं मुक्त्वा विशुद्धतनोः||११८||
इति सिध्मे लेपः|

सर्षपकरञ्जकोषातकीनां तैलान्यथेङ्गुदीनां च|
कुष्ठेषु हितान्याहुस्तैलं यच्चापि खदिरसारस्य||११९||

जीवन्ती मञ्जिष्ठा दार्वी कम्पिल्लकः पयस्तुत्थम्|
एष घृततैलपाकः सिद्धः सिद्धे च सर्जरसः||१२०||
देयः समधूच्छिष्टो विपादिका तेन शाम्यतेऽभ्यक्ता|
चर्मैककुष्ठकिटिमं कुष्ठं शाम्यत्यलसकं च||१२१||
इति विपादिकाहरघृततैले|
किण्वं वराहरुधिरं पृथ्वीका सैन्धवं च लेपः स्यात्|
लेपो योज्यः कुस्तुम्बुरूणि कुष्ठं च मण्डलनुत्||१२२||
पूतीकदारुजटिलाः पक्वसुरा क्षौद्रमुद्गपर्ण्यौ च|
लेपः सकाकनासो मण्डलकुष्ठापहः सिद्धः||१२३||
चित्रकशोभाञ्जनकौ गुडूच्यपामार्गदेवदारूणि|
खदिरो धवश्च लेपः श्यामा दन्ती द्रवन्ती च||१२४||
लाक्षारसाञ्जनैलाः पुनर्नवा चेति कुष्ठिनो लेपाः|
दधिमण्डयुताः सर्वे देयाः षण्मारुतकफकुष्ठघ्नाः||१२५||
एडगजकुष्ठसैन्धवसौवीरकसर्षपैः कृमिघ्नैश्च|
कृमिकुष्ठमण्डलाख्यं दद्रूकुष्ठं च शममुपैति||१२६||
एडगजः सर्जरसो मूलकबीजं च सिध्मकुष्ठानाम्|
काञ्जिकयुक्तं तु पृथङ्मतमिदमुद्वर्तनं लेपाः||१२७||
वासा तिफला पाने स्नाने चोद्वर्तने प्रलेपे च|
बृहतीसेव्यपटोलाः ससारिवा रोहिणी चैव||१२८||
खदिरावघातककुभरोहीतकलोध्रकुटजधवनिम्बाः|
सप्तच्छदकरवीराः शस्यन्ते स्नानपानेषु||१२९||
जलवाप्यलोहकेशरपत्रप्लवचन्दनं मृणालानि|
भागोत्तराणि सिद्धं प्रलेपनं पित्तकफकुष्ठे||१३०||
यष्ट्याह्वलोध्रपद्मकपटोलपिचुमर्दचन्दनरसाश्च|
स्नाने पाने च हिताः सुशीतलाः पित्तकुष्ठिभ्यः||१३१||
आलेपनं प्रियङ्गुर्हरेणुका वत्सकस्य च फलानि|
सातिविषा च ससेव्या सचन्दना रोहिणी कटुका||१३२||
तिक्तघृतैर्धौतघृतैरभ्यङ्गो दह्यमानकुष्ठेषु|
तैलैश्चन्दनमधुकप्रपौण्डरीकोत्पलयुतैश्च||१३३||
क्लेदे प्रपतति चाङ्गे दाहे विस्फोटके सचर्मदले|
शीताः प्रदेहसेका व्यधो विरेको घृतं तिक्तम्||१३४||

खदिरघृतं निम्बघृतं दार्वीघृतमुत्तमं पटोलघृतम्|
कुष्ठेषु रक्तपित्तप्रबलेषु भिषग्जितं सिद्धम्||१३५||

त्रिफलात्वचोऽर्धपलिकाः पटोलपत्रं च कार्षिकाः शेषाः|
कटुरोहिणी सनिम्बा यष्ट्याह्वा त्रायमाणा च||१३६||
एष कषायः साध्यो दत्त्वा द्विपलं मसूरविदलानाम्|
सलिलाढकेऽष्टभागे शेषे पूतो रसो ग्राह्यः||१३७||
ते च कषायेऽष्टपले चतुष्पलं सर्पिषश्च पक्तव्यम्|
यावत्स्यादष्टपलं शेषं पेयं ततः कोष्णम्||१३८||
तद्वातपित्तकुष्ठं वीसर्पं वातशोणितं प्रबलम्|
ज्वरदाहगुल्मविद्रधिविभ्रमविस्फोटकान् हन्ति||१३९||

निम्बपटोलं दार्वीं दुरालभां तिक्तरोहिणीं त्रिफलाम्|
कुर्यादर्धदलांशं पर्पटकं त्रायमाणां च||१४०||
सलिलाढकसिद्धानां रसेऽष्टभागस्थिते क्षिपेत् पूते|
चन्दनकिराततिक्तकमागधिकास्त्रायमाणां च||१४१||
मुस्तं वत्सकबीजं कल्कीकृत्यार्धकार्षिकान् भागान्|
नवसर्पिषश्च षट्पलमेतत्सिद्धं घृतं पेयम्||१४२||
कुष्ठज्वरगुल्मार्शोग्रहणीपाण्ड्वामयश्वयथुहारि|
पामाविसर्पपिडकाकण्डूमदगण्डनुत्सिद्धम्||१४३||
इति तिक्तषट्पलकं घृतम्|

सप्तच्छदं प्रतिविषां शम्पाकं तिक्तरोहिणीं पाठाम्|
मुस्तमुशीरं त्रिफलां पटोलपिचुमर्दपर्पटकम्||१४४||
धन्वयवासं चन्दनमुपकुल्यां पद्मकं हरिद्रे द्वे|
षड्ग्रन्थां सविशालां शतावरीं सारिवे चोभे||१४५||
वत्सकबीजं यासं मूर्वाममृतां किराततिक्तं च|
कल्कान् कुर्यान्मतिमान्यष्ट्याह्वं त्रायमाणां च||१४६||
कल्कश्चातुर्भागो जलमष्टगुणं रसोऽमृतफलानाम्|
द्विगुणो घृतात्प्रदेयस्तत्सर्पिः पाययेत्सिद्धम्||१४७||
कुष्ठानि रक्तपित्तप्रबलान्यर्शांसि रक्तवाहीनि|
वीसर्पमम्लपित्तं वातासृक् पाण्डुरोगं च||१४८||
विस्फोटकान्सपामानुन्मादं कामलां ज्वरं कण्डूम्|
हृद्रोगगुल्मपिडका असृग्दरं गण्दमालां च||१४९||
हन्यादेतत् सर्पिः पीतं काले यथाबलं सद्यः|
योगशतैरप्यजितान्महाविकारान्महातिक्तम्||१५०||
इति महातिक्तकं घृतम्|

दोषे हृतेऽपनीते रक्ते बाह्यान्तरे कृते शमने |
स्नेहे च कालयुक्ते न कुष्ठमनुवर्तते साध्यम्||१५१||

खदिरस्य तुलाः पञ्च शिंशपासनयोस्तुले|
तुलार्धाः सर्व एवैते करञ्जारिष्टवेतसाः||१५२||
पर्पटः कुटजश्चैव वृषः कृमिहरस्तथा|
हरिद्रे कृतमालश्च गुडूची त्रिफला त्रिवृत्||१५३||
सप्तपर्णश्च सङ्क्षुण्णा दशद्रोणेषु वारिणः|
अष्टभागावशेषं तु कषायमवतारयेत्||१५४||
धात्रीरसं च तुल्यांशं सर्पिषश्चाढकं पचेत्|
महातिक्तककल्कैस्तु यथोक्तैः पलसम्मितैः||१५५||
निहन्ति सर्वकुष्ठानि पानाभ्यङ्गनिषेवणात्|
महाखदिरमित्येतत् परं कुष्ठविकारनुत्||१५६||
इति महाखदिरं घृतम्|

प्रपतत्सु लसीकाप्रस्रुतेषु गात्रेषु जन्तुजग्धेषु|
मूत्रं निम्बविडङ्गे स्नानं पानं प्रदेहश्च||१५७||
वृषकुटजसप्तपर्णाः करवीरकरञ्जनिम्बखदिराश्च|
स्नाने पाने लेपे क्रिमिकुष्ठनुदः सगोमूत्राः||१५८||
पानाहारविधाने प्रसेचने धूपने प्रदेहे च|
कृमिनाशनं विडङ्गं विशिष्यते कुष्ठहा खदिरः||१५९||
एडगजः सविडङ्गो मूलान्यारग्वधस्य कुष्ठानाम्|
उद्दालनं श्वदन्ता गोश्ववराहोष्ट्रदन्ताश्च||१६०||
एदगजः सविडङ्गो द्वे च निशे राजवृक्षमूलं च|
कुष्ठोद्दालनमग्र्यं सपिप्पलीपाकलं योज्यम्||१६१||

श्वित्राणां सविशेषं योक्तव्यं सर्वतो विशुद्धानाम्|
श्वित्रे स्रंसनमग्र्यं मलपूरस इष्यते सगुडः||१६२||
तं पीत्वा सुस्निग्धो यथाबलं सूर्यपादसन्तापम्|
संसेवेत विरिक्तस्त्र्यहं पिपासुः पिबेत् पेयाम्||१६३||
श्वित्रेऽङ्गे ये स्फोटा जायन्ते कण्टकेन तान्भिन्द्यात्|
स्फोटेषु विस्रुतेषु प्रातः प्रातः पिबेत् पक्षम्||१६४||
मलपूमसनं प्रियङ्गुं शतपुष्पां चाम्भसा समुत्क्वाथ्य|
पालाशं वा क्षारं यथाबलं फाणितोपेतम्||१६५||
यच्चान्यत् कुष्ठघ्नं श्वित्राणां सर्वमेव तच्छस्तम्|
खदिरोदकसंयुक्तं खदिरोदकपानग्र्यं वा||१६६||
समनःशिलं विडङ्गं कासीसं रोचनां कनकपुष्पीम्|
श्वित्राणां प्रशमार्थं ससैन्धवं लेपनं दद्यात्||१६७||
कदलीक्षारयुतं वा खरास्थि दग्धं गवां रुधिरयुक्तम्|
हस्तिमदाध्युषितं वा मालत्याः कोरकक्षारम्||१६८||
नीलोत्पलं सकुष्ठं ससैन्धवं हस्तिमूत्रपिष्टं वा|
मूलकबीजावल्गुजलेपः पिष्टो गवां मूत्रे||१६९||
काकोदुम्बरिका वा सावल्गुजचित्रका गवां मूत्रे|
पिष्टा मनःशिला वा संयुक्ता बर्हिपित्तेन||१७०||
लेपः किलासहन्ता बीजान्यावल्गुजानि लाक्षा च|
गोपित्तमञ्जने द्वे पिप्पल्यः काललोहरजः||१७१||
शुद्ध्या शोणितमोक्षैर्विरूक्षणैर्भक्षणैश्च सक्तूनाम्|
श्वित्रं कस्यचिदेव प्रणश्यति क्षीणपापस्य||१७२||

दारुणं चारुणं श्वित्रं किलासं नामभिस्त्रिभिः|
विज्ञेयं त्रिविधं तच्च त्रिदोषं प्रायशश्च तत्||१७३||
दोषे रक्ताश्रिते रक्तं ताम्रं मांससमाश्रिते|
श्वेतं मेदःश्रिते श्वित्रं गुरु तच्चोत्तरोत्तरम्||१७४||
यत् परस्परतोऽभिन्नं बहु यद्रक्तलोमवत्|
यच्च वर्षगणोत्पन्नं तच्छ्वित्रं नैव सिध्यति||१७५||
अरक्तलोम तनु यत् पाण्डु नातिचिरोत्थितम्|
मध्यावकाशे चोच्छूनं श्वित्रं तत्साध्यमुच्यते||१७६||

वचांस्यतथ्यानि कृतघ्नभावो निन्दा सुराणां गुरुधर्षणं च|
पापक्रिया पूर्वकृतं च कर्म हेतुः किलासस्य विरोधि चान्नम्||१७७||

तत्र श्लोकाः-

हेतुर्द्रव्यं लिङ्गं विविधं ये येषु चाधिका दोषाः|
कुष्ठेषु दोषलिङ्गं समासतो दोषनिर्देशः||१७८||
साध्यमसाध्यं कृच्छ्रं कुष्ठं कुष्ठापहाश्च ये योगाः|
सिद्धाः किलासहेतुर्लिङ्गं गुरुलाघवं तथा शान्तिः||१७९||
इति सङ्ग्रहः प्रणीतो महर्षिणा कुष्ठनाशनेऽध्याये|
स्मृतिबुद्धिवर्घनार्थं शिष्याय हुताशवेशाय||१८०||

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सितस्थानेकुष्ठचिकित्सितं नाम सप्तमोऽध्यायः||७||