Shree Naval Kishori

इन्द्रियस्थानम् - ८. अवाक्शिरसीयमिन्द्रियम्

अथातोऽवाक्शिरसीयमिन्द्रियं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||

अवाक्शिरा वा जिह्मा वा यस्य वा विशिरा भवेत्|
जन्तो रूपप्रतिच्छाया नैनमिच्छेच्चिकित्सितुम्||३||
जटीभूतानि पक्ष्माणि दृष्टिश्चापि निगृह्यते |
यस्य जन्तोर्न तं धीरो भेषजेनोपपादयेत्||४||
यस्य शूनानि वर्त्मानि न समायान्ति शुष्यतः|
चक्षुषी चोपदिह्येते यथा प्रेतस्तथैव सः||५||
भ्रुवोर्वा यदि वा मूर्ध्नि सीमन्तावर्तकान् बहून्|
अपूर्वानकृतान् व्यक्तान् दृष्ट्वा मरणमादिशेत्||६||
त्र्यहमेतेन जीवन्ति लक्षणेनातुरा नराः|
अरोगाणां पुनस्त्वेतत् षड्रात्रं परमुच्यते ||७||

आयम्योत्पाटितान् केशान् यो नरो नावबुध्यते|
अनातुरो वा रोगी वा षड्रात्रं नातिवर्तते||८||
यस्य केशा निरभ्यङ्गा दृश्यन्तेऽभ्यक्तसन्निभाः|
उपरुद्धायुषं ज्ञात्वा तं धीरः परिवर्जयेत्||९||
ग्लायते नासिकावंशः पृथुत्वं यस्य गच्छति|
अशूनः शूनसङ्काशः प्रत्याख्येयः स जानता||१०||
अत्यर्थविवृता यस्य यस्य चात्यर्थसंवृता|
जिह्मा वा परिशुष्का वा नासिका न स जीवति||११||
मुखं शब्दश्रवावोष्ठौ शुक्लश्यावातिलोहितौ|
विकृत्या यस्य वा नीलौ न स रोगाद्विमुच्यते||१२||

अस्थिश्वेता द्विजा यस्य पुष्पिताः पङ्कसंवृताः|
विकृत्या न स रोगं तं विहायारोग्यमश्नुते||१३||
स्तब्धा निश्चेतना गुर्वी कण्टकोपचिता भृशम्|
श्यावा शुष्काऽथवा शूना प्रेतजिह्वा विसर्पिणी||१४||
दीर्घमुच्छ्वस्य यो ह्रस्वं नरो निःश्वस्य ताम्यति|
उपरुद्धायुषं ज्ञात्वा तं धीरः परिवर्जयेत्||१५||
हस्तौ पादौ च मन्ये च तालु चैवातिशीतलम्|
भवत्यायुःक्षये क्रूरमथवाऽपि भवेन्मृदु||१६||
घट्टयञ्जानुना जानु पादावुद्यम्य पातयन्|
योऽपास्यति मुहुर्वक्रमातुरो न स जीवति||१७||
दन्तैश्छिन्दन्नखाग्राणि नखैच्छिन्दञ्छिरोरुहान्|
काष्ठेन भूमिं विलिखन्न रोगात् परिमुच्यते||१८||
दन्तान् खादति यो जाग्रदसाम्ना विरुदन् हसन्|
विजानाति न चेद्दुःखं न स रोगाद्विमुच्यते||१९||
मुहुर्हसन् मुहुः क्ष्वेडन् शय्यां पादेन हन्ति यः|
उच्चैश्छिद्राणि विमृशन्नातुरो न स जीवति||२०||
यैर्विन्दति पुरा भावैः समेतैः परमां रतिम्|
तैरेवारममाणस्य ग्लास्नोर्मरणमादिशेत्||२१||
न बिभर्ति शिरो ग्रीवा न पृष्ठं भारमात्मनः|
न हनू पिण्डमास्यस्थमातुरस्य मुमूर्षतः||२२||
सहसा ज्वरसन्तापस्तृष्णा मूर्च्छा बलक्षयः|
विश्लेषणं च सन्धीनां मुमूर्षोरुपजायते||२३||
गोसर्गे वदनाद्यस्य स्वेदः प्रच्यवते भृशम्|
लेपज्वरोपतप्तस्य दुर्लभं तस्य जीवितम्||२४||
नोपैति कण्ठमाहारो जिह्वा कण्ठमुपैति च|
आयुष्यन्तं गते जन्तोर्बलं च परिहीयते||२५||
शिरो विक्षिपते कृच्छ्रान्मुञ्चयित्वा प्रपाणिकौ|
ललाटस्रुप्रतस्वेदो मुमूर्षुश्च्युतबन्धनः ||२६||


तत्र श्लोकः-


इमानि लिङ्गानि नरेषु बुद्धिमान् विभावयेतावहितो मुमूर्षुषु|
क्षणेन भूत्वा ह्युपयान्ति कानिचिन्नचाफलं लिङ्गमिहास्ति किञ्चन||२७||

 

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेइन्द्रियस्थानेऽवाक्शिरसीयमिन्द्रियं नामाष्टमोऽध्यायः||८||