Shree Naval Kishori

चिकित्सास्थानम् - ९. उन्मादचिकित्सितम्

अथात उन्मादचिकित्सितं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||

बुद्धिस्मृतिज्ञानतपोनिवासः पुनर्वसुः प्राणभृतां शरण्यः|
उन्मादहेत्वाकृतिभेषजानि कालेऽग्निवेशाय शशंस पृष्टः||३||

विरुद्धदुष्टाशुचिभोजनानि प्रधर्षणं देवगुरुद्विजानाम्|
उन्मादहेतुर्भयहर्षपूर्वो मनोऽभिघातो विषमाश्च चेष्टाः||४||

तैरल्पसत्त्वस्य मलाः प्रदुष्टा बुद्धेर्निवासं हृदयं प्रदूष्य|
स्रोतांस्यधिष्ठाय मनोवहानि प्रमोहयन्त्याशु नरस्य चेतः||५||

धीविभ्रमः सत्त्वपरिप्लवश्च पर्याकुला दृष्टिरधीरता च|
अबद्धवाक्त्वं हृदयं च शून्यं सामान्यमुन्मादगदस्य लिङ्गम्||६||
स मूढचेता न सुखं न दुःखं नाचारधर्मौ कुत एव शान्तिम्|
विन्दत्यपास्तस्मृतिबुद्धिसञ्ज्ञो भ्रमत्ययं चेत इतस्ततश्च||७||

समुद्भ्रमं बुद्धिमनःस्मृतीनामुन्मादमागन्तुनिजोत्थमाहुः|८|

तस्योद्भवं पञ्चविधं पृथक् तु वक्ष्यामि लिङ्गानि चिकित्सितं च||८||
रूक्षाल्पशीतान्नविरेकधातुक्षयोपवासैरनिलोऽतिवृद्धः|
चिन्तादिजुष्टं हृदयं प्रदूष्य बुद्धिं स्मृतिं चाप्युपहन्ति शीघ्रम्||९||
अस्थानहासस्मितनृत्यगीतवागङ्गविक्षेपणरोदनानि|
पारुष्यकार्श्यारुणवर्णताश्च जीर्णे बलं चानिलजस्य रूपम्||१०||

अजीर्णकट्वम्लविदाह्यशीतैर्भोज्यैश्चितं पित्तमुदीर्णवेगम्|
उन्मादमत्युग्रमनात्मकस्य हृदि श्रितं पूर्ववदाशु कुर्यात्||११||
अमर्षसंरम्भविनग्नभावाः सन्तर्जनातिद्रवणौष्ण्यरोषाः |
प्रच्छायशीतान्नजलाभिलाषाः पीता च भाः पित्तकृतस्य लिङ्गम्||१२||

सम्पूरणैर्मन्दविचेष्टितस्य सोष्मा कफो मर्मणि सम्प्रवृद्धः|
बुद्धिं स्मृतिं चाप्युपहत्य चित्तं प्रमोहयन् सञ्जनयेद्विकारम्||१३||
वाक्चेष्टितं मन्दमरोचकश्च नारीविविक्तप्रियताऽतिनिद्रा|
छर्दिश्च लाला च बलं च भुङ्क्ते नखादिशौक्ल्यं च कफात्मकस्य||१४||

यः सन्निपातप्रभवोऽतिघोरः सर्वैः समस्तैः स च हेतुभिः स्यात्|
सर्वाणि रूपाणि बिभर्ति तादृग्विरुद्घभैषज्यविधिर्विवर्ज्यः||१५||

देवर्षिगन्धर्वपिशाचयक्षरक्षःपितॄणामभिधर्षणानि|
आगन्तुहेतुर्नियमव्रतादि मिथ्याकृतं कर्म च पूर्वदेहे||१६||

अमर्त्यवाग्विक्रमवीर्यचेष्टो ज्ञानादिविज्ञानबलादिभिर्यः|
उन्मादकालोऽनियतश्च यस्य भूतोत्थमुन्मादमुदाहरेत्तम्||१७||

अदूषयन्तः पुरुषस्य देहं देवादयः स्वैस्तु गुणप्रभावैः|
विशन्त्यदृश्यास्तरसा यथैव च्छायातपौ दर्पणसूर्यकान्तौ||१८||

आघातकालो हि स पूर्वरूपः प्रोक्तो निदानेऽथ सुरादिभिश्च|
उन्मादरूपाणि पृथङ्निबोध कालं च गम्यान् पुरुषांश्च तेषाम्||१९||

तद्यथा- सौम्यदृष्टिं गम्भीरमधृष्यमकोपनमस्वप्नभोजनाभिलाषिणमल्पस्वेदमूत्रपुरीषवातं 

शुभगन्धं फुल्लपद्मवदनमिति देवोन्मत्तं विद्यात्; गुरुवृद्धसिद्धर्षीणामभिशापाभिचाराभिध्यानानुरूपचेष्टाहारव्याहारं 

तैरुन्मत्तं विद्यात्; अप्रसन्नदृष्टिमपश्यन्तं निद्रालुं प्रतिहतवाचमनन्नाभिलाषमरोचकाविपाकपरीतं च 

पितृभिरुन्मत्तं विद्यात्; (चण्डं साहसिकं तीक्ष्णं गम्भीरमधृष्यं) मुखवाद्यनृत्यगीतान्नपानस्नानमाल्यधूपगन्धरतिं 

रक्तवस्त्रबलिकर्महास्यकथानुयोगप्रियं शुभगन्धं च गन्धर्वोन्मत्तं विद्यात्; असकृत्स्वप्नरोदनहास्यं 

नृत्यगीतवाद्यपाठकथान्नपानस्नानमाल्यधूपगन्धरतिं रक्तविप्लुताक्षं द्विजातिवैद्यपरिवादिनं रहस्यभाषिणं 

च यक्षोन्मत्तं विद्यात्; नष्टनिद्रमन्नपानद्वेषिणमनाहारमप्यतिबलिनं शस्त्रशोणितमांसरक्तमाल्याभिलाषिणं 

सन्तर्जकं च राक्षसोन्मत्तं विद्यात्; प्रहासनृत्यप्रधानं देवविप्रवैद्यद्वेषावज्ञाभिः स्तुतिवेदमन्त्रशास्त्रोदाहरणैः 

काष्ठादिभिरात्मपीडनेन च ब्रह्मराक्षसोन्मत्तं विद्यात्; अस्वस्थचित्तं स्थानमलभमानं नृत्यगीतहासिनं 

बद्धाबद्धप्रलापिनं सङ्करकूटमलिनरथ्याचेलतृणाश्मकाष्ठाधिरोहणरतिं भिन्नरूक्षस्वरं नग्नं 

विधावन्तं नैकत्र तिष्ठन्तं दुःखान्यावेदयन्तं नष्टस्मृतिं च पिशाचोन्मत्तं विद्यात्||२०||

तत्र चौक्षाचारं तपःस्वाध्यायकोविदं नरं प्रायः शुक्लप्रतिपदि त्रयोदश्यां च छिद्रमवेक्ष्याभिधर्षयन्ति देवाः, 

स्नानशुचिविविक्तसेविनं धर्मशास्त्रश्रुतिवाक्यकुशलं प्रायः षष्ठ्यां नवम्यां चर्षयः, 

मातृपितृगुरुवृद्धसिद्धाचार्योपसेविनं प्रायो दशम्याममावस्यायां च पितरः, गन्धर्वाः स्तुतिगीतवादित्ररतिं 

परदारगन्धमाल्यप्रियं चौक्षाचारं प्रायो द्वादश्यां चतुर्दश्यां च, सत्त्वबलरूपगर्वशौर्ययुक्तं 

माल्यानुलेपनहास्यप्रियमतिवाक्करणं प्रायः शुक्लैकादश्यां सप्तम्यां च यक्षाः, 

स्वाध्यायतपोनियमोपवासब्रह्मचर्यदेवयतिगुरुपूजाऽरतिं भ्रष्टशौचं ब्राह्मणमब्राह्मणं वा ब्राह्म्णवादिनं 

शूरमानिनं देवागारसलिलक्रीडनरतिं प्रायः शुक्लपञ्चम्यां पूर्णचन्द्रदर्शने च ब्रह्मराक्षसाः, 

रक्षःपिशाचास्तु हीनसत्त्वं पिशुनं स्त्रैणं लुब्धं शठं प्रायो द्वितीयातृतीयाष्टमीषु; इत्यपरिसङ्ख्येयानां 

ग्रहाणामाविष्कृततमा ह्यष्टावेते व्याख्याताः||२१||

सर्वेष्वपि तु खल्वेषु यो हस्तावुद्यम्य रोषसंरम्भान्निःशङ्कमन्येष्वात्मनि वा निपातयेत् स ह्यसाध्यो ज्ञेयः; 

तथा यः साश्रुनेत्रो मेढ्रप्रवृत्तरक्तः क्षतजिह्वः प्रस्रुतनासिकश्छिद्यमानचर्माऽप्रतिहन्यमानवाणिः 

सततं विकूजन् दुर्वर्णस्तृषार्तः पूतिगन्धश्च स हिंसार्थिनोन्मत्तो ज्ञेयः; तं परिवर्जयेत्||२२||

रत्यर्चनाकामोन्मादिनौ तु भिषगभिप्रायाचाराभ्यां बुद्ध्वा तदङ्गोपहारबलिमिश्रेण|
मन्त्रभैषज्यविधिनोपक्रमेत्||२३||

तत्र द्वयोरपि निजागन्तुनिमित्तयोरुन्मादयोः समासविस्तराभ्यां भेषजविधिमनुव्याख्यास्यामः||२४||
उन्मादे वातजे पूर्वं स्नेहपानं विशेषवित्|
कुर्यादावृतमार्गे तु सस्नेहं मृदु शोधनम्||२५||
कफपित्तोद्भवेऽप्यादौ वमनं सविरेचनम्|
स्निग्धस्विन्नस्य कर्तव्यं शुद्धे संसर्जनक्रमः||२६||
निरूहं स्नेहबस्तिं च शिरसश्च विरेचनम्|
ततः कुर्याद्यथादोषं तेषां भूयस्त्वमाचरेत्||२७||
हृदिन्द्रियशिरःकोष्ठे संशुद्धे वमनादिभिः|
मनःप्रसादमाप्नोति स्मृतिं सञ्ज्ञां च विन्दति||२८||
शुद्धस्याचारविभ्रंशे तीक्ष्णं नावनमञ्जनम्|
ताडनं च मनोबुद्धिदेहसंवेजनं हितम्||२९||
यः सक्तोऽविनये पट्टैः संयम्य सुदृढैः सुखैः|
अपेतलोहकाष्ठाद्ये संरोध्यश्च तमोगृहे||३०||
तर्जनं त्रासनं दानं हर्षणं सान्त्वनं भयम्|
विस्मयो विस्मृतेर्हेतोर्नयन्ति प्रकृतिं मनः||३१||
प्रदेहोत्सादनाभ्यङ्गधूमाः पानं च सर्पिषः|
प्रयोक्तव्यं मनोबुद्धिस्मृतिसञ्ज्ञाप्रबोधनम्||३२||
सर्पिःपानादिरागन्तोर्मन्त्रादिश्चेष्यते विधिः|३३|

अतः सिद्धतमान्योगाञ्छृणून्मादविनाशनान्||३३||
हिङ्गुसौवर्चलव्योषैर्द्विपलांशैर्घृताढकम्|
चतुर्गुणे गवां मूत्रे सिद्धमुन्मादनाशनम्||३४||
विशाला त्रिफला कौन्ती देवदार्वेलवालुकम्|
स्थिरा नतं रजन्यौ द्वे सारिवे द्वे प्रियङ्गुका||३५||
नीलोत्पलैलामञ्जिष्ठादन्तीदाडिमकेशरम्|
तालीशपत्रं बृहती मालत्याः कुसुमं नवम्||३६||
विडङ्गं पृश्निपर्णी च कुष्ठं चन्दनपद्मकौ|
अष्टाविंशतिभिः कल्कैरेतैरक्षसमन्वितैः||३७||
चतुर्गुणे जले सम्यग्घृतप्रस्थं विपाचयेत्|
अपस्मारे ज्वरे कासे शोषे मन्देऽनले क्षये||३८||
वातरक्ते प्रतिश्याये तृतीयकचतुर्थके|
छर्द्यर्शोमूत्रकृच्छ्रेषु विसर्पोपहतेषु च||३९||
कण्डूपाण्ड्वामयोन्मादविषमेहगदेषु च|
भूतोपहतचित्तानां गद्गदानामचेसाम्||४०||
शस्तं स्त्रीणां च वन्ध्यानां धन्यमायुर्बलप्रदम्|
अलक्ष्मीपापरक्षोघ्नं सर्वग्रहविनाशनम्||४१||
कल्याणकमिदं सर्पिः श्रेष्ठं पुंसवनेषु च|
इति कल्याणकं घृतम्|

एभ्य एव स्थिरादीनि जले पक्त्वैकविंशतिम्||४२||
रसे तस्मिन् पचेत् सर्पिर्गृष्टिक्षीरे चतुर्गुणे|
वीरार्द्रमाषकाकोलीस्वयङ्गुप्तर्षभर्धिभिः||४३||
मेदया च समैः कल्कैस्तत् स्यात् कल्याणकं महत्|
बृंहणीयं विशेषेण सन्निपातहरं परम्||४४||
इति महाकल्याणकं घृतम्|

जटिलां पूतनां केशीं चारटीं मर्कटीं वचाम्|
त्रायमाणां जयां वीरां चोरकं कटुरोहिणीम्||४५||
वयःस्थां शूकरीं छत्रामतिच्छत्रां पलङ्कषाम्|
महापुरुषदन्तां च कायस्थां नाकुलीद्वयम्||४६||
कटम्भरां वृश्चिकालीं स्थिरां चाहृत्य तैर्घृतम्|
सिद्धं चातुर्थकोन्मादग्रहापस्मारनाशनम्||४७||
महापैशाचिकं नाम घृतमेतद्यथाऽमृतम्|
बुद्धिस्मृतिकरं चैव बालानां चाङ्गवर्धनम्||४८||
इति महापैशाचिकं घृतम्|

लशुनानां शतं त्रिंशदभयास्त्र्यूषणात् पलम्|
गवां चर्ममसीप्रस्थो द्व्याढकं क्षीरमूत्रयोः||४९||
पुराणसर्पिषः प्रस्थ एभिः सिद्धं प्रयोजयेत्|
हिङ्गुचूर्णपलं शीते दत्त्वा च मधुमाणिकाम्||५०||
तद्दोषागन्तुसम्भूतानुन्मादान् विषमज्वरान्|
अपस्मारांश्च हन्त्याशु पानाभ्यञ्जननावनैः||५१||
इति लशुनाद्यं घृतम्|
लशुनस्याविनष्टस्य तुलार्धं निस्तुषीकृतम्|
तदर्धं दशमूलस्य द्व्याढकेऽपां विपाचयेत्||५२||
पादशेषे घृतप्रस्थं लशुनस्य रसं तथा|
कोलमूलकवृक्षाम्लमातुलुङ्गार्द्रकै रसैः||५३||
दाडिमाम्बुसुरामस्तुकाञ्जिकाम्लैस्तदर्धिकैः|
साधयेत्त्रिफलादारुलवणव्योषदीप्यकैः||५४||
यवानीचव्यहिङ्ग्वम्लवेतसैश्च पलार्धिकैः|
सिद्धमेतत् पिबेच्छूलगुल्मार्शोजठरापहम्||५५||
ब्रध्नपाण्ड्वामयप्लीहयोनिदोषज्वरकृमीन्|
वातश्लेष्मामयान् सर्वानुन्मादांश्चापकर्षति||५६||
इत्यपरं लशुनाद्यं घृतम्|

हिङ्गुना हिङ्गुपर्ण्या च सकायस्थवयःस्थया|
सिद्धं सर्पिर्हितं तद्वद्वयःस्थाहिङ्गुचोरकैः||५७||
केवलं सिद्धमेभिर्वा पुराणं पाययेद्घृतम्|
पाययित्वोत्तमां मात्रां श्वभ्रे रुन्ध्याद्गृहेऽपि वा||५८||
विशेषतः पुराणं च घृतं तं पाययेद्भिषक्|
त्रिदोषघ्नं पवित्रत्वाद्विशेषाद्ग्रहनाशनम्||५९||
गुणकर्माधिकं पानादास्वादात् कटुतिक्तकम्|
उग्रगन्धं पुराणं स्याद्दशवर्षस्थितं घृतम्||६०||
लाक्षारसनिभं शीतं तद्धि सर्वग्रहापहम्|
मेध्यं विरेचनेष्वग्र्यं प्रपुराणमतः परम्||६१||
नासाध्यं नाम तस्यास्ति यत् स्याद्वर्षशतस्थितम्|
दृष्टं स्पृष्टमथाघ्रातं तद्धि सर्वग्रहापहम्||६२||
अपस्मारग्रहोन्मादवतां शस्तं विशेषतः|६३|

एतानौषधयोगान् वा विधेयत्वमगच्छति||६३||
अञ्जनोत्सादनालेपनावनादिषु योजयेत्|
शिरीषो मधुकं हिङ्गु लशुनं तगरं वचा||६४||
कुष्ठं च बस्तमूत्रेण पिष्टं स्यान्नावनाञ्जनम्|
तद्वद्व्योषं हरिद्रे द्वे मञ्जिष्ठाहिङ्गुसर्षपाः||६५||
शिरीषबीजं चोन्मादग्रहापस्मारनाशनम्|
पिष्ट्वा तुल्यमपामार्गं हिङ्ग्वालं हिङ्गुपत्रिकाम्||६६||
वार्तिः स्यान्मरिचार्धांशा पित्ताभ्यां गोशृगालयोः|
तयाऽञ्जयेदपस्मारभूतोन्मादज्वरार्दितान्||६७||
भूतार्तानमरार्तांश्च नरांश्चैव दृगामये|
मरिचं चातपे मांसं सपित्तं स्थितमञ्जनम्||६८||
वैकृतं पश्यतः कार्यं दोषभूतहतस्मृतेः|
सिद्धार्थको वचा हिङ्गु करञ्जो देवदारु च||६९||
मञ्जिष्ठा त्रिफला श्वेता कटभीत्वक् कटुत्रिकम्|
समांशानि प्रियङ्गुश्च शिरीषो रजनीद्वयम्||७०||
बस्तमूत्रेण पिष्टोऽयमगदः पानमञ्जनम्|
नस्यमालेपनं चैव स्नानमुद्वर्तनं तथा||७१||
अपस्मारविषोन्मादकृत्यालक्ष्मीज्वरापहः|
भूतेभ्यश्च भयं हन्ति राजद्वारे च शस्यते||७२||
सर्पिरेतेन सिद्धं वा सगोमूत्रं तदर्थकृत्|
प्रसेके पीनसे गन्धैर्धूमवर्तिं कृतां पिबेत्||७३||
वैरेचनिकधूमोक्तैः श्वेताद्यैर्वा सहिङ्गुभिः|
शल्लकोलूकमार्जारजम्बूकवृकबस्तजैः||७४||
मूत्रपित्तशकृल्लोमनखैश्चर्मभिरेव च|
सेकाञ्जनं प्रधमनं नस्यं धूमं च कारयेत्||७५||
वातश्लेष्मात्मके प्रायः पैत्तिके तु प्रशस्यते|
तिक्तकं जीवनीयं च सर्पिः स्नेहश्च मिश्रकः||७६||
शीतानि चान्नपानानि मधुराणि मृदूनि च|
शङ्खकेशान्तसन्धौ वा मोक्षयेज्ज्ञो भिषक् सिराम्|
उन्मादे विषमे चैव ज्वरेऽपस्मार एव च||७७||

घृतमांसवितृप्तं वा निवाते स्थापयेत् सुखम्|
त्यक्त्वा मतिस्मृतिभ्रंशं सञ्ज्ञां लब्ध्वा प्रमुच्यते ||७८||

आश्वासयेत् सुहृद्वा तं वाक्यैर्धर्मार्थसंहितैः|
ब्रूयादिष्टविनाशं वा दर्शयेदद्भुतानि वा||७९||
बद्धं सर्षपतैलाक्तं न्यसेद्वोत्तानमातपे|
कपिकच्छ्वाऽथवा तप्तैर्लोहतैलजलैः स्पृशेत्||८०||
कशाभिस्ताडयित्वा वा सुबद्धं विजने गृहे|
रुन्ध्याच्चेतो हि विभ्रान्तं व्रजत्यस्य तथा शमम्||८१||
सर्पेणोद्धृतदंष्ट्रेण दान्तैः सिंहैर्गजैश्च तम्|
त्रासयेच्छस्त्रहस्तैर्वा तस्करैः शत्रुभिस्तथा||८२||
अथवा राजपुरुषा बहिर्नीत्वा सुसंयतम्|
त्रासयेयुर्वधेनैनं तर्जयन्तो नृपाज्ञया||८३||
देहदुःखभयेभ्यो हि परं प्राणभयं स्मृतम्|
तेन याति शमं तस्य सर्वतो विप्लुतं मनः||८४||

इष्टद्रव्यविनाशात्तु मनो यस्योपहन्यते|
तस्य तत्सदृशप्राप्तिसान्त्वाश्वासैः शमं नयेत्||८५||
कामशोकभयक्रोधहर्षेर्ष्यालोभसम्भवान्|
परस्परप्रतिद्वन्द्वैरेभिरेव शमं नयेत्||८६||

बुद्ध्वा देशं वयः सात्म्यं दोषं कालं बलाबले|
चिकित्सितमिदं कुर्यादुन्मादे भूतदोषजे||८७||
देवर्षिपितृगन्धर्वैरुन्मत्तस्य तु बुद्धिमान्|
वर्जयेदञ्जनादीनि तीक्ष्णानि क्रूरकर्म च||८८||
सर्पिष्पानादि तस्येह मृदु भैषज्यमाचरेत्|
पूजां बल्युपहारांश्च मन्त्राञ्जनविधींस्तथा||८९||
शान्तिकर्मेष्टिहोमांश्च जपस्वस्त्ययनानि च|
वेदोक्तान् नियमांश्चापि प्रायश्चित्तानि चाचरेत्||९०||
भूतानामधिपं देवमीश्वरं जगतः प्रभुम्|
पूजयन् प्रयतो नित्यं जयत्युन्मादजं भयम्||९१||
रुद्रस्य प्रमथा नाम गणा लोके चरन्ति ये|
तेषां पूजां च कुर्वाण उन्मादेभ्यः प्रमुच्यते||९२||
बलिभिर्मङ्गलैर्होमैरोषध्यगदधारणैः|
सत्याचारतपोज्ञानप्रदाननियमव्रतैः||९३||
देवगोब्रह्मणानां च गुरूणां पूजनेन च|
आगन्तुः प्रशमं याति सिद्धैर्मन्त्रौषधैस्तथा||९४||
यच्चोपदेक्ष्यते किञ्चिदपस्मारचिकित्सिते|
उन्मादे तच्च कर्तव्यं सामान्याद्धेतुदूष्ययोः||९५||

निवृत्तामिषमद्यो यो हिताशी प्रयतः शुचिः|
निजागन्तुभिरुन्मादैः सत्त्ववान् न स युज्यते||९६||

प्रसादश्चेन्द्रियार्थनां बुद्ध्यात्ममनसां तथा|
धातूनां प्रकृतिस्थत्वं विगतोन्मादलक्षणम्||९७||

तत्र श्लोकः-

उन्मादानां समुत्थानं लक्षणं सचिकित्सितम्|
निजागन्तुनिमित्तानामुक्तवान् भिषगुत्तमः||९८||

इत्याग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलपूरिते चिकित्सास्थाने 

उन्मादचिकित्सितं नाम नवमोऽध्यायः||९||