चिकित्सास्थानम् - १०. अपस्मारचिकित्सितम्
अथातोऽपस्मारचिकित्सितं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
स्मृतेरपगमं प्राहुरपस्मारं भिषग्विदः|
तमःप्रवेशं बीभत्सचेष्टं धीसत्त्वसम्प्लवात्||३||
विभ्रान्तबहुदोषाणामहिताशुचिभोजनात् |
रजस्तमोभ्यां विहते सत्त्वे दोषावृते हृदि||४||
चिन्ताकामभयक्रोधशोकोद्वेगादिभिस्तथा|
मनस्यभिहते नॄणामपस्मारः प्रवर्तते||५||
धमनीभिः श्रिता दोषा हृदयं पीडयन्ति हि|
सम्पीड्यमानो व्यथते मूढो भ्रान्तेन चेतसा||६||
पश्यत्यसन्ति रूपाणि पतति प्रस्फुरत्यपि|
जिह्वाक्षिभ्रूः स्रवल्लालो हस्तौ पादौ च विक्षिपन्||७||
दोषवेगे च विगते सुप्तवत् प्रतिबुद्ध्यते|८|
पृथग्दोषैः समस्तैश्च वक्ष्यते स चतुर्विधः||८||
कम्पते प्रदशेद्दन्तान् फेनोद्वामी श्वसित्यपि|
परुषारुणकृष्णानि पश्येद्रूपाणि चानिलात्||९||
पीतफेनाङ्गवक्त्राक्षः पीतासृग्रूपदर्शनः|
सतृष्णोष्णानलव्याप्तलोकदर्शी च पैत्तिकः||१०||
शुक्लफेनाङ्गवक्त्राक्षः शीतो हृष्टाङ्गजो गुरुः|
पश्यञ्छुक्लानि रूपाणि श्लैष्मिको मुच्यते चिरात्||११||
सर्वैरेतैः समस्तैस्तु लिङ्गैर्ज्ञेयस्त्रिदोषजः|
अपस्मारः स चासाध्यो यः क्षीणस्यानवश्च यः||१२||
पक्षाद्वा द्वादशाहाद्वा मासाद्वा कुपिता मलाः|
अपस्माराय कुर्वन्ति वेगं किञ्चिदथान्तरम्||१३||
तैरावृतानां हृत्स्रोतोमनसां सम्प्रबोधनम्|
तीक्ष्णैरादौ भिषक् कुर्यात् कर्मभिर्वमनादिभिः||१४||
वातिकं बस्तिभूयिष्ठैः पैत्तं प्रायो विरेचनैः|
श्लैष्मिकं वमनप्रायैरपस्मारमुपाचरेत्||१५||
सर्वतः सुविशुद्धस्य सम्यगाश्वासितस्य च|
अपस्मारविमोक्षार्थं योगान् संशमनाञ्छृणु||१६||
गोशकृद्रसदध्यम्लक्षीरमूत्रैः समैर्घृतम्|
सिद्धं पिबेदपस्मारकामलाज्वरनाशनम्||१७||
इति पञ्चगव्यं घृतम्|
द्वे पञ्चमूल्यौ त्रिफला रजन्यौ कुटजत्वचम्|
सप्तपर्णमपामार्गं नीलिनीं कटुरोहिणीम्||१८||
शम्पाकं फल्गुमूलं च पौष्करं सदुरालभम्|
द्विपलानि जलद्रोणे पक्त्वा पादावशेषिते||१९||
भार्गीं पाठां त्रिकटुकं त्रिवृतां निचुलानि च|
श्रेयसीमाढकीं मूर्वां दन्तीं भूनिम्बचित्रकौ||२०||
द्वे सारिवे रोहिषं च भूतीकं मदयन्तिकाम्|
क्षिपेत्पिष्ट्वाऽक्षमात्राणि तेन प्रस्थं घृतात् पचेत्||२१||
गोशकृद्रसदध्यम्लक्षीरमूत्रैश्च तत्समैः|
पञ्चगव्यमिति ख्यातं महत्तदमृतोपमम्||२२||
अपस्मारे तथोन्मादे श्वयथावुदरेषु च|
गुल्मार्शःपाण्डुरोगेषु कामलायां हलीमके||२३||
शस्यते घृतमेतत्तु प्रयोक्तव्यं दिने दिने|
अलक्ष्मीग्रहरोगघ्नं चातुर्थकविनाशनम्||२४||
इति महापञ्चगव्यं घृतम्|
ब्राह्मीरसवचाकुष्ठशङ्खपुष्पीभिरेव च|
पुराणं घृतमुन्मादालक्ष्म्यपस्मारपापनुत्||२५||
घृतं सैन्धवहिङ्गुभ्यां वार्षे बास्ते चतुर्गुणे|
मूत्रे सिद्धमपस्मारहृद्ग्रहामयनाशनम्||२६||
वचाशम्पाककैटर्यवयःस्थाहिङ्गुचोरकैः|
सिद्धं पलङ्कषायुक्तैर्वातश्लेष्मात्मके घृतम्||२७||
तैलप्रस्थं घृतप्रस्थं जीवनीयैः पलोन्मितैः|
क्षीरद्रोणे पचेत् सिद्धमपस्मारविनाशनम्||२८||
कंसे क्षीरेक्षुरसयोः काश्मर्येऽष्टगुणे रसे|
कार्षिकैर्जीवनीयैश्च घृतप्रस्थं विपाचयेत्||२९||
वातपित्तोद्भवं क्षिप्रमपस्मारं नियच्छति|
तद्वत् काशविदारीक्षुकुशक्वाथशृतं घृतम्||३०||
मधुकद्विपले कल्के द्रोणे चामलकीरसात्|
तद्वत् सिद्धो घृतप्रस्थः पित्तापस्मारभेषजम्||३१||
अभ्यङ्गः सार्षपं तैलं बस्तमूत्रे चतुर्गुणे|
सिद्धं स्याद्गोशकृन्मूत्रैः स्नानोत्सादनमेव च||३२||
कटभीनिम्बकट्वङ्गमधुशिग्रुत्वचां रसे|
सिद्धं मूत्रसमं तैलमभ्यङ्गार्थे प्रशस्यते||३३||
पलङ्कषावचापथ्यावृश्चिकाल्यर्कसर्षपैः|
जटिलापूतनाकेशीनाकुलीहिङ्गुचोरकैः||३४||
लशुनातिरसाचित्राकुष्ठैर्विड्भिश्च पक्षिणाम्|
मांसाशिनां यथालाभं बस्तमूत्रे चतुर्गुणे||३५||
सिद्धमभ्यञ्जनं तैलमपस्मारविनाशनम्|
एतैश्चैवौषधैः कार्यं धूपनं सप्रलेपनम्||३६||
पिप्पलीं लवणं चित्रां हिङ्गु हिङ्गुशिवाटिकाम्|
काकोलीं सर्षपान् काकनासां कैटर्यचन्दने||३७||
शुनःस्कन्धास्थिनखरान् पर्शुकां चेति पेषयेत्|
बस्तमूत्रेण पुष्यर्क्षे प्रदेहः स्यात् सधूपनः||३८||
अपेतराक्षसीकुष्ठपूतनाकेशिचोरकैः|
उत्सादनं मूत्रपिष्टैर्मूत्रैरेवावसेचनम्||३९||
जलौकःशकृता तद्वद्दग्धैर्वा बस्तरोमभिः|
खरास्थिभिर्हस्तिनखैस्तथा गोपुच्छलोमभिः||४०||
कपिलानां गवां मूत्रं नावनं परमं हितम्|
श्वशृगालबिडालानां सिंहादीनां च शस्यते||४१||
भार्गी वचा नागदन्ती श्वेता श्वेता विषाणिका|
ज्योतिष्मती नागदन्ती पादोक्ता मूत्रपेषिताः||४२||
योगास्त्रयोऽतः षड् बिन्दून् पञ्च वा नावयेद्भिषक्|
त्रिफलाव्योषपीतद्रुयवक्षारफणिज्झकैः||४३||
श्यामापामार्गकारञ्जफलैर्मूत्रेऽथ बस्तजे|
साधितं नावनं तैलमपस्मारविनाशनम्||४४||
पिप्पली वृश्चिकाली च कुष्ठं च लवणानि च|
भार्गी च चूर्णितं नस्तः कार्यं प्रधमनं परम्||४५||
कायस्थां शारदान्मुद्गान्मुस्तोशीरयवांस्तथा|
सव्योषान् बस्तमूत्रेण पिष्ट्वा वर्तीः प्रकल्पयेत्||४६||
अपस्मारे तथोन्मादे सर्पदष्टे गरार्दिते|
विषपीते जलमृते चैताः स्युरमृतोपमाः||४७||
मुस्तं वयःस्थां त्रिफलां कायस्थां हिङ्गु शाद्वलम्|
व्योषं माषान् यवान्मूत्रैर्बास्तमैषार्षभैस्त्रिभिः||४८||
पिष्ट्वा कृत्वा च तां वर्तिमपस्मारे प्रयोजयेत्|
किलासे च तथोन्मादे ज्वरेषु विषमेषु च||४९||
पुष्योद्धृतं शुनः पित्तमपस्मारघ्नमञ्जनम्|
तदेव सर्पिषा युक्तं धूपनं परमं मतम्||५०||
नकुलोलूकमार्जारगृध्रकीटाहिकाकजैः|
तुण्डैः पक्षैः पुरीषैश्च धूपनं कारयेद्भिषक्||५१||
आभिः क्रियाभिः सिद्धाभिर्हृदयं सम्प्रबुध्यते|
स्रोतांसि चापि शुध्यन्ति ततः सञ्ज्ञां स विन्दति||५२||
यस्यानुबन्धस्त्वागन्तुर्दोषलिङ्गाधिकाकृतिः|
दृश्येत तस्य कार्यं स्यादागन्तून्मादभेषजम्||५३||
अनन्तरमुवाचेदमग्निवेशः कृताञ्जलिः|
भगवन्! प्राक् समुद्दिष्टः श्लोकस्थाने महागदः||५४||
अतत्त्वाभिनिवेशो यस्तद्धेत्वाकृतिभेषजम्|
तत्र नोक्तमतः श्रोतुमिच्छामि तदिहोच्यताम्||५५||
शुश्रूषवे वचः श्रुत्वा शिष्यायाह पुनर्वसुः|
महागदं सौम्य! शृणु सहेत्वाकृतिभेषजम्||५६||
मलिनाहारशीलस्य वेगान् प्राप्तान्निगृह्णतः|
शीतोष्णस्निग्धरूक्षाद्यैर्हेतुभिश्चातिसेवितैः||५७||
हृदयं समुपाश्रित्य मनोबुद्धिवहाः सिराः|
दोषाः सन्दूष्य तिष्ठन्ति रजोमोहावृतात्मनः||५८||
रजस्तमोभ्यां वृद्धाभ्यां बुद्धौ मनसि चावृते|
हृदये व्याकुले दोषैरथ मूढोऽल्पचेतनः ||५९||
विषमां कुरुते बुद्धिं नित्यानित्ये हिताहिते|
अतत्त्वाभिनिवेशं तमाहुराप्ता महागदम्||६०||
स्नेहस्वेदोपपन्नं तं संशोध्य वमनादिभिः|
कृतसंसर्जनं मेध्यैरन्नपानैरुपाचरेत्||६१||
ब्राह्मीस्वरसयुक्तं यत् पञ्चगव्यमुदाहृतम्|
तत् सेव्यं शङ्खपुष्पी च यच्च मेध्यं रसायनम्||६२||
सुहृदश्चानुकूलास्तं स्वाप्ता धर्मार्थवादिनः|
संयोजयेयुर्विज्ञानधैर्यस्मृतिसमाधिभिः ||६३||
प्रयुञ्ज्यात्तैललशुनं पयसा वा शतावरीम्|
ब्राह्मीरसं कुष्ठरसं वचां वा मधुसंयुताम्||६४||
दुश्चिकित्स्यो ह्यपस्मारश्चिरकारी कृतास्पदः |
तस्माद्रसायनैरेनं प्रायशः समुपाचरेत्||६५||
जलाग्निद्रुमशैलेभ्यो विषमेभ्यश्च तं सदा|
रक्षेदुन्मादिनं चैव सद्यः प्राणहरा हि ते||६६||
तत्र श्लोकौ-
हेतुं कुर्वन्त्यपस्मारं दोषाः प्रकुपिता यथा|
सामान्यतः पृथक्त्वाच्च लिङ्गं तेषां च भेषजम्||६७||
महागदसमुत्थानं लिङ्गं चोवाच सौषधम्|
मुनिर्व्याससमासाभ्यामपस्मारचिकित्सिते ||६८||
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते
चिकित्सास्थानेऽपस्मारचिकित्सितं नाम दशमोऽध्यायः||१०||