Shree Naval Kishori

सूत्रस्थानम् - ११. तिस्रैषणीयोऽध्यायः

अथातस्तिस्रैषणीयमध्यायं व्याख्यास्यामः||१||

इति ह स्माह भगवानात्रेयः||२||

इह खलु पुरुषेणानुपहतसत्त्वबुद्धिपौरुषपराक्रमेण हितमिह चामुष्मिंश्च लोके समनुपश्यता तिस्र एषणाः 

पर्येष्टव्या भवन्ति | तद्यथा- प्राणैषणा, धनैषणा, परलोकैषणेति||३||

आसां तु खल्वेषणानां प्राणैषणां तावत् पूर्वतरमापद्येत|

कस्मात्? प्राणपरित्यागे हि सर्वत्यागः|

तस्यानुपालनंस्वस्थस्य स्वस्थवृत्तानुवृत्तिः, आतुरस्य विकारप्रशमनेऽप्रमादः, तदुभयमेतदुक्तं वक्ष्यते च; 

तद्यथोक्तमनुवर्तमानः प्राणानुपालनाद्दीर्घमायुरवाप्नोतीति प्रथमैषणा व्याख्याता भवति||४||

अथ द्वितीयां धनैषणमापद्येत, प्राणेभ्यो ह्यनन्तरं धनमेव पर्येष्टव्यं भवति; न ह्यतः पापात् पापीयोऽस्ति 

यदनुपकरणस्य दीर्घमायुः, तस्मादुपकरणानि पर्येष्टुं यतेत|

तत्रोपकरणोपायाननुव्याख्यास्यामः; तद्यथाकृषिपाशुपाल्यवाणिज्यराजोपसेवादीनि, यानि चान्यान्यपि 

सतामविगर्हितानि कर्माणि वृत्तिपुष्टिकराणि विद्यात्तान्यारभेत कर्तुं; तथा कुर्वन् दीर्घजीवितं जीवत्यनवमतः 

पुरुषो भवति | इति द्वितीया धनैषणा व्याख्याता भवति||५||

अथ तृतीयां परलोकैषणामापद्येत | संशयश्चात्र, कथं? भविष्याम इतश्च्युता नवेति; कुतः पुनः संशय इति, 

उच्यतेसन्ति ह्येके प्रत्यक्षपराः परोक्षत्वात् पुनर्भवस्य नास्तिक्यमाश्रिताः, सन्ति चागमप्रत्ययादेव पुनर्भवमिच्छन्ति; 

श्रुतिभेदाच्च‘मातरं पितरं चैके मन्यन्ते जन्मकारणम् |

स्वभावं परनिर्माणं यदृच्छां चापरे जनाः’ || इति |

अतः संशयः- किं नु खल्वस्ति पुनर्भवो न वेति||६||

तत्र बुद्धिमान्नास्तिक्यबुद्धिं जह्याद्विचिकित्सां च |

 कस्मात्? प्रत्यक्षं ह्यल्पम्; अनल्पमप्रत्यक्षमस्ति, यदागमानुमानयुक्तिभिरुपलभ्यते; 

यैरेव तावदिन्द्रियैः प्रत्यक्षमुपलभ्यते, तान्येव सन्ति चाप्रत्यक्षाणि||७||

सतां च रूपाणामतिसन्निकर्षादतिविप्रकर्षादावरणात् करणदौर्बल्यान्मनोनवस्थानात् 

समानाभिहारादभिभवादतिसौक्ष्म्याच्च प्रत्यक्षानुपलब्धिः; तस्मादपरीक्षितमेतदुच्यते- प्रत्यक्षमेवास्ति, नान्यदस्तीति||८||

श्रुतयश्चैता न कारणं, युक्तिविरोधात्|
आत्मा मातुः पितुर्वा यः सोऽपत्यं यदि सञ्चरेत्|
द्विविधं सञ्चरेदात्मा सर्वोवाऽवयवेन वा||९||
सर्वश्चेत् सञ्चरेन्मातुः पितुर्वा मरणं भवेत्|
निरन्तरं, नावयवः कश्चित्सूक्ष्मस्य चात्मनः||१०||

बुद्धिर्मनश्च निर्णीते यथैवात्मा तथैव ते|
येषां चैषा मतिस्तेषां योनिर्नास्ति चतुर्विधा||११||

विद्यात् स्वाभाविकं षण्णां धातूनां यत् स्वलक्षणम्|
संयोगे च वियोगे च तेषां कर्मैव कारणम्||१२||

अनादेश्चेतनाधातोर्नेष्यते परनिर्मितिः|
पर आत्मा स चेद्धेतुरिष्टोऽस्तु परनिर्मितिः||१३||

न परीक्षा न परीक्ष्यं न कर्ता कारणं न च|
न देवा नर्षयः सिद्धाः कर्म कर्मफलं न च||१४||
नास्तिकस्यास्ति नैवात्मा यदृच्छोपहतात्मनः|
पातकेभ्यः परं चैतत् पातकं नास्तिकग्रहः||१५||

तस्मान्मतिं विमुच्यैताममार्गप्रसृतां बुधः|
सतां बुद्धिप्रदीपेन पश्येत्सर्वं यथातथम्||१६||

द्विविधमेव खलु सर्वं सच्चासच्च; तस्य चतुर्विधा परीक्षा- आप्तोपदेशः, प्रत्यक्षम्, अनुमानं, युक्तिश्चेति||१७||

आप्तास्तावत्-
रजस्तमोभ्यां निर्मुक्तास्तपोज्ञानबलेन ये|
येषां त्रिकालममलं ज्ञानमव्याहतं सदा||१८||
आप्ताः शिष्टा विबुद्धास्ते तेषां वाक्यमसंशयम्|
सत्यं, वक्ष्यन्ति ते कस्मादसत्यं नीरजस्तमाः ||१९||

आत्मेन्द्रियमनोर्थानां सन्निकर्षात् प्रवर्तते|
व्यक्ता तदात्वे या बुद्धिः प्रत्यक्षं स निरुच्यते||२०||
प्रत्यक्षपूर्वं त्रिविधं त्रिकालं चानुमीयते|
वह्निर्निगूढो धूमेन मैथुनं गर्भदर्शनात्||२१||
एवं व्यवस्यन्त्यतीतं बीजात् फलमनागतम्|
दृष्ट्वा बीजात् फलं जातमिहैव सदृशं बुधाः||२२||
जलकर्षणबीजर्तुसंयोगात् सस्यसम्भवः|
युक्तिः षड्धातुसंयोगाद्गर्भाणां सम्भवस्तथा||२३||
मथ्यमन्थन(क)मन्थानसंयोगादग्निसम्भवः|
युक्तियुक्ता चतुष्पादसम्पद्व्याधिनिबर्हणी||२४||

बुद्धिः पश्यति या भावान् बहुकारणयोगजान्|
युक्तिस्त्रिकाला सा ज्ञेया त्रिवर्गः साध्यते यया||२५||

एषा परीक्षा नास्त्यन्या यया सर्वं परीक्ष्यते|
परीक्ष्यं सदसच्चैवं तया चास्ति पुनर्भवः||२६||

तत्राप्तागमस्तावद्वेदः, यश्चान्योऽपि कश्चिद्वेदार्थादविपरीतः परीक्षकैः प्रणीतः शिष्टानुमतो लोकानुग्रहप्रवृत्तः शास्त्रवादः, 

स चाऽऽप्तागमः; आप्तागमादुपलभ्यतेदानतपोयज्ञसत्याहिंसाब्रह्मचर्याण्यभ्युदयनिःश्रेयसकराणीति||२७||

न चानतिवृत्तसत्त्वदोषाणामदोषैरपुनर्भवो धर्मद्वारेषूपदिश्यते||२८||

धर्मद्वारावहितैश्च व्यपगतभयरागद्वेषलोभमोहमानैर्ब्रह्मपरैराप्तैः कर्मविद्भिरनुपहतसत्त्वबुद्धिप्रचारैः पूर्वैः 

पूर्वतरैर्महर्षिभिर्दिव्यचक्षुभिर्दृष्ट्वोपदिष्टः पुनर्भव इति व्यवस्येदेवम् ||२९||

प्रत्यक्षमपि चोपलभ्यतेमातापित्रोर्विसदृशान्यपत्यानि, तुल्यसम्भवानां वर्णस्वराकृतिसत्त्वबुद्धिभाग्यविशेषाः, 

प्रवरावरकुलजन्म, दास्यैश्वर्यं, सुखासुखमायुः, आयुषो वैषम्यम्, इह कृतस्यावाप्तिः, अशिक्षितानां च 

रुदितस्तनपानहासत्रासादीनां प्रवृत्तिः, लक्षणोत्पत्तिः, कर्मसादृश्ये फलविशेषः, मेधा क्वचित् क्वचित् कर्मण्यमेधा, 

जातिस्मरणम्- इहागमनमितश्च्युतानामिति, समदर्शने प्रियाप्रियत्वम् ||३०||

अत एवानुमीयतेयत्स्वकृतमपरिहार्यमविनाशि पौर्वदेहिकं दैवसञ्ज्ञकमानुबन्धिकं कर्म, तस्यैतत् फलम्; 

इतश्चान्यद्भविष्यतीति; फलद्बीजमनुमीयते, फलं च बीजात्||३१||

युक्तिश्चैषाषड्धातुसमुदयाद्गर्भजन्म, कर्तृकरणसंयोगात् क्रिया; कृतस्य कर्मणः फलं नाकृतस्य, 

नाङ्कुरोत्पत्तिरबीजात्; कर्मसदृशं फलं, नान्यस्माद्बीजादन्यस्योत्पत्तिः; इति युक्तिः||३२||

एवं प्रमाणैश्चतुर्भिरुपदिष्टे पुनर्भवे धर्मद्वारेष्ववधीयेत; तद्यथागुरुशुश्रूषायामध्ययने व्रतचर्यायां दारक्रियायामपत्योत्पादने 

भृत्यभरणेऽतिथिपूजायां दानेऽनभिध्यायां तपस्यनसूयायां देहवाङ्मानसे कर्मण्यक्लिष्टे देहेन्द्रियमनोर्थबुद्ध्यात्मपरीक्षायां 

मनःसमाधाविति; यानि चान्यान्यप्येवंविधानि कर्माणि सतामविगर्हितानि स्वर्ग्याणि वृत्तिपुष्टिकराणि विद्यात्तान्यारभेत 

कर्तुं; तथा कुर्वन्निह चैव यशो लभते प्रेत्य च स्वर्गम्|
इति तृतीया परलोकैषणा व्याख्याता भवति||३३||

अथ खलु त्रय उपस्तम्भाः, त्रिविधं बलं, त्रीण्यायतनानि, त्रयो रोगाः, त्रयो रोगमार्गाः, त्रिविधा भिषजः, 

त्रिविधमौषधमिति||३४||

त्रय उपस्तम्भा इति- आहारः, स्वप्नो, ब्रह्मचर्यमिति; एभिस्त्रिभिर्युक्तियुक्तैरुपस्तब्धमुपस्तम्भैः शरीरं बलवर्णोपचयोपचितमनुवर्तते 

यावदायुःसंस्कारात् संस्कारमहितमनुपसेवमानस्य, य इहैवोपदेक्ष्यते||३५||

त्रिविधं बलमिति- सहजं, कालजं, युक्तिकृतं च|

सहजं यच्छरीरसत्त्वयोः प्राकृतं, कालकृतमृतुविभागजं वयःकृतं च, युक्तिकृतं पुनस्तद्यदाहारचेष्टायोगजम्||३६||

त्रीण्यायतनानीति- अर्थानां कर्मणः कालस्य चातियोगायोगमिथ्यायोगाः| 

तत्रातिप्रभावतां दृश्यानामतिमात्रं दर्शनमतियोगः, सर्वशोऽदर्शनमयोगः, 

अतिश्लिष्टातिविप्रकृष्टरौद्रभैरवाद्भुतद्विष्टबीभत्सनविकृतवित्रासनादिरूपदर्शनं मिथ्यायोगः; 

तथाऽतिमात्रस्तनितपटहोत्क्रुष्टादीनां शब्दानामतिमात्रं श्रवणमतियोगः, सर्वशोऽश्रवणमयोगः, 

परुषेष्टविनाशोपघातप्रधर्षणभीषणादिशब्दश्रवणं मिथ्यायोगः; तथाऽतितीक्ष्णोग्राभिष्यन्दिनां गन्धानामतिमात्रं 

घ्राणमतियोगः, सर्वशोऽघ्राणमयोगः, पूतिद्विष्टामेध्यक्लिन्नविषपवनकुणपगन्धादिघ्राणं मिथ्यायोगः; तथा 

रसानामत्यादानमतियोगः, सर्वशोऽनादानमयोगः, मिथ्यायोगो राशिवर्ज्येष्वाहारविधिविशेषायतनेषूपदेक्ष्यते; 

तथाऽतिशीतोष्णानां स्पृश्यानां स्नानाभ्यङ्गोत्सादनादीनां चात्युपसेवनमतियोगः, सर्वशोऽनुपसेवनमयोगः, 

स्नानादीनां शीतोष्णादीनां च स्पृश्यानामनानुपूर्व्योपसेवनं विषमस्थानाभिघाताशुचिभूतसंस्पर्शादयश्चेति मिथ्यायोगः||३७||

तत्रैकं स्पर्शनमिन्द्रियाणामिन्द्रियव्यापकं, चेतः-

 समवायि, स्पर्शनव्याप्तेर्व्यापकमपि च चेतः; तस्मात् सर्वेन्द्रियाणां व्यापकस्पर्शकृतो यो भावविशेषः, 

सोऽयमनुपशयात् पञ्चविधस्त्रिविधविकल्पो भवत्यसात्म्येन्द्रियार्थसंयोगः; सात्म्यार्थो ह्युपशयार्थः||३८||

कर्म वाङ्मनःशरीरप्रवृत्तिः|

तत्र वाङ्मनःशरीरातिप्रवृत्तिरतियोगः; सर्वशोऽप्रवृत्तिरयोगः; 

वेगधारणोदीरणविषमस्खलनपतनाङ्गप्रणिधानाङ्गप्रदूषणप्रहारमर्दनप्राणोपरोधसङ्क्लेशनादिः शारीरो मिथ्यायोगः, 

सूचकानृताकालकलहाप्रियाबद्धानुपचारपरुषवचनादिर्वाङ्मिथ्यायोगः, 

भयशोकक्रोधलोभमोहमानेर्ष्यामिथ्यादर्शनादिर्मानसो मिथ्यायोगः||३९||

सङ्ग्रहेण चातियोगायोगवर्जं कर्म वाङ्मनःशरीरजमहितमनुपदिष्टं यत्तच्च मिथ्यायोगं विद्यात्||४०||

इति त्रिविधविकल्पं त्रिविधमेव कर्म प्रज्ञापराध इति व्यवस्येत्||४१||

शीतोष्णवर्षलक्षणाः पुनर्हेमन्तग्रीष्मवर्षाः संवत्सरः, स कालः|
तत्रातिमात्रस्वलक्षणः कालः कालातियोगः, हीनस्वलक्षणः (कालः) कालायोगः, यथास्वलक्षणविपरीतलक्षणस्तु (कालः) 

कालमिथ्यायोगः | कालः पुनः परिणाम उच्यते||४२||

इत्यसात्म्येन्द्रियार्थसंयोगः, प्रज्ञापराधः, परिणामश्चेति त्रयस्त्रिविधविकल्पा हेतवो विकाराणां; समयोगयुक्तास्तु 

प्रकृतिहेतवो भवन्ति||४३||

सर्वेषामेव भावानां भावाभावौ नान्तरेण योगायोगातियोगमिथ्यायोगान् समुपलभ्येते; यथास्वयुक्त्यपेक्षिणौ 

हि भावाभावौ||४४||

त्रयो रोगा इति- निजागन्तुमानसाः|

तत्र निजः शारीरदोषसमुत्थः, आगन्तुर्भूतविषवाय्वग्निसम्प्रहारादिसमुत्थः, मानसः पुनरिष्टस्य 

लाभाल्लाभाच्चानिष्टस्योपजायते||४५||

तत्र बुद्धिमता मानसव्याधिपरीतेनापि सता बुद्ध्या हिताहितमवेक्ष्यावेक्ष्य धर्मार्थकामानामहितानामनुपसेवने हितानां 

चोपसेवने प्रयतितव्यं, न ह्यन्तरेण लोके त्रयमेतन्मानसं किञ्चिन्निष्पद्यते सुखं वा दुःखं वा; 

तस्मादेतच्चानुष्ठेयं- तद्विद्यानां चोपसेवने प्रयतितव्यम्, आत्मदेशकुलकालबलशक्तिज्ञाने यथावच्चेति||४६||

भवति चात्र-

मानसं प्रति भैषज्यं त्रिवर्गस्यान्ववेक्षणम्|
तद्विद्यसेवा विज्ञानमात्मादीनां च सर्वशः||४७||
त्रयो रोगमार्गा इति- शाखा, मर्मास्थिसन्धयः, कोष्ठश्च|
तत्र शाखा रक्तादयो धातवस्त्वक् च, स बाह्यो रोगमार्गः; मर्माणि पुनर्बस्तिहृदयमूर्धादीनि, 

अस्थिसन्धयोऽस्थिसंयोगास्तत्रोपनिबद्धाश्च स्नायुकण्डराः, स मध्यमो रोगमार्गः; कोष्ठः पुनरुच्यते महास्रोतः 

शरीरमध्यं महानिम्नमामपक्वाशयश्चेति पर्यायशब्दैस्तन्त्रे, स रोगमार्ग आभ्यन्तरः||४८||

तत्र, गण्डपिडकालज्यपचीचर्मकीलाधिमांसमषककुष्ठव्यङ्गादयो विकारा बहिर्मार्गजाश्च 

विसर्पश्वयथुगुल्मार्शोविद्रध्यादयः शाखानुसारिणो भवन्ति रोगाः; 

पक्षवधग्रहापतानकार्दितशोषराजयक्ष्मास्थिसन्धिशूलगुदभ्रंशादयः शिरोहृद्बस्तिरोगादयश्च 

मध्यममार्गानुसारिणो भवन्ति रोगाः; ज्वरातीसारच्छर्द्यलसकविसूचिकाकासश्वासहिक्कानाहोदरप्लीहादयोऽन्तर्मार्गजाश्च 

विसर्पश्वयथुगुल्मार्शोविद्रध्यादयः कोष्ठानुसारिणो भवन्ति रोगाः||४९||

त्रिविधा भिषज इति-
भिषक्छद्मचराः सन्ति सन्त्येके सिद्धसाधिताः|
सन्ति वैद्यगुणैर्युक्तास्त्रिविधा भिषजो भुवि||५०||
वैद्यभाण्डौषधैः पुस्तैः पल्लवैरवलोकनैः|
लभन्ते ये भिषक्शब्दमज्ञास्ते प्रतिरूपकाः||५१||
श्रीयशोज्ञानसिद्धानां व्यपदेशादतद्विधाः|
वैद्यशब्दं लभन्ते ये ज्ञेयास्ते सिद्धसाधिताः||५२||
प्रयोगज्ञानविज्ञानसिद्धिसिद्धाः सुखप्रदाः|
जीविताभिसरास्ते स्युर्वैद्यत्वं तेष्ववस्थितमिति||५३||

त्रिविधमौषधमिति- दैवव्यपाश्रयं, युक्तिव्यपाश्रयं, सत्त्वावजयश्च|

तत्र दैवव्यपाश्रयं- मन्त्रौषधिमणिमङ्गलबल्युपहारहोमनियमप्रायश्चित्तोपवासस्वस्त्ययनप्रणिपातगमनादि, 

युक्तिव्यपाश्रयं- पुनराहारौषधद्रव्याणां योजना, सत्त्वावजयः- पुनरहितेभ्योऽर्थेभ्यो मनोनिग्रहः||५४||

शरीरदोषप्रकोपे खलु शरीरमेवाश्रित्य प्रायशस्त्रिविधमौषधमिच्छन्ति-

 अन्तःपरिमार्जनं, बहिःपरिमार्जनं, शस्त्रप्रणिधानं चेति|

तत्रान्तःपरिमार्जनं यदन्तःशरीरमनुप्रविश्यौषधमाहारजातव्याधीन् प्रमार्ष्टि, 

यत्पुनर्बहिःस्पर्शमाश्रित्याभ्यङ्गस्वेदप्रदेहपरिषेकोन्मर्दनाद्यैरामयान् प्रमार्ष्टि तद्बहिःपरिमार्जनं, 

शस्त्रप्रणिधानं पुनश्छेदनभेदनव्यधनदारणलेखनोत्पाटनप्रच्छनसीवनैषणक्षारजलौकसश्चेति||५५||

भवन्ति चात्र-

प्राज्ञो रोगे समुत्पन्ने बाह्येनाभ्यन्तरेण वा|
कर्मणा लभते शर्म शस्त्रोपक्रमणेन वा||५६||
बालस्तु खलु मोहाद्वा प्रमादाद्वा न बुध्यते|
उत्पद्यमानं प्रथमं रोगं शत्रुमिवाबुधः||५७||
अणुर्हि प्रथमं भूत्वा रोगः पश्चाद्विवर्धते|
स जातमूलो मुष्णाति बलमायुश्च दुर्मतेः||५८||
न मूढो लभते सञ्ज्ञां तावद्यावन्न पीड्यते|
पीडितस्तु मतिं पश्चात् कुरुते व्याधिनिग्रहे||५९||
अथ पुत्रांश्च दारांश्च ज्ञातींश्चाहूय भाषते|
सर्वस्वेनापि मे कश्चिद्भिषगानीयतामिति||६०||
तथाविधं च कः शक्तो दुर्बलं व्याधिपीडितम्|
कृशं क्षीणेन्द्रियं दीनं परित्रातुं गतायुषम्||६१||
स त्रातारमनासाद्य बालस्त्यजति जीवितम्|
गोधा लाङ्गूलबद्धेवाकृष्यमाणा बलीयसा||६२||
तस्मात् प्रागेव रोगेभ्यो रोगेषु तरुणेषु वा|
भेषजैः प्रतिकुर्वीत य इच्छेत् सुखमात्मनः||६३||

तत्र श्लोकौ-

एषणाः समुपस्तम्भा बलं कारणमामयाः|
तिस्रैषणीये मार्गाश्च भिषजो भेषजानि च||६४||
त्रित्वेनाष्टौ समुद्दिष्टाः कृष्णात्रेयेण धीमता|
भावा, भावेष्वसक्तेन येषु सर्वं प्रतिष्ठितम्||६५||

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने तिस्रैषणीयो नामैकादशोऽध्यायः||११||