Shree Naval Kishori

इन्द्रियस्थानम् - १२. गोमयचूर्णीयमिन्द्रियम्

अथातो गोमयचूर्णीयमिन्द्रियं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||

यस्य गोमयचूर्णाभं चूर्णं मूर्धनि जायते|
सस्नेहं भ्रश्यते चैव मासान्तं तस्य जीवितम्||३||
निकषन्निव यः पादौ च्युतांसः परिधावति|
विकृत्या न स लोकेऽस्मिंश्चिरं वसति मानवः||४||
यस्य स्नातानुलिप्तस्य पूर्वं शुष्यत्युरो भृशम्|
आर्द्रेषु सर्वगात्रेषु सोऽर्धमासं न जीवति||५||
यमुद्दिश्यातुरं वैद्यः संवर्तयितुमौषधम् |
यतमानो न शक्नोति दुर्लभं तस्य जीवितम्||६||
विज्ञातं बहुशः सिद्धं विधिवच्चावचारितम्|
न सिध्यत्यौषधं यस्य नास्ति तस्य चिकित्सितम्||७||
आहारमुपयुञ्जानो भिषजा सूपकल्पितम्|
यः फलं तस्य नाप्नोति दुर्लभं तस्य जीवितम्||८||

दूताधिकारे वक्ष्यामो लक्षणानि मुमूर्षताम्|
यानि दृष्ट्वा भिषक् प्राज्ञः प्रत्याख्यायादसंयमम्||९||
मुक्तकेशेऽथवा नग्ने रुदत्यप्रयतेऽथवा|
भिषगभ्यागतं दृष्ट्वा दूतं मरणमादिशेत्||१०||
सुप्ते भिषजि ये दूताश्छिन्दत्यपि च भिन्दति|
आगच्छन्ति भिषक् तेषां न भर्तारमनुव्रजेत्||११||
जुह्वत्यग्निं तथा पिण्डान् पितृभ्यो निर्वपत्यपि|
वैद्ये दूता य आयान्ति ते घ्नन्ति प्रजिघांसवः||१२||
कथयत्यप्रशस्तानि चिन्तयत्यथवा पुनः|
वैद्ये दूता मनुष्याणामागच्छन्ति मुमूर्षताम्||१३||
मृतदग्धविनष्टानि भजति व्याहरत्यपि|
अप्रशस्तानि चान्यानि वैद्ये दूता मुमूर्षताम्||१४||
विकारसामान्यगुणे देशे कालेऽथवा भिषक्|
दूतमभ्यागतं दृष्ट्वा नातुरं तमुपाचरेत्||१५||
दीनभीतद्रुतत्रस्तमलिनामसतीं स्त्रियम्|
त्रीन् व्याकृतींश्च षण्डांश्च दूतान् विद्यान्मुमूर्षताम्||१६||
अङ्गव्यसनिनं दूतं लिङ्गिनं व्याधितं तथा|
सम्प्रेक्ष्य चोग्रकर्माणं न वैद्यो गन्तुमर्हति||१७||
आतुरार्थमनुप्राप्तं खरोष्ट्ररथवाहनम्|
दूतं दृष्ट्वा भिषग्विद्यादातुरस्य पराभवम्||१८||
पलालबुसमांसास्थिकेशलोमनखद्विजान्|
मार्जनीं मुसलं शूर्पमुपानच्चर्म विच्युतम् ||१९||
तृणकाष्ठतुषाङ्गारं स्पृशन्तो लोष्टमश्म च|
तत्पूर्वदर्शने दूता व्याहरन्ति मुमूर्षताम्||२०||
यस्मिंश्च दूते ब्रुवति वाक्यमातुरसंश्रयम्|
पश्येन्निमित्तमशुभं तं च नानुव्रजेद्भिषक्||२१||
तथा व्यसनिनं प्रेतं प्रेतालङ्कारमेव वा|
भिन्नं दग्धं विनष्टं वा तद्वादीनि वचांसि वा||२२||
रसो वा कटुकस्तीव्रो गन्धो वा कौणपो महान्|
स्पर्शो वा विपुलः क्रूरो यद्वाऽन्यदशुभं भवेत्||२३||
तत्पूर्वमभितो वाक्यं वाक्यकालेऽथवा पुनः|
दूतानां व्याहृतं श्रुत्वा धीरो मरणमादिशेत्||२४||
इति दूताधिकारोऽयमुक्तः कृत्स्नो मुमूर्षताम्|२५|

पथ्यातुरकुलानां च वक्ष्याम्यौत्पातिकं पुनः||२५||
अवक्षुतमथोत्क्रुष्टं स्खलनं पतनं तथा|
आक्रोशः सम्प्रहारो वा प्रतिषेधो विगर्हणम्||२६||
वस्त्रोष्णीषोत्तरासङ्गश्छत्रोपानद्युगाश्रयम्|
व्यसनं दर्शनं चापि मृतव्यसनिनां तथा||२७||
चैत्यध्वजपताकानां पूर्णानां पतनानि च|
हतानिष्टप्रवादाश्च दूषणं भस्मपांशुभिः||२८||
पथच्छेदो बिडालेन शुना सर्पेण वा पुनः|
मृगद्विजानां क्रूराणां गिरो दीप्तां दिशं प्रति||२९||
शयनासनयानानामुत्तानानां च दर्शनम्|
इत्येतान्यप्रशस्तानि सर्वाण्याहुर्मनीषिणः||३०||
एतानि पथि वैद्येन पश्यताऽऽतुरवेश्मनि|
शृण्वता च न गन्तव्यं तदागारं विपश्चिता||३१||
इत्यौत्पातिकमाख्यातं पथि वैद्यविगर्हितम्|३२|

इमामपि च बुध्येत गृहावस्थां मुमूर्षताम्||३२||
प्रवेशे पूर्णकुम्भाग्निमृद्बीजफलसर्पिषाम्|
वृषब्राह्मणरत्नान्नदेवतानां च निर्गतिम्||३३||
अग्निपूर्णानि पात्राणि भिन्नानि विशिखानि च|
भिषङ् मुमूर्षतां वेश्म प्रविशन्नेव पश्यति||३४||
छिन्नभिन्नानि दग्धानि भग्नानि मृदितानि च|
दुर्बलानि च सेवन्ते मुमूर्षोर्वैश्मिका जनाः||३५||
शयनं वसनं यानं गमनं भोजनं रुतम्|
श्रूयतेऽमङ्गलं यस्य नास्ति तस्य चिकित्सितम्||३६||
शयनं वसनं यानमन्यं वाऽपि परिच्छदम्|
प्रेतवद्यस्य कुर्वन्ति सुहृदः प्रेत एव सः||३७||
अन्नं व्यापद्यतेऽत्यर्थं ज्योतिश्चैवोपशाम्यति|
निवाते सेन्धनं यस्य तस्य नास्ति चिकित्सितम्||३८||
आतुरस्य गृहे यस्य भिद्यन्ते वा पतन्ति वा|
अतिमात्रममत्राणि दुर्लभं तस्य जीवितम्||३९||

 

भवन्ति चात्र-


यद्द्वादशभिरध्यायैर्व्यासतः परिकीर्तितम्|
मुमूर्षतां मनुष्याणां लक्षणं जीवितान्तकृत्||४०||
तत् समासेन वक्ष्यामः पर्यायान्तरमाश्रितम्|
पर्यायवचनं ह्यर्थविज्ञानायोपपद्यते||४१||
अत्यर्थं पुनरेवेयं विवक्षा नो विधीयते|
तस्मिन्नेवाधिकरणे यत् पूर्वमभिशब्दितम्||४२||
वसतां चरमं कालं शरीरेषु शरीरिणाम्|
अभ्युग्राणां विनाशाय देहेभ्यः प्रविवत्सताम्||४३||
इष्टांस्तितिक्षतां प्राणान् कान्तं वासं जिहासताम्|
तन्त्रयन्त्रेषु भिन्नेषु तमोऽन्त्यं प्रविविक्षताम्||४४||
विनाशायेह रूपाणि यान्यवस्थान्तराणि च|
भवन्ति तानि वक्ष्यामि यथोद्देशं यथागमम्||४५||
प्राणाः समुपतप्यन्ते विज्ञानमुपरुध्यते|
वमन्ति बलमङ्गानि चेष्टा व्युपरमन्ति च||४६||
इन्द्रियाणि विनश्यन्ति खिलीभवति चेतना |
औत्सुक्यं भजते सत्त्वं चेतो भीराविशत्यपि||४७||
स्मृतिस्त्यजति मेधा च ह्रीश्रियौ चापसर्पतः|
उपप्लवन्ते पाप्मान ओजस्तेजश्च नश्यति||४८||
शीलं व्यावर्ततेऽत्यर्थं भक्तिश्च परिवर्तते|
विक्रियन्ते प्रतिच्छायाश्छायाश्च विकृतिं प्रति||४९||
शुक्रं प्रच्यवते स्थानादुन्मार्गं भजतेऽनिलः|
क्षयं मांसानि गच्छन्ति गच्छत्यसृगपि क्षयम्||५०||
ऊष्माणः प्रलयं यान्ति विश्लेषं यान्ति सन्धयः|
गन्धा विकृतिमायान्ति भेदं वर्णस्वरौ तथा||५१||
वैवर्ण्यं भजते कायः कायच्छिद्रं विशुष्यति|
धूमः सञ्जायते मूर्ध्नि दारुणाख्यश्च चूर्णकः||५२||
सततस्पन्दना देशाः शरीरे येऽभिलक्षिताः|
ते स्तम्भानुगताः सर्वे न चलन्ति कथञ्चन||५३||
गुणाः शरीरदेशानां शीतोष्णमृदुदारुणाः|
विपर्यासेन वर्तन्ते स्थानेष्वन्येषु तद्विधाः||५४||
नखेषु जायते पुष्पं पङ्को दन्तेषु जायते|
जटाः पक्ष्मसु जायन्ते सीमन्ताश्चापि मूर्धनि||५५||
भेषजानि न संवृत्तिं प्राप्नुवन्ति यथारुचि|
यानि चाप्युपपद्यन्ते तेषां वीर्यं न सिध्यति||५६||
नानाप्रकृतयः क्रूरा विकारा विविधौषधाः|
क्षिप्रं समभिवर्तन्ते प्रतिहत्य बलौजसी||५७||
शब्दः स्पर्शो रसो रूपं गन्धश्चेष्टा विचिन्तितम् |
उत्पद्यन्तेऽशुभान्येव प्रतिकर्मप्रवृत्तिषु||५८||
दृश्यन्ते दारुणाः स्वप्ना दौरात्म्यमुपजायते|
प्रेष्याः प्रतीपतां यान्ति प्रेताकृतिरुदीर्यते||५९||
प्रकृतिर्हीयतेऽत्यर्थं विकृतिश्चाभिवर्धते|
कृत्स्नमौत्पातिकं घोरमरि(नि)ष्टमुपलक्ष्यते||६०||
इत्येतानि मनुष्याणां भवन्ति विनशिष्यताम्|
लक्षणानि यथोद्देशं यान्युक्तानि यथागमम्||६१||

मरणायेह रूपाणि पश्यताऽपि भिषग्विदा|
अपृष्टेन न वक्तव्यं मरणं प्रत्युपस्थितम्||६२||
पृष्टेनापि न वक्तव्यं तत्र यत्रोपघातकम्|
आतुरस्य भवेद्दुःखमथवाऽन्यस्य कस्यचित्||६३||
अब्रुवन्मरणं तस्य नैनमिच्छेच्चिकित्सितुम्|
यस्य पश्येद्विनाशाय लिङ्गानि कुशलो भिषक्||६४||
लिङ्गेभ्यो मरणाख्येभ्यो विपरीतानि पश्यता|
लिङ्गान्यारोग्यमागन्तु वक्तव्यं भिषजा ध्रुवम्||६५||
दूतैरौत्पातिकैर्भावैः पथ्यातुरकुलाश्रयैः|
आतुराचारशीलेष्टद्रव्यसम्पत्तिलक्षणैः||६६||

स्वाचारं हृष्टमव्यङ्गं यशस्यं शुक्लवाससम्|
अमुण्डमजटं दूतं जातिवेशक्रियासमम्||६७||
अनुष्ट्रखरयानस्थमसन्ध्यास्वग्रहेषु च|
अदारुणेषु नक्षत्रेष्वनुग्रेषु ध्रुवेषु च||६८||
विना चतुर्थीं नवमीं विना रिक्तां चतुर्दशीम्|
मध्याह्नमर्धरात्रं च भूकम्पं राहुदर्शनम्||६९||
विना देशमशस्तं चाशस्तौत्पातिकलक्षणम्|
दूतं प्रशस्तमव्यग्रं निर्दिशेदागतं भिषक्||७०||
दध्यक्षतद्विजातीनां वृषभाणां नृपस्य च||७१||
रत्नानां पूर्णकुम्भानां सितस्य तुरगस्य च|
सुरध्वजपताकानां फलानां यावकस्य च||७२||
कन्यापुंवर्धमानानां बद्धस्यैकपशोस्तस्था|
पृथिव्या उद्धृतायाश्च वह्नेः प्रज्वलितस्य च||७३||
मोदकानां सुमनसां शुक्लानां चन्दनस्य च|
मनोज्ञस्यान्नपानस्य पूर्णस्य शकटस्य च||७४||
नृभिर्धेन्वाः सवत्साया वडवायाः स्त्रियास्तथा|
जीवञ्जीवकसिद्धार्थसारसप्रियवादिनाम्||७५||
हंसानां शतपत्राणां चाषाणां शिखिनां तथा|
मत्स्याजद्विजशङ्खानां प्रियङ्गूनां घृतस्य च||७६||
रुचकादर्शसिद्धार्थरोचनानां च दर्शनम्|
गन्धः सुरभिर्वर्णश्च सुशुक्लो मधुरो रसः||७७||
मृगपक्षिमनुष्याणां प्रशस्ताश्च गिरः शुभाः|
छत्रध्वजपताकानामुत्क्षेपणमभिष्टुतिः||७८||
भेरीमृदङ्गशङ्खानां शब्दाः पुण्याहनिस्वनाः|
वेदाध्ययनशब्दाश्च सुखो वायुः प्रदक्षिणः||७९||
पथि वेश्मप्रवेशे तु विद्यादारोग्यलक्षणम्|८०|

मङ्गलाचारसम्पन्नः सातुरो वैश्मिको जनः||८०||
श्रद्दधानोऽनुकूलश्च प्रभूतद्रव्यसङ्ग्रहः|
धनैश्वर्यसुखावाप्तिरिष्टलाभः सुखेन च||८१||
द्रव्याणां तत्र योग्यानां योजना सिद्धिरेव च|
गृहप्रासादशैलानां नागानामृषभस्य च||८२||
हयानां पुरुषाणां च स्वप्ने समधिरोहणम्|
सोमार्काग्निद्विजातीनां गवां नॄणां पयस्विनाम्||८३||
अर्णवानां प्रतरणं वृद्धिः सम्बाधनिःसृतिः|
स्वप्ने देवैः सपितृभिः प्रसन्नैश्चाभिभाषणम्||८४||
दर्शनं शुक्लवस्त्राणां ह्रदस्य विमलस्य च|
मांसमत्स्यविषामेध्यच्छत्रादर्शपरिग्रहः||८५||
स्वप्ने सुमनसां चैव शुक्लानां दर्शनं शुभम्|
अश्वगोरथयानं च यानं पूर्वोत्तरेण च|
रोदनं पतितोत्थानं द्विषतां चावमर्दनम्||८६||

सत्त्वलक्षणसंयोगो भक्तिर्वैद्यद्विजातिषु|
साध्यत्वं न च निर्वेदस्तदारोग्यस्य लक्षणम्||८७||
आरोग्याद्बलमायुश्च सुखं च लभते महत्|
इष्टांश्चाप्यपरान् भावान् पुरुषः शुभलक्षणः||८८||


तत्र श्लोकौ-


उक्तं गोमयचूर्णीये मरणारोग्यलक्षणम्|
दूतस्वप्नातुरोत्पातयुक्तिसिद्धिव्यपाश्रयम्||८९||

इतीदमुक्तं प्रकृतं यथातथं तदन्ववेक्ष्यं सततं भिषग्विदा|
तथा हि सिद्धिं च यशश्च शाश्वतं स सिद्धकर्मा लभते धनानि च||९०||

 

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थानेगोमयचूर्णीयमिन्द्रियं नाम द्वादशोऽध्यायः||१२||
इति चरकसंहितायां पञ्चमम् इन्द्रियस्थानं सम्पूर्णम्|