Shree Naval Kishori

सूत्रस्थानम् - १४. स्वेदाध्यायः

अथातः स्वेदाध्यायं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||

अतः स्वेदाः प्रवक्ष्यन्ते यैर्यथावत्प्रयोजितैः|
स्वेदसाध्याः प्रशाम्यन्ति गदा वातकफात्मकाः||३||
स्नेहपूर्वं प्रयुक्तेन स्वेदेनावजितेऽनिले|
पुरीषमूत्ररेतांसि न सज्जन्ति कथञ्चन||४||
शुष्काण्यपि हि काष्ठानि स्नेहस्वेदोपपादनैः|
नमयन्ति यथान्यायं किं पुनर्जीवतो नरान्||५||

रोगर्तुव्याधितापेक्षो नात्युष्णोऽतिमृदुर्न च|
द्रव्यवान् कल्पितो देशे स्वेदः कार्यकरो मतः||६||

व्याधौ शीते शरीरे च महान् स्वेदो महाबले|
दुर्बले दुर्बलः स्वेदो मध्यमे मध्यमो हितः||७||
वातश्लेष्मणि वाते वा कफे वा स्वेद इष्यते|
स्निग्धरूक्षस्तथा स्निग्धो रूक्षश्चाप्युपकल्पितः||८||

आमाशयगते वाते कफे पक्वाशयाश्रिते|
रूक्षपूर्वो हितः स्वेदः स्नेहपूर्वस्तथैव च||९||

वृषणौ हृदयं दृष्टी स्वेदयेन्मृदु नैव वा|
मध्यमं वङ्क्षणौ शेषमङ्गावयवमिष्टतः||१०||

सुशुद्धैर्नक्तकैः पिण्ड्या गोधूमानामथापि वा|
पद्मोत्पलपलाशैर्वा स्वेद्यः संवृत्य चक्षुषी||११||

मुक्तावलीभिः शीताभिः शीतलैर्भाजनैरपि|
जलार्द्रैर्जलजैर्हस्तैः स्विद्यतो हृदयं स्पृशेत्||१२||
शीतशूलव्युपरमे स्तम्भगौरवनिग्रहे|
सञ्जाते मार्दवे स्वेदे स्वेदनाद्विरतिर्मता||१३||

पित्तप्रकोपो मूर्च्छा च शरीरसदनं तृषा|
दाहः स्वराङ्गदौर्बल्यमतिस्विन्नस्य लक्षणम्||१४||
उक्तस्तस्याशितीये यो ग्रैष्मिकः सर्वशो विधिः|
सोऽतिस्विन्नस्य कर्तव्यो मधुरः स्निग्धशीतलः||१५||
कषायमद्यनित्यानां गर्भिण्या रक्तपित्तिनाम्|
पित्तिनां सातिसाराणां रूक्षाणां मधुमेहिनाम्||१६||
विदग्धभ्रष्टब्रध्नानां विषमद्यविकारिणाम्|
श्रान्तानां नष्टसञ्ज्ञानां स्थूलानां पित्तमेहिनाम्||१७||
तृष्यतां क्षुधितानां च क्रुद्धानां शोचतामपि|
कामल्युदरिणां चैव क्षतानामाढ्यरोगिणाम्||१८||
दुर्बलातिविशुष्काणामुपक्षीणौजसां तथा|
भिषक् तैमिरिकाणां च न स्वेदमवतारयेत्||१९||

प्रतिश्याये च कासे च हिक्काश्वासेष्वलाघवे|
कर्णमन्याशिरःशूले स्वरभेदे गलग्रहे||२०||
अर्दितैकाङ्गसर्वाङ्गपक्षाघाते विनामके|
कोष्ठानाहविबन्धेषु मूत्राघाते विजृम्भके||२१||
पार्श्वपृष्ठकटीकुक्षिसङ्ग्रहे गृध्रसीषु च|
मूत्रकृच्छ्रे महत्त्वे च मुष्कयोरङ्गमर्दके||२२||
पादजानूरुजङ्घार्तिसङ्ग्रहे श्वयथावपि|
खल्लीष्वामेषु शीते च वेपथौ वातकण्टके||२३||
सङ्कोचायामशूलेषु स्तम्भगौरवसुप्तिषु |
सर्वाङ्गेषु विकारेषु स्वेदनं हितमुच्यते||२४||

तिलमाषकुलत्थाम्लघृततैलामिषौदनैः|
पायसैः कृशरैर्मांसैः पिण्डस्वेदं प्रयोजयेत्||२५||
गोखरोष्ट्रवराहाश्वशकृद्भिः सतुषैर्यवैः|
सिकतापांशुपाषाणकरीषायसपूटकैः||२६||
श्लैष्मिकान् स्वेदयेत् पूर्वैर्वातिकान् समुपाचरेत्|
द्रव्याण्येतानि शस्यन्ते यथास्वं प्रस्तरेष्वपि||२७||
भूगृहेषु च जेन्ताकेषूष्णगर्भगृहेषु च|
विधूमाङ्गारतप्तेषु स्वभ्यक्तः स्विद्यते सुखम्||२८||

ग्राम्यानूपौदकं मांसं पयो बस्तशिरस्तथा|
वराहमध्यपित्तासृक् स्नेहवत्तिलतण्डुलाः||२९||
इत्येतानि समुत्क्वाथ्य नाडीस्वेदं प्रयोजयेत्|
देशकालविभागज्ञो युक्त्यपेक्षो भिषक्तमः||३०||
वारुणामृतकैरण्डशिग्रुमूलकसर्षपैः|
वासावंशकरञ्जार्कपत्रैरश्मन्तकस्य च||३१||
शोभाञ्जनकसैरेयमालतीसुरसार्जकैः |
पत्रैरुत्क्वाथ्य सलिलं नाडीस्वेदं प्रयोजयेत्||३२||
भूतीकपञ्चमूलाभ्यां सुरया दधिमस्तुना|
मूत्रैरम्लैश्च सस्नेहैर्नाडीस्वेदं प्रयोजयेत्||३३||

एत एव च निर्यूहाः प्रयोज्या जलकोष्ठके|
स्वेदनार्थं घृतक्षीरतैलकोष्ठांश्च कारयेत्||३४||

गोधूमशकलैश्चूर्णैर्यवानामम्लसंयुतैः|
सस्नेहकिण्वलवणैरुपनाहः प्रशस्यते||३५||
गन्धैः सुरायाः किण्वेन जीवन्त्या शतपुष्पया|
उमया कुष्ठतैलाभ्यां युक्तया चोपनाहयेत्||३६||
चर्मभिश्चोपनद्धव्यः सलोमभिरपूतिभिः|
उष्णवीर्यैरलाभे तु कौशेयाविकशाटकैः||३७||

रात्रौ बद्धं दिवा मुञ्चेन्मुञ्चेद्रात्रौ दिवा कृतम्|
विदाहपरिहारार्थं, स्यात् प्रकर्षस्तु शीतले||३८||

सङ्करः प्रस्तरो नाडी परिषेकोऽवगाहनम्|
जेन्ताकोऽश्मघनः कर्षूः कुटी भूः कुम्भिकैव च||३९||
कूपो होलाक इत्येते स्वेदयन्ति त्रयोदश|
तान् यथावत् प्रवक्ष्यामि सर्वानेवानुपूर्वशः||४०||

तत्र वस्त्रान्तरितैरवस्त्रान्तरितैर्वा पिण्डैर्यथोक्तैरुपस्वेदनं सङ्करस्वेद इति विद्यात्||४१||

शूकशमीधान्यपुलाकानां वेशवारपायसकृशरोत्कारिकादीनां वा प्रस्तरे 

कौशेयाविकोत्तरप्रच्छदेपञ्चाङ्गुलोरुबूकार्कपत्रप्रच्छदे वा स्वभ्यक्तसर्वगात्रस्य शयानस्योपस्वेदनं 

प्रस्तरस्वेद इति विद्यात्||४२||

स्वेदनद्रव्याणां पुनर्मूलफलपत्रशुङ्गादीनां मृगशकुनपिशितशिरस्पदादीनामुष्णस्वभावानां वा 

यथार्हमम्ललवणस्नेहोपसंहितानां मूत्रक्षीरादीनां वा कुम्भ्यां बाष्पमनुद्वमन्त्यामुत्क्वथितानां नाड्या 

शरेषीकावंशदलकरञ्जार्कपत्रान्यतमकृतया गजाग्रहस्तसंस्थानया व्यामदीर्घया व्यामार्धदीर्घया वा 

व्यामचतुर्भागाष्टभागमूलाग्रपरिणाहस्रोतसा सर्वतो वातहरपत्रसंवृतच्छिद्रया द्विस्त्रिर्वा विनामितया 

वातहरसिद्धस्नेहाभ्यक्तगात्रो बाष्पमुपहरेत्; बाष्पो ह्यनृजुगामी विहतचण्डवेगस्त्वचमविदहन् सुखं 

स्वेदयतीति नाडीस्वेदः||४३||

वातिकोत्तरवातिकानां पुनर्मूलादीनामुत्क्वाथैः सुखोष्णैः कुम्भीर्वर्षणिकाः प्रनाडीर्वा पूरयित्वा यथार्हसिद्धस्नेहाभ्यक्तगात्रं 

वस्त्रावच्छन्नं परिषेचयेदिति परिषेकः||४४||

वातहरोत्क्वाथक्षीरतैलघृतपिशितरसोष्णसलिलकोष्ठकावगाहस्तु यथोक्त एवावगाहः||४५||

अथ जेन्ताकं चिकीर्षुर्भूमिं परीक्षेत- तत्र पूर्वस्यां दिश्युत्तरस्यां वा गुणवति प्रशस्ते भूमिभागे कृष्णमधुरमृत्तिके सुवर्णमृत्तिके वा परीवापपुष्करिण्यादीनां 

जलाशयानामन्यतमस्य कूले दक्षिणे पश्चिमे वा सूपतीर्थे समसुविभक्तभूमिभागे सप्ताष्टौ वाऽरत्नीरुपक्रम्योदकात् 

प्राङ्मुखमुदङ्मुखं वाऽभिमुखतीर्थं कूटागारं कारयेत्, उत्सेधविस्तारतः परमरत्नीः षोडश, समन्तात् सुवृत्तं 

मृत्कर्मसम्पन्नमनेकवातायनम्; अस्य कूटागारस्यान्तः समन्ततो भित्तिमरत्निविस्तारोत्सेधां पिण्डिकां कारयेदाकपाटात्, 

मध्ये चास्य कूटागारस्य चतुष्किष्कुमात्रं पुरुषप्रमाणं मृन्मयं कन्दुसंस्थानं बहुसूक्ष्मच्छिद्रमङ्गारकोष्ठकस्तम्भं सपिधानं 

कारयेत्; तं च खादिराणामाश्वकर्णादीनां वा काष्ठानां पूरयित्वा प्रदीपयेत्; स यदा जानीयात् साधु दग्धानि काष्ठानि 

गतधूमान्यवतप्तं च केवलमग्निना तदग्निगृहं स्वेदयोग्येन चोष्मणा युक्तमिति, तत्रैनं पुरुषं वातहराभ्यक्तगात्रं 

वस्त्रावच्छन्नं प्रवेशयेत्, प्रवेशयंश्चैनमनुशिष्यात्- सौम्य! प्रविश कल्याणायारोग्याय चेति, प्रविश्य चैनां पिण्डिकामधिरुह्य पार्श्वापरपार्श्वाभ्यां यथासुखं शयीथाः, 

न च त्वया स्वेदमूर्च्छापरीतेनापि सता पिण्डिकैषा विमोक्तव्याऽऽप्राणोच्छ्वासात्, भ्रश्यमानो ह्यतः 

पिण्डिवकावकाशाद्द्वारमनधिगच्छन् स्वेदमूर्च्छापरीततया सद्यः प्राणाञ्जह्याः, तस्मात् पिण्डिकामेनां न 

कथञ्चन मुञ्चेथाः; त्वं यदा जानीयाः- विगताभिष्यन्दमात्मानं सम्यक्प्रस्रुतस्वेदपिच्छं सर्वस्रोतोविमुक्तं लघूभूतमपगतविबन्धस्तम्भसुप्तिवेदनागौरवमिति, 

ततस्तां पिण्डिकामनुसरन् द्वारं प्रपद्येथाः, निष्क्रम्य च न सहसा चक्षुषोः परिपालनार्थं शीतोदकमुपस्पृशेथाः, 

अपगतसन्तापक्लमस्तु मुहूर्तात् सुखोष्णेन वारिणा यथान्यायं परिषिक्तोऽश्नीयाः; इति जेन्ताकस्वेदः||४६||

शयानस्य प्रमाणेन घनामश्ममयीं शिलाम्|
तापयित्वा मारुतघ्नैर्दारुभिः सम्प्रदीपितैः||४७||
व्यपोज्झ्य सर्वानङ्गारान् प्रोक्ष्य चैवोष्णवारिणा|
तां शिलामथ कुर्वीत कौषेयाविकसंस्तराम्||४८||
तस्यां स्वभ्यक्तसर्वाङ्गः स्वपन् स्विद्यति ना सुखम्|
कौरवाजिनकौषेयप्रावाराद्यैः सुसंवृतः ||४९||
इत्यक्तोऽश्मघनस्वेदःकर्षूस्वेदः प्रवक्ष्यते|
खानयेच्छयनस्याधः कर्षूं स्थानविभागवित्||५०||
दीप्तैरधूमैरङ्गारैस्तां कर्षूं पूरयेत्ततः|
तस्यामुपरि शय्यायां स्वपन् स्विद्यति ना सुखम्||५१||
अनत्युत्सेधविस्तारां वृत्ताकारामलोचनाम्|
घनभित्तिं कुटीं कृत्वा कुष्ठाद्यैः सम्प्रलेपयेत्||५२||
कुटीमध्ये भिषक् शय्यां स्वास्तीर्णामुपकल्पयेत्|
प्रावाराजिनकौशेयकुथकम्बलगोलकैः||५३||
हसन्तिकाभिरङ्गारपूर्णाभिस्तां च सर्वशः|
परिवार्यान्तरारोहेदभ्यक्तः स्विद्यते सुखम्||५४||
य एवाश्मघनस्वेदविधिर्भूमौ स एव तु|
प्रशस्तायां निवातायां समायामुपदिश्यते||५५||
कुम्भीं वातहरक्वाथपूर्णां भूमौ निखानयेत्|
अर्धभागं त्रिभागं वा शयनं तत्र चोपरि||५६||
स्थापयेदासनं वाऽपि नातिसान्द्रपरिच्छदम्|
अथ कुम्भ्यां सुसन्तप्तान् प्रक्षिपेदयसो गुडान्||५७||
पाषाणान् वोष्मणा तेन तत्स्थः स्विद्यति ना सुखम्|
सुसंवृताङ्गः स्वभ्यक्तः स्नेहैरनिलनाशनैः||५८||

कूपं शयनविस्तारं द्विगुणं चापि वेधतः|
देशे निवाते शस्ते च कुर्यादन्तःसुमार्जितम्||५९||
हस्त्यश्वगोखरोष्ट्राणां करीषैर्दग्धपूरिते|
स्ववच्छन्नः सुसंस्तीर्णेऽभ्यक्तः स्विद्यति ना सुखम्||६०||
धीतीकां तु करीषाणां यथोक्तानां प्रदीपयेत्|
शयनान्तःप्रमाणेन शय्यामुपरि तत्र च||६१||
सुदग्धायां विधूमायां यथोक्तामुपकल्पयेत्|
स्ववच्छन्नः स्वपंस्तत्राभ्यक्तः स्विद्यति ना सुखम्||६२||
होलाकस्वेद इत्येष सुखः प्रोक्तो महर्षिणा|
इति त्रयोदशविधः स्वेदोऽग्निगुणसंश्रयः||६३||

व्यायाम उष्णसदनं गुरुप्रावरणं क्षुधा|
बहुपानं भयक्रोधावुपनाहाहवातपाः||६४||
स्वेदयन्ति दशैतानि नरमग्निगुणादृते|६५|
इत्युक्तो द्विविधः स्वेदः संयुक्तोऽग्निगुणैर्न च||६५||
एकाङ्गसर्वाङ्गगतः स्निग्धो रूक्षस्तथैव च|
इत्येतत्त्रिविधं द्वन्द्वं स्वेदमुद्दिश्य कीर्तितम्||६६||
स्निग्धः स्वेदैरुपक्रम्यः स्विन्नः पथ्याशनो भवेत्|
तदहः स्विन्नगात्रस्तु व्यायामं वर्जयेन्नरः||६७||

तत्र श्लोकाः-

स्वेदो यथा कार्यकरो हितो येभ्यश्च यद्विधः|
यत्र देशे यथा योग्यो देशो रक्ष्यश्च यो यथा||६८||
स्विन्नातिस्विन्नरूपाणि तथाऽतिस्विन्नभेषजम्|
अस्वेद्याः स्वेदयोग्याश्च स्वेदद्रव्याणि कल्पना||६९||
त्रयोदशविधः स्वेदो विना दशविधोऽग्निना|
सङ्ग्रहेण च षट् स्वेदाः स्वेदाध्याये निदर्शिताः||७०||
स्वेदाधिकारे यद्वाच्यमुक्तमेतन्महर्षिणा |
शिष्यैस्तु प्रतिपत्तव्यमुपदेष्टा पुनर्वसुः||७१||

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने स्वेदाध्यायो नाम चतुर्दशोऽध्यायः||१४||