चिकित्सास्थानम् - १८. कासचिकित्सितम्
अथातः कासचिकित्सितं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
तपसा यशसा धृत्या धिया च परयाऽन्वितः|
आत्रेयः कासशान्त्यर्थं प्राह सिद्धं चिकित्सितम्||३||
वातादिजास्त्रयो ये च क्षतजः क्षयजस्तथा|
पञ्चैते स्युर्नृणां कासा वर्धमानाः क्षयप्रदाः||४||
पूर्वरूपं भवेत्तेषां शूकपूर्णगलास्यता|
कण्ठे कण्डूश्च भोज्यानामवरोधश्च जायते||५||
अधःप्रतिहतो वायुरूर्ध्वस्रोतःसमाश्रितः|
उदानभावमापन्नः कण्ठे सक्तस्तथोरसि||६||
आविश्य शिरसः खानि सर्वाणि प्रतिपूरयन्|
आभञ्जन्नाक्षिपन् देहं हनुमन्ये तथाऽक्षिणी||७||
नेत्रे पृष्ठमुरःपार्श्वे निर्भुज्य स्तम्भयंस्ततः|
शुष्को वा सकफो वाऽपि कसनात्कास उच्यते||८||
प्रतिघातविशेषेण तस्य वायोः सरंहसः|
वेदनाशब्दवैशिष्ट्यं कासानामुपजायते||९||
रूक्षशीतकषायाल्पप्रमितानशनं स्त्रियः|
वेगधारणमायासो वातकासप्रवर्तकाः||१०||
हृत्पार्श्वोरःशिरःशूलस्वरभेदकरो भृशम्|
शुष्कोरःकण्ठवक्रस्य हृष्टलोम्नः प्रताम्यतः||११||
निर्घोषदैन्यस्तननदौर्बल्यक्षोभमोहकृत्|
शुष्ककासः कफं शुष्कं कृच्छ्रान्मुक्त्वाऽल्पतां व्रजेत्||१२||
स्निग्धाम्ललवणोष्णैश्च भुक्तपीतैः प्रशाम्यति|
ऊर्ध्ववातस्य जीर्णेऽन्ने वेगवान्मारुतो भवेत्||१३||
कटुकोष्णविदाह्यम्लक्षाराणामतिसेवनम्|
पित्तकासकरं क्रोधः सन्तापश्चाग्निसूर्यजः||१४||
पीतनिष्ठीवनाक्षित्वं तिक्तास्यत्वं स्वरामयः|
उरोधूमायनं तृष्णा दाहो मोहोऽरुचिर्भ्रमः||१५||
प्रततं कासमानश्च ज्योतींषीव च पश्यति|
श्लेष्माणं पित्तसंसृष्टं निष्ठीवति च पैत्तिके||१६||
गुर्वभिष्यन्दिमधुरस्निग्धस्वप्नाविचेष्टनैः|
वृद्धः श्लेष्माऽनिलं रुद्ध्वा कफकासं करोति हि||१७||
मन्दाग्नित्वारुचिच्छर्दिपीनसोत्क्लेशगौरवैः|
लोमहर्षास्यमाधुर्यक्लेदसंसदनैर्युतम्||१८||
बहुलं मधुरं स्निग्धं निष्ठीवति घनं कफम्|
कासमानो ह्यरुग् वक्षः सम्पूर्णमिव मन्यते||१९||
अतिव्यवायभाराध्वयुद्धाश्वगजविग्रहैः|
रूक्षस्योरः क्षतं वायुर्गृहीत्वा कासमावहेत्||२०||
स पूर्वं कासते शुष्कं ततः ष्ठीवेत् सशोणितम्|
कण्ठेन रुजताऽत्यर्थं विरुग्णेनेव चोरसा||२१||
सूचीभिरिव तीक्ष्णाभिस्तुद्यमानेन शूलिना|
दुःखस्पर्शेन शूलेन भेदपीडाभितापिना||२२||
पर्वभेदज्वरश्वासतृष्णावैस्वर्यपीडितः|
पारावत इवाकूजन् कासवेगात्क्षतोद्भवात्||२३||
विषमासात्म्यभोज्यातिव्यवायाद्वेगनिग्रहात्|
घृणिनां शोचतां नॄणां व्यापन्नेऽग्नौ त्रयो मलाः||२४||
कुपिताः क्षयजं कासं कुर्युर्देहक्षयप्रदम्|
दुर्गन्धं हरितं रक्तं ष्ठीवेत् पूयोपमं कफम्||२५||
स्थानादुत्कासमानश्च हृदयं मन्यते च्युतम् |
अकस्मादुष्णशीतार्तो बह्वाशी दुर्बलः कृशः||२६||
स्निग्धाच्छमुखवर्णत्वक् श्रीमद्दर्शनलोचनः |
पाणिपादतलैः श्लक्ष्णैः सततासूयको घृणी||२७||
ज्वरो मिश्राकृतिस्तस्य पार्श्वरुक् पीनसोऽरुचिः|
भिन्नसंहतवर्चस्त्वं स्वरभेदोऽनिमित्ततः||२८||
इत्येष क्षयजः कासः क्षीणानां देहनाशनः|
साध्यो बलवतां वा स्याद्याप्यस्त्वेवं क्षतोत्थितः||२९||
नवौ कदाचित् सिध्येतामेतौ पादगुणान्वितौ|
स्थविराणां जराकासः सर्वो याप्यः प्रकीर्तितः||३०||
त्रीन्साध्यान्साधयेत्पूर्वान् पथ्यैर्याप्यांश्च यापयेत्|
चिकित्सामत ऊर्ध्वं तु शृणु कासनिबर्हिणीम्||३१||
रूक्षस्यानिलजं कासमादौ स्नेहैरुपाचरेत्|
सर्पिर्भिर्बस्तिभिः पेयायूषक्षीररसादिभिः||३२||
वातघ्नसिद्धैः स्नेहाद्यैर्धूमैर्लेहैश्च युक्तितः|
अभ्यङ्गैः परिषेकैश्च स्निग्धैः स्वेदैश्च बुद्धिमान्||३३||
बस्तिभिर्बद्धविड्वातं शुष्कोर्ध्वं चोर्ध्वभक्तिकैः|
घृतैः सपित्तं सकफं जयेत् स्नेहविरेचनैः||३४||
कण्टकारीगुडूचीभ्यां पृथक् त्रिंशत्पलाद्रसे|
प्रस्थः सिद्धो घृताद्वातकासनुद्वह्निदीपनः||३५||
इति कण्टकारीघृतम्|
पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः|
धान्यपाठावचारास्नायष्ट्याह्वक्षारहिङ्गुभिः||३६||
कोलमात्रैर्घृतप्रस्थाद्दशमूलीरसाढके|
सिद्धाच्चतुर्थिकां पीत्वा पेयामण्डं पिबेदनु||३७||
तच्छ्वासकासहृत्पार्श्वग्रहणीदोषगुल्मनुत्|
पिप्पल्याद्यं घृतं चैतदात्रेयेण प्रकीर्तितम्||३८||
इति पिप्पल्यादिघृतम्|
त्र्यूषणं त्रिफलां द्राक्षां काश्मर्याणि परूषकम्|
द्वे पाठे देवदार्वृद्धिं स्वगुप्तां चित्रकं शटीम्||३९||
ब्राह्मीं तामलकीं मेदां काकनासां शतावरीम्|
त्रिकण्टकं विदारीं च पिष्ट्वा कर्षसमं घृतात्||४०||
प्रस्थं चतुर्गुणे क्षीरे सिद्धं कासहरं पिबेत्|
ज्वरगुल्मारुचिप्लीहशिरोहृत्पार्श्वशूलनुत्||४१||
कामलार्शोऽनिलाष्ठीलाक्षतशोषक्षयापहम्|
त्र्यूषणं नाम विख्यातमेतद्धृतमनुत्तमम्||४२||
इति त्र्यूषणाद्यं घृतम्|
द्रोणेऽपां साधयेद्रास्नां दशमूलीं शतावरीम्|
पलिकां माणिकांशांस्तु कुलत्थान्बदरान्यवान्||४३||
तुलार्धं चाजमांसस्य पादशेषेण तेन च|
घृताढकं समक्षीरं जीवनीयैः पलोन्मितैः||४४||
सिद्धं तद्दशभिः कल्कैर्नस्यपानानुवासनैः|
समीक्ष्य वातरोगेषु यथावस्थं प्रयोजयेत्||४५||
पञ्चकासान् शिरःकम्पं शूलं वङ्क्षणयोनिजम्|
सर्वाङ्गैकाङ्गरोगांश्च सप्लीहोर्ध्वानिलाञ्जयेत्||४६||
इति रास्नाघृतम्|
विडङ्गं नागरं रास्ना पिप्पली हिङ्गु सैन्धवम्|
भार्गी क्षारश्च तच्चूर्णं पिबेद्वा घृतमात्रया||४७||
सकफेऽनिलजे कासे श्वासहिक्काहताग्निषु|
द्वौ क्षारौ पञ्चकोलानि पञ्चैव लवणानि च||४८||
शटीनागरकोदीच्यकल्कं वा वस्त्रगालितम्|
पाययेत घृतोन्मिश्रं वातकासनिबर्हणम्||४९||
दुरालभां शटीं द्राक्षां शृङ्गवेरं सितोपलाम्|
लिह्यात् कर्कटशृङ्गीं च कासे तैलेन वातजे||५०||
दुःस्पर्शां पिप्पलीं मुस्तं भार्गीं कर्कटकीं शटीम्|
पुराणगुडतैलाभ्यां चूर्णितं वाऽपि लेहयेत्||५१||
विडङ्गं सैन्धवं कुष्ठं व्योषं हिङ्गु मनःशिलाम्|
मधुसर्पिर्युतं कासहिक्काश्वासं जयेल्लिहन्||५२||
चित्रकं पिप्पलीमूलं व्योषं हिङ्गु दुरालभाम्|
शटीं पुष्करमूलं च श्रेयसीं सुरसां वचाम्||५३||
भार्गीं छिन्नरुहां रास्नां शृङ्गीं द्राक्षां च कार्षिकान्|
कल्कानर्धतुलाक्वाथे निदिग्ध्याः पलविंशतिम् ||५४||
दत्त्वा मत्स्यण्डिकायाश्च घृताच्च कुडवं पचेत्|
सिद्धं शीतं पृथक् क्षौद्रपिप्पलीकुडवान्वितम्||५५||
चतुष्पलं तुगाक्षीर्याश्चूर्णितं तत्र दापयेत्|
लेहयेत् कासहृद्रोगश्वासगुल्मनिवारणम्||५६||
इति चित्रकादिलेहः|
दशमूलीं स्वयङ्गुप्तां शङ्खपुष्पीं शटीं बलाम्|
हस्तिपिप्पल्यपामार्गपिप्पलीमूलचित्रकान्||५७||
भार्गीं पुष्करमूलं च द्विपलांशं यवाढकम्|
हरीतकीशतं चैकं जले पञ्चाढके पचेत्||५८||
यवैः स्विन्नैः कषायं तं पूतं तच्चाभयाशतम्|
पचेद्गुडतुलां दत्त्वा कुडवं च पृथग्घृतात्||५९||
तैलात् सपिप्पलीचूर्णात् सिद्धशीते च माक्षिकात्|
लिह्याद्द्वे चाभये नित्यमतः खादेद्रसायनात्||६०||
तद्वलीपलितं हन्ति वर्णायुर्बलवर्धनम्|
पञ्चकासान् क्षयं श्वासं हिक्कां च विषमज्वरम्||६१||
हन्यात्तथाऽर्शोग्रहणीहृद्रोगारुचिपीनसान्|
अगस्त्यविहितं श्रेष्ठं रसायनमिदं शुभम्||६२||
इत्यगस्त्यहरीतकी|
सैन्धवं पिप्पलीं भार्गीं शृङ्गवेरं दुरालभाम्|
दाडिमाम्लेन कोष्णेन भार्गीनागरमम्बुना||६३||
पिबेत् खदिरसारं वा मदिरादधिमस्तुभिः|
अथवा पिप्पलीकल्कं घृतभृष्टं ससैन्धवम्||६४||
शिरसः पीडने स्रावे नासाया हृदि ताम्यति|
कासप्रतिश्यायवतां धूमं वैद्यः प्रयोजयेत्||६५||
दशाङ्गुलोन्मितां नाडीमथवाऽष्टाङ्गुलोन्मिताम्|
शरावसम्पुटच्छिद्रे कृत्वा जिह्मां विचक्षणः||६६||
वैरेचनं मुखेनैव कासवान् धूममापिबेत्|
तमुरः केवलं प्राप्तं मुखेनैवोद्वमेत् पुनः||६७||
स ह्यस्य तैक्ष्ण्याद्विच्छिद्य श्लेष्माणमुरसि स्थितम्|
निष्कृष्य शमयेत् कासं वातश्लेष्मसमुद्भवम्||६८||
मनःशिलालमधुकमांसीमुस्तेङ्गुदैः पिबेत्|
धूमं तस्यानु च क्षीरं सुखोष्णं सगुडं पिबेत्||६९||
एष कासान् पृथग्दोषसन्निपातसमुद्भवान्|
धूमो हन्यादसंसिद्धानन्यैर्योगशतैरपि||७०||
प्रपौण्डरीकं मधुकं शार्ङ्गेष्टां समनःशिलाम्|
मरिचं पिप्पलीं द्राक्षामेलां सुरसमञ्जरीम्||७१||
कृत्वा वर्तिं पिबेद्धूमं क्षौमचेलानुवर्तिताम्|
घृताक्तामनु च क्षीरं गुडोदकमथापि वा||७२||
मनःशिलैलामरिचक्षाराञ्जनकुटन्नटैः|
वंशलेखनसेव्यालक्षौमलक्तकरोहिषैः ||७३||
पूर्वकल्पेन धूमोऽयं सानुपानो विधीयते|
मनःशिलाले तद्वच्च पिप्पलीनागरैः सह||७४||
त्वगैङ्गुदी बृहत्यौ द्वे तालमूली मनःशिला|
कार्पासास्थ्यश्वगन्धा च धूमः कासविनाशनः||७५||
ग्राम्यानूपौदकैः शालियवगोधूमषष्टिकान्|
रसैर्माषात्मगुप्तानां यूषैर्वा भोजयेद्धितान्||७६||
यवानीपिप्पलीबिल्वमध्यनागरचित्रकैः|
रास्नाजाजीपृथक्पर्णीपलाशशटिपौष्करैः||७७||
स्निग्धाम्ललवणां सिद्धां पेयामनिलजे पिबेत्|
कटीहृत्पार्श्वकोष्ठार्तिश्वासहिक्काप्रणाशिनीम्||७८||
दशमूलरसे तद्वत्पञ्चकोलगुडान्विताम्|
सिद्धां समतिलां दद्यात्क्षीरे वाऽपि ससैन्धवाम्||७९||
मात्स्यकौक्कुटवाराहैरामिषैर्वा घृतान्विताम्|
सिद्धां ससैन्धवां पेयां वातकासी पिबेन्नरः||८०||
वास्तुको वायसीशाकं मूलकं सुनिषण्णकम्|
स्नेहास्तैलादयो भक्ष्याः क्षीरेक्षुरसगौडिकाः||८१||
दध्यारनालाम्लफलप्रसन्नापानमेव च|
शस्यते वातकासे तु स्वाद्वम्ललवणानि च||८२||
इति वातकासचिकित्सा|
पैत्तिके सकफे कासे वमनं सर्पिषा हितम्|
तथा मदनकाश्मर्यमधुकक्वथितैर्जलैः||८३||
यष्ट्याह्वफलकल्कैर्वा विदारीक्षुरसायुतैः|
हृतदोषस्ततः शीतं मधुरं च क्रमं भजेत्||८४||
पैत्ते तनुकफे कासे त्रिवृतां मधुरैर्युताम्|
दद्याद्घनकफे तिक्तैर्विरेकार्थे युतां भिषक्||८५||
स्निग्धशीतस्तनुकफे रूक्षशीतः कफे घने|
क्रमः कार्यः परं भोज्यैः स्नेहैर्लेहैश्च शस्यते||८६||
शृङ्गाटकं पद्मबीजं नीलीसाराणि पिप्पली|
पिप्पलीमुस्तयष्ट्याह्वद्राक्षामूर्वामहौषधम्||८७||
लाजाऽमृतफला द्राक्षा त्वक्क्षीरी पिप्पली सिता|
पिप्पलीपद्मकद्राक्षा बृहत्याश्च फलाद्रसः||८८||
खर्जूरं पिप्पली वांशी श्वदंष्ट्रा चेति पञ्च ते|
घृतक्षौद्रयुता लेहाः श्लोकार्धैः पित्तकासिनाम्||८९||
शर्कराचन्दनद्राक्षामधुधात्रीफलोत्पलैः|
पैत्ते, समुस्तमरिचः सकफे, सघृतोऽनिले||९०||
मृद्वीकार्धशतं त्रिंशत्पिप्पलीः शर्करापलम्|
लेहयेन्मधुना गोर्वा क्षीरपं च शकृद्रसम्||९१||
त्वगेलाव्योषमृद्वीकापिप्पलीमूलपौष्करैः|
लाजामुस्तशटीरास्नाधात्रीफलबिभीतकैः||९२||
शर्कराक्षौद्रसर्पिर्भिर्लेहः कासविनाशनः|
श्वासं हिक्कां क्षयं चैव हृद्रोगं च प्रणाशयेत्||९३||
पिप्पल्यामलकं द्राक्षां लाक्षां लाजां सितोपलाम्|
क्षीरे पक्त्वा घनं शीतं लिह्यात् क्षौद्राष्टभागिकम्||९४||
विदारीक्षुमृणालानां रसान् क्षीरं सितोपलाम्|
पिबेद्वा मधुसंयुक्तं पित्तकासहरं परम्||९५||
मधुरैर्जाङ्गलरसैः श्यामाकयवकोद्रवाः|
मुद्गादियूषैः शाकैश्च तिक्तकैर्मात्रया हिताः||९६||
घनश्लेष्मणि लेहास्तु तिक्तका मधुसंयुताः|
शालयः स्युस्तनुकफे षष्टिकाश्च रसादिभिः||९७||
शर्कराम्भोऽनुपानार्थं द्राक्षेक्षूणां रसाः पयः|
सर्वं च मधुरं शीतमविदाहि प्रशस्यते||९८||
काकोलीबृहतीमेदायुग्मैः सवृषनागरैः|
पित्तकासे रसान् क्षीरं यूषांश्चाप्युपकल्पयेत्||९९||
शरादिपञ्चमूलस्य पिप्पलीद्राक्षयोस्तथा|
कषायेण शृतं क्षीरं पिबेत् समधुशर्करम्||१००||
स्थिरासितापृश्निपर्णीश्रावणीबृहतीयुगैः|
जीवकर्षभकाकोलीतामलक्यृद्धिजीवकैः||१०१||
शृतं पयः पिबेत् कासी ज्वरी दाही क्षतक्षयी|
तज्जं वा साधयेत् सर्पिः सक्षीरेक्षुरसं भिषक्||१०२||
जीवकाद्यैर्मधुरकैः फलैश्चाभिषुकादिभिः|
कल्कैस्त्रिकार्षिकैः सिद्धे पूतशीते प्रदापयेत्||१०३||
शर्करापिप्पलीचूर्णं त्वक्क्षीर्या मरिचस्य च|
शृङ्गाटकस्य चावाप्य क्षौद्रगर्भान्पलोन्मितान्||१०४||
गुडान् गोधूमचूर्णेन कृत्वा खादेद्धिताशनः|
शुक्रासृग्दोषशोषेषु कासे क्षीणक्षतेषु च||१०५||
शर्करानागरोदीच्यं कण्टकारीं शटीं समम्|
पिष्ट्वा रसं पिबेत्पूतं वस्त्रेण घृतमूर्च्छितम्||१०६||
महिष्यजाविगोक्षीरधात्रीफलरसैः समैः|
सर्पिः सिद्धं पिबेद्युक्त्या पित्तकासनिबर्हणम्||१०७||
इति पित्तकासचिकित्सा|
बलिनं वमनैरादौ शोधितं कफकासिनम्|
यवान्नैः कटुरूक्षोष्णैः कफघ्नैश्चाप्युपाचरेत्||१०८||
पिप्पलीक्षारिकैर्यूषैः कौलत्थैर्मूलकस्य च|
लघून्यन्नानि भुञ्जीत रसैर्वा कटुकान्वितैः||१०९||
धान्वबैलरसैः स्नेहैस्तिलसर्षपबिल्वजैः|
मध्वम्लोष्णाम्बुतक्रं वा मद्यं वा निगदं पिबेत्||११०||
पौष्करारग्वधं मूलं पटोलं तैर्निशास्थितम्|
जलं मधुयुतं पेयं कालेष्वन्नस्य वा त्रिषु||१११||
कट्फलं कत्तृणं भार्गीं मुस्तं धान्यं वचाभये|
शुण्ठीं पर्पटकं शृङ्गीं सुराह्वं च शृतं जले||११२||
मधुहिङ्गुयुतं पेयं कासे वातकफात्मके|
कण्ठरोगे मुखे शूने श्वासहिक्काज्वरेषु च||११३||
पाठां शुण्ठीं शटीं मूर्वां गवाक्षीं मुस्तपिप्पलीम्|
पिष्ट्वा घर्माम्बुना हिङ्गुसैन्धवाभ्यां युतां पिबेत्||११४||
नागरातिविषे मुस्तं शृङ्गीं कर्कटकस्य च|
हरीतकीं शटीं चैव तेनैव विधिना पिबेत्||११५||
तैलभृष्टं च पिप्पल्याः कल्काक्षं ससितोपलम्|
पिबेद्वा श्लेष्मकासघ्नं कुलत्थरससंयुतम्||११६||
कासमर्दाश्वविट्भृङ्गराजवार्ताकजो रसः|
सक्षौद्रः कफकासघ्नः सुरसस्यासितस्य च||११७||
देवदारु शटी रास्ना कर्कटाख्या दुरालभा|
पिप्पली नागरं मुस्तं पथ्याधात्रीसितोपलाः||११८||
मधुतैलयुतावेतौ लेहौ वातानुगे कफे|
पिप्पली पिप्पलीमूलं चित्रको हस्तिपिप्पली||११९||
पथ्या तामलकी धात्री भद्रमुस्ता च पिप्पली|
देवदार्वभया मुस्तं पिप्पली विश्वभेषजम्||१२०||
विशाला पिप्पली मुस्तं त्रिवृता चेति लेहयेत्|
चतुरो मधुना लेहान् कफकासहरान् भिषक्||१२१||
सौवर्चलाभयाधात्रीपिप्पलीक्षारनागरम्|
चूर्णितं सर्पिषा वातकफकासहरं पिबेत्||१२२||
दशमूलाढके प्रस्थं घृतस्याक्षसमैः पचेत्|
पुष्कराह्वशटीबिल्वसुरसव्योषहिङ्गुभिः||१२३||
पेयानुपानं तत् पेयं कासे वातकफात्मके|
श्वासरोगेषु सर्वेषु कफवातात्मकेषु च||१२४||
इति दशमूलादिघृतम्|
समूलफलपत्रायाः कण्टकार्या रसाढके|
घृतप्रस्थं बलाव्योषविडङ्गशटिचित्रकैः||१२५||
सौवर्चलयवक्षारपिप्पलीमूलपौष्करैः|
वृश्चीरबृहतीपथ्यायवानीदाडिमर्धिभिः||१२६||
द्राक्षापुनर्नवाचव्यदुरालम्भाम्लवेतसैः|
शृङ्गीतामलकीभार्गीरास्नागोक्षुरकैः पचेत्||१२७||
कल्कैस्तत् सर्वकासेषु हिक्काश्वासेषु शस्यते|
कण्टकारीघृतं ह्येतत् कफव्याधिनिसूदनम्||१२८||
इति कण्टकारीघृतम्|
कुलत्थरसयुक्तं वा पञ्चकोलशृतं घृतम्|
पाययेत् कफजे कासे हिक्काश्वासे च शस्यते||१२९||
इति कुलत्थादिघृतम्|
धूमांस्तानेव दद्याच्च ये प्रोक्ता वातकासिनाम्|
कोशातकीफलान्मध्यं पिबेद्वा समनःशिलम्||१३०||
तमकः कफकासे तु स्याच्चेत् पित्तानुबन्धजः|
पित्तकासक्रियां तत्र यथावस्थं प्रयोजयेत्||१३१||
वाते कफानुबन्धे तु कुर्यात् कफहरीं क्रियाम्|
पित्तानुबन्धयोर्वातकफयोः पित्तनाशिनीम्||१३२||
आर्द्रे विरूक्षणं, शुष्के स्निग्धं, वातकफात्मके|
कासेऽन्नपानं कफजे सपित्ते तिक्तसंयुतम्||१३३||
इति कफजकासचिकित्सा|
कासमात्ययिकं मत्वा क्षतजं त्वरया जयेत्|
मधुरैर्जीवनीयैश्च बलमांसविवर्धनैः||१३४||
पिप्पली मधुकं पिष्टं कार्षिकं ससितोपलम्|
प्रास्थिकं गव्यमाजं च क्षीरमिक्षुरसस्तथा||१३५||
यवगोधूममृद्वीकाचूर्णमामलकाद्रसः|
तैलं च प्रसृतांशानि तत् सर्वं मृदुनाऽग्निना||१३६||
पचेल्लेहं घृतक्षौद्रयुक्तः स क्षतकासहा|
श्वासहृद्रोगकार्श्येषु हितो वृद्धेऽल्परेतसि||१३७||
क्षतकासाभिभूतानां वृत्तिः स्यात् पित्तकासिकी|
क्षीरसर्पिर्मधुप्राया संसर्गे तु विशेषणम्||१३८||
वातपित्तार्दितेऽभ्यङ्गो गात्रभेदे घृतैर्हितः|
तैलैर्मारुतरोगघ्नैः पीड्यमाने च वायुना||१३९||
हृत्पार्श्वार्तिषु पानं स्याज्जीवनीयस्य सर्पिषः|
सदाहं कासिनो रक्तं ष्ठीवतः सबलेऽनले||१४०||
मांसोचितेभ्यः क्षामेभ्यो लावादीनां रसा हिताः|
तृष्णार्तानां पयश्छागं शरमूलादिभिः शृतम्||१४१||
रक्ते स्रोतोभ्य आस्याद्वाऽप्यागते क्षीरजं घृतम्|
नस्यं पानं यवागूर्वा श्रान्ते क्षामे हतानले||१४२||
स्तम्भायामेषु महतीं मात्रां वा सर्पिषः पिबेत्|
कुर्याद्वा वातरोगघ्नं पित्तरक्ताविरोधि यत्||१४३||
निवृत्ते क्षतदोषे तु कफे वृद्ध उरः क्षते|
दाल्यते कासिनो यस्य स धूमान्ना पिबेदिमान्||१४४||
द्वे मेदे मधुकं द्वे च बले तैः क्षौमलक्तकैः|
वर्तितैर्धूममापीय जीवनीयघृतं पिबेत्||१४५||
मनःशिलापलाशाजगन्धात्वक्क्षीरिनागरैः|
भावयित्वा पिबेत् क्षौममनु चेक्षुगुडोदकम्||१४६||
पिष्ट्वा मनःशिलां तुल्यामार्द्रया वटशुङ्गया|
ससर्पिष्कं पिबेद्धूमं तित्तिरिप्रतिभोजनम्||१४७||
भावितं जीवनीयैर्वा कुलिङ्गाण्डरसायुतैः|
क्षौमं धूमं पिबेत् क्षीरं शृतं चायोगुडैरनु||१४८||
इति क्षतजकासचिकित्सा|
सम्पूर्णरूपं क्षयजं दुर्बलस्य विवर्जयेत्|
नवोत्थितं बलवतः प्रत्याख्यायाचरेत् क्रियाम्||१४९||
तस्मै बृंहणमेवादौ कुर्यादग्नेश्च दीपनम्|
बहुदोषाय सस्नेहं मृदु दद्याद्विरेचनम्||१५०||
शम्पाकेन त्रिवृतया मृद्वीकारसयुक्तया|
तिल्वकस्य कषायेण विदारीस्वरसेन च||१५१||
सर्पिः सिद्धं पिबेद्युक्त्या क्षीणदेहो विशोधनम्|
(हितं तद्देहबलयोरस्य संरक्षणं मतम् )||१५२||
पित्ते कफे च सङ्क्षीणे परिक्षीणेषु धातुषु|
घृतं कर्कटकीक्षीरद्विबलासाधितं पिबेत्||१५३||
विदारीभिः कदम्बैर्वा तालसस्यैस्तथा शृतम्|
घृतं पयश्च मूत्रस्य वैवर्ण्ये कृच्छ्रनिर्गमे||१५४||
शूने सवेदने मेढ्रे पायौ सश्रोणिवङ्क्षणे|
घृतमण्डेन मधुनाऽनुवास्यो मिश्रकेण वा||१५५||
जाङ्गलैः प्रतिभुक्तस्य वर्तकाद्या बिलेशयाः|
क्रमशः प्रसहाश्चैव प्रयोज्याः पिशिताशिनः||१५६||
औष्ण्यात् प्रमाथिभावाच्च स्रोतोभ्यश्च्यावयन्ति ते|
कफं, शुद्धैश्च तैः पुष्टिं कुर्यात्सम्यग्वहन्रसः||१५७||
द्विपञ्चमूलीत्रिफलाचविकाभार्गिचित्रकैः|
कुलत्थपिप्पलीमूलपाठाकोलयवैर्जले||१५८||
शृतैर्नागरदुःस्पर्शापिप्पलीशटिपौष्करैः|
कल्कैः कर्कटशृङ्ग्या च समैः सर्पिर्विपाचयेत्||१५९||
सिद्धेऽस्मिंश्चूर्णितौ क्षारौ द्वौ पञ्च लवणानि च|
दत्त्वा युक्त्या पिबेन्मात्रां क्षयकासनिपीडितः||१६०||
इति द्विपञ्चमूलादिघृतम्|
गुडूचीं पिप्पलीं मूर्वां हरिद्रां श्रेयसीं वचाम्|
निदिग्धिकां कासमर्दं पाठां चित्रकनागरम्||१६१||
जले चतुर्गुणे पक्त्वा पादशेषेण तत्समम्|
सिद्धं सर्पिः पिबेद्गुल्मश्वासार्तिक्षयकासनुत्||१६२||
इति गुडूच्यादिघृतम्|
कासमर्दाभयामुस्तपाठाकट्फलनागरैः|
पिप्पलीकटुकाद्राक्षाकाश्मर्यसुरसैस्तथा||१६३||
अक्षमात्रैर्घृतप्रस्थं क्षीरद्राक्षारसाढके|
पचेच्छोषज्वरप्लीहसर्वकासहरं शिवम्||१६४||
धात्रीफलैः क्षीरसिद्धैः सर्पिर्वाऽप्यवचूर्णितम्|
द्विगुणे दाडिमरसे विपक्वं व्योषसंयुतम्||१६५||
पिबेदुपरि भक्तस्य यवक्षारघृतं नरः|
पिप्पलीगुडसिद्धं वा च्छागक्षीरयुतं घृतम्||१६६||
एतान्यग्निविवृद्ध्यर्थं सर्पींषि क्षयकासिनाम्|
स्युर्दोषबद्धकोष्ठोरःस्रोतसां च विशुद्धये||१६७||
हरीतकीर्यवक्वाथद्व्याढके विंशतिं पचेत्|
स्विन्ना मृदित्वा तास्तस्मिन् पुराणं गुडषट्पलम्||१६८||
दद्यान्मनःशिलाकर्षं कर्षार्धं च रसाञ्जनात्|
कुडवार्धं च पिप्पल्याः स लेहः श्वासकासनुत्||१६९||
इति हरीतकीलेहः|
श्वाविधः सूचयो दग्धाः सघृतक्षौद्रशर्कराः|
श्वासकासहरा बर्हिपादौ वा क्षौद्रसर्पिषा||१७०||
एरण्डपत्रक्षारं वा व्योषतैलगुडान्वितम्|
लिह्यादेतेन विधिना सुरसैरण्डपत्रजम्||१७१||
द्राक्षापद्मकवार्ताकपिप्पलीः क्षौद्रसर्पिषा|
लिह्यात्त्र्यूषणचूर्णं वा पुराणगुडसर्पिषा||१७२||
चित्रकं त्रिफलाजाजी कर्कटाख्या कटुत्रिकम्|
द्राक्षां च क्षौद्रसर्पिर्भ्यां लिह्यादद्याद्गुडेन वा||१७३||
पद्मकं त्रिफलां व्योषं विडङ्गं सुरदारु च|
बलां रास्नां च तुल्यानि सूक्ष्मचूर्णानि कारयेत्||१७४||
सर्वैरेभिः समं चूर्णैः पृथक् क्षौद्रं घृतं सिताम्|
विमथ्य लेहयेल्लेहं सर्वकासहरं शिवम्||१७५||
जीवन्तीं मधुकं पाठां त्वक्क्षीरीं त्रिफलां शटीम्|
मुस्तैले पद्मकं द्राक्षां द्वे बृहत्यौ वितुन्नकम्||१७६||
सारिवां पौष्करं मूलं कर्कटाख्यां रसाञ्जनम्|
पुनर्नवां लोहरजस्त्रायमाणां यवानिकाम्||१७७||
भार्गीं तामलकीमृद्धिं विडङ्गं धन्वयासकम्|
क्षारचित्रकचव्याम्लवेतसव्योषदारु च||१७८||
चूर्णीकृत्य समांशानि लेहयेत् क्षौद्रसर्पिषा|
चूर्णात्पाणितलं पञ्च कासानेतद् व्यपोहति||१७९||
इति पद्मकादिलेहः|
लिह्यान्मरिचचूर्णं वा सघृतक्षौद्रशर्करम्|
बदरीपत्रकल्कं वा घृतभृष्टं ससैन्धवम्||१८०||
स्वरभेदे च कासे च लेहमेतं प्रयोजयेत्|
पत्रकल्कं घृतैर्भृष्टं तिल्वकस्य सशर्करम्||१८१||
पेया चोत्कारिका च्छर्दितृट्कासामातिसारनुत्|
गौरसर्षपगण्डीरविडङ्गव्योषचित्रकान्|
साभयान् साधयेत्तोये यवागूं तेन चाम्भसा||१८२||
ससर्पिर्लवणां कासे हिक्काश्वासे सपीनसे|
पाण्ड्वामये क्षये शोथे कर्णशूले च दापयेत्||१८३||
कण्टकारीरसे सिद्धो मुद्गयूषः सुसंस्कृतः|
सगौरामलकः साम्लः सर्वकासभिषग्जितम्||१८४||
वातघ्नौषधनिष्क्वाथं क्षीरं यूषान् रसानपि|
वैष्किरप्रतुदान् बैलान् दापयेत् क्षयकासिने||१८५||
क्षतकासे च ये धूमाः सानुपाना निदर्शिताः|
क्षयकासेऽपि तानेव यथावस्थं प्रयोजयेत्||१८६||
दीपनं बृंहणं चैव स्रोतसां च विशोधनम्|
व्यत्यासात्क्षयकासिभ्यो बल्यं सर्वं हितं भवेत्||१८७||
सन्निपातभवोऽप्येष क्षयकासः सुदारुणः|
सन्निपातहितं तस्मात् सदा कार्यं भिषग्जितम्||१८८||
दोषानुबलयोगाच्च हरेद्रोगबलाबलम्|
कासेष्वेषु गरीयांसं जानीयादुत्तरोत्तरम्||१८९||
भोज्यं पानानि सर्पींषि लेहाश्च सह पानकैः|
क्षीरं सर्पिर्गुडा धूमाः कासभैषज्यसङ्ग्रहः||१९०||
तत्र श्लोकः-
सङ्ख्या निमित्तं रूपाणि साध्यासाध्यत्वमेव च|
कासानां भेषजं प्रोक्तं गरीयस्त्वं च कासिनः||१९१||
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरितेचिकित्सास्थाने
कासचिकित्सितं नामाष्टादशोऽध्यायः||१८||