Shree Naval Kishori

चिकित्सास्थानम् - २/१. संयोगशरमूलीयो वाजीकरणपादः

अथातः संयोगशरमूलीयं वाजीकरणपादं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||

वाजीकरणमन्विच्छेत् पुरुषो नित्यमात्मवान्|
तदायत्तौ हि धर्मार्थौ प्रीतिश्च यश एव च||३||
पुत्रस्यायतनं ह्येतद्गुणाश्चैते सुताश्रयाः|४|

वाजीकरणमग्र्यं च क्षेत्रं स्त्री या प्रहर्षिणी||४||
इष्टा ह्योकैकशोऽप्यर्था परं प्रीतिकरा स्मृताः|
किं पुनः स्त्रीशरीरे ये सङ्घातेन प्रतिष्ठिताः||५||
(सङ्घातो हीन्द्रियार्थानां स्त्रीषु नान्यत्र विद्यते)|
स्त्र्याश्रयो हीन्द्रियार्थो यः स प्रीतिजननोऽधिकम्|
स्त्रीषु प्रीतिर्विशेषेण स्त्रीष्वपत्यं प्रतिष्ठितम्||६||
धर्मार्थौ स्त्रीषु लक्ष्मीश्च स्त्रीषु लोकाः प्रतिष्ठिताः|
सुरूपा यौवनस्था या लक्षणैर्या विभूषिता||७||
या वश्या शिक्षिता या च सा स्त्री वृष्यतमा मता|८|

नानाभक्त्या तु लोकस्य दैवयोगाच्च योषिताम्||८||
तं तं प्राप्य विवर्धन्ते नरं रूपादयो गुणाः|
वयोरूपवचोहावैर्या यस्य परमाङ्गना||९||
प्रविशत्याशु हृदयं दैवाद्वा कर्मणोऽपि वा|
हृदयोत्सवरूपा या या समानमनःशया||१०||
समानसत्त्वा या वश्या या यस्य प्रीयते प्रियैः|
या पाशभूता सर्वेषामिन्द्रियाणां परैर्गुणैः||११||
यया वियुक्तो निस्त्रीकमरतिर्मन्यते जगत्|
यस्या ऋते शरीरं ना धत्ते शून्यमिवेन्द्रियैः||१२||
शोकोद्वेगारतिभयैर्यां दृष्ट्वा नाभिभूयते|
याति यां प्राप्य विस्रम्भं दृष्ट्वा हृष्यत्यतीव याम्||१३||
अपूर्वामिव यां याति नित्यं हर्षातिवेगतः|
गत्वा गत्वाऽपि बहुशो यां तृप्तिं नैव गच्छति||१४||
सा स्त्री वृष्यतमा तस्य नानाभावा हि मानवाः|
अतुल्यगोत्रां वृष्यां च प्रहृष्टां निरुपद्रवाम्||१५||
शुद्धस्नातां व्रजेन्नारीमपत्यार्थी निरामयः|१६|

अच्छायश्चैकशाखश्च निष्फलश्च यथा द्रुमः||१६||
अनिष्टगन्धश्चैकश्च निरपत्यस्तथा नरः|
चित्रदीपः सरः शुष्कमधातुर्धातुसन्निभः||१७||
निष्प्रजस्तृणपूलीति मन्तव्यः पुरुषाकृतिः|
अप्रतिष्ठश्च नग्नश्च शून्यश्चैकेन्द्रियश्च ना||१८||
मन्तव्यो निष्क्रियश्चैव यस्यापत्यं न विद्यते|
बहुमूर्तिर्बहुमुखो बहुव्यूहो बहुक्रियः||१९||
बहुचक्षुर्बहुज्ञानो बह्वात्मा च बहुप्रजः|
मङ्गल्येऽयं प्रशस्योऽयं धन्योऽयं वीर्यवानयम्||२०||
बहुशाखोऽयमिति च स्तूयते ना बहुप्रजः|
प्रीतिर्बलं सुखं वृत्तिर्विस्तारो विपुलं कुलम्||२१||
यशो लोकाः सुखोदर्कास्तुष्टिश्चापत्यसंश्रिताः|
तस्मादपत्यमन्विच्छन् गुणांश्चापत्यसंश्रितान्||२२||
वाजीकरणनित्यः स्यादिच्छन् कामसुखानि च|
उपभोगसुखान् सिद्धान् वीर्यापत्यविवर्धनान्||२३||
वाजीकरणसंयोगान् प्रवक्ष्याम्यत उत्तरम्|२४|

शरमूलेक्षुमूलानि काण्डेक्षुः सेक्षुवालिका||२४||
शतावरी पयस्या च विदारी कण्टकारिका|
जीवन्ती जीवको मेदा वीरा चर्षभको बला||२५||
ऋद्धिर्गोक्षुरकं रास्ना सात्मगुप्ता पुनर्नवा|
एषां त्रिपलिकान् भागान् माषाणामाढकं नवम्||२६||
विपाचयेज्जलद्रोणे चतुर्भागं च शेषयेत्|
तत्र पेष्याणि मधुकं द्राक्षा फल्गूनि पिप्पली||२७||
आत्मगुप्ता मधुकानि खर्जूराणि शतावरी|
विदार्यामलकेक्षूणां रसस्य च पृथक् पृथक्||२८||
सर्पिषश्चाढकं दद्यात् क्षीरद्रोणं च तद्भिषक्|
साधयेद्घृतशेषं च सुपूतं योजयेत् पुनः||२९||
शर्करायास्तुगाक्षीर्याश्चूर्णैः प्रस्थोन्मितैः पृथक्|
पलैश्चतुर्भिर्मागध्याः पलेन मरिचस्य च||३०||
त्वगेलाकेशराणां च चूर्णैरर्धपलोन्मितैः|
मधुनः कुडवाभ्यां च द्वाभ्यां तत्कारयेद्भिषक्||३१||
पलिका गुलिकास्त्यानास्ता यथाग्नि प्रयोजयेत्|
एष वृष्यः परं योगो बृंहणो बलवर्धनः||३२||
अनेनाश्व इवोदीर्णो बली लिङ्गं समर्पयेत्|३३|
(इति बृंहणीगुटिका)|

माषाणामात्मगुप्ताया बीजानामाढकं नवम्||३३||
जीवकर्षभकौ वीरां मेदामृद्धिं शतावरीम्|
मधुकं चाश्वगन्धां च साध्येत् कुडवोन्मिताम्||३४||
रसे तस्मिन् घृतप्रस्थं गव्यं दशगुणं पयः|
विदारीणां रसप्रस्थं प्रस्थमिक्षुरसस्य च||३५||
दत्त्वा मृद्वग्निना साध्यं सिद्धं सर्पिर्निधापयेत्|
शर्करायास्तुगाक्षीर्याः क्षौद्रस्य च पृथक् पृथक्||३६||
भागांश्चतुष्पलांस्तत्र पिप्पल्याश्चावपेत् पलम्|
पलं पूर्वमतो लीढ्वा ततोऽन्नमुपयोजयेत्||३७||
य इच्छेदक्षयं शुक्रं शेफसश्चोत्तमं बलम्|३८|
(इति वाजीकरणं घृतम्)|

शर्करा माषविदलास्तुगाक्षीरी पयो घृतम्||३८||
गोधूमचूर्णषष्ठानि सर्पिष्युत्कारिकां पचेत्|
तां नातिपक्वां मृदितां कौक्कुटे मधुरे रसे||३९||
सुगन्धे प्रक्षिपेदुष्णे यथा सान्द्रीभवेद्रसः|
एष पिण्डरसो वृष्यः पौष्टिको बलवर्धनः||४०||
अनेनाश्व इवोदीर्णो बली लिङ्गं समर्पयेत्|
शिखितित्तिरिहंसानामेवं पिण्डरसो मतः|
बलवर्णस्वरकरः पुमांस्तेन वृषायते||४१||
(इति वाजीकरणपिण्डरसाः)|

घृतं माषान् सबस्ताण्डान् साधयेन्माहिषे रसे|
भर्जयेत्तं रसं पूतं फलाम्लं नवसर्पिषि||४२||
ईषत्सलवणं युक्तं धान्यजीरकनागरैः|
एष वृष्यश्च बल्यश्च बृंहणश्च रसोत्तमः||४३||
(इति वृष्यमाहिषरसः)|
चटकांस्तित्तिरिरसे तित्तिरीन् कौक्कुटे रसे|
कुक्कुटान् बार्हिणरसे हांसे बार्हिणमेव च||४४||
नवसर्पिषि सन्तप्तान् फलाम्लान् कारयेद्रसान्|
मधुरान् वा यथासात्म्यं गन्धाढ्यान् बलवर्धनान्||४५||
(इत्यन्ये वृष्यरसाः)|
तृप्तिं चटकमांसानां गत्वा योऽनुपिबेत् पयः|
न तस्य लिङ्गशैथिल्यं स्यान्न शुक्रक्षयो निशि||४६||
(इति वृष्यमांसम्)|
माषयूषेण यो भुक्त्वा घृताढ्यं षष्टिकौदनम्|
पयः पिबति रात्रिं स कृत्स्नां जागर्ति वेगवान्||४७||
(इति वृष्यमाषयोगः)|
न ना स्वपिति रात्रिषु नित्यस्तब्धेन शेफसा|
तृप्तः कुक्कुटमांसाना भृष्टानां नक्ररेतसि||४८||
(इति वृष्यः कुक्कुटमांसप्रयोगः)|
निःस्राव्य मत्स्याण्डरसं भृष्टं सर्पिषि भक्षयेत्|
हंसबर्हिणदक्षाणामेवमण्डानि भक्षयेत्||४९||
(इति वृष्योऽण्डरसः)|

भवतश्चात्र-

स्रोतःसु शुद्धेष्वमले शरीरे वृष्यं यदा ना मितमत्ति काले|
वृषायते तेन परं मनुष्यस्तद्बृंहणं चैव बलप्रदं च||५०||
तस्मात् पुरा शोधनमेव कार्यं बलानुरूपं न हि वृष्ययोगाः|
सिध्यन्ति देहे मलिने प्रयुक्ताः क्लिष्टे यथा वाससि रागयोगाः||५१||

तत्र श्लोकौ-

वाजीकरणसामर्थ्यं क्षेत्रं स्त्री यस्य चैव या|
ये दोषा निरपत्यानां गुणाः पुत्रवतां च ये||५२||
दश पञ्च च संयोगा वीर्यापत्यविवर्धनाः|
उक्तास्ते शरमूलीये पादे पुष्टिबलप्रदाः||५३||

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने वाजीकरणाध्याये 

संयोगशरमूलीयो नाम वाजीकरणपादः प्रथमः||१||