चिकित्सास्थानम् - २२. तृष्णाचिकित्सितम्
अथातस्तृष्णाचिकित्सितं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
ज्ञानप्रशमतपोभिः ख्यातोऽत्रिसुतो जगद्धितेऽभिरतः|
तृष्णानां प्रशमार्थं चिकित्सितं प्राह पञ्चानाम्||३||
क्षोभाद्भयाच्छ्रमादपि शोकात्क्रोधाद्विलङ्घनान्मद्यात्|
क्षाराम्ललवणकटुकोष्णरूक्षशुष्कान्नसेवाभिः||४||
धातुक्षयगदकर्षणवमनाद्यतियोगसूर्यसन्तापैः|
पित्तानिलौ प्रवृद्धौ सौम्यान्धातूंश्च शोषयतः||५||
रसवाहिनीश्च नालीर्जिह्वामूलगलतालुकक्लोम्नः |
संशोष्य नृणां देहे कुरुतस्तृष्णां महाबलावेतौ||६||
पीतं पीतं हि जलं शोषयतस्तावतो न याति शमम्|
घोरव्याधिकृशानां प्रभवत्युपसर्गभूता सा||७||
प्राग्रूपं मुखशोषः, स्वलक्षणं सर्वदाऽम्बुकामित्वम्|
तृष्णानां सर्वासां लिङ्गानां लाघवमपायः||८||
मुखशोषस्वरभेदभ्रमसन्तापप्रलापसंस्तम्भान्|
ताल्वोष्ठकण्ठजिह्वाकर्कशतां चित्तनाशं च||९||
जिह्वानिर्गममरुचिं बाधिर्यं मर्मदूयनं सादम्|
तृष्णोद्भूता कुरुते, पञ्चविधां लिङ्गतः शृणु ताम्||१०||
अब्धातुं देहस्थं कुपितः पवनो यदा विशोषयति|
तस्मिञ्शुष्के शुष्यत्यबलस्तृष्यत्यथ विशुष्यन्||११||
निद्रानाशः शिरसो भ्रमस्तथा शुष्कविरसमुखता च स्रोतोऽवरोध
इति च स्याल्लिङ्गं वाततृष्णायाः||१२||
पित्तं मतमाग्नेयं कुपितं चेत्तापयत्यपां धातुम्|
सन्तप्तः स हि जनयेत्तृष्णां दाहोल्बणां नॄणाम्||१३||
तिक्तास्यत्वं शिरसो दाहः शीताभिनन्दता मूर्च्छा|
पीताक्षिमूत्रवर्चस्त्वमाकृतिः पित्ततृष्णायाः||१४||
तृष्णा याऽऽमप्रभवा साऽप्याग्नेयाऽऽमपित्तजनितत्वात् |
लिङ्गं तस्याश्चारुचिराध्मानकफप्रसेकौ च||१५||
देहो रसजोऽम्बुभवो रसश्च तस्य क्षयाच्च तृष्येद्धि|
दीनस्वरः प्रताम्यन् संशुष्कहृदयगलतालुः ||१६||
भवति खलु योपसर्गात्तृष्णा सा शोषिणी कष्टा|
ज्वरमेहक्षयशोषश्वासाद्युपसृष्टदेहानाम् ||१७||
सर्वास्त्वतिप्रसक्ता रोगकृशानां वमिप्रसक्तानाम्|
घोरोपद्रवयुक्तास्तृणा मरणाय विज्ञेयाः||१८||
नाग्निं विना हि तर्षः पवनाद्वा तौ हि शोषणे हेतू|
अब्धातोरतिवृद्धावपां क्षये तृष्यते नरो हि||१९||
गुर्वन्नपयःस्नेहैः सम्मूर्च्छद्भिर्विदाहकाले च|
यस्तृष्येद्वृतमार्गे तत्राप्यनिलानलौ हेतू||२०||
तीक्ष्णोष्णरूक्षभावान्मद्यं पित्तानिलौ प्रकोपयति|
शोषयतोऽपां धातुं तावेव हि मद्यशीलानाम्||२१||
तप्तास्विव सिकतासु हि तोयमाशु शुष्यति क्षिप्तम्|
तेषां सन्तप्तानां हिमजलपानाद्भवति शर्म||२२||
शिशिरस्नातस्योष्मा रुद्धः कोष्ठं प्रपद्य तर्षयति|
तस्मान्नोष्णक्लान्तो भजेत सहसा जलं शीतम् ||२३||
लिङ्गं सर्वास्वेतास्वनिलक्षयपित्तजं भवत्यथ तु|
पृथगागमाच्चिकित्सितमतः प्रवक्ष्यामि तृष्णानाम्||२४||
अपां क्षयाद्धि तृष्णा संशोष्य नरं प्रणाशयेदाशु|
तस्मादैन्द्रं तोयं समधु पिबेत्तद्गुणं वाऽन्यत्||२५||
किञ्चित्तुवरानुरसं तनु लघु शीतलं सुगन्धि सुरसं च|
अनभिष्यन्दि च यत्तत्क्षितिगतमप्यैन्द्रवज्ज्ञेयम्||२६||
शृतशीतं ससितोपलमथवा शरपूर्वपञ्चमूलेन|
लाजासक्तुसिताह्वामधुयुतमैन्द्रेण वा मन्थम्||२७||
वाट्यं वाऽऽमयवानां शीतं मधुशर्करायुतं दद्यात्|
पेयां वा शालीनां दद्याद्वा कोरदूषाणाम्||२८||
पयसा शृतेन भोजनमथवा मधुशर्करायुतं योज्यम्|
पारावतादिकरसैर्घृतभृष्टैर्वाऽप्यलवणाम्लैः||२९||
तृणपञ्चमूलमुञ्जातकैः प्रियालैश्च जाङ्गलाः सुकृताः|
शस्ता रसाः पयो वा तैः सिद्धं शर्करामधुमत्||३०||
शतधौतघृतेनाक्तः पयः पिबेच्छीततोयमवगाह्य|
मुद्गमसूरचणकजा रसास्तु भृष्टा घृते देयाः||३१||
मधुरैः सजीवनीयैः शीतैश्च सतिक्तकैः शृतं क्षीरम्|
पानाभ्यञ्जनसेकेष्विष्टं मधुशर्करायुक्तम्||३२||
तज्जं वा घृतमिष्टं पानाभ्यङ्गेषु नस्यमपि च स्यात्|
नारीपयः सशर्करमुष्ट्र्या अपि नस्यमिक्षुरसः||३३||
क्षीरेक्षुरसगुडोदकसितोपलाक्षौद्रसीधुमार्द्वीकैः |
वृक्षाम्लमातुलुङ्गैर्गण्डूषास्तालुशोषघ्नाः||३४||
जम्ब्वाम्रातकबदरीवेतसपञ्चवल्कपञ्चाम्लैः|
हृन्मुखशिरःप्रदेहाःसघृता मूर्च्छाभ्रमतृष्णाघ्नाः स्युः||३५||
दाडिमदधित्थलोध्रैः सविदारीबीजपूरकैः शिरसः|
लेपो गौरामलकैर्घृतारनालायुतैश्च हितः||३६||
शैवलपङ्काम्बुरुहैः साम्लैः सघृतैश्च शक्तुभिर्लेपः|
मस्त्वारनालार्द्रवसनकमलमणिहारसंस्पर्शाः||३७||
शिशिराम्बुचन्दनार्द्रस्तनतटपाणितलगात्रसंस्पर्शाः|
क्षौमार्द्रनिवसनानां वराङ्गनानां प्रियाणां च||३८||
हिमवद्दरीवनसरित्सरोऽम्बुजपवनेन्दुपादशिशिराणाम्|
रम्यशिशिरोदकानां स्मरणं कथाश्च तृष्णाघ्नाः||३९||
वातघ्नमन्नपानं मृदु लघु शीतं च वाततृष्णायाम्|
क्षयकासनुच्छृतं क्षीरघृतमूर्ध्ववाततृष्णाघ्नम् ||४०||
स्याज्जीवनीयसिद्धं क्षीरघृतं वातपित्तजे तर्ष|४१|
पैत्ते द्राक्षाचन्दनखर्जूरोशीरमधुयुतं तोयम्||४१||
लोहितशालितण्डुलखर्जूरपरूषकोत्पलद्राक्षाः|
मधु पक्वलोष्टमेव च जले स्थितं शीतलं पेयम्||४२||
लोहितशालिप्रस्थः सलोध्रमधुकाञ्जनोत्पलः क्षुण्णः|
पक्वामलोष्टजलमधुसमायुतो मृन्मये पेयः||४३||
वटमातुलुङ्गवेतसपल्लवकुशकाशमूलयष्ट्याह्वैः|
सिद्धेऽम्भस्यग्निनिभां कृष्णमृदं कृष्णसिकतां वा||४४||
तप्तानि नवकपालान्यथवा निर्वाप्य पाययेताच्छम्|
आपाकशर्करं वाऽमृतवल्ल्युदकं तृषां हन्ति||४५||
क्षीरवतां मधुराणां शीतानां शर्करामधुविमिश्राः|
शीतकषाया मृद्भृष्टसंयुताः पित्ततृष्णाघ्नाः||४६||
व्योषवचाभल्लातकतिक्तकषायास्तथाऽऽमतृष्णाघ्नाः|
यच्चोक्तं कफजायां वम्यां तच्चैव कार्यं स्यात्||४७||
स्तम्भारुच्यविपाकालस्यच्छर्दिषु कफानुगां तृष्णाम्|
ज्ञात्वा दधिमधुतर्पणलवणोष्णजलैर्वमनमिष्टम्||४८||
दाडिममम्लफलं वाऽप्यन्यत् सकषायमथ लेहम्|
पेयमथवा प्रदद्याद्रजनीशर्करायुक्तम् ||४९||
क्षयकासेन तु तुल्या क्षयतृष्णा सा गरीयसी नॄणाम्|
क्षीणक्षतशोषहितैस्तस्मात्तां भेषजैः शमयेत्||५०||
पानतृषार्तः पानं त्वर्धोदकमम्ललवणगन्धाढ्यम्|
शिशिरस्नातः पानं मद्याम्बु गुडाम्बु वा तृषितः||५१||
भक्तोपरोधतृषितः स्नेहतृषार्तोऽथवा तनुयवागूम्|
प्रपिबेद्गुरुणा तृषितो भुक्तेन तदुद्धरेद्भुक्तम्||५२||
मद्याम्बु वाऽम्बु कोष्णं बलवांस्तृषितः समुल्लिखेत् पीत्वा|
मागधिकाविशदमुखः सशर्करं वा पिबेन्मन्थम्||५३||
बलवांस्तु तालुशोषे पिबेद्धृतं तृष्यमद्याच्च|
सर्पिर्भृष्टं क्षीरं मांसरसांश्चाबलः स्निग्धान्||५४||
अतिरूक्षदुर्बलानां तर्षं शमयेन्नृणामिहाशु पयः|
छागो वा घृतभृष्टः शीतो मधुरो रसो हृद्यः||५५||
स्निग्धेऽन्ने भुक्ते या तृष्णा स्यात्तां गुडाम्बुना शमयेत्|
तर्षं मूर्च्छाभिहतस्य रक्तपित्तापहैर्हन्यात्||५६||
तृट्दाहमूर्च्छाभ्रमक्लममदात्ययास्रविषपित्ते |
शस्तं स्वभावशीतं, शृतशीतं सन्निपातेऽम्भः||५७||
हिक्काश्वासनवज्वरपीनसघृतपीतपार्श्वगलरोगे|
कफवातकृते स्त्याने सद्यःशुद्धे च हितमुष्णम्||५८||
पाण्डूदरपीनसमेहगुल्ममन्दानलातिसारेषु|
प्लीह्नि च तोयं न हितं काममसह्ये पिबेदल्पम्||५९||
पूर्वामयातुरः सन् दीनस्तृष्णार्दितो जलं काङ्क्षन्|
न लभेत स चेन्मरणमाश्वेवाप्नुयाद्दीर्घरोगं वा||६०||
तस्माद्धान्याम्बु पिबेत्तृष्यन् रोगी सशर्कराक्षौद्रम्|
यद्वा तस्यान्यत्स्यात् सात्म्यं रोगस्य तच्चेष्टम्||६१||
तस्यां विनिवृत्तायां तज्जन्य उपद्रवः सुखं जेतुम्|
तस्मात्तृष्णां पूर्वं जयेद्बहुभ्योऽपि रोगेभ्यः||६२||
तत्र श्लोकः-
हेतू यथाऽग्निपवनौ कुरुतः सोपद्रवां च पञ्चानाम्|
तृष्णानां पृथगाकृतिरसाध्यता साधनं चोक्तम्||६३||
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते चिकित्सास्थाने
तृष्णारोगचिकित्सितं नाम द्वाविंशोऽध्यायः||२२||