सूत्रस्थानम् - २२. लङ्घनबृंहणीयोऽध्यायः
अथातो लङ्घनबृंहणीयमध्यायं व्याख्यास्यामः ||१||
इति ह स्माह भगवानात्रेयः||२||
तपःस्वाध्यायनिरतानात्रेयः शिष्यसत्तमान्|
षडग्निवेशप्रमुखानुक्तवान् परिचोदयन्||३||
लङ्घनं बृंहणं काले रूक्षणं स्नेहनं तथा|
स्वेदनं स्तम्भनं चैव जानीते यः स वै भिषक्||४||
तमुक्तवन्तमात्रेयमग्निवेश उवाच ह||५||
भगवँल्लङ्घनं किंस्विल्लङ्घनीयाश्च कीदृशाः|
बृंहणं बृंहणीयाश्च रूक्षणीयाश्च रूक्षणम्||६||
के स्नेहाः स्नेहनीयाश्च स्वेदाः स्वेद्याश्च के मताः|
स्तम्भनं स्तम्भनीयाश्च वक्तुमर्हसि तद्गुरो!||७||
लङ्घनप्रभृतीनां च षण्णामेषां समासतः|
कृताकृतातिवृत्तानां लक्षणं वक्तुमर्हसि||८||
तदग्निवेशस्य वचो निशम्य गुरुरब्रवीत्|
यत् किञ्चिल्लाघवकरं देहे तल्लङ्घनं स्मृतम्||९||
बृहत्त्वं यच्छरीरस्य जनयेत्तच्च बृंहणम्|
रौक्ष्यं खरत्वं वैशद्यं यत् कुर्यात्तद्धि रूक्षणम्||१०||
स्नेहनं स्नेहविष्यन्दमार्दवक्लेदकारकम् |
स्तम्भगौरवशीतघ्नं स्वेदनं स्वेदकारकम्||११||
स्तम्भनं स्तम्भयति यद्गतिमन्तं चलं ध्रुवम्|
लघूष्णतीक्ष्णविशदं रूक्षं सूक्ष्मं खरं सरम्||१२||
कठिनं चैव यद्द्रव्यं प्रायस्तल्लङ्घनं स्मृतम्|
गुरु शीतं मृदु स्निग्धं बहलं स्थूलपिच्छिलम्||१३||
प्रायो मन्दं स्थिरं श्लक्ष्णं द्रव्यं बृंहणमुच्यते|
रूक्षं लघु खरं तीक्ष्णमुष्णं स्थिरमपिच्छिलम्||१४||
प्रायशः कठिनं चैव यद्द्रव्यं तद्धि रूक्षणम्|
द्रवं सूक्ष्मं सरं स्निग्धं पिच्छिलं गुरु शीतलम्|
प्रायो मन्दं मृदु च यद्द्रव्यं तत्स्नेहनं मतम्||१५||
उष्णं तीक्ष्णं सरं स्निग्धं रूक्षं सूक्ष्मं द्रवं स्थिरम्|
द्रव्यं गुरु च यत् प्रायस्तद्धि स्वेदनमुच्यते||१६||
शीतं मन्दं मृदु श्लक्ष्णं रूक्षं सूक्ष्मं द्रवं स्थिरम्|
यद्द्रव्यं लघु चोद्दिष्टं प्रायस्तत् स्तम्भनं स्मृतम्||१७||
चतुष्प्रकारा संशुद्धिः पिपासा मारुतातपौ|
पाचनान्युपवासश्च व्यायामश्चेति लङ्घनम्||१८||
प्रभूतश्लेष्मपित्तास्रमलाः संसृष्टमारुताः|
बृहच्छरीरा बलिनो लङ्घनीया विशुद्धिभिः||१९||
येषां मध्यबला रोगाः कफपित्तसमुत्थिताः|
वम्यतीसारहृद्रोगविसूच्यलसकज्वराः||२०||
विबन्धगौरवोद्गारहृल्लासारोचकादयः|
पाचनैस्तान् भिषक् प्राज्ञः प्रायेणादावुपाचरेत्||२१||
एत एव यथोद्दिष्टा येषामल्पबला गदाः|
पिपासानिग्रहैस्तेषामुपवासैश्च ताञ्जयेत्||२२||
रोगाञ्जयेन्मध्यबलान् व्यायामातपमारुतैः|
बलिनां किं पुनर्येषां रोगाणामवरं बलम्||२३||
त्वग्दोषिणां प्रमीढानां स्निग्धाभिष्यन्दिबृंहिणाम्|
शिशिरे लङ्घनं शस्तमपि वातविकारिणाम्||२४||
अदिग्धविद्धमक्लिष्टं वयस्थं सात्म्यचारिणाम्|
मृगमत्स्यविहङ्गानां मांसं बृंहणमुच्यते||२५||
क्षीणाः क्षताः कृशा वृद्धा दुर्बला नित्यमध्वगाः|
स्त्रीमद्यनित्या ग्रीष्मे च बृंहणीया नराः स्मृताः||२६||
शोषार्शोग्रहणीदोषैर्व्याधिभिः कर्शिताश्च ये|
तेषां क्रव्यादमांसानां बृंहणा लघवो रसाः||२७||
स्नानमुत्सादनं स्वप्नो मधुराः स्नेहबस्तयः|
शर्कराक्षीरसर्पींषि सर्वेषां विद्धि बृंहणम्||२८||
कटुतिक्तकषायाणां सेवनं स्त्रीष्वसंयमः|
खलिपिण्याकतक्राणां मध्वादीनां च रूक्षणम्||२९||
अभिष्यण्णा महादोषा मर्मस्था व्याधयश्च ये|
ऊरुस्तम्भप्रभृतयो रूक्षणीया निदर्शिताः||३०||
स्नेहाः स्नेहयितव्याश्च स्वेदाः स्वेद्याश्च ये नराः|
स्नेहाध्याये मयोक्तास्ते स्वेदाख्ये च सविस्तरम्||३१||
द्रवं तन्वसरं यावच्छीतीकरणमौषधम्|
स्वादु तिक्तं कषायं च स्तम्भनं सर्वमेव तत्||३२||
पित्तक्षाराग्निदग्धा ये वम्यतीसारपीडिताः|
विषस्वेदातियोगार्ताः स्तम्भनीया निदर्शिताः||३३||
वातमूत्रपुरीषाणां विसर्गे गात्रलाघवे|
हृदयोद्गारकण्ठास्यशुद्धौ तन्द्राक्लमे गते||३४||
स्वेदे जाते रुचौ चैव क्षुत्पिपासासहोदये|
कृतं लङ्घनमादेश्यं निर्व्यथे चान्तरात्मनि||३५||
पर्वभेदोऽङ्गमर्दश्च कासः शोषो मुखस्य च|
क्षुत्प्रणाशोऽरुचिस्तृष्णा दौर्बल्यं श्रोत्रनेत्रयोः||३६||
मनसः सम्भ्रमोऽभीक्ष्णमूर्ध्ववातस्तमो हृदि|
देहाग्निबलनाशश्च लङ्घनेऽतिकृते भवेत्||३७||
बलं पुष्ट्युपलम्भश्च कार्श्यदोषविवर्जनम्|
लक्षणं बृंहिते स्थौल्यमति चात्यर्थबृंहिते||३८||
कृतातिकृतलिङ्गं यल्लङ्घिते तद्धि रूक्षिते |३९|
स्तम्भितः स्याद्बले लब्धे यथोक्तैश्चामयैर्जितैः||३९||
श्यावता स्तब्धगात्रत्वमुद्वेगो हनुसङ्ग्रहः|
हृद्वर्चोनिग्रहश्च स्यादतिस्तम्भितलक्षणम्||४०||
लक्षणं चाकृतानां स्यात् षण्णामेषां समासतः|
तदौषधानां धातूनामशमो वृद्धिरेव च||४१||
इति षट् सर्वरोगाणां प्रोक्ताः सम्यगुपक्रमाः|
साध्यानां साधने सिद्धा मात्राकालानुरोधिनः||४२||
भवति चात्र-
दोषाणां बहुसंसर्गात् सङ्कीर्यन्ते ह्युपक्रमाः|
षट्त्वं तु नातिवर्तन्ते त्रित्वं वातादयो यथा||४३||
तत्र श्लोकाः-
इत्यस्मिँलङ्घनाध्याये व्याख्याताः षडुपक्रमाः|
यथाप्रश्नं भगवता चिकित्सा यैः प्रवर्तते||४४||
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने लङ्घनबृंहणीयो नाम द्वाविंशोऽध्यायः||२२||