चिकित्सास्थानम् - २४. मदात्ययचिकित्सितम्
अथातो मदात्ययचिकित्सितं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
सुरैः सुरेशसहितैर्या पुरा परिपूजिता|
सौत्रामण्यां हूयते या कर्मिभिर्या प्रतिष्ठिता||३||
यज्ञौही या यया शक्रः सोमातिपतितो भृशम्|
निरोजस्तमसाऽऽविष्टस्तस्माद्दुर्गात् समुद्धृतः||४||
विधिभिर्वेदविहितैर्वा यजद्भिर्महात्मभिः|
दृश्या स्पृश्या प्रकल्प्या च यज्ञीया यज्ञसिद्धये||५||
योनिसंस्कारनामाद्यैर्विशेषैर्बहुधा च या|
भूत्वा भवत्येकविधा सामान्यान्मदलक्षणात्||६||
या देवानमृतं भूत्वा स्वधा भूत्वा पित्तॄंश्च या|
सोमो भूत्वा द्विजातीन् या युङ्क्ते श्रेयोभिरुत्तमैः||७||
आश्विनं या महत्तेजो बलं सारस्वतं च या|
वीर्यमैन्द्रं च या सिद्धा सोमः सौत्रामणौ च या||८||
शोकारतिभयोद्वेगनाशिनी या महाबला|
या प्रीतिर्या रतिर्या वाग्या पुष्टिर्या च निर्वृतिः||९||
या सुरा सुरगन्धर्वयक्षराक्षसमानुषैः|
रतिः सुरेत्यभिहिता तां सुरां विधिना पिबेत्||१०||
शरीरकृतसंस्कारः शुचिरुत्तमगन्धवान्|
प्रावृतो निर्मलैर्वस्त्रैर्यथर्तूद्दामगन्धिभिः||११||
विचित्रविविधस्रग्वी रत्नाभरणभूषितः|
देवद्विजातीन् सम्पूज्य स्पृष्ट्वा मङ्गलमुत्तमम्||१२||
देशे यथर्तुके शस्ते कुसुमप्रकरीकृते|
सरसासम्मते मुख्ये धूपसम्मोदबोधिते||१३||
सोपधाने सुसंस्तीर्णे विहिते शयनासने|
उपविष्टोऽथवा तिर्यक् स्वशरीरसुखे स्थितः||१४||
सौवर्णै राजतैश्चापि तथा मणिमयैरपि|
भाजनैर्विमलैश्चान्यैः सुकृतैश्च पिबेत् सदा||१५||
रूपयौवनमत्ताभिः शिक्षिताभिर्विशेषतः|
वस्त्राभरणमाल्यैश्च भूषिताभिर्यथर्तुकैः||१६||
शौचानुरागयुक्ताभिः प्रमदाभिरितस्ततः|
संवाह्यमान इष्टाभिः पिबेन्मद्यमनुत्तमम्||१७||
मद्यानुकूलैर्विविधैः फलैर्हरितकैः शुभैः|
लवणैर्गन्धपिशुनैरवदंशैर्यथर्तुकैः||१८||
भृष्टैर्मांसैर्बहुविधैर्भूजलाम्बरचारिणाम्|
पौरोगवर्गविहितैर्भक्ष्यैश्च विविधात्मकैः||१९||
पूजयित्वा सुरान् पूर्वमाशिषः प्राक् प्रयुज्य च|
प्रदाय सजलं मद्यमर्थिभ्यो वसुधातले||२०||
अभ्यङ्गोत्सादनस्नानवासोधूपानुलेपनैः|
स्निग्धोष्णैर्भावितश्चान्नैर्वातिको मद्यमाचरेत्||२१||
शीतोपचारैर्विविधैर्मधुरस्निग्धशीतलैः|
पैत्तिको भावितश्चान्नैः पिबन्मद्यं न सीदति||२२||
उपचारैरशिशिरैर्यवगोधूमभुक् पिबेत्|
श्लैष्मिको धन्वजैर्मांसैर्मद्यं मारिचकैः सह||२३||
विधिर्वसुमतामेष भविष्यद्विभवाश्च ये|
यथोपपत्ति तैर्मद्यं पातव्यं मात्रया हितम्||२४||
वातिकेभ्यो हितं मद्यं प्रायो गौडिकपैष्टिकम्|
कफपित्ताधिकेभ्यस्तु मार्द्वीकं माधवं च यत्||२५||
बहुद्रव्यं बहुगुणं बहुकर्म मदात्मकम्|
गुणैर्दोषैश्च तन्मद्यमुभयं चोपलक्ष्यते||२६||
विधिना मात्रया काले हितैरन्नैर्यथाबलम्|
प्रहृष्टो यः पिबेन्मद्यं तस्य स्यादमृतं यथा||२७||
यथोपेतं पुनर्मद्यं प्रसङ्गाद्येन पीयते|
रूक्षव्यायामनित्येन विषवद्याति तस्य तत्||२८||
मद्यं हृदयमाविश्य स्वगुणैरोजसो गुणान्|
दशभिर्दश सङ्क्षोभ्य चेतो नयति विक्रियाम्||२९||
लघूष्णतीक्ष्णसूक्ष्माम्लव्यवाय्याशुगमेव च|
रूक्षं विकाशि विशदं मद्यं दशगुणं स्मृतम्||३०||
गुरु शीतं मृदु श्लक्ष्णं बहलं मधुरं स्थिरम्|
प्रसन्नं पिच्छिलं स्निग्धमोजो दशगुणं स्मृतम्||३१||
गुरुत्वं लाघवाच्छैत्यमौष्णादम्लस्वभावतः|
माधुर्यं मार्दवं तैक्ष्ण्यात्प्रसादं चाशुभावनात्||३२||
रौक्ष्यात् स्नेहं व्यवायित्वात् स्थिरत्वं श्लक्ष्णतामपि|
विकासिभावात्पैच्छिल्यं वैशद्यात्सान्द्रतां तथा||३३||
सौक्ष्म्यान्मद्यं निहन्त्येवमोजसः स्वगुणैर्गुणान्|
सत्त्वं तदाश्रयं चाशु सङ्क्षोभ्य जनयेन्मदम्||३४||
रसवातादिमार्गाणां सत्त्वबुद्धीन्द्रियात्मनाम्|
प्रधानस्यौजसश्चैव हृदयं स्थानमुच्यते||३५||
अतिपीतेन मद्येन विहतेनौजसा च तत्|
हृदयं याति विकृतिं तत्रस्था ये च धातवः||३६||
ओजस्यविहते पूर्वो हृदि च प्रतिबोधिते|
मध्यमो विहतेऽल्पे च विहते तूत्तमो मदः||३७||
नैवं विघातं जनयेन्मद्यं पैष्टिकमोजसः|
विकाशिरूक्षविशदा गुणास्तत्र हि नोल्बणाः||३८||
हृदि मद्यगुणाविष्टे हर्षस्तर्षो रतिः सुखम्|
विकाराश्च यथासत्त्वं चित्रा राजसतामसाः||३९||
जायन्ते मोहनिद्रान्ता मद्यस्यातिनिषेवणात्|
स मद्यविभ्रमो नाम्ना ‘मद’ इत्यभिधीयते||४०||
पीयमानस्य मद्यस्य विज्ञातव्यास्त्रयो मदाः|
प्रथमो मध्यमोऽन्त्यश्च लक्षणैस्तान् प्रचक्ष्महे||४१||
प्रहर्षणः प्रीतिकरः पानान्नगुणदर्शकः|
वाद्यगीतप्रहासानां कथानां च प्रवर्तकः||४२||
न च बुद्धिस्मृतिहरो विषयेषु न चाक्षमः|
सुखनिद्राप्रबोधश्च प्रथमः सुखदो मदः||४३||
मुहुः स्मृतिर्मुहुर्मोहो(ऽ)व्यक्ता सज्जति वाङ्मुहुः|
युक्तायुक्तप्रलापश्च प्रचलायनमेव च||४४||
स्थानपानान्नसाङ्कथ्ययोजना सविपर्यया|
लिङ्गान्येतानि जानीयादाविष्टे मध्यमे मदे||४५||
मध्यमं मदमुत्क्रम्य मदमाप्राप्य चोत्तमम्|
न किञ्चिन्नाशुभं कुर्युर्नरा राजसतामसाः||४६||
को मदं तादृशं विद्वानुन्मादमिव दारुणम्|
गच्छेदध्वानमस्वन्तं बहुदोषमिवाध्वगः||४७||
तृतीयं तु मदं प्राप्य भग्नदार्विव निष्क्रियः|
मदमोहावृतमना जीवन्नपि मृतैः समः||४८||
रमणीयान् स विषयान्न वेत्ति न सुहृज्जनम्|
यदर्थं पीयते मद्यं रतिं तां च न विन्दति||४९||
कार्याकार्यं सुखं दुःखं लोके यच्च हिताहितम्|
यदवस्थो न जानाति कोऽवस्थां तां व्रजेद्बुधः||५०||
स दूष्यः सर्वभूतानां निन्द्यश्चाग्राह्य एव च|
व्यसनित्वादुदर्के च स दुःखं व्याधिमश्नुते||५१||
प्रेत्य चेह च यच्छ्रेयः श्रेयो मोक्षे च यत् परम्|
मनःसमाधौ तत् सर्वमायत्तं सर्वदेहिनाम्||५२||
मद्येन मनसश्चास्य सङ्क्षोभः क्रियते महान्|
महामारुतवेगेन तटस्थस्येव शाखिनः||५३||
मद्यप्रसङ्गं तं चाज्ञा महादोषं महागदम्|
सुखमित्यधिगच्छन्ति रजोमोहपराजिताः||५४||
मद्योपहतविज्ञाना वियुक्ताः सात्त्विकैर्गुणैः|
श्रेयोभिर्विप्रयुज्यन्ते मदान्धा मदलालसाः||५५||
मद्ये मोहो भयं शोकः क्रोधो मृत्युश्च संश्रितः|
सोन्मादमदमूर्च्छायाः सापस्मारापतानकाः||५६||
यत्रैकः स्मृतिविभ्रंशस्तत्र सर्वमसाधुवत्|
इत्येवं मद्यदोषज्ञा मद्यं गर्हन्ति यत्नतः||५७||
सत्यमेते महादोषा मद्यस्योक्ता न संशयः|
अहितस्यातिमात्रस्य पीतस्य विधिवर्जितम्||५८||
किन्तु मद्यं स्वभावेन यथैवान्नं तथा स्मृतम्|
अयुक्तियुक्तं रोगाय युक्तियुक्तं यथाऽमृतम्||५९||
प्राणाः प्राणभृतामन्नं तदयुक्त्या निहन्त्यसून्|
विषं प्राणहरं तच्च युक्तियुक्तं रसायनम्||६०||
हर्षमूर्जं मुदं पुष्टिमारोग्यं पौरुषं परम् |
युक्त्या पीतं करोत्याशु मद्यं सुखमदप्रदम्||६१||
रोचनं दीपनं हृद्यं स्वरवर्णप्रसादनम्|
प्रीणनं बृंहणं बल्यं भयशोकश्रमापहम्||६२||
स्वापनं नष्टनिद्राणां मूकानां वाग्विबोधनम्|
बोधनं चातिनिद्राणां विबद्धानां विबन्धनुत्||६३||
वधबन्धपरिक्लेशदुःखानां चाप्यबोधनम्|
मद्योत्थानां च रोगाणां मद्यमेव प्रबाधकम्||६४||
रतिर्विषयसंयोगे प्रीतिसंयोगवर्धनम्|
अपि प्रवयसां मद्यमुत्सवामोदकारकम्||६५||
पञ्चस्वर्थेषु कान्तेषु या रतिः प्रथमे मदे|
यूनां वा स्थविराणां वा तस्य नास्त्युपमा भुवि||६६||
बहुदुःखहतस्यास्य शोकेनोपहतस्य च|
विश्रामो जीवलोकस्य मद्यं युक्त्या निषेवितम्||६७||
अन्नपानवयोव्याधिबलकालत्रिकाणि षट्|
त्रीन्दोषांस्त्रिविधं सत्त्वं ज्ञात्वा मद्यं पिबेत्सदा||६८||
तेषां त्रिकाणामष्टानां योजना युक्तिरुच्यते|
यया युक्त्या पिबन्मद्यं मद्यदोषैर्न युज्यते||६९||
मद्यस्य च गुणान् सर्वान् यथोक्तान् स समश्नुते|
धर्मार्थयोरपीडायै नरः सत्त्वगुणोच्छ्रितः||७०||
सत्त्वानि तु प्रबुध्यन्ते प्रायशः प्रथमे मदे|
द्वितीयेऽव्यक्ततां यान्ति मध्ये चोत्तममध्ययोः||७१||
सस्यसम्बोधकं वर्षं, हेमप्रकृतिदर्शकः|
हुताशः, सर्वसत्त्वानां मद्यं तूभयकारकम्||७२||
प्रधानावरमध्यानां रूपाणां व्यक्तिदर्शकः|
यथाऽग्निरेवं सत्त्वानां मद्यं प्रकृतिदर्शकम्||७३||
सुगन्धिमाल्यगन्धर्वं सुप्रणीतममाकुलम्|
मिष्टान्नपानविशदं सदा मधुरसङ्कथम्||७४||
सुखप्रपानं सुमदं हर्षप्रीतिविवर्धनम्|
स्वन्तं सात्त्विकमापानं न चोत्तममदप्रदम्||७५||
वैगुण्यं सहसा यान्ति मद्यदोषैर्न सात्त्विकाः|
मद्यं हि बलवत्सत्त्वं गृह्णाति सहसा न तु ||७६||
सौम्यासौम्यकथाप्रायं विशदाविशदं क्षणात्|
चित्रं राजसमापन्नं प्रायेणास्वन्तकाकुलम्||७७||
हर्षप्रीतिकथापेतमतुष्टं पानभोजने|
सम्मोहक्रोधनिद्रान्तमापानं तामसं स्मृतम्||७८||
आपाने सात्त्विकान् बुद्ध्वा तथा राजसतामसान्|
जह्यात्सहायान् यैः पीत्वा मद्यदोषानुपाश्नुते||७९||
सुखशीलाः सुसम्भाषाः सुमुखाः सम्मताः सताम्|
कलास्वबाह्या विशदा विषयप्रवणाश्च ये||८०||
परस्परविधेया ये येषामैक्यं सुहृत्तया|
प्रहर्षप्रीतिमाधुर्यैरापानं वर्धयन्ति ये||८१||
उत्सवादुत्सवतरं येषामन्योन्यदर्शनम्|
ते सहायाः सुखाः पाने तैः पिबन्सह मोदते||८२||
रूपगन्धरसस्पर्शैः शब्दैश्चापि मनोरमैः|
पिबन्ति सुसहाया ये ते वै सुकृतिभिः समाः||८३||
पञ्चभिर्विषयैरिष्टैरुपेतैर्मनसः प्रियैः|
देशे काले पिबेन्मद्यं प्रहृष्टेनान्तरात्मना||८४||
स्थिरसत्त्वशरीरा ये पूर्वान्ना मद्यपान्वयाः|
बहुमद्योचिता ये च माद्यन्ति सहसा न ते||८५||
क्षुत्पिपासापरीताश्च दुर्बला वातपैत्तिकाः|
रूक्षाल्पप्रमिताहारा विष्टब्धाः सत्त्वदुर्बलाः||८६||
क्रोधिनोऽनुचिताः क्षीणाः परिश्रान्ता मदक्षताः|
स्वल्पेनापि मदं शीघ्रं यान्ति मद्येन मानवाः||८७||
ऊर्ध्वं मदात्ययस्यातः सम्भवं स्वस्वलक्षणम्|
अग्निवेश! चिकित्सां च प्रवक्ष्यामि यथाक्रमम्||८८||
स्त्रीशोकभयभाराध्वकर्मभिर्योऽतिकर्शितः|
रूक्षाल्पप्रमिताशी च यः पिबत्यतिमात्रया||८९||
रूक्षं परिणतं मद्यं निशि निद्रां विहत्य च|
करोति तस्य तच्छीघ्रं वातप्रायं मदात्ययम्||९०||
हिक्काश्वासशिरःकम्पपार्श्वशूलप्रजागरैः|
विद्याद्बहुप्रलापस्य वातप्रायं मदात्ययम्||९१||
तीक्ष्णोष्णं मद्यमम्लं च योऽतिमात्रं निषेवते|
अम्लोष्णतीक्ष्णभोजी च क्रोधनोऽग्न्यातपप्रियः||९२||
तस्योपजायते पित्ताद्विशेषेण मदात्ययः|
स तु वातोल्बणस्याशु प्रशमं याति हन्ति वा||९३||
तृष्णादाहज्वरस्वेदमूर्च्छातीसारविभ्रमैः|
विद्याद्धरितवर्णस्य पित्तप्रायं मदात्ययम्||९४||
तरुणं मधुरप्रायं गौडं पैष्टिकमेव वा|
मधुरस्निग्धगुर्वाशी यः पिबत्यतिमात्रया||९५||
अव्यायामदिवास्वप्नशय्यासनसुखे रतः|
मदात्ययं कफप्रायं स शीघ्रमधिगच्छति||९६||
छर्द्यरोचकहृल्लासतन्द्रास्तैमित्यगौरवैः|
विद्याच्छीतपरीतस्य कफप्रायं मदात्ययम्||९७||
विषस्य ये गुणा दृष्टाः सन्निपातप्रकोपणाः|
त एव मद्ये दृश्यन्ते विषे तु बलवत्तराः||९८||
हन्त्याशु हि विषं किञ्चित् किञ्चिद्रोगाय कल्पते|
यथा विषं तथैवान्त्यो ज्ञेयो मद्यकृतो मदः||९९||
तस्मात् त्रिदोषजं लिङ्गं सर्वत्रापि मदात्यये|
दृश्यते रूपवैशेष्यात् पृथक्त्वं चास्य लक्ष्यते||१००||
शरीरदुःखं बलवत् सम्मोहो हृदयव्यथा|
अरुचिः प्रतता तृष्णा ज्वरः शीतोष्णलक्षणः||१०१||
शिरःपार्श्वास्थिसन्धीनां विद्युत्तुल्या च वेदना|
जायतेऽतिबला जृम्भा स्फुरणं वेपनं श्रमः||१०२||
उरोविबन्धः कासश्च हिक्का श्वासः प्रजागरः|
शरीरकम्पः कर्णाक्षिमुखरोगस्त्रिकग्रहः||१०३||
छर्द्यतीसारहृल्लासा वातपित्तकफात्मकाः|
भ्रमः प्रलापो रूपाणामसतां चैव दर्शनम्||१०४||
तृणभस्मलतापर्णपांशुभिश्चावपूरणम्|
प्रधर्षणं विहङ्गैश्च भ्रान्तचेताः स मन्यते||१०५||
व्याकुलानामशस्तानां स्वप्नानां दर्शनानि च|
मदात्ययस्य रूपाणि सर्वाण्येतानि लक्षयेत्||१०६||
सर्वं मदात्ययं विद्यात् त्रिदोषमधिकं तु यम्|
दोषं मदात्यये पश्येत् तस्यादौ प्रतिकारयेत्||१०७||
कफस्थानानुपूर्व्या च क्रिया कार्या मदात्यये|
पित्तमारुतपर्यन्तः प्रायेण हि मदात्ययः||१०८||
मिथ्यातिहीनपीतेन यो व्याधिरुपजायते|
समपीतेन तेनैव स मद्येनोपशाम्यति||१०९||
जीर्णाममद्यदोषाय मद्यमेव प्रदापयेत्|
प्रकाङ्क्षालाघवे जाते यद्यदस्मै हितं भवेत्||११०||
सौवर्चलानुसंविद्धं शीतं सबिडसैन्धवम्|
मातुलुङ्गार्द्रकोपेतं जलयुक्तं प्रमाणवित् ||१११||
तीक्षोष्णेनातिमात्रेण पीतेनाम्लविदाहिना|
मद्येनान्नरसोत्क्लेदो विदग्धः क्षारतां गतः||११२||
अन्तर्दाहं ज्वरं तृष्णां प्रमोहं विभ्रमं मदम्|
जनयत्याशु तच्छान्त्यै मद्यमेव प्रदापयेत्||११३||
क्षारो हि याति माधुर्यं शीघ्रमम्लोपसंहितः|
श्रेष्ठमम्लेषु मद्यं च यैर्गुणैस्तान् परं शृणु||११४||
मद्यस्याम्लस्वभावस्य चत्वारोऽनुरसाः स्मृताः|
मधुरश्च कषायश्च तिक्तः कटुक एव च||११५||
गुणाश्च दश पूर्वोक्तास्तैश्चतुर्दशभिर्गुणैः|
सर्वेषां मद्यमम्लानामुपर्युपरि तिष्ठति||११६||
मद्योत्क्लिष्टेन दोषेण रुद्धः स्रोतःसु मारुतः|
करोति वेदनां तीव्रां शिरस्यस्थिषु सन्धिषु||११७||
दोषविष्यन्दनार्थं हि तस्मै मद्यं विशेषतः|
व्यवायितीक्ष्णोष्णतया देयमम्ले(न्ये)षु सत्स्वपि||११८||
स्रोतोविबन्धनुन्मद्यं मारुतस्यानुलोमनम्|
रोचनं दीपनं चाग्नेरभ्यासात् सात्म्यमेव च||११९||
रुजः स्रोतःस्वरुद्धेषु मारुते चानुलोमिते|
निवर्तन्ते विकाराश्च शाम्यन्त्यस्य मदोदयाः||१२०||
बीजपूरकवृक्षाम्लकोलदाडिमसंयुतम्|
यवानीहपुषाजाजीशृङ्गवेरावचूर्णितम्||१२१||
सस्नेहैः शक्तुभिर्युक्तमवदंशैर्विरोचितम् |
दद्यात् सलवणं मद्यं पैष्टिकं वातशान्तये||१२२||
दृष्ट्वा वातोल्बणं लिङ्गं रसैश्चैनमुपाचरेत्|
लावतित्तिरदक्षाणां स्निग्धाम्लैः शिखिनामपि||१२३||
पक्षिणां मृगमत्स्यानामानूपानां च संस्कृतैः|
भूशयप्रसहानां च रसैः शाल्योदनेन च||१२४||
स्निग्धोष्णलवणाम्लैश्च वेशवारैर्मुखप्रियैः|
चित्रैर्गौधूमिकैश्चान्नैर्वारुणीमण्डसंयुतैः ||१२५||
पिशितार्द्रकगर्भाभिः स्निग्धाभिः पूपवर्तिभिः|
माषपूपलिकाभिश्च वातिकं समुपाचरेत्||१२६||
नातिस्निग्धं न चाम्लेन युक्तं समरिचार्द्रकम्|
मेद्यं प्रागुदितं मांसं दाडिमस्वरसेन वा||१२७||
पृथक्त्रिजातकोपेतं सधान्यमरिचार्द्रकम्|
रसप्रलेपि सम्पूपैः सुखोष्णैः सम्प्रदापयेत्||१२८||
भुक्ते तु वारुणीमण्डं दद्यात् पातुं पिपासवे|
दाडिमस्य रसं वाऽपि जलं वा पाञ्चमूलिकम्||१२९||
धान्यनागरतोयं च दधिमण्डमथापि वा|
अम्लकाञ्जिकमण्डं वा शुक्तोदकमथापि वा||१३०||
कर्मणाऽनेन सिद्धेन विकार उपशाम्यति|
मात्राकालप्रयुक्तेन बलं वर्णश्च वर्धते||१३१||
रागषाडवसंयोगैर्विविधैर्भक्तरोचनैः|
पिशितैः शाकपिष्टान्नैर्यवगोधूमशालिभिः||१३२||
अभ्यङ्गोत्सादनैः स्नानैरुष्णैः प्रावरणैर्घनैः|
घनैरगुरुपङ्कैश्च धूपैश्चागुरुजैर्घनैः||१३३||
नारीणां यौवनोष्णानां निर्दयैरुपगूहनैः|
श्रोण्यूरुकुचभारैश्च संरोधोष्णसुखावहैः||१३४||
शयनाच्छादनैरुष्णैरुष्णैश्चान्तर्गृहैः सुखैः|
मारुतप्रबलः शीघ्रं प्रशाम्यति मदात्ययः||१३५||
भव्यखर्जूरमृद्वीकापरूषकरसैर्युतम् |
सदाडिमरसं शीतं सक्तुभिश्चावचूर्णितम्||१३६||
सशर्करं शार्करं वा मार्द्वीकमथवाऽपरम्|
दद्याद्बहूदकं काले पातुं पित्तमदात्यये||१३७||
शशान् कपिञ्जलानेणाँल्लावानसितपुच्छकान्|
मधुराम्लान् प्रयुञ्जीत भोजने शालिषष्टिकान्||१३८||
पटोलयूषमिश्रं वा छागलं कल्पयेद्रसम्|
सतीनमुद्गमिश्रं वा दाडिमामलकान्वितम्||१३९||
द्राक्षामलकखर्जूरपरूषकरसेन वा|
कल्पयेत्तर्पणान् यूषान् रसांश्च विविधात्मकान्||१४०||
आमाशयस्थमुत्क्लिष्टं कफपित्तं मदात्यये|
विज्ञाय बहुदोषस्य दह्यमानस्य तृष्यतः||१४१||
मद्यं द्राक्षारसं तोयं दत्त्वा तर्पणमेव वा|
निःशेषं वामयेच्छीघ्रमेवं रोगाद्विमुच्यते||१४२||
काले पुनस्तर्पणाद्यं क्रमं कुर्यात् प्रकाङ्क्षिते|
तेनाग्निर्दीप्यते तस्य दोषशेषान्नपाचकः||१४३||
कासे सरक्तनिष्ठीवे पार्श्वस्तनरुजासु च|
तृष्यते सविदाहे च सोत्क्लेशे हृदयोरसि||१४४||
गुडूचीभद्रमुस्तानां पटोलस्याथवा भिषक्|
रसं सनागरं दद्यात् तित्तिरिप्रतिभोजनम् ||१४५||
तृष्यते चातिबलवद्वातपित्ते समुद्धते|
दद्याद्द्राक्षारसं पातुं शीतं दोषानुलोमनम्||१४६||
जीर्णे समधुराम्लेन छागमांसरसेन तम्|
भोजनं भोजयेन्मद्यमनुतर्षं च पाययेत्||१४७||
अनुतर्षस्य मात्रा सा यया नो दूष्यते मनः|
तृष्यते मद्यमल्पाल्पं प्रदेयं स्याद्बहूदकम्||१४८||
तृष्णा येनोपशाम्येत मदं येन च नाप्नुयात्|
परूषकाणां पीलूनां रसं शीतमथापि वा||१४९||
पर्णिनीनां चतसॄणां पिबेद्वा शिशिरं जलम्|
मुस्तदाडिमलाजानां तृष्णाघ्नं वा पिबेद्रसम्||१५०||
कोलदाडिमवृक्षाम्लचुक्रीकाचुक्रिकारसः|
पञ्चाम्लको मुखालेपः सद्यस्तृष्णां नियच्छति||१५१||
शीतलान्यन्नपानानि शीतशय्यासनानि च|
शीतवातजलस्पर्शाः शीतान्युपवनानि च||१५२||
क्षौमपद्मोत्पलानां च मणीनां मौक्तिकस्य च|
चन्दनोदकशीतानां स्पर्शाश्चन्द्रांशुशीतलाः||१५३||
हेमराजतकांस्यानां पात्राणां शीतवारिभिः|
पूर्णानां हिमपूर्णानां दृतीनां पवनाहताः||१५४||
संस्पर्शाश्चन्दनार्द्राणां नारीणां च समारुताः|
चन्दनानां च मुख्यानां शस्ताः पित्तमदात्यये ||१५५||
शीतवीर्यं यदन्यच्च तत् सर्वं विनियोजयेत्|
कुमुदोत्पलपत्राणां सिक्तानां चन्दनाम्बुना||१५६||
हिताः स्पर्शा मनोज्ञानां दाहे मद्यसमुत्थिते|
कथाश्च विविधाः शस्ताः शब्दाश्च शिखिनां शिवाः||१५७||
तोयदानां च शब्दा हि शमयन्ति मदात्ययम्|
जलयन्त्राभिवर्षीणि वातयन्त्रवहानि च||१५८||
कल्पनीयानि भिषजा दाहे धारागृहाणि च|
फलिनीसेव्यलोध्राम्बुहेमपत्रं कुटन्नटम्||१५९||
कालीयकरसोपेतं दाहे शस्तं प्रलेपनम्|
बदरीपल्लवोत्थश्च तथैवारिष्टकोद्भवः||१६०||
फेनिलायाश्च यः फेनस्तैर्दाहे लेपनं शुभम्|
सुरा समण्डा दध्यम्लं मातुलुङ्गरसो मधु||१६१||
सेके प्रदेहे शस्यन्ते दाहघ्नाः साम्लकाञ्जिकाः|
परिषेकावगाहेषु व्यञ्जनानां च सेवने||१६२||
शस्यते शिशिरं तोयं दाहतृष्णाप्रशान्तये|
मात्राकालप्रयुक्तेन कर्मणाऽनेन शाम्यति ||१६३||
धीमतो वैद्यवश्यस्य शीघ्रं पित्तमदात्ययः|१६४|
उल्लेखनोपवासाभ्यां जयेत् कफमदात्ययम्||१६४||
तृष्यते सलिलं चास्मै दद्याद्ध्रीबेरसाधितम्|
बलया पृश्निपर्ण्या वा कण्टकार्याऽथवा शृतम्||१६५||
सनागराभिः सर्वाभिर्जलं वा शृतशीतलम्|
दुःस्पर्शेन समुस्तेन मुस्तपर्पटकेन वा||१६६||
जलं मुस्तैः शृतं वाऽपि दद्याद्दोषविपाचनम्|
एतदेव च पानीयं सर्वत्रापि मदात्यये||१६७||
निरत्ययं पीयमानं पिपासाज्वरनाशनम्|
निरामं काङ्क्षितं काले सक्षौद्रं पाययेत्तु तम्||१६८||
शार्करं मधु वा जीर्णमरिष्टं सीधुमेव वा|
रूक्षतर्पणसंयुक्तं यवानीनागरान्वितम्||१६९||
यावगौधूमिकं चान्नं रूक्षयूषेण भोजयेत्|
कुलत्थानां सुशुष्काणां मूलकानां रसेन वा||१७०||
तनुनाऽल्पेन लघुना कट्वम्लेनाल्पसर्पिषा|
पटोलयूषमम्लं वा यूषमामलकस्य वा||१७१||
प्रभूतकटुसंयुक्तं सयवान्नं प्रदापयेत्|
व्योषयूषमथाम्लं वा यूषं वा साम्लवेतसम्||१७२||
छागमांसरसं रूक्षमम्लं वा जाङ्गलं रसम्|
स्थाल्यां वाऽथ कपाले वा भृष्टं निर्द्रववर्तितम् ||१७३||
कट्वम्ललवणं मांसं भक्षयन् वृणुयान्मधु|
व्यक्तमारीचकं मांसं मातुलुङ्गरसान्वितम्||१७४||
प्रभूतकटुसंयुक्तं यवानीनागरान्वितम्|
भृष्टं दाडिमसाराम्लमुष्णपूपोपवेष्टितम्||१७५||
यथाग्नि भक्षयेत् काले प्रभूतार्द्रकपेशिकम्|
पिबेच्च निगदं मद्यं कफप्राये मदात्यये||१७६||
सौवर्चलमजाजी च वृक्षाम्लं साम्लवेतसम्|
त्वगेलामरिचार्धांशं शर्कराभागयोजितम्||१७७||
एतल्लवणमष्टाङ्गमग्निसन्दीपनं परम्|
मदात्यये कफप्राये दद्यात् स्रोतोविशोधनम्||१७८||
एतदेव पुनर्युक्त्या मधुराम्लैर्द्रवीकृतम्|
गोधूमान्नयवान्नानां मांसानां चातिरोचनम्||१७९||
पेषयेत् कटुकैर्युक्तां श्वेतां बीजविवर्जिताम्|
मृद्वीकां मातुलुङ्गस्य दाडिमस्य रसेन वा||१८०||
सौवर्चलैलामरिचैरजाजीभृङ्गदीप्यकैः|
स रागः क्षौद्रसंयुक्तः श्रेष्ठो रोचनदीपनः ||१८१||
मृद्वीकाया विधानेन कारयेत् कारवीमपि|
शुक्तमत्स्यण्डिकोपेतं रागं दीपनपाचनम्||१८२||
आम्रामलकपेशीनां रागान् कुर्यात् पृथक् पृथक्|
धान्यसौवर्चलाजाजीकारवीमरिचान्वितान्||१८३||
गुडेन मधुयुक्तेन व्यक्ताम्ललवणीकृतान्|
तैरन्नं रोचते दिग्धं सम्यग्भुक्तं च जीर्यति||१८४||
रूक्षोष्णेनान्नपानेन स्नानेनाशिशिरेण च|
व्यायामलङ्घनाभ्यां च युक्त्या जागरणेन च||१८५||
कालयुक्तेन रूक्षेण स्नानेनोद्वर्तनेन च|
प्राणवर्णकराणां च प्रघर्षाणां च सेवया||१८६||
सेवया वसनानां च गुरूणामगुरोरपि|
सङ्कोचोष्णसुखाङ्गीनामङ्गनानां च सेवया||१८७||
सुखशिक्षितहस्तानां स्त्रीणां संवाहनेन च|
मदात्ययः कफप्रायः शीघ्रमेवोपशाम्यति||१८८||
यदिदं कर्म निर्दिष्टं पृथग्दोषबलं प्रति|
सन्निपाते दशविधे तद्विकल्प्यं भिषग्विदा||१८९||
यस्तु दोषविकल्पज्ञो यश्चौषधिविकल्पवित्|
स साध्यान्साधयेद्व्याधीन् साध्यासाध्यविभागवित्||१९०||
वनानि रमणीयानि सपद्माः सलिलाशयाः|
विशदान्यन्नपानानि सहायाश्च प्रहर्षणाः||१९१||
माल्यानि गन्धयोगाश्च वासांसि विमलानि च|
गान्धर्वशब्दाः कान्ताश्च गोष्ठ्यश्च हृदयप्रियाः||१९२||
सङ्कथाहास्यगीतानां विशदाश्चैव योजनाः|
प्रियाश्चानुगता नार्यो नाशयन्ति मदात्ययम्||१९३||
नाक्षोभ्य हि मनो मद्यं शरीरमविहत्य च|
कुर्यान्मदात्ययं तस्मादेष्टव्या हर्षणी क्रिया||१९४||
आभिः क्रियाभिः सिद्धाभिः शमं याति मदात्ययः|
न चेन्मद्यविधिं मुक्त्वा क्षीरमस्य प्रयोजयेत्||१९५||
लङ्घनैः पाचनैर्दोषशोधनैः शमनैरपि|
विमद्यस्य कफे क्षीणे जाते दौर्बल्यलाघवे||१९६||
तस्य मद्यविदग्धस्य वातपित्ताधिकस्य च|
ग्रीष्मोपतप्तस्य तरोर्यथा वर्षं तथा पयः||१९७||
पयसाऽभिहृते रोगे बले जाते निवर्तयेत्|
क्षीरप्रयोगं मद्यं च क्रमेणाल्पाल्पमाचरेत्||१९८||
विच्छिन्नमद्यः सहसा योऽतिमद्यं निषेवते|
ध्वंसको विक्षयश्चैव रोगस्तस्योपजायते||१९९||
व्याध्युपक्षीणदेहस्य दुश्चिकित्स्यतमौ हि तौ|
तयोर्लिङ्गं चिकित्सा च यथावदुपदेक्ष्यते||२००||
श्लेष्मप्रसेकः कण्ठास्यशोषः शब्दासहिष्णुता|
तन्द्रानिद्रातियोगश्च ज्ञेयं ध्वंसकलक्षणम्||२०१||
हृत्कण्ठरोगः सम्मोहश्छर्दिरङ्गरुजा ज्वरः|
तृष्णा कासः शिरःशूलमेतद्विक्षयलक्षणम्||२०२||
तयोः कर्म तदेवेष्टं वातिके यन्मदात्यये|
तौ हि प्रक्षीणदेहस्य जायेते दुर्बलस्य वै||२०३||
बस्तयः सर्पिषः पानं प्रयोगः क्षीरसर्पिषोः|
अभ्यङ्गोद्वर्तनस्नानान्यन्नपानं च वातनुत्||२०४||
ध्वंसको विक्षयश्चैव कर्मणाऽनेन शाम्यति|
युक्तमद्यस्य मद्योत्थो न व्याधिरुपजायते||२०५||
निवृत्तः सर्वमद्येभ्यो नरो यश्च जितेन्द्रियः|
शारीरमानसैर्धीमान् विकारैर्न स युज्यते||२०६||
तत्र श्लोकाः-
यत्प्रभावा भगवती सुरा पेया यथा च सा|
यद्द्रव्या यस्य या चेष्टा योगं चापेक्षते यथा||२०७||
यथा मदयते यैश्च गुणैर्युक्ता महागुणा|
यो मदो मदभेदाश्च ये त्रयः स्वस्वलक्षणाः||२०८||
ये च मद्यकृता दोषा गुणा ये च मदात्मकाः|
यच्च त्रिविधमापानं यथासत्त्वं च लक्षणम्||२०९||
ये सहायाः सुखाः पाने चिरक्षिप्रमदा नराः|
मदात्ययस्य यो हेतुर्लक्षणं यद् यथा च यत्||२१०||
मद्यं मद्योत्थितान् रोगान् हन्ति यश्च क्रियाक्रमः|
सर्वं तदुक्त
मखिलं मदात्ययचिकित्सिते||२११||
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थानेमदात्ययचिकित्सितं नाम चतुर्विंशोऽध्यायः||२४||