चिकित्सास्थानम् - २५. द्विव्रणीयचिकित्सितम्
अथातो द्विव्रणीयचिकित्सितं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
परावरज्ञमात्रेयं गतमानमदव्यथम्|
अग्निवेशो गुरुं काले विनयादिदमब्रवीत्||३||
भगवन्! पूर्वमुद्दिष्टौ द्वौ व्रणौ रोगसङ्ग्रहे|
तयोर्लिङ्गं चिकित्सां च वक्तुमर्हसि शर्मद!||४||
इत्यग्निवेशस्य वचो निशम्य गुरुरब्रवीत्|
यौ व्रणौ पूर्वमुद्दिष्टौ निजश्चागन्तुरेव च||५||
श्रूयतां विधिवत् सौम्य! तयोर्लिङ्गं च भेषजम्|
निजः शरीरदोषोत्थ आगन्तुर्बाह्यहेतुजः||६||
वधबन्धप्रपतनाद्दंष्ट्रादन्तनखक्षतात्|
आगन्तवो व्रणास्तद्वद्विषस्पर्शाग्निशस्त्रजाः||७||
मन्त्रागदप्रलेपाद्यैर्भेषजैर्हेतुभिश्च ते|
लिङ्गैकदेशैर्निर्दिष्टा विपरीता निजैर्व्रणैः ||८||
व्रणानां निजहेतूनामागन्तूनामशाम्यताम्|
कुर्याद्दोषबलापेक्षी निजानामौषधं यथा||९||
यथास्वैर्हेतुभिर्दुष्टा वातपित्तकफा नृणाम्|
बहिर्मार्गं समाश्रित्य जनयन्ति निजान् व्रणान्||१०||
स्तब्धः कठिनसंस्पर्शो मन्दस्रावोऽतितीव्ररुक् |
तुद्यते स्फुरति श्यावो व्रणो मारुतसम्भवः||११||
सम्पूरणैः स्नेहपानैः स्निग्धैः स्वेदोपनाहनैः|
प्रदेहैः परिषेकैश्च वातव्रणमुपाचरेत्||१२||
तृष्णामोहज्वरस्वे(क्ले)ददाहदुष्ट्यवदारणैः|
व्रणं पित्तकृतं विद्याद्गन्धैः स्रावैश्च पूतिकैः||१३||
शीतलैर्मधुरैस्तिक्तैः प्रदेहपरिषेचनैः|
सर्पिष्पानैर्विरेकैश्च पैत्तिकं शमयेद्व्रणम्||१४||
बहुपिच्छो गुरुः स्निग्धः स्तिमितो मन्दवेदनः|
पाण्डुवर्णोऽल्पसङ्क्लेदश्चिरकारी कफव्रणः||१५||
कषायकटुरूक्षोष्णैः प्रदेहपरिषेचनैः|
कफव्रणं प्रशमयेत्तथा लङ्घनपाचनैः ||१६||
तौ द्वौ नानात्वभेदेन निरुक्ता विंशतिर्व्रणाः|
तेषां परीक्षा त्रिविधा, प्रदुष्टा द्वादश स्मृताः||१७||
स्थानान्यष्टौ तथा गन्धाः, परिस्रावाश्चतुर्दश|
षोडशोपद्रवा दोषाश्चत्वारो विंशतिस्तथा||१८||
तथा चोपक्रमाः सिद्धाः षट्त्रिंशत् समुदाहृताः|
विभज्यमानाञ्छृणु मे सर्वानेतान् यथेरितान्||१९||
कृत्योत्कृत्यस्तथा दुष्टोऽदुष्टो मर्मस्थितो न च|
संवृतो दारुणः स्रावी सविषो विषमस्थितः||२०||
उत्सङ्ग्युत्सन्न एषां च व्रणान् विद्याद्विपर्ययात्|
इति नानात्वभेदेन निरुक्ता विंशतिर्व्रणाः||२१||
दर्शनप्रश्नसंस्पर्शैः परीक्षा त्रिविधा स्मृता|
वयोवर्णशरीराणामिन्द्रियाणां च दर्शनात्||२२||
हेत्वर्तिसात्म्याग्निबलं परीक्ष्यं वचनाद्बुधैः|
स्पर्शान्मार्दवशैत्ये च परीक्ष्ये सविपर्यये||२३||
श्वेतोऽवसन्नवर्त्माऽतिस्थूलवर्त्माऽतिपिञ्जरः |
नीलःश्यावोऽतिपिडको रक्तः कृष्णोऽतिपूतिकः||२४||
रोप्यः कुम्भीमुखश्चेति प्रदुष्टा द्वादश व्रणाः|
चतुर्विंशतिरुद्दिष्टा दोषाः कल्पान्तरेण वै||२५||
त्वक्सिरामांसमेदोऽस्थिस्नायुमर्मान्तराश्रयाः|
व्रणस्थानानि निर्दिष्टान्यष्टावेतानि सङ्ग्रहे||२६||
सर्पिस्तैलवसापूयरक्तश्यावाम्लपूतिकाः|
व्रणानां व्रणगन्धज्ञैरष्टौ गन्धाः प्रकीर्तिताः||२७||
लसीकाजलपूयासृग्घारिद्रारुणपिञ्जराः|
कषायनीलहरितस्निग्धरूक्षसितासिताः||२८||
इति रूपैः समुद्दिष्टा व्रणस्रावाश्चतुर्दश|
विसर्पः पक्षघातश्च सिरास्तम्भोऽपतानकः||२९||
मोहोन्मादव्रणरुजो ज्वरस्तृष्णा हनुग्रहः|
कासश्छर्दिरतीसारो हिक्का श्वासः सवेपथुः||३०||
षोडशोपद्रवाः प्रोक्ता व्रणानां व्रणचिन्तकैः|३१|
स्नायुक्लेदात्सिराक्लेदाद्गाम्भीर्यात्कृमिभक्षणात् ||३१||
अस्थिभेदात् सशल्यत्वात् सविषत्वाच्च सर्पणात्|
नखकाष्ठप्रभेदाच्च चर्मलोमातिघट्टनात् ||३२||
मिथ्याबन्धादति स्नेहादतिभैषज्यकर्षणात्|
अजीर्णादतिभुक्ताच्च विरुद्धासात्म्यभोजनात्||३३||
शोकात् क्रोधाद्दिवास्वप्नाद्व्यायामान्मैथुनात्तथा|
व्रणा न प्रशमं यान्ति निष्क्रियत्वाच्च देहिनाम्||३४||
परिस्रावाच्च गन्धाच्च दोषाच्चोपद्रवैः सह|
व्रणानां बहुदोषाणां कृच्छ्रत्वं चोपजायते||३५||
त्वङ्मांसजः सुखे देशे तरुणस्यानुपद्रवः|
धीमतोऽभिनवः काले सुखसाध्यः स्मृतो व्रणः||३६||
गुणैरन्यतमैर्हीनस्ततः कृच्छ्रो व्रणः स्मृतः|
सर्वैर्विहीनो विज्ञेयस्त्वसाध्यो निरुपक्रमः ||३७||
व्रणानामादितः कार्यं यथासन्नं विशोधनम्|
ऊर्ध्वभागैरधोभागैः शस्त्रैर्बस्तिभिरेव च||३८||
सद्यः शुद्धशरीराणां प्रशमं यान्ति हि व्रणाः|३९|
यथाक्रममतश्चोर्ध्वं शृणु सर्वानुपक्रमान्||३९||
शोफघ्नं षड्विधं चैव शस्त्रकर्मावपीडनम्|
निर्वापणं ससन्धानं स्वेदः शमनमेषणम्||४०||
शोधनौ रोपणीयौ च कषायौ सप्रलेपनौ|
द्वे तैले तद्गुणे पत्रं छादने द्वे च बन्धने||४१||
भोज्यमुत्सादनं दाहो द्विविधः सावसादनः|
काठिन्यमार्दवकरे धूपनालेपने शुभे||४२||
व्रणावचूर्णनं वर्ण्यं रोपणं लोमरोहणम्|
इति षट्त्रिंशदुद्दिष्टा व्रणानां समुपक्रमाः||४३||
पूर्वरूपं भिषग्बुद्ध्वा व्रणानां शोफमादितः|
रक्तावसेचनं कुर्यादजातव्रणशान्तये||४४||
शोधयेद्बहुदोषांस्तु स्वल्पदोषान् विलङ्घयेत्|
पूर्वं कषायसर्पिर्भिर्जयेद्वा मारुतोत्तरान्||४५||
न्यग्रोधोदुम्बराश्वत्थप्लक्षवेतसवल्कलैः|
ससर्पिष्कैः प्रलेपः स्याच्छोफनिर्वापणः परम्||४६||
विजया मधुकं वीरा बिसग्रन्थिः शतावरी|
नीलोत्पलं नागपुष्पं प्रदेहः स्यात् सचन्दनः||४७||
सक्तवो मधुकं सर्पिः प्रदेहः स्यात् सशर्करः|
अविदाहीनि चान्नानि शोफे भेषजमुत्तमम्||४८||
स चेदेवमुपक्रान्तः शोफो न प्रशमं व्रजेत्|
तस्योपनाहैः पक्वस्य पाटनं हितमुच्यते||४९||
तैलेन सर्पिषा वाऽपि ताभ्यां वा सक्तुपिण्डिका|
सुखोष्णा शोफपाकार्थमुपनाहः प्रशस्यते||५०||
सतिला सातसीबीजा दध्यम्ला सक्तुपिण्डिका|
सकिण्वकुष्ठलवणा शस्ता स्यादुपनाहने||५१||
रुग्दाहरागतोदैश्च विदग्धं शोफमादिशेत्|
जलबस्तिसमस्पर्शं सम्पक्वं पीडितोन्नतम्||५२||
उमाऽथो गुग्गुलुः सौधं पयो दक्षकपोतयोः|
विट् पलाशभवः क्षारो हेमक्षीरी मुकूलकः||५३||
इत्युक्तो भेषजगणः पक्वशोथप्रभेदनः|
सुकुमारस्य, कृच्छ्रस्य शस्त्रं तु परमुच्यते||५४||
पाटनं व्यधनं चैव छेदनं लेपनं तथा|
प्रच्छनं सीवनं चैव षड्विधं शस्त्रकर्म तत्||५५||
नाडीव्रणाः पक्वशोथास्तथा क्षतगुदोदरम्|
अन्तःशल्याश्च ये शोफाः पाट्यास्ते तद्विधाश्च ये||५६||
दकोदराणि सम्पक्वा गुल्मा ये ये च रक्तजाः|
व्यध्याः शोणितरोगाश्च विसर्पपिडकादयः||५७||
उद्वृत्तान् स्थूलपर्यन्तानुत्सन्नान् कठिणान् व्रणान्|
अर्शःप्रभृत्यधीमांसं छेदनेनोपपादयेत्||५८||
किलासानि सकुष्ठानि लिखेल्लेख्यानि बुद्धिमान्|
वातासृग्ग्रन्थिपिडकाः सकोठा रक्तमण्डलम्||५९||
कुष्ठान्यभिहतं चाङ्गं शोथांश्च प्रच्छयेद्भिषक्|
सीव्यं कुक्ष्युदराद्यं तु गम्भीरं यद्विपाटितम्||६०||
इति षड्विधमुद्दिष्टं शस्त्रकर्म मनीषिभिः|६१|
सूक्ष्माननाः कोषवन्तो ये व्रणास्तान्प्रपीडयेत्||६१||
कलायाश्च मसूराश्च गोधूमाः सहरेणवः|
कल्कीकृताः प्रशस्यन्ते निःस्नेहा व्रणपीडने||६२||
शाल्मलीत्वग्बलामूलं तथा न्यग्रोधपल्लवाः|
न्यग्रोधादिकमुद्दिष्टं बलादिकमथापि वा||६३||
आलेपनं निर्वपणं तद्विद्यात्तैश्च सेचनम्|
सर्पिषा शतधौतेन पयसा मधुकाम्बुना||६४||
निर्वापयेत् सुशीतेन रक्तपित्तोत्तरान् व्रणान्|६५|
लम्बानि व्रणमांसानि प्रलिप्य मधुसर्पिषा||६५||
सन्दधीत समं वैद्यो बन्धनैश्चोपपादयेत्|
तान्समान्सुस्थिताञ्ज्ञात्वा फलिनीलोध्रकट्फलैः||६६||
समङ्गाधातकीयुक्तैश्चूर्णितैरवचूर्णयेत्|
पञ्चवल्कलचूर्णैर्वा शुक्तिचूर्णसमायुतैः||६७||
धातकीलोध्रचूर्णैर्वा तथा रोहन्ति ते व्रणाः|६८|
अस्थिभग्नं च्युतं सन्धिं सन्दधीत समं पुनः||६८||
समेन सममङ्गेन कृत्वाऽन्येन विचक्षणः|
स्थिरैः कवलिकाबन्धैः कुशिकाभिश्च संस्थितम्||६९||
पट्टैः प्रभूतसर्पिष्कैर्बध्नीयादचलं सुखम्|
अविदाहिभिरन्नैश्च पैष्टिकैस्तमुपाचरेत्||७०||
ग्लानिर्हि न हिता तस्य सन्धिविश्लेषकारिका|
विच्युताभिहताङ्गानां विसर्पादीनुपद्रवान्||७१||
उपाचरेद्यथाकालं कालज्ञः स्वाच्चिकित्सितात्|७२|
शुष्का महारुजः स्तब्धा ये व्रणा मारुतोत्तराः|
स्वेद्याः सङ्करकल्पेन ते स्युः कृशरपायसैः||७२||
ग्राम्यबैलाम्बुजानूपैर्वैशवारैश्च संस्कृतैः|
उत्कारिकाभिश्चोष्णाभिः सुखी स्याद्व्रणितस्तथा||७३||
सदाहा वेदनावन्तो ये व्रणा मारुतोत्तराः|
तेषामुमां तिलांश्चैव भृष्टान् पयसि निर्वृतान्||७४||
तेनैव पयसा पिष्ट्वा कुर्यादालेपनं भिषक्|
बला गुडूची मधुकं पृश्निपर्णी शतावरी||७५||
जीवन्ती शर्करा क्षीरं तैलं मत्स्यवसा घृतम्|
संसिद्धा समधूच्छिष्टा शूलघ्नी स्नेहशर्करा||७६||
द्विपञ्चमूलक्वथितेनाम्भसा पयसाऽथवा |
सर्पिषा वा सतैलेन कोष्णेन परिषेचयेत्||७७||
यवचूर्णं समधुकं सतिलं सह सर्पिषा|
दद्यादालेपनं कोष्णं दाहशूलोपशान्तये||७८||
उपनाहश्च कर्तव्यः सतिलो मुद्गपायसः|
रुग्दाहयोः प्रशमनो व्रणेष्वेष विधिर्हितः||७९||
सूक्ष्मानना बहुस्रावाः कोषवन्तश्च ये व्रणाः|
न च मर्माश्रितास्तेषामेषणं हितमुच्यते||८०||
द्विविधामेषणीं विद्यान्मृद्वीं च कठिनामपि|
औद्भिदैर्मृदुभिर्नालैर्लोहानां वा शलाकया||८१||
गम्भीरे मांसले देशे पाट्यं लौहशलाकया|
एष्यं विद्याद्व्रणं नालैर्विपरीतमतो भिषक्||८२||
पूतिगन्धान् विवर्णांश्च बहुस्रावान्महारुजः|
व्रणानशुद्धान् विज्ञाय शोधनैः समुपाचरेत्||८३||
त्रिफला खदिरो दार्वी न्यग्रोधादिर्बला कुशः|
निम्बकोलकपत्राणि कषायाः शोधना मताः||८४||
तिलकल्कः सलवणो द्वे हरिद्रे त्रिवृद्धृतम्|
मधुकं निम्बपत्राणि प्रलेपो व्रणशोधनः||८५||
नातिरक्तो नातिपाण्डुर्नातिश्यावो न चातिरुक्|
न चोत्सन्नो न चोत्सङ्गी शुद्धो रोप्यः परं व्रणः||८६||
न्यग्रोधोदुम्बराश्वत्थकदम्बप्लक्षवेतसाः|
करवीरार्ककुटजाः कषाया व्रणरोपणाः||८७||
चन्दनं पद्मकिञ्जल्कं दार्वीत्वङ्नीलमुत्पलम्|
मेदे मूर्वा समङ्गा च यष्ट्याह्वं व्रणरोपणम्||८८||
प्रपौण्डरीकं जीवन्ती गोजिह्वा धातकी बला|
रोपणं सतिलं दद्यात् प्रलेपं सघृतं व्रणे||८९||
कम्पिल्लकं विडङ्गानि वत्सकं त्रिफलां बलाम्|
पटोलं पिचुमर्दं च लोध्रं मुस्तं प्रियङ्गुकम्||९०||
खदिरं धातकीं सर्जमेलामगुरुचन्दने|
पिष्ट्वा साध्यं भवेत्तैलं तत् परं व्रणरोपणम्||९१||
प्रपौण्डरीकं मधुकं काकोल्यौ द्वे च चन्दने|
सिद्धमेतैः समैस्तैलं परं स्याद्व्रणरोपणम्||९२||
दूर्वास्वरससिद्धं वा तैलं कम्पिल्लकेन वा|
दार्वीत्वचश्च कल्केन प्रधानं व्रणरोपणम्||९३||
येनैव विधिना तैलं घृतं तेनैव साधयेत्|
रक्तपित्तोत्तरं दृष्ट्वा रोपणीयं व्रणं भिषक्||९४||
कदम्बार्जुननिम्बानां पाटल्याः पिप्पलस्य च|
व्रणप्रच्छादने विद्वान् पत्राण्यर्कस्य चादिशेत्||९५||
वार्क्षोऽथवाऽऽजिनः क्षौमः पट्टो व्रणहितः स्मृतः|
बन्धश्च द्विविधः शस्तो व्रणानां सव्यदक्षिणः||९६||
लवणाम्लकटूष्णानि विदाहीनि गुरूणि च|
वर्जयेदन्नपानानि व्रणी मैथुनमेव च||९७||
नातिशीतगुरुस्निग्धमविदाहि यथाव्रणम्|
अन्नपानं व्रणहितं हितं चास्वपनं दिवा||९८||
स्तन्यानि जीवनीयानि बृंहणीयानि यानि च|
उत्सादनार्थं निम्नानां व्रणानां तानि कल्पयेत्||९९||
भूर्जग्रन्थ्यश्मकासीसमधोभागानि गुग्गुलुः|
व्रणावसादनं तद्वत् कलविङ्ककपोतविट्||१००||
रुधिरेऽतिप्रवृत्ते तु च्छिन्ने च्छेद्येऽधिमांसके|
कफग्रन्थिषु गण्डेषु वातस्तम्भानिलार्तिषु||१०१||
गूढपूयलसीकेषु गम्भीरेषु स्थिरेषु च|
कप्तेषु चाङ्गदेशेषु कर्माग्नेः सम्प्रशस्यते||१०२||
मधूच्छिष्टेन तैलेन मज्जक्षौद्रवसाघृतैः|
तप्तैर्वा विविधैर्लोहैर्दहेद्दाहविशेषवित्||१०३||
रूक्षाणां सुकुमाराणां गम्भीरान्मारुतोत्तरान्|
दहेत् स्नेहमधूच्छिष्टैर्लोहैः क्षौद्रैस्ततोऽन्यथा||१०४||
बालदुर्बलवृद्धानां गर्भिण्या रक्तपित्तिनाम्|
तृष्णाज्वरपरीतानामबलानां विषादिनाम्||१०५||
नाग्निकर्मोपदेष्टव्यं स्नायुमर्मव्रणेषु च|
सविषेषु च शल्येषु नेत्रकुष्ठव्रणेषु च||१०६||
रोगदोषबलापेक्षी मात्राकालाग्निकोविदः|
शस्त्रकर्माग्निकृत्येषु क्षारमप्यवचारयेत्||१०७||
कठिनत्वं व्रणा यान्ति गन्धैः सारैश्च धूपिताः|
सर्पिर्मज्जवसाधूपैः शैथिल्यं यान्ति हि व्रणाः||१०८||
रुजः स्रावाश्च गन्धाश्च कृमयश्च व्रणाश्रिताः|
शैथिल्यं मार्दवं चापि धूपनेनोपशाम्यति||१०९||
लोध्रन्यग्रोधशुङ्गानि खदिरस्त्रिफला घृतम्|
प्रलेपो व्रणशैथिल्यसौकुमार्यप्रसाधनः||११०||
सरुजः कठिनाः स्तब्धा निरास्रावाश्च ये व्रणाः|
यवचूर्णैः ससर्पिष्कैर्बहुशस्तान् प्रलेपयेत्||१११||
मुद्गषष्टिकशालीनां पायसैर्वा यथाक्रमम्|
सघृतैर्जीवनीयैर्वा तर्पयेत्तानभीक्ष्णशः||११२||
ककुभोदुम्बराश्वत्थलोध्रजाम्बवकट्फलैः|
त्वचमाश्वेव गृह्णन्ति त्वक्चूर्णैश्चूर्णिता व्रणाः||११३||
मनःशिलैला मञ्जिष्ठा लाक्षा च रजनीद्वयम्|
प्रलेपः सघृतक्षौद्रस्त्वग्विशुद्धिकरः परः||११४||
अयोरजः सकासीसं त्रिफलाकुसुमानि च|
करोति लेपः कृष्णत्वं सद्य एव नवत्वचि||११५||
कालीयकनताम्रास्थिहेमकान्तारसोत्तमैः |
लेपः सगोमयरसः सवर्णीकरणः परः||११६||
ध्यामकाश्वत्थनिचुलमूलं लाक्षा सगैरिका|
सहेमश्चामृतासङ्गः कासीसं चेति वर्णकृत्||११७||
चतुष्पदानां त्वग्लोमखुरशृङ्गास्थिभस्मना|
तैलाक्ता चूर्णिता भूमिर्भवेल्लोमवती पुनः||११८||
षोडशोपद्रवा ये च व्रणानां परिकीर्तिताः|
तेषां चिकित्सा निर्दिष्टा यथास्वं स्वे चिकित्सिते||११९||
तत्र श्लोकौ-
द्वौ व्रणौ व्रणभेदाश्च परीक्षा दुष्टिरेव च|
स्थानानि गन्धाः स्रावाश्च सोपसर्गाः क्रियाश्च याः||१२०||
व्रणाधिकारे सप्रश्नमेतन्नवकमुक्तवान्|
मुनिर्व्याससमासाभ्यामग्निवेशाय धीमते||१२१||
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते दृढबलसम्पूरिते चिकित्सास्थाने
द्विव्रणीयचिकित्सितं नाम पञ्चविंशोऽध्यायः||२५||