चिकित्सास्थानम् - २६. त्रिमर्मीयचिकित्सितम्
अथातस्त्रिमर्मीयचिकित्सितमध्यायं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
सप्तोत्तरं मर्मशतं यदुक्तं शरीरसङ्ख्यामधिकृत्य तेभ्यः|
मर्माणि बस्तिं हृदयं शिरश्च प्रधानभूतानि वदन्ति तज्ज्ञाः||३||
प्राणाश्रयात्, तानि हि पीडयन्तो वातादयोऽसूनपि पीडयन्ति|
तत्संश्रितानामनुपालनार्थं महागदानां शृणु सौम्य रक्षाम्||४||
कषायतिक्तोषणरूक्षभोज्यैः सन्धारणाभोजनमैथुनैश्च |
पक्वाशये कुप्यति चेदपानः स्रोतांस्यधोगानि बली स रुद्ध्वा||५||
करोति विण्मारुतमूत्रसङ्गं क्रमादुदावर्तमतः सुघोरम्|
रुग्बस्तिहृत्कुक्ष्युदरेष्वभीक्ष्णं सपृष्ठपार्श्वेष्वतिदारुणा स्यात्||६||
आध्मानहृल्लासविकर्तिकाश्च तोदोऽविपाकश्च सबस्तिशोथः|
वर्चोऽप्रवृत्तिर्जठरे च गण्डान्यूर्ध्वश्च वायुर्विहतो गुदे स्यात्||७||
कृच्छ्रेण शुष्कस्य चिरात् प्रवृत्तिः स्याद्वा तनुः स्यात् खररूक्षशीता|
ततश्च रोगा ज्वरमूत्रकृच्छ्रप्रवाहिकाहृद्ग्रहणीप्रदोषाः||८||
वम्यान्ध्यबाधिर्यशिरोऽभितापवातोदराष्ठीलमनोविकाराः|
तृष्णास्रपित्तारुचिगुल्मकासश्वासप्रतिश्यार्दितपार्श्वरोगाः||९||
अन्ये च रोगा बहवोऽनिलोत्था भवन्त्युदावर्तकृताः सुघोराः|
चिकित्सितं चास्य यथावदूर्ध्वं प्रवक्ष्यते तच्छृणु चाग्निवेश!||१०||
तं तैलशीतज्वरनाशनाक्तं स्वेदैर्यथोक्तैः प्रविलीनदोषम्|
उपाचरेद्वर्तिनिरूहबस्तिस्नेहैर्विरेकैरनुलोमनान्नैः||११||
श्यामात्रिवृन्मागधिकां सदन्तीं गोमूत्रपिष्टां दशभागमाषाम्|
सनीलिकां द्विर्लवणां गुडेन वर्तिं कराङ्गुष्ठनिभां विदध्यात्||१२||
पिण्याकसौवर्चलहिङ्गुभिर्वा ससर्षपत्र्यूषणयावशूकैः|
क्रिमिघ्नकम्पिल्लकशङ्खिनीभिः सुधार्कजक्षीरगुडैर्युताभिः||१३||
स्यात् पिप्पलीसर्षपराढवेश्मधूमैः सगोमूत्रगुडैश्च वर्तिः|
श्यामाफलालाबुकपिप्पलीनां नाड्याऽथवा तत् प्रधमेत्तु चूर्णम्||१४||
रक्षोघ्नतुम्बीकरहाटकृष्णाचूर्णं सजीमूतकसैन्धवं वा|
स्निग्धे गुदे तान्यनुलोमयन्ति नरस्य वर्चोऽनिलमूत्रसङ्गम्||१५||
तेषां विघाते तु भिषग्विदध्यात् स्वभ्यक्तसुस्विन्नतनोर्निरूहम्|
ऊर्ध्वानुलोमौषधमूत्रतैलक्षाराम्लवातघ्नयुतं सुतीक्ष्णम्||१६||
वातेऽधिकेऽम्लं लवणं सतैलं, क्षीरेण पित्ते तु, कफे समूत्रम्|
स मूत्रवर्चोऽनिलसङ्गमाशु गुदं सिराश्च प्रगुणीकरोति||१७||
त्रिवृत्सुधापत्रतिलादिशाकग्राम्यौदकानूपरसैर्यवान्नम्|
अन्यैश्च सृष्टानिलमूत्रविड्भिरद्यात् प्रसन्नागुडसीधुपायी||१८||
भूयोऽनुबन्धे तु भवेद्विरेच्यो मूत्रप्रसन्नादधिमण्डशुक्तैः|
स्वस्थं तु पश्चादनुवासयेत्तं रौक्ष्याद्धि सङ्गोऽनिलवर्चसोश्चेत्||१९||
द्विरुत्तरं हिङ्गु वचाग्निकुष्ठं सुवर्चिका चैव विडङ्गचूर्णम्|
सुखाम्बुनाऽऽनाहविसूचिकार्तिहृद्रोगगुल्मोर्ध्वसमीरणघ्नम् ||२०||
वचाभयाचित्रकयावशूकान् सपिप्पलीकातिविषान् सकुष्ठान्|
उष्णाम्बुनाऽऽनाहविमूढवातान् पीत्वा जयेदाशु रसौदनाशी||२१||
हिङ्गूग्रगन्धाबिडशुण्ठ्यजाजीहरीतकीपुष्करमूलकुष्ठम्|
यथोत्तरं भागविवृद्धमेतत् प्लीहोदराजीर्णविसूचिकासु||२२||
स्थिरादिवर्गस्य पुनर्नवायाः शम्पाकपूतीककरञ्जयोश्च|
सिद्धः कषाये द्विपलांशिकानां प्रस्थो घृतात् स्यात् प्रतिरुद्धवाते||२३||
फलं च मूलं च विरेचनोक्तं हिङ्ग्वर्कमूलं दशमूलमग्र्यम्|
स्नुक् चित्रकश्चैव पुनर्नवा च तुल्यानि सर्वैर्लवणानि पञ्च||२४||
स्नेहैः समूत्रैः सह जर्जराणि शरावसन्धौ विपचेत् सुलिप्ते|
पक्वं सुपिष्टं लवणं तदन्नैः पानैस्तथाऽऽनाहरुजाघ्नमद्यात्||२५||
हृत्स्तम्भमूर्धामयगौरवाभ्यामुद्गारसङ्गेन सपीनसेन|
आनाहमामप्रभवं जयेत्तु प्रच्छर्दनैर्लङ्घनपाचनैश्च||२६||
(गुल्मोदरब्रध्नार्शःप्लीहोदावर्तयोनिशुक्रगदे |
मेदःकफसंसृष्टे मारुतरक्तेऽवगाढे च||२७||
गृध्रसिपक्षवधादिषु विरेचनार्हेषु वातरोगेषु|
वाते विबद्धमार्गे मेदःकफपित्तरक्तेन||२८||
पयसा मांसरसैर्वा त्रिफलारसयूषमूत्रमदिराभिः|
दोषानुबन्धयोगात् प्रशस्तमेरण्डजं तैलम्||२९||
तद्वातनुत्स्वभावात् संयोगवशाद्विरेचनाच्च जयेत्|
मेदोसृक्पित्तकफोन्मिश्रानिलरोगजित्तस्मात्||३०||
बलकोष्ठव्याधिवशादापञ्चपला भवेन्मात्रा|
मृदुकोष्ठाल्पबलानां सह भोज्यं तत्प्रयोज्यं स्यत्)||३१||
इत्युदावर्तचिकित्सा|
व्यायामतीक्ष्णौषधरूक्षमद्यप्रसङ्गनित्यद्रुतपृष्ठयानात्|
आनूपमत्स्याध्यशनादजीर्णात् स्युर्मूत्रकृच्छ्राणि नृणामिहाष्टौ||३२||
पृथङ्मलाः स्वैः कुपिता निदानैः सर्वेऽथवा कोपमुपेत्य बस्तौ|
मूत्रस्य मार्गं परिपीडयन्ति यदा तदा मूत्रयतीह कृच्छ्रात्||३३||
तीव्रा रुजो वङ्क्षणबस्तिमेढ्रे स्वल्पं मुहुर्मूत्रयतीह वातात्|
पीतं सरक्तं सरुजं सदाहं कृच्छ्रान्मुहुर्मूत्रयतीह पित्तात्||३४||
बस्तेः सलिङ्गस्य गुरुत्वशोथौ मूत्रं सपिच्छं कफमूत्रकृच्छ्रे|
सर्वाणि रूपाणि तु सन्निपाताद्भवन्ति तत् कृच्छ्रतमं हि कृच्छ्रम्||३५||
विशोषयेद्बस्तिगतं सशुक्रं मूत्रं सपित्तं पवनः कफं वा|
यदा तदाऽश्मर्युपजायते तु क्रमेण पित्तेष्विव रोचना गोः||३६||
कदम्बपुष्पाकृतिरश्मतुल्या श्लक्ष्णा त्रिपुट्यप्यथवाऽपि मृद्वी|
मूत्रस्य चेन्मार्गमुपैति रुद्ध्वा मूत्रं रुजं तस्य करोति बस्तौ||३७||
ससेवनीमेहनबस्तिशूलं विशीर्णधारं च करोति मूत्रम्|
मृद्नाति मेढ्रं स तु वेदनार्तो मुहुः शकृन्मुञ्चति मेहते च||३८||
क्षोभात् क्षते मूत्रयतीह सासृक् तस्याः सुखं मेहति च व्यपायात्|३९|
एषाऽश्मरी मारुतभिन्नमूर्तिः स्याच्छर्करा मूत्रपथात् क्षरन्ती||३९||
(रेतोऽभिघाताभिहतस्य पुंसः प्रवर्तते यस्य तु मूत्रकृच्छ्रम्|
स्याद्वेदना वङ्क्षणबस्तिमेढ्रे तस्यातिशूलं वृषणातिवृत्ते||४०||
शुक्रेण संरुद्धगतिप्रवाहो मूत्रं स कृच्छ्रेण विमुञ्चतीह|
तमण्डयोः स्तब्धमिति ब्रुवन्ति रेतोऽभिघातात् प्रवदन्ति कृच्छ्रम्)||४१||
शुक्रं मलाश्चैव पृथक् पृथग्वा मूत्राशयस्थाः प्रतिवारयन्ति|
तद्व्याहतं मेहनबस्तिशूलं मूत्रं सशुक्रं कुरुते विबद्धम्||४२||
स्तब्धश्च शूनो भृशवेदनश्च तुद्येत बस्तिर्वृषणौ च तस्य|४३|
क्षताभिघातात् क्षतजं क्षयाद्वा प्रकोपितं बस्तिगतं विबद्धम्||४३||
तीव्रार्ति मूत्रेण सहाश्मरीत्वमायाति तस्मिन्नतिसञ्चिते च|
आध्माततां विन्दति गौरवं च बस्तेर्लघुत्वं च विनिःसृतेऽस्मिन्||४४||
इति मूत्रकृच्छ्रनिदानम्|
अभ्यञ्जनस्नेहनिरूहबस्तिस्नेहोपनाहोत्तरबस्तिसेकान्|
स्थिरादिभिर्वातहरैश्च सिद्धान् दद्याद्रसांश्चानिलमूत्रकृच्छ्रे||४५||
पुनर्नवैरण्डशतावरीभिः पत्तूरवृश्चीरबलाश्मभिद्भिः|
द्विपञ्चमूलेन कुलत्थकोलयवैश्च तोयोत्क्वथिते कषाये||४६||
तैलं वराहर्क्षवसा घृतं च तैरेव कल्कैर्लवणैश्च साध्यम्|
तन्मात्रयाऽऽशु प्रतिहन्ति पीतं शूलान्वितं मारुतमूत्रकृच्छ्रम्||४७||
एतानि चान्यानि वरौषधानि पिष्टानि शस्तान्यपि चोपनाहे|
स्युर्लाभतस्तैलफलानि चैव स्नेहाम्लयुक्तानि सुखोष्णवन्ति||४८||
सेकावगाहाः शिशिराः प्रदेहा ग्रैष्मो विधिर्बस्तिपयोविरेकाः|
द्राक्षाविदारीक्षुरसैर्घृतैश्च कृच्छ्रेषु पित्तप्रभवेषु कार्याः||४९||
शतावरीकाशकुशश्वदंष्ट्राविदारिशालीक्षुकशेरुकाणाम्|
क्वाथं सुशीतं मधुशर्कराभ्यां युक्तं पिबेत् पैत्तिकमूत्रकृच्छ्री||५०||
पिबेत् कषायं कमलोत्पलानां शृङ्गाटकानामथवा विदार्याः|
दण्डैरकाणामथवाऽपि मूलं पूर्वेण कल्पेन तथाऽम्बु शीतम्||५१||
एर्वारुबीजं त्रपुषात् कुसुम्भात् सकुङ्कुमः स्याद्वृषकश्च पेयः|
द्राक्षारसेनाश्मरिशर्करासु सर्वेषु कृच्छ्रेषु प्रशस्त एषः||५२||
एर्वारुबीजं मधुकं सदारु पैत्ते पिबेत्तण्डुलधावनेन|
दार्वीं तथैवामलकीरसेन समाक्षिकां पित्तकृते तु कृच्छ्रे||५३||
क्षारोष्णतीक्ष्णौषधमन्नपानं स्वेदो यवान्नं वमनं निरूहाः|
तक्रं सतिक्तौषधसिद्धतैलमभ्यङ्गपानं कफमूत्रकृच्छ्रे||५४||
व्योषं श्वदंष्ट्रात्रुटिसारसास्थि कोलप्रमाणं मधुमूत्रयुक्तम्|
पिबेत्त्रुटिं क्षौद्रयुतां कदल्या रसेन कैडर्यरसेन वाऽपि||५५||
तक्रेण युक्तं शितिवारकस्य बीजं पिबेत् कृच्छ्रविनाशहेतोः|
पिबेत्तथा तण्डुलधावनेन प्रवालचूर्णं कफमूत्रकृच्छ्रे||५६||
सप्तच्छदारग्वधकेबुकैलाधवं करञ्जं कुटजं गुडूचीम्|
पक्त्वा जले तेन पिबेद्यवागूं सिद्धं कषायं मधुसंयुतं वा||५७||
सर्वं त्रिदोषप्रभवे तु वायोः स्थानानुपूर्व्या प्रसमीक्ष्य कार्यम्|
त्रिभ्योऽधिके प्राग्वमनं कफे स्यात् पित्ते विरेकः पवने तु बस्तिः||५८||
इति मूत्रकृच्छ्रचिकित्सा|
क्रिया हिता साऽश्मरिशर्कराभ्यां कृच्छ्रे यथैवेह कफानिलाभ्याम्|
कार्याऽश्मरीभेदनपातनाय विशेषयुक्तं शृणु कर्म सिद्धम्||५९||
पाषाणभेदं वृषकं श्वदंष्ट्रापाठाभयाव्योषशटीनिकुम्भाः|
हिंस्राखराश्वाशितिवारकाणामेर्वारुकाणां त्रपुषस्य बीजम्||६०||
उत्कुञ्चिका हिङ्गु सवेतसाम्लं स्याद्द्वे बृहत्यौ हपुषा वचा च|
चूर्णं पिबेदश्मरिभेदपक्वं सर्पिश्च गोमूत्रचतुर्गुणं तैः||६१||
मूलं श्वदंष्ट्रेक्षुरकोरुबूकात् क्षीरेण पिष्टं बृहतीद्वयाच्च|
आलोड्य दध्ना मधुरेण पेयं दिनानि सप्ताश्मरिभेदनाय||६२||
पुनर्नवायोरजनीश्वदंष्ट्राफल्गुप्रवालाश्च सदर्भपुष्पाः|
क्षीराम्बुमद्येक्षुरसैः सुपिष्टं पेयं भवेदश्मरिशर्करासु||६३||
त्रुटिं सुराह्वं लवणानि पञ्च यवाग्रजं कुन्दुरुकाश्मभेदौ|
कम्पिल्लकं गोक्षुरकस्य बीजमेर्वारुबीजं त्रपुषस्य बीजम्||६४||
चूर्णीकृतं चित्रकहिङ्गुमासीयवानितुल्यं त्रिफलाद्विभागम्|
अम्लैरशुक्तै रसमद्ययुषैः पेयं हि गुल्माश्मरिभेदनार्थम्||६५||
बिल्वप्रमाणो घृततैलभृष्टो यूषः कृतः शिग्रुकमूलकल्कात्|
शीतोऽश्मभित् स्याद्दधिमण्डयुक्तः पेयः प्रकामं लवणेन युक्तः||६६||
जलेन शोभाञ्जनमूलकल्कः शीतो हितश्चाश्मरिशर्करासु|
सितोपला वा समयावशूका कृच्छ्रेषु सर्वेष्वपि भेषजं स्यात्||६७||
पीत्वाऽथ मद्यं निगदं रथेन हयेन वा शीघ्रजवेन यायात्|
तैः शर्करा प्रच्यवतेऽश्मरी तु शम्येन्न चेच्छल्यविदुद्धरेत्ताम्||६८||
रेतोभिघातप्रभवे तु कृच्छ्रे समीक्ष्य दोषं प्रतिकर्म कुर्यात्|
कार्पासमूलं वृषकाश्मभेदौ बला स्थिरादीनि गवेधुका च||६९||
वृश्चीर ऐन्द्री च पुनर्नवा च शतावरी मध्वसनाख्यपर्ण्यौ|
तत्क्वाथसिद्धः पवने रसः स्यात् पित्तेऽधिके क्षीरमथापि सर्पिः||७०||
कफे च यूषादिकमन्नपानं संसर्गजे सर्वहितः क्रमः स्यात्|
एवं न चेच्छाम्यति तस्य युञ्ज्यात् सुरां पुराणां मधुकासवं वा||७१||
विहङ्गमांसानि च बृंहणाय बस्तींश्च शुक्राशयशोधनार्थम्|
शुद्धस्य तृप्तस्य च वृष्ययोगैः प्रियानुकूलाः प्रमदा विधेयाः||७२||
रक्तोद्भवे तूत्पलनालतालकासेक्षुबालेक्षुकशेरुकाणि|
पिबेत् सिताक्षौद्रयुतानि खादेदिक्षुं विदारीं त्रपुषाणि चैव||७३||
घृतं श्वदंष्ट्रास्वरसेन सिद्धं क्षीरेण चैवाष्टगुणेन पेयम्|
स्थिरादिकानां कनकादिकानामेकैकशो वा विधिनैव तेन||७४||
क्षीरेण बस्तिर्मधुरौषधैः स्यात्तैलेन वा स्वादुफलोत्थितेन|
यन्मूत्रकृच्छ्रे विहितं तु पैत्ते कार्यं तु तच्छोणितमूत्रकृच्छ्रे||७५||
व्यायामसन्धारणशुष्करूक्षपिष्टान्नवातार्ककरव्यवायान्|
खर्जूरशालूककपित्थजम्बूबिसं कषायं न रसं भजेत||७६||
इत्यश्मरीचिकित्सा|
व्यायामतीक्ष्णातिविरेकबस्तिचिन्ताभयत्रासगदातिचाराः|
छर्द्यामसन्धारणकर्शनानि हृद्रोगकर्तॄणि तथाऽभिघातः||७७||
वैवर्ण्यमूर्च्छाज्वरकासहिक्काश्वासास्यवैरस्यतृषाप्रमोहाः|
छर्दिः कफोत्क्लेशरुजोऽरुचिश्च हृद्रोगजाः स्युर्विविधास्तथाऽन्ये||७८||
हृच्छून्यभावद्रवशोषभेदस्तम्भाः समोहाः पवनाद्विशेषः|
पित्तात्तमोदूयनदाहमोहाः सन्त्रासतापज्वरपीतभावाः||७९||
स्तब्धं गुरु स्यात् स्तिमितं च मर्म कफात् प्रसेकज्वरकासतन्द्राः|
विद्यात्त्रिदोषं त्वपि सर्वलिङ्गं तीव्रार्तितोदं कृमिजं सकण्डूम्||८०||
तैलं ससौवीरकमस्तुतक्रं वाते प्रपेयं लवणं सुखोष्णम्|
मूत्राम्बुसिद्धं लवणैश्च तैलमानाहगुल्मार्तिहृदामयघ्नम्||८१||
पुनर्नवां दारु सपञ्चमूलं रास्नां यवान् बिल्वकुलत्थकोलम्|
पक्त्वा जले तेन विपाच्य तैलमभ्यङ्गपानेऽनिलहृद्गदध्नम्||८२||
हरीतकीनागरपुष्कराह्वैर्वयःकयस्थालवणैश्च कल्कैः|
सहिङ्गुभिः साधितमग्र्यसर्पिर्गुल्मे सहृत्पार्श्वगदेऽनिलोत्थे||८३||
सपुष्कराह्वं फलपूरमूलं महौषधं शट्यभया च कल्काः|
क्षाराम्बुसर्पिर्लवणैर्विमिश्राः स्युर्वातहृद्रोगविकर्तिकाघ्नाः||८४||
क्वाथः कृतः पौष्करमातुलुङ्गपलाशभूतीकशटीसुराह्वैः|
सनागराजाजिवचायवानीक्षारः सुखोष्णो लवणश्च पेयः||८५||
पथ्याशटीपौष्करपञ्चकोलात् समातुलुङ्गाद्यमकेन कल्कः|
गुडप्रसन्नालवणैश्च भृष्टो हृत्पार्श्वपृष्ठोदरयोनिशूले||८६||
स्यात्त्र्यूषणं द्वे त्रिफले सपाठे निदिग्धिकागोक्षुरकौ बले द्वे|
ऋद्धिस्त्रुटिस्तामलकी स्वगुप्ता मेदे मधूकं मधुकं स्थिरा च||८७||
शतावरी जीवकपृश्निपर्ण्यौ द्रव्यैरिमैरक्षसमैः सुपिष्टैः|
प्रस्थं घृतस्येह पचेद्विधिज्ञः प्रस्थेन दध्ना त्वथ माहिषेण||८८||
मात्रां पलं चार्धपलं पिचुं वा प्रयोजयेन्माक्षिकसम्प्रयुक्ताम्|
श्वासे सकासे त्वथ पाण्डुरोगे हलीमके हृद्ग्रहणीप्रदोषे||८९||
शीताः प्रदेहाः परिषेचनानि तथा विरेको हृदि पित्तदुष्टे|
द्राक्षासिताक्षौद्रपरूषकैः स्याच्छुद्धे तु पित्तापहमन्नपानम्||९०||
यष्ट्याह्विकातिक्तकरोहिणीभ्यां कल्कं पिबेच्चापि सिताजलेन|
क्षते च सर्पींषि हितानि सर्पिर्गुडाश्च ये तान् प्रसमीक्ष्य सम्यक्||९१||
दद्याद्भिषग्धन्वरसांश्च गव्यक्षीराशिनां पित्तहृदामयेषु|
तैरेव सर्वे प्रशमं प्रयान्ति पित्तामयाः शोणितसंश्रया ये||९२||
द्राक्षाबलाश्रेयसिशर्कराभिः खर्जूरवीरर्षभकोत्पलैश्च|
काकोलिमेदायुगजीवकैश्च क्षीरेण सिद्धं महिषीघृतं स्यात्||९३||
कशेरुकाशैवलशृङ्गवेरप्रपौण्डरीकं मधुकं बिसस्य|
ग्रन्थिश्च सर्पिः पयसा पचेत्तैः क्षौद्रान्वितं पित्तहृदामयघ्नम्||९४||
स्थिरादिकल्कैः पयसा च सिद्धं द्राक्षारसेनेक्षुरसेन वाऽपि|
सर्पिर्हितं स्वादुफलेक्षुजाश्च रसाः सुशीता हृदि पित्तदुष्टे||९५||
स्विन्नस्य वान्तस्य विलङ्घितस्य क्रिया कफघ्नी कफमर्मरोगे|
कौलत्थधान्यैश्च रसैर्ववान्नं पानानि तीक्ष्णानि च शङ्कराणि||९६||
मूत्रे शृताः कट्फलशृङ्गवेरपीतद्रुपथ्यातिविषाः प्रदेयाः|
कृष्णाशटीपुष्करमूलरास्नावचाभयानागरचूर्णकं च||९७||
उदुम्बराश्वत्थवटार्जुनाख्ये पालाशरौहीतकखादिरे च|
क्वाथे त्रिवृत्त्र्यूषणचूर्णसिद्धो लेहः कफघ्नोऽशिशिराम्बुयुक्तः||९८||
शिलाह्वयं वा भिषगप्रमत्तः प्रयोजयेत् कल्पविधानदिष्टम्|
प्राशं तथाऽऽगस्त्यमथापि लेहं रसायनं ब्राह्ममथामलक्याः||९९||
त्रिदोषजे लङ्घनमादितः स्यादन्नं च सर्वेषु हितं विधेयम्|
हीनातिमध्यत्वमवेक्ष्य चैव कार्यं त्रयाणामपि कर्म शस्तम्||१००||
भुक्तेऽधिकं जीर्यति शूलमल्पं जीर्णे स्थितं चेत् सुरदारुकुष्ठम्|
सतिल्वकं द्वे लवणे विडङ्गमुष्णाम्बुना सातिविषं पिबेत् सः||१०१||
जीर्णेऽधिके स्नेहविरेचनं स्यात् फलैर्विरेच्यो यदि जीर्यति स्यात्|
त्रिष्वेव कालेष्वधिके तु शूले तीक्ष्णं हितं मूलविरेचनं स्यात्||१०२||
प्रायोऽनिलो रुद्धगतिः प्रकुप्यत्यामाशये शोधनमेव तस्मात्|
कार्यं तथा लङ्घनपाचनं च सर्वं कृमिघ्नं कृमिहृद्गदे च||१०३||
इति हृद्रोगचिकित्सा|
सन्धारणाजीर्णरजोतिभाष्यक्रोधर्तुवैषम्यशिरोभितापैः|
प्रजागरातिस्वपनाम्बुशीतैरवश्यया मैथुनबाष्पधूमैः||१०४||
संस्त्यानदोषे शिरसि प्रवृद्धो वायुः प्रतिश्यायमुदीरयेत्तु|
घ्राणार्तितोदौ क्षवथुर्जलाभः स्रावोऽनिलात् सस्वरमूर्धरोगः||१०५||
नासाग्रपाकज्वरवक्त्रशोषतृष्णोष्णपीतस्रवणानि पित्तात्|
कासारुचिस्रावघनप्रसेकाः कफाद्गुरुः स्रोतसि चापि कण्डूः||१०६||
सर्वाणि रूपाणि तु सन्निपातात् स्युः पीनसे तीव्ररुजेऽतिदुःखे |१०७|
सर्वोऽतिवृद्धोऽहितभोजनात्तु दुष्टप्रतिश्याय उपेक्षितः स्यात्||१०७||
ततस्तु रोगाः क्षवथुश्च नासाशोषः प्रतीनाहपरिस्रवौ च|
घ्राणस्य पूतित्वमपीनसश्च सपाकशोथार्बुदपूयरक्ताः||१०८||
अरूंषि शीर्षश्रवणाक्षिरोगखालित्यहर्यर्जुनलोमभावाः|
तृट्श्वासकासज्वररक्तपित्तवैस्वर्यशोषाश्च ततो भवन्ति||१०९||
रोधाभिघातस्रवशोषपाकैर्घ्राणं युतं यश्च न वेत्ति गन्धम्|
दुर्गन्धि चास्यं बहुशःप्रकोपि दुष्टप्रतिश्यायमुदाहरेत्तम्||११०||
संस्पृश्य मर्माण्यनिलस्तु मूर्ध्नि विष्वक्पथस्थः क्षवथुं करोति|
क्रुद्धः स संशोष्य कफं तु नासाशृङ्गाटकघ्राणविशोषणं च||१११||
उच्छ्वासमार्गं तु कफः सवातो रुन्ध्यात् प्रतीनाहमुदाहरेत्तम्|
यो मस्तुलुङ्गाद्घनपीतपक्वः कफः स्रवेदेष परिस्रवस्तु||११२||
वैवर्ण्यदौर्गन्ध्यमुपेक्षया तु स्यात् पूतिनस्यं श्वयथुर्भ्रमश्च|
आनह्यते यस्य विशुष्यते च प्रक्लिद्यते धूप्यति चापि नासा||११३||
न वेत्ति यो गन्धरसांश्च जन्तुर्जुष्टं व्यवस्येत्तमपीनसेन|
तं चानिलश्लेष्मभवं विकारं ब्रूयात् प्रतिश्यायसमानलिङ्गम्||११४||
सदाहरागः श्वयथुः सपाकः स्याद् घ्राणपाकोऽपि च रक्तपित्तात्|
घ्राणाश्रितासृक्प्रभृतीन् प्रदूष्य कुर्वन्ति नासाश्वयथुं मलाश्च||११५||
घ्राणे तथोच्छ्वासगतिं निरुध्य मांसास्रदोषादपि चार्बुदानि|
घ्राणात् स्रवेद्वा श्रवणान्मुखाद्वा पित्ताक्तमस्रं त्वपि पूयरक्तम्||११६||
कुर्यात् सपित्तः पवनस्त्वगादीन् सन्दूष्य चारूंषि सपाकवन्ति|
नासा प्रदीप्तेव नरस्य यस्य दीप्तं तु तं रोगमुदाहरन्ति||११७||
इति नासारोगनिदानम्|
भृशार्तिशूलं स्फुरतीह वातात् पित्तात् सदाहार्ति कफाद्गुरु स्यात्|
सर्वैस्त्रिदोषं क्रिमिभिस्तु कण्डूर्दौर्गन्ध्यतोदार्तियुतं शिरः स्यात्||११८||
इति शिरोरोगनिदानम्|
मुखामये मारुतजे तु शोषकार्कश्यरौक्ष्याणि चला रुजश्च|
कृष्णारुणं निष्पतनं सशीतं प्रस्रंसनस्पन्दनतोदभेदाः||११९||
तृष्णाज्वरस्फोटकतालुदाहा धूमायनं चाप्यवदीर्णता च|
पित्तात् समूर्च्छा विविधा रुजश्च वर्णाश्च शुक्लारुणवर्णवर्ज्याः||१२०||
कण्डूर्गुरुत्वं सितविज्जलत्वं स्नेहोऽरुचिर्जाड्यकफप्रसेकौ|
उत्क्लेशमन्दानलता च तन्द्रा रुजश्च मन्दाः कफवक्ररोगे||१२१||
सर्वाणि रूपाणि तु वक्ररोगे भवन्ति यस्मिन् स तु सर्वजः स्यात्|
संस्थानदूष्याकृतिनामभेदाच्चैते चतुःषष्टिविधा भवन्ति||१२२||
शालाक्यतन्त्रेऽभिहितानि तेषां निमित्तरूपाकृतिभेषजानि|
यथाप्रदेशं तु चतुर्विधस्य क्रियां प्रवक्ष्यामि मुखामयस्य||१२३||
इति मुखरोगनिदानम्|
वातादिभिः शोकभयातिलोभक्रोधैर्मनोघ्नाशनगन्धरूपैः|
अरोचकाः स्युः परिहृष्टदन्तः कषायवक्रश्च मतोऽनिलेन||१२४||
कट्वम्लमुष्णं विरसं च पूति पित्तेन विद्याल्लवणं च वक्रम्|
माधुर्यपैच्छिल्यगुरुत्वशैत्यविबद्धसम्बद्धयुतं कफेन||१२५||
अरोचके शोकभयानिलोभक्रोधाद्यहृद्याशनगन्धजे स्यात्|
स्वाभाविकं वक्रमथारुचिश्च त्रिदोषजे नैकरसं भवेत्तु||१२६||
इत्यरोचकनिदानम्|
नादोऽतिरुक्कर्णमलस्य शोषः स्रावस्तनुश्चाश्रवणं च वातात्|
शोफः सरागो दरणं विदाहः सपीतपूतिश्रवणं च पित्तात्||१२७||
वैश्रुत्यकण्डूस्थिरशोफशुक्लस्निग्धश्रुतिः श्लेष्मभवेऽल्परुक् च|
सर्वाणि रूपाणि तु सन्निपातात् स्रावश्च तत्राधिकदोषवर्णः||१२८||
इति कर्णरोगनिदानम्|
अल्पस्तु रागोऽनुपदेहवांश्च सतोदभेदोऽनिलजाक्षिरोगे|
पित्तात् सदाहोऽतिरुजः सरागः पीतोपदेहः सुभृशोष्णवाही||१२९||
शुक्लोपदेहं बहुपिच्छिलाश्रु नेत्रं कफात् स्याद्गुरुता सकण्डुः|
सर्वाणि रूपाणि तु सन्निपातान्नेत्रामयाः षण्णवतिस्तु भेदात्||१३०||
तेषामभिव्यक्तिरभिप्रदिष्टा शालाक्यतन्त्रेषु चिकित्सितं च|
पराधिकारे तु न विस्तरोक्तिः शस्तेति तेनात्र न नः प्रयासः||१३१||
इति नेत्ररोगनिदानम्|
तेजोऽनिलाद्यैः सह केशभूमिं दग्ध्वाऽऽशु कुर्यात् खलतिं नरस्य|
किञ्चित्तु दग्ध्वा पलितानि कुर्याद्धरिप्रभत्वं च शिरोरुहाणाम्||१३२||
इत्यूर्ध्वजत्रूत्थगदैकदेशस्तन्त्रे निबद्धोऽयमशून्यतार्थम्|
अतः परं भेषजसङ्ग्रहं तु निबोध सङ्क्षेपत उच्यमानम्||१३३||
इति खालित्यरोगनिदानम्|
वातात् सकासवैस्वर्ये सक्षारं पीनसे वृतम्|
पिबेद्रसं पयश्चोष्णं स्नैहिकं धूममेव वा||१३४||
शताह्वा त्वग्बला मूलं स्योनाकैरण्डबिल्वजम्|
सारग्वधं पिबेद्वर्तिं मधूच्छिष्टवसाघृतैः||१३५||
अथवा सघृतान् सक्तून् कृत्वा मल्लकसम्पुटे|
नवप्रतिश्यायवतां धूमं वैद्यः प्रयोजयेत्||१३६||
शङ्खमूर्धललाटार्तौ पाणिस्वेदोपनाहनम्|
स्वभ्यक्ते क्षवथुस्रावरोधादौ सङ्करादयः||१३७||
घ्रेयाश्च रोहिषाजाजीवचातर्कारिचोरकाः|
त्वक्पत्रमरिचैलानां चूर्णा वा सोपकुञ्चिकाः||१३८||
स्रोतःशृङ्गाटनासाक्षिशोषे तैलं च नावनम्|
प्रभाव्याजे तिलान् क्षीरे तेन पिष्टांस्तदुष्मणा||१३९||
मन्दस्विन्नान् सयष्ट्याह्वचूर्णांस्तेनैव पीडयेत्|
दशमूलस्य निष्क्वाथे रास्नामधुककल्कवत्||१४०||
सिद्धं ससैन्धवं तैलं दशकृत्वोऽणु तत् स्मृतम्|
स्निग्धस्यास्थापनैर्दोषं निर्हरेद्वातपीनसे||१४१||
स्निग्धाम्लोष्णैश्च लघ्वन्नं ग्राम्यादीनां रसैर्हितम्|
उष्णाम्बुना स्नानपाने निवातोष्णप्रतिश्रयः||१४२||
चिन्ताव्यायामवाक्चेष्टाव्यवायविरतो भवेत्|
वातजे पीनसे धीमानिच्छन्नेवात्मनो हितम्||१४३||
पैत्ते सर्पिः पिबेत् सिद्धं शृङ्गवेरशृतं पयः|
पाचनार्थं पिबेत् पक्वे कार्यं मूर्धविरेचनम्||१४४||
पाठाद्विरजनीमूर्वापिप्पलीजातिपल्लवैः|
दन्त्या च साधितं तैलं नस्यं स्यात् पक्वपीनसे||१४५||
पूयास्रे रक्तपित्तघ्नाः कषाया नावनानि च|
पाकदाहाढ्यरूक्षेषु शीता लेपाः ससेचनाः||१४६||
घ्रेयनस्योपचाराश्च कषायाः स्वादुशीतलाः|
मन्दपित्ते प्रतिश्याये स्निग्धैः कुर्याद्विरेचनम्||१४७||
घृतं क्षीरं यवाः शालिर्गोधूमा जाङ्गला रसाः|
शीताम्लास्तिक्तशाकानि यूषा मुद्गादिभिर्हिताः||१४८||
गौरवारोचकेष्वादौ लङ्घनं कफपीनसे|
स्वेदाः सेकाश्च पाकार्थं लिप्ते शिरसि सर्पिषा||१४९||
लशुनं मुद्गचूर्णेन व्योषक्षारघृतैर्युतम्|
देयं कफघ्नवमनमुत्क्लिष्टश्लेष्मणे हितम्||१५०||
अपीनसे पूतिनस्ये घ्राणस्रावे सकण्डुके|
धूमः शस्तोऽवपीडश्च कटुभिः कफपीनसे||१५१||
मनःशिला वचा व्योषं विडङ्गं हिङ्गु गुग्गुलुः|
चूर्णो घ्रेयः प्रधमनं कटुभिश्च फलैस्तथा||१५२||
भार्गीमदनतर्कारीसुरसादिविपाचिते|
मूत्रे लाक्षा वचा लम्बा विडङ्गं कुष्ठपिप्पली||१५३||
कृत्वा कल्कं करञ्जं च तैलं तैः सार्षपं पचेत्|
पाकान्मुक्ते घने नस्यमेतन्मेदोनिभे कफे||१५४||
स्निग्धस्य व्याहते वेगे च्छर्दनं कफपीनसे|
वमनीयशृतक्षीरतिलमाषयवागुना||१५५||
वार्ताककुलकव्योषकुलत्थाढकिमुद्गजाः|
यूषाः कफघ्नमन्नं च शस्तमुष्णाम्बुसेच(व)नम्||१५६||
सर्वजित् पीनसे दुष्टे कार्यं शोफे च शोफजित्|
क्षारोऽर्बुदाधिमांसेषु क्रिया शेषेष्ववेक्ष्य च||१५७||
इति पीनसनासारोगचिकित्सा|
वातिके शिरसो रोगे स्नेहान् स्वेदान् सनावनान्|
पानान्नमुपनाहांश्च कुर्याद्वातामयापहान्||१५८||
तैलभृष्टैरगुर्वाद्यैः सुखोष्णैरुपनाहनम्|
जीवनीयैः सुमनसा मत्स्यैर्मांसैश्च शस्यते||१५९||
रास्नास्थिरादिभिः सिद्धं सक्षीरं नस्यमर्तिनुत्|
तैलं रास्नाद्विकाकोलीशर्कराभिरथापि वा||१६०||
बलामधूकयष्ट्याह्वविदारीचन्दनोत्पलैः|
जीवकर्षभकद्राक्षाशर्कराभिश्च साधितः||१६१||
प्रस्थस्तैलस्य सक्षीरो जाङ्गलार्धतुलारसे|
नस्यं सर्वोर्ध्वजत्रूत्थवातपित्तामयापहम्||१६२||
दशमूलबलारास्नात्रिफलामधुकैः सह|
मयूरं पक्षपित्तान्त्रशकृत्तुण्डाङ्घ्रिवर्जितम्||१६३||
जले पक्त्वा घृतप्रस्थं तस्मिन् क्षीरसमं पचेत्|
मधुरैः कार्षिकैः कल्कैः शिरोरोगार्दितापहम्||१६४||
कर्णाक्षिनासिकाजिह्वाताल्वास्यगलरोगनुत्|
मायूरमितिविख्यातमूर्ध्वजत्रुगदापहम्||१६५||
इति मायूरघृतम्|
एतेनैव कषायेण घृतप्रस्थं विपाचयेत्|
चतुर्गुणेन पयसा कल्कैरेभिश्च कार्षिकैः||१६६||
जीवन्तीत्रिफलामेदामृद्वीकर्धिपरूषकैः|
समङ्गाचविकाभार्गीकाश्मरीसुरदारुभिः||१६७||
आत्मगुप्तामहामेदातालखर्जूरमस्तकैः|
मृणालबिसशालूकशृङ्गीजीवकपद्मकैः ||१६८||
शतावरीविदारीक्षुबृहतीसारिवायुगैः|
मूर्वाश्वदंष्ट्रर्षभकशृङ्गाटककसेरुकैः||१६९||
रास्नास्थिरातामलकीसूक्ष्मैलाशटिपौष्करैः|
पुनर्नवातुगाक्षीरीकाकोलीधन्वयासकैः||१७०||
खर्जूराक्षोटवाताममुञ्जाताभिषुकैरपि |
द्रव्यैरेभिर्यथालाभं पूर्वकल्पेन साधितम्||१७१||
नस्ये पाने तथाऽभ्यङ्गे बस्तौ चैव प्रयोजयेत्|
शिरोरोगेषु सर्वेषु कासे श्वासे च दारुणे||१७२||
मन्यापृष्ठग्रहे शोषे स्वरभेदे तथाऽर्दिते|
योन्यसृक्शुक्रदोषेषु शस्तं वन्ध्यासुतप्रदम्||१७३||
ऋतुस्नाता तथा नारी पीत्वा पुत्रं प्रसूयते|
महामायूरमित्येतद्घृतमात्रेयपूजितम्||१७४||
इति महामायूरघृतम्|
आखुभिः कुक्कुटैर्हंसैः शशैश्चापि हि बुद्धिमान्|
कल्पेनानेन विपचेत् सर्पिरूर्ध्वगदापहम्||१७५||
पैत्ते घृतं पयः सेकाः शीता लेपाः सनावनाः|
जीवनीयानि सर्पींषि पानान्नं चापि पित्तनुत्||१७६||
चन्दनोशीरयष्ट्याह्वबलाव्याघ्रनखोत्पलैः|
क्षीरपिष्टैः प्रदेहः स्याच्छृतैर्वा परिषेचनम्||१७७||
त्वक्पत्रशर्कराकल्कः सुपिष्टस्तण्डुलाम्बुना|
कार्योऽवपीडः सर्पिश्च नस्यं तस्यानु पैत्तिके||१७८||
यष्ट्याह्वचन्दनानन्ताक्षीरसिद्धं घृतं हितम्|
नावनं शर्कराद्राक्षामधूकैर्वाऽपि पित्तजे||१७९||
कफजे स्वेदितं धूमनस्यप्रधमनादिभिः|
शुद्धं प्रलेपपानान्नैः कफघ्नैः समुपाचरेत्||१८०||
पुराणसर्पिषः पानैस्तीक्ष्णैर्बस्तिभिरेव च|
कफानिलोत्थिते दाहः शेषयो रक्तमोक्षणम्||१८१||
एरण्डनलदक्षौमगुग्गुल्वगुरुचन्दनैः|
धूमवर्तिं पिबेद्गन्धैरकुष्ठतगरैस्तथा||१८२||
सन्निपातभवे कार्या सन्निपातहिता क्रिया|
क्रिमिजे चैव कर्तव्यं तीक्ष्णं मूर्धविरेचनम्||१८३||
त्वग्दन्तीव्याघ्रकरजविडङ्गनवमालिकाः|
अपामार्गफलं बीजं नक्तमालशिरीषयोः|
क्षवकोऽश्मन्तको बिल्वं हरिद्रा हिङ्गु यूथिका||१८४||
फणिज्झकश्च तैस्तैलमविमूत्रे चतुर्गुणे|
सिद्धं स्यान्नावनं चूर्णं चैषां प्रधमनं हितम्||१८५||
फलं शिग्रुकरञ्जाभ्यां सव्योषं चावपीडकः|
कषायः स्वरसः क्षारश्चूर्णं कल्कोऽवपीडकः||१८६||
शुक्ततिक्तकटुक्षौद्रकषायैः कवलग्रहः|
इति शिरोरोगचिकित्सा|
धूमः प्रधमनं शुद्धिरधश्छर्दनलङ्घनम्||१८७||
भोज्यं च मुखरोगेषु यथास्वं दोषनुद्धितम्|
पिप्पल्यगुरुदार्वीत्वग्यवक्षाररसाञ्जनम्||१८८||
पाठां तेजोवतीं पथ्यां समभागं विचूर्णयेत्|
मुखरोगेषु सर्वेषु सक्षौद्रं तद्विधारयेत्||१८९||
सीधुमाधवमाध्वीकैः श्रेष्ठोऽयं कवलग्रहः|
तेजोह्वामभयामेलां समङ्गां कटुकां घनम्||१९०||
पाठां ज्योतिष्मतीं लोध्रं दार्वीं कुष्ठं च चूर्णयेत्|
दन्तानां घर्षणं रक्तस्रावकण्डूरुजापहम्||१९१||
पञ्चकोलकतालीसपत्रैलामरिचत्वचः|
पलाशमुष्ककक्षारयवक्षाराश्च चूर्णिताः||१९२||
गुडे पुराणे द्विगुणे क्वथिते गुटिकाः कृताः|
कर्कन्धुमात्राः सप्ताहं स्थिता मुष्ककभस्मनि||१९३||
कण्ठरोगेषु सर्वेषु धार्याः स्युरमृतोपमाः|
गृहधूमो यवक्षारः पाठा व्योषं रसाञ्जनम्||१९४||
तेजोह्वा त्रिफला लोध्रं चित्रकश्चेति चूर्णितम्|
सक्षौद्रं धारयेदेतद्गलरोगविनाशनम्||१९५||
कालकं नाम तच्चूर्णं दन्तास्यगलरोगनुत्|
इति कालकचूर्णम्|
मनःशिला यवक्षारो हरितालं ससैन्धवम्||१९६||
दार्वीत्वक् चेति तच्चूर्णं माक्षिकेण समायुतम्|
मूर्च्छितं घृतमण्डेन कण्ठरोगेषु धारयेत्||१९७||
मुखरोगेषु च श्रेष्ठं पीतकं नाम कीर्तितम्|
इति पीतकचूर्णम्|
मृद्वीका कटुका व्योषं दार्वीत्वक् त्रिफला घनम्||१९८||
मूर्च्छितं घृतमण्डेन कण्ठरोगेषु धारयेत्|
पाठा रसाञ्जनं मूर्वा तेजोह्वेति च चूर्णितम्||१९९||
क्षौद्रयुक्तं विधातव्यं गलरोगे भिषग्जितम्|
योगास्त्वेते त्रयः प्रोक्ता वातपित्तकफापहाः||२००||
कटुकातिविषापाठादार्वीमुस्तकलिङ्गकाः|
गोमूत्रक्वथिताः पेयाः कण्ठरोगविनाशनाः||२०१||
स्वरसः क्वथितो दार्व्या घनीभूतो रसक्रिया|
सक्षौद्रा मुखरोगासृग्दोषनाडीव्रणापहा||२०२||
तालुशोषे त्वतृष्णस्य सर्पिरौत्तरभक्तिकम्|
नावनं मधुराः स्निग्धाः शीताश्चैव रसा हिताः||२०३||
मुखपाके सिराकर्म शिरःकायविरेचनम्|
मूत्रतैलघृतक्षौद्रक्षीरैश्च कवलग्रहाः||२०४||
सक्षौद्रास्त्रिफलापाठामृद्वीकाजातिपल्लवाः|
कषायतिक्तकाः शीताः क्वाथाश्च मुखधावनाः||२०५||
तुलां खदिरसारस्य द्विगुणामरिमेदसः|
प्रक्षाल्य जर्जरीकृत्य चतुर्द्रोणेऽम्भसः पचेत्||२०६||
द्रोणशेषं कषायं तं पूत्वा भूयः पचेच्छनैः|
ततस्तस्मिन् घनीभूते चूर्णीकृत्याक्षभागिकम्||२०७||
चन्दनं पद्मकोशीरं मञ्जिष्ठा धातकी घनम्|
प्रपौण्डरीकं यष्ट्याह्वत्वगेलापद्मकेशरम्||२०८||
लाक्षां रसाञ्जनं मांसीत्रिफलालोध्रवालकम्|
रजन्यौ फलिनीमेलां समङ्गां कट्फलं वचाम्||२०९||
यवासागुरुपत्तङ्गगैरिकाञ्जनमावपेत्|
लवङ्गनखकक्कोलजातिकोशान् पलोन्मितान्||२१०||
कर्पूरकुडवं चापि क्षिपेच्छीतेऽवतारिते|
ततस्तु गुटिकाःकार्याःशुष्काश्चास्येन धारयेत्||२११||
तैलं चानेन कल्केन कषायेण च साधयेत्|
दन्तानां चलनभ्रंशशौशिर्यक्रिमिरोगनुत्||२१२||
मुखपाकास्यदौर्गन्ध्यजाड्यारोचकनाशनम्|
स्रावोपलेपपैच्छिल्यवैस्वर्यगलशोषनुत्||२१३||
दन्तास्यगलरोगेषु सर्वेष्वेतत् परायणम्|
खदिरादिगुटीकेयं तैलं च खदिरादिकम्||२१४||
इति खदिरादिगुटिका तैलं च|
अरुचौ कवलग्राहा धूमाः समुखधावनाः|
मनोज्ञमन्नपानं च हर्षणाश्वासनानि च||२१५||
कुष्ठसौवर्चलाजाजीशर्करामरिचं बिडम्|
धात्र्येलापद्मकोशीरपिप्पल्युत्पलचन्दनम्||२१६||
लोध्रं तेजोवती पथ्या त्र्यूषणं सयवाग्रजम्|
आर्द्रदाडिमनिर्यासश्चाजाजीशर्करायुतः||२१७||
सतैलमाक्षिकास्त्वेते चत्वारः कवलग्रहाः|
चतुरोऽरोचकान् हन्युर्वाताद्येकजसर्वजान्||२१८||
कारवीमरिचाजाजीद्राक्षावृक्षाम्लदाडिमम्|
सौवर्चलं गुडः क्षौद्रं सर्वारोचकनाशनम्||२१९||
बस्तिं समीरणे, पित्ते विरेकं, वमनं कफे|
कुर्याद्धृद्यानुकूलानि हर्षणं च मनोघ्नजे||२२०||
इत्यरोचकचिकित्सा|
कर्णशूले तु वातघ्नी हिता पीनसवत् क्रिया|
प्रदेहाः पूरणं नस्यं पाकस्रावे व्रणक्रियाः||२२१||
भोज्यानि च यथादोषं कुर्यात् स्नेहांश्च पूरणान्|
हिङ्गुतुम्बरुशुण्ठीभिस्तैलं तु सार्षपं पचेत्||२२२||
एतद्धि पूरणं श्रेष्ठं कर्णशूलनिवारणम्|
देवदारुवचाशुण्ठीशताह्वाकुष्ठसैन्धवैः||२२३||
तैलं सिद्धं बस्तमूत्रे कर्णशूलनिवारणम्|
वराटकान् समाहृत्य दहेन्मृद्भाजने नवे||२२४||
तद्भस्म श्च्योतयेत्तेन गन्धतैलं विपाचयेत्|
रसाञ्जनस्य शुण्ठ्याश्च कल्काभ्यां कर्णशूलनुत्||२२५||
शुष्कमूलकशुण्ठानां क्षारो हिङ्गु महौषधम्|
शतपुष्पा वचा कुष्ठं दारु शिग्रु रसाञ्जनम्||२२६||
सौवर्चलयवक्षारस्वर्जिकोद्भिदसैन्धवम्|
भूर्जग्रन्थिर्बिडं मुस्तं मधुशुक्तं चतुर्गुणम्||२२७||
मातुलुङ्गरसश्चैव कदल्या रस एव च|
सर्वैरेतैर्यथोद्दिष्टैः क्षारतैलं विपाचयेत्||२२८||
बाधिर्यं कर्णनादश्च पूयस्रावश्च दारुणः|
क्रिमयः कर्णशूलं च पूरणादस्य नश्यति ||२२९||
मुखकर्णाक्षिरोगेषु यथोक्तं पीनसे विधिम्|
कुर्याद्भिषक् समीक्ष्यादौ दोषकालबलाबलम्||२३०||
इति कर्णरोगचिकित्सा |
उत्पन्नमात्रे तरुणे नेत्ररोगे बिडालकः|
कार्यो दाहोपदेहाश्रुशोफरागनिवारणः||२३१||
नागरं सैन्धवं सर्पिर्मण्डेन च रसक्रिया|
निघृष्टं वातिके तद्वन्मधुसैन्धवगैरिकम्||२३२||
तथा शावरकं लोध्रं घृतभृष्टं बिडालकः|
तद्वत् कार्यो हरीतक्या घृतभृष्टो रुजापहः||२३३||
पैत्तिके चन्दनानन्तामञ्जिष्ठाभिर्बिडालकः|
कार्यः पद्मकयष्ट्याह्वमांसीकालीयकैस्तथा||२३४||
गैरिकं सैन्धवं मुस्तं रोचना च रसक्रिया|
कफे कार्या तथा क्षौद्रं प्रियङ्गुः समनःशिला||२३५||
सन्निपाते तु सर्वैः स्याद्बहिरक्ष्णोः प्रलेपनम्|
पक्ष्माण्यस्पृश्यता कार्यं सम्पक्वे त्वञ्जनं त्र्यहात्||२३६||
आश्च्योतनं मारुतजे क्वाथो बिल्वादिभिर्हितः|
कोष्णः सैरण्डतर्कारीबृहतीमधुशिग्रुभिः||२३७||
पृथ्वीकादार्विमञ्जिष्ठालाक्षाद्विमधुकोत्पलैः|
क्वाथः सशर्करः शीतः पूरणं रक्तपित्तनुत्||२३८||
नागरत्रिफलामुस्तनिम्बवासारसः कफे|
कोष्णमाश्च्योतनं मिश्रैरोषधैः सान्निपातके||२३९||
बृहत्येरण्डमूलत्वक् शिग्रोः पुष्पं ससैन्धवम्|
अजाक्षीरेण पिष्टं स्याद्वर्तिर्वाताक्षिरोगनुत्||२४०||
सुमनःकोरकाः शङ्खस्त्रिफला मधुकं बला|
पित्तरक्तापहा वर्तिः पिष्टा दिव्येन वारिणा||२४१||
सैन्धवं त्रिफला व्योषं शङ्खनाभिः समुद्रजः|
फेनः शैलेयकं सर्जो वर्तिः श्लेष्माक्षिरोगनुत्||२४२||
अमृताह्वा बिसं बिल्वं पटोलं छागलं शकृत्|
प्रपौण्डरीकं यष्ट्याह्वं दार्वी कालानुसारिवा||२४३||
एषामष्टपलान् भागान् सुधौताञ्जर्जरीकृतान्|
तोये पक्त्वा रसे पूते भूयः पक्वे रसे घने||२४४||
कर्षं च श्वेतमरिचाज्जातीपुष्पान्नवात् पलम्|
चूर्णं क्षिप्त्वा कृता वर्तिः सर्वघ्नी दृक्प्रसादनी||२४५||
शङ्खप्रवालवैदूर्यलौहताम्रप्लवास्थिभिः|
स्रोतोजश्वेतमरिचैर्वर्तिः सर्वाक्षिरोगनुत्||२४६||
शाणार्धं मरिचाद्द्वौ च पिप्पल्यर्णवफेनयोः|
शाणार्धं सैन्धवाच्छाणा नव सौवीरकाञ्जनात्||२४७||
पिष्टं सुसूक्ष्मं चित्रायां चूर्णाञ्जनमिदं शुभम्|
कण्डूकाचकफार्तानां मलानां च विशोधनम्||२४८||
बस्तमूत्रे त्र्यहं स्थाप्यमेलाचूर्णं सुभावितम्|
चूर्णाञ्जनं हि तैमिर्यक्रिमिपिल्लमलापहम्||२४९||
सौवीरमञ्जनं तुत्थं ताप्यो धातुर्मनःशिला|
चक्षुष्या मधुकं लोहा मणयः पौष्पमञ्जनम्||२५०||
सैन्धवं शौकरी दंष्ट्रा कतकं चाञ्जनं शुभम्|
तिमिरादिषु चुर्णं वा वर्तिर्वेयमनुत्तमा||२५१||
कतकस्य फलं शङ्खः सैन्धवं त्र्यूषणं सिता|
फेनो रसाञ्जनं क्षौद्रं विडङ्गानि मनःशिला||२५२||
कुक्कुटाण्डकपालानि वर्तिरेषा व्यपोहति|
तिमिरं पटलं काचं मलं चाशु सुखावती||२५३||
इति सुखावती वर्तिः |
त्रिफलाकुक्कुटाण्डत्वक्कासीसमयसो रजः|
नीलोत्पलं विडङ्गानि फेनं च सरितां पतेः||२५४||
आजेन पयसा पिष्ट्वा भावयेत्ताम्रभाजने|
सप्तरात्रं स्थितं भूयः पिष्ट्वा क्षीरेण वर्तयेत्||२५५||
एषा दृष्टिप्रदा वर्तिरन्धस्याभिन्नचक्षुषः||२५६||
इति दृष्टिप्रदा वर्तिः |
वदने कृष्णसर्पस्य निहितं मासमञ्जनम्||२५६||
ततस्तस्मात् समृद्धृत्य सुशुष्कं चूर्णयेद्बुधः|
सुमनःकोरकैः शुष्कैरर्धांशैः सैन्धवेन च||२५७||
एतन्नेत्राञ्जनं कार्यं तिमिरघ्नमनुत्तमम्|
पिप्पल्यः किंशुकरसो वसा सर्पस्य सैन्धवम्||२५८||
जीर्णं घृतं च सर्वाक्षिरोगघ्नी स्याद्रसक्रिया|
कृष्णसर्पवसा क्षौद्रं रसो धात्र्या रसक्रियाः||२५९||
शस्ता सर्वाक्षिरोगेषु काचार्बुदमलेषु च|
धात्रीरसाञ्जनक्षौद्रसर्पिर्भिस्तु रसक्रिया||२६०||
पित्तरक्ताक्षिरोगघ्नी तैमिर्यपटलापहा|
धात्रीसैन्धवपिप्पल्यः स्युरल्पमरिचाः समाः||२६१||
क्षौद्रयुक्ता निहन्त्यान्ध्यं पटलं च रसक्रिया|२६२|
इति नेत्ररोगचिकित्सा |
खालित्ये पलिते वल्यां हरिलोम्नि च शोधितम्||२६२||
नस्यैस्तैलैः शिरोवक्रप्रलेपैश्चाप्युपाचरेत्|
सिद्धं विदारीगन्धाद्यैर्जीवनीयैरथापि च||२६३||
नस्यं स्यादणुतैलं वा खालित्यपलितापहम्|
क्षीरात् सहचराद्भृङ्गराजाच्च सौरसाद्रसात्||२६४||
प्रस्थैस्तु कुडवस्तैलाद्यष्ट्याह्वपलकल्कितः|
सिद्धः शिलासमे भाण्डे मेषशृङ्गादिषु स्थितः||२६५||
नस्यं स्याद्भिषजा सम्यग्योजितं पलितापहम्|
भिषजा क्षीरपिष्टौ वा दुग्धिकाकरवीरकौ||२६६||
उत्पाट्य पलिते देयौ तावुभौ पलितापहौ|
मार्कवस्वरसात् क्षीराद्द्विप्रस्थं मधुकात् पलम्||२६७||
तैः पचेत् कुडवं तैलात्तन्नस्यं पलितापहम्|
आदित्यवल्ल्या मूलानि कृष्णशैरेयकस्य च||२६८||
सुरसस्य च पत्राणि पत्रं कृष्णशणस्य च|
मार्कवः काकमाची च मधुकं देवदारु च||२६९||
पृथग्दशपलांशानि पिप्पल्यस्त्रिफलाऽञ्जनम्|
प्रपौण्डरीकं मञ्जिष्ठा लोध्रं कृष्णागुरूत्पलम्||२७०||
आम्रास्थि कर्दमः कृष्णो मृणालं रक्तचन्दनम्|
नीली भल्लातकास्थीनि कासीसं मदयन्तिका||२७१||
सोमराज्यसनः शस्त्रं कृष्णौ पिण्डीतचित्रकौ|
पुष्करार्जुनकाश्मर्याण्याम्रजम्बूफलानि च||२७२||
पृथक् पञ्चपलांशानि तैः पिष्टैराढकं पचेत्|
बैभीतकस्य तैलस्य धात्रीरसचतुर्गुणम्||२७३||
कुर्यादादित्यपाकं वा यावच्छुष्को भवेद्रसः|
लोहपात्रे ततः पूतं संशुद्धमुपयोजयेत्||२७४||
पाने नस्यक्रियायां च शिरोभ्यङ्गे तथैव च|
एतच्चक्षुष्यमायुष्यं शिरसः सर्वरोगनुत्||२७५||
महानीलमिति ख्यातं पलितघ्नमनुत्तमम्|
इति महानीलतैलम्|
प्रपौण्डरीकमधुकपिप्पलीचन्दनोत्पलैः||२७६||
कार्षिकैस्तैलकुडवो द्विगुणामलकीरसः|
सिद्धः स प्रतिमर्शः स्यात् सर्वमूर्धगदापहः||२७७||
(पलितघ्नो विशेषेण कृष्णात्रेयेण भाषितः|)
क्षीरं प्रियालयष्ट्याह्वे जीवकाद्यो गणस्तिलाः||२७८||
कृष्णा वक्त्रे प्रलेपः स्याद्धरिलोमनिवारणः|
तिलाः सामलकाश्चैव किञ्जल्को मधुकं मधु||२७९||
बृंहयेद्रञ्जयेचैतत् केशान्मूर्धप्रलेपनात्|
पचेत्सैन्धवशुक्ताम्लैरयश्चूर्णं सतण्डुलम्||२८०||
तेनालिप्तं शिरः शुद्धमस्निग्धमुषितं निशि|
तत् प्रातस्त्रिफलाधौतं स्यात् कृष्णमृदुमूर्धजम्||२८१||
अयश्चूर्णोऽम्लपिष्टश्च रागः सत्रिफलो वरः|
कुर्याच्छेषेषु रोगेषु क्रियां स्वां स्वाच्चिकित्सितात्|
शेषेष्वादौ च निर्दिष्टा सिद्धौ चान्या प्रवक्ष्यते||२८२||
इति खालित्यादिचिकित्सा|
सर्पींष्युपरिभक्तानि स्वरभेदेऽनिलात्मके|
तैलैश्चतुष्प्रयोगैश्च बलारास्नामृताह्वयैः||२८३||
बर्हितित्तिरिदक्षाणां पञ्चमूलशृतान् रसान्|
मायूरं क्षीरसर्पिर्वा पिबेत्त्र्यूषणमेव वा||२८४||
पैत्तिके तु विरेकः स्यात् पयश्च मधुरैः शृतम्|
सर्पिर्गुडा घृतं तिक्तं जीवनीयं वृषस्य वा||२८५||
कफजे स्वरभेदे तु तीक्ष्णं मूर्धविरेचनम्|
विरेको वमनं धूमो यवान्नकटुसेवनम्||२८६||
चव्यभार्ग्यभयाव्योषक्षारमाक्षिकचित्रकान्|
लिह्याद्वा पिप्पलीपथ्ये तीक्ष्णं मद्यं पिबेच्च सः||२८७||
रक्तजे स्वरभेदे तु सघृता जाङ्गला रसाः|
द्राक्षाविदारीक्षुरसाः सघृतक्षौद्रशर्कराः||२८८||
यच्चोक्तं क्षयकासघ्नं तच्च सर्वं चिकित्सितम्|
पित्तजस्वरभेदघ्नं सिरावेधश्च रक्तजे||२८९||
सन्निपाते हिताः सर्वाः क्रिया न तु सिराव्यधः|
इत्युक्तं स्वरभेदस्य समासेन चिकित्सितम्||२९०||
इति स्वरभेदचिकित्सा|
भवन्ति चात्र-
वातपित्तकफा नॄणां बस्तिहृन्मूर्धसंश्रयाः|
तस्मात्तत्स्थानसामीप्याद्धर्तव्या वमनादिभिः||२९१||
अध्यात्मलोको वाताद्यैर्लोको वातरवीन्दुभिः|
पीड्यते धार्यते चैव विकृताविकृतैस्तथा||२९२||
विरुद्धैरपि न त्वेते गुणैर्घ्नन्ति परस्परम्|
दोषाः सहजसात्म्यत्वाद्विषं घोरमहीनिव||२९३||
तत्र श्लोकः-
त्रिमर्मजानां रोगाणां निदानाकृतिभेषजम्|
विस्तरेण पृथग्दिष्टं त्रिमर्मीये चिकित्सिते||२९४||
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते चिकित्सास्थाने
त्रिमर्मीयचिकित्सितं नाम षड्विंशोऽध्यायः||२६||