चिकित्सास्थानम् - २८. वातव्याधिचिकित्सितम्
अथातो वातव्याधिचिकित्सितं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
वायुरायुर्बलं वायुर्वायुर्धाता शरीरिणाम्|
वायुर्विश्वमिदं सर्वं प्रभुर्वायुश्च कीर्तितः||३||
अव्याहतगतिर्यस्य स्थानस्थः प्रकृतौ स्थितः|
वायुः स्यात्सोऽधिकं जीवेद्वीतरोगः समाः शतम्||४||
प्राणोदानसमानाख्यव्यानापानैः स पञ्चधा|
देहं तन्त्रयते सम्यक् स्थानेष्वव्याहतश्चरन्||५||
स्थानं प्राणस्य मूर्धोरःकण्ठजिह्वास्यनासिकाः |
ष्ठीवनक्षवथूद्गारश्वासाहारादि कर्म च||६||
उदानस्य पुनः स्थानं नाभ्युरः कण्ठ एव च|
वाक्प्रवृत्तिः प्रयत्नौर्जोबलवर्णादि कर्म च||७||
स्वेददोषाम्बुवाहीनि स्रोतांसि समधिष्ठितः|
अन्तरग्नेश्च पार्श्वस्थः समानोऽग्निबलप्रदः||८||
देहं व्याप्नोति सर्वं तु व्यानः शीघ्रगतिर्नृणाम्|
गतिप्रसारणाक्षेपनिमेषादिक्रियः सदा||९||
वृषणौ बस्तिमेढ्रं च नाभ्यूरू वङ्क्षणौ गुदम्|
अपानस्थानमन्त्रस्थः शुक्रमूत्रशकृन्ति च||१०||
सृजत्यार्तवगर्भौ च युक्ताः स्थानस्थिताश्च ते|
स्वकर्म कुर्वते देहो धार्यते तैरनामयः||११||
विमार्गस्था ह्ययुक्ता वा रोगैः स्वस्थानकर्मजैः|
शरीरं पीडयन्त्येते प्राणानाशु हरन्ति च||१२||
सङ्ख्यामप्यतिवृत्तानां तज्जानां हि प्रधानतः|
अशीतिर्नखभेदाद्या रोगाः सूत्रे निदर्शिताः||१३||
तानुच्यमानान् पर्यायैः सहेतूपक्रमाञ्छृणु|
केवलं वायुमुद्दिश्य स्थानभेदात्तथाऽऽवृतम्||१४||
रूक्षशीताल्पलघ्वन्नव्यवायातिप्रजागरैः|
विषमादुपचाराच्च दोषासृक्स्रवणादति||१५||
लङ्घनप्लवनात्यध्वव्यायामातिविचेष्टितैः|
धातूनां सङ्क्षयाच्चिन्ताशोकरोगातिकर्षणात्||१६||
दुःखशय्यासनात् क्रोधाद्दिवास्वप्नाद्भयादपि|
वेगसन्धारणादामादभिघातादभोजनात्||१७||
मर्माघाताद्गजोष्ट्राश्वशीघ्रयानापतंसनात्|
देहे स्रोतांसि रिक्तानि पूरयित्वाऽनिलो बली||१८||
करोति विविधान् व्याधीन् सर्वाङ्गैकाङ्गसंश्रितान्|१९|
अव्यक्तं लक्षणं तेषां पूर्वरूपमिति स्मृतम्||१९||
आत्मरूपं तु तद्व्यक्तमपायो लघुता पुनः|२०|
सङ्कोचः पर्वणां स्तम्भो भेदोऽस्थ्नां पर्वणामपि||२०||
लोमहर्षः प्रलापश्च पाणिपृष्ठशिरोग्रहः|
खाञ्ज्यपाङ्गुल्यकुब्जत्वं शोषोऽङ्गानामनिद्रता||२१||
गर्भशुक्ररजोनाशः स्पन्दनं गात्रसुप्तता|
शिरोनासाक्षिजत्रूणां ग्रीवायाश्चापि हुण्डनम्||२२||
भेदस्तोदार्तिराक्षेपो मोहश्चायास एव च|
एवंविधानि रूपाणि करोति कुपितोऽनिलः||२३||
हेतुस्थानविशेषाच्च भवेद्रोगविशेषकृत्|२४|
तत्र कोष्ठाश्रिते दुष्टे निग्रहो मूत्रवर्चसोः||२४||
ब्रध्नहृद्रोगगुल्मार्शःपार्श्वशूलं च मारुते|
सर्वाङ्गकुपिते वाते गात्रस्फुरणभञ्जने||२५||
वेदनाभिः परीतश्च स्फुटन्तीवास्य सन्धयः|
ग्रहो विण्मूत्रवातानां शूलाध्मानाश्मशर्कराः||२६||
जङ्घोरुत्रिकपात्पृष्ठरोगशोषौ गुदस्थिते|
हृन्नाभिपार्श्वोदररुक्तृष्णोद्गारविसूचिकाः||२७||
कासः कण्ठास्यशोषश्च श्वासश्चामाशयस्थिते|
पक्वाशयस्थोऽन्त्रकूजं शूलाटोपौ करोति च||२८||
कृच्छ्रमूत्रपुरीषत्वमानाहं त्रिकवेदनाम्|
श्रोत्रादिष्विन्द्रियवधं कुर्याद्दुष्टसमीरणः||२९||
त्वग्रूक्षा स्फुटिता सुप्ता कृशा कृष्णा च तुद्यते|
आतन्यते सरागा च पर्वरुक् त्वक्स्थितेऽनिले||३०||
रुजस्तीव्राः ससन्तापा वैवर्ण्यं कृशताऽरुचिः|
गात्रे चारूंषि भुक्तस्य स्तम्भश्चासृग्गतेऽनिले||३१||
गुर्वङ्गं तुद्यतेऽत्यर्थं दण्डमुष्टिहतं तथा|
सरुक् श्रमितमत्यर्थं मांसमेदोगतेऽनिले||३२||
भेदोऽस्थिपर्वणां सन्धिशूलं मांसबलक्षयः|
अस्वप्नः सन्तता रुक् च मज्जास्थिकुपितेऽनिले||३३||
क्षिप्रं मुञ्चति बध्नाति शुक्रं गर्भमथापि वा|
विकृतिं जनयेच्चापि शुक्रस्थः कुपितोऽनिलः||३४||
बाह्याभ्यन्तरमायामं खल्लिं कुब्जत्वमेव च|
सर्वाङ्गैकाङ्गरोगांश्च कुर्यात् स्नायुगतोऽनिलः||३५||
शरीरं मन्दरुक्शोफं शुष्यति स्पन्दते तथा|
सुप्तास्तन्व्यो महत्यो वा सिरा वाते सिरागते||३६||
वातपूर्णदृतिस्पर्शः शोथः सन्धिगतेऽनिले|
प्रसारणाकुञ्चनयोः प्रवृत्तिश्च सवेदना||३७||
(इत्युक्तं स्थानभेदेन वायोर्लक्षणमेव च)|३८|
अतिवृद्धः शरीरार्धमेकं वायुः प्रपद्यते|
यदा तदोपशोष्यासृग्बाहुं पादं च जानु च||३८||
तस्मिन् सङ्कोचयत्यर्धे मुखं जिह्मं करोति च|
वक्रीकरोति नासाभ्रूललाटाक्षिहनूस्तथा||३९||
ततो वक्रं व्रजत्यास्ये भोजनं वक्रनासिकम् |
स्तब्धं नेत्रं कथयतः क्षवथुश्च निगृह्यते||४०||
दीना जिह्मा समुत्क्षिप्ता कला सज्जति चास्य वाक्|
दन्ताश्चलन्ति बाध्येते श्रवणौ भिद्यते स्वरः||४१||
पादहस्ताक्षिजङ्घोरुशङ्खश्रवणगण्डरुक् |
अर्धे तस्मिन्मुखार्धे वा केवले स्यात्तदर्दितम्||४२||
मन्ये संश्रित्य वातोऽन्तर्यदा नाडीः प्रपद्यते|
मन्यास्तम्भं तदा कुर्यादन्तरायामसञ्ज्ञितम्||४३||
अन्तरायम्यते ग्रीवा मन्या च स्तभ्यते भृशम्|
दन्तानां दंशनं लाला पृष्ठायामः शिरोग्रहः||४४||
जृम्भा वदनसङ्गश्चाप्यन्तरायामलक्षणम्|
(इत्युक्तस्त्वन्तरायामोबहिरायाम उच्यते)||४५||
पृष्ठमन्याश्रिता बाह्याः शोषयित्वा सिरा बली|
वायुः कुर्याद्धनुस्तम्भं बहिरायामसञ्ज्ञकम्||४६||
चापवन्नाम्यमानस्य पृष्ठतो नीयते शिरः|
उर उत्क्षिप्यते मन्या स्तब्धा ग्रीवाऽवमृद्यते||४७||
दन्तानां दशनं जृम्भा लालास्रावश्च वाग्ग्रहः|
जातवेगो निहन्त्येष वैकल्यं वा प्रयच्छति||४८||
हनुमूले स्थितो बन्धात् संस्रयत्यनिलो हनू|
विवृतास्यत्वमथवा कुर्यात् स्तब्धमवेदनम्||४९||
हनुग्रहं च संस्तभ्य हनुं(नू)संवृतवक्रताम्|५०|
मुहुराक्षिपति क्रुद्धो गात्राण्याक्षेपकोऽनिलः||५०||
पाणिपादं च संशोष्य सिराः सस्नायुकण्डराः|५१|
पाणिपादशिरःपृष्ठश्रोणीः स्तभ्नाति मारुतः||५१||
दण्डवत्स्तब्धगात्रस्य दण्डकः सोऽनुपक्रमः|५२|
स्वस्थः स्यादर्दितादीनां मुहुर्वेगे गतेऽगते||५२||
पीड्यते पीडनैस्तैस्तैर्भिषगेतान् विवर्जयेत्|५३|
हत्वैकं मारुतः पक्षं दक्षिणं वाममेव वा||५३||
कुर्याच्चेष्टानिवृत्तिं हि रुजं वाक्स्तम्भमेव च|
गृहीत्वाऽर्धं शरीरस्य सिराः स्नायूर्विशोष्य च||५४||
पादं सङ्कोचयत्येकं हस्तं वा तोदशूलकृत्|
एकाङ्गरोगं तं विद्यात् सर्वाङ्गं सर्वदेहजम्||५५||
स्फिक्पूर्वा कटिपृष्ठोरुजानुजङ्घापदं क्रमात्|
गृध्रसी स्तम्भरुक्तोदैर्गृह्णाति स्पन्दते मुहुः||५६||
वाताद्वातकफात्तन्द्रागौरवारोचकान्विता|
खल्ली तु पादजङ्घोरुकरमूलावमोटनी||५७||
स्थानानामनुरूपैश्च लिङ्गैः शेषान् विनिर्दिशेत्|५८|
सर्वेष्वेतेषु संसर्गं पित्ताद्यैरुपलक्षयेत्||५८||
वायोर्धातुक्षयात् कोपो मार्गस्यावरणेन च (वा)|
वातपित्तकफा देहे सर्वस्रोतोऽनुसारिणः||५९||
वायुरेव हि सूक्ष्मत्वाद्द्वयोस्तत्राप्युदीरणः |
कुपितस्तौ समुद्धूय तत्र तत्र क्षिपन् गदान्||६०||
करोत्यावृतमार्गत्वाद्रसादींश्चोपशोषयेत्|६१|
लिङ्गं पित्तावृते दाहस्तृष्णा शूलं भ्रमस्तमः ||६१||
कट्वम्ललवणोष्णैश्च विदाहः शीतकामिता|
शैत्यगौरवशूलानि कट्वाद्युपशयोऽधिकम्||६२||
लङ्घनायासरूक्षोष्णकामिता च कफावृते|
रक्तावृते सदाहार्तिस्त्वङ्मांसान्तरजो भृशम्||६३||
भवेत् सरागः श्वयथुर्जायन्ते मण्डलानि च|
कठिनाश्च विवर्णाश्च पिडकाः श्वयथुस्तथा||६४||
हर्षः पिपीलिकानां च सञ्चार इव मांसगे|
चलः स्निग्धो मृदुः शीतः शोफोऽङ्गेष्वरुचिस्तथा||६५||
आढ्यवात इति ज्ञेयः स कृच्छ्रो मेदसाऽऽवृतः|
स्पर्शमस्थ्नाऽऽवृते तूष्णं पीडनं चाभिनन्दति||६६||
सम्भज्यते सीदति च सूचीभिरिव तुद्यते|
मज्जावृते विनामः स्याज्जृम्भणं परिवेष्टनम्||६७||
शूलं तु पीड्यमाने च पाणिभ्यां लभते सुखम्|
शुक्रावेगोऽतिवेगो वा निष्फलत्वं च शुक्रगे||६८||
भुक्ते कुक्षौ च रुग्जीर्णे शाम्यत्यन्नावृतेऽनिले|
मूत्राप्रवृत्तिराध्मानं बस्तौ मूत्रावृतेऽनिले||६९||
वर्चसोऽतिविबन्धोऽधः स्वे स्थाने परिकृन्तति|
व्रजत्याशु जरां स्नेहो भुक्ते चानह्यते नरः||७०||
चिरात् पीडितमन्नेन दुःखं शुष्कं शकृत् सृजेत्|
श्रोणीवङ्क्षणपृष्ठेषु रुग्विलोमश्च मारुतः||७१||
अस्वस्थं हृदयं चैव वर्चसा त्वावृतेऽनिले|७२|
सन्धिच्युतिर्हनुस्तम्भः कुञ्चनं कुब्जताऽर्दितः||७२||
पक्षाघातोऽङ्गसंशोषः पङ्गुत्वं खुडवातता|
स्तम्भनं चाढ्यवातश्च रोगा मज्जास्थिगाश्च ये||७३||
एते स्थानस्य गाम्भीर्याद्यत्नात् सिध्यन्ति वा न वा|
नवान् बलवतस्त्वेतान् साधयेन्निरुपद्रवान्||७४||
क्रियामतः परं सिद्धां वातरोगापहां शृणु|
केवलं निरुपस्तम्भमादौ स्नेहैरुपाचरेत्||७५||
वायुं सर्पिर्वसातैलमज्जपानैर्नरं ततः|
स्नेहक्लान्तं समाश्वास्य पयोभिः स्नेहयेत् पुनः||७६||
यूषैर्ग्राम्याम्बुजानूपरसैर्वा स्नेहसंयुतैः|
पायसैः कृशरैः साम्ललवणैरनुवासनैः||७७||
नावनैस्तर्पणैश्चान्नैः सुस्निग्धं स्वेदयेत्ततः|
स्वभ्यक्तं स्नेहसंयुक्तैर्नाडीप्रस्तरसङ्करैः||७८||
तथाऽन्यैर्विविधैः स्वेदैर्यथायोगमुपाचरेत्|
स्नेहाक्तं स्विन्नमङ्गं तु वक्रं स्तब्धमथापि वा||७९||
शनैर्नामयितुं शक्यं यथेष्टं शुष्कदारुवत्|
हर्षतोदरुगायामशोथस्तम्भग्रहादयः||८०||
स्विन्नस्याशु प्रशाम्यन्ति मार्दवं चोपजायते|
स्नेहश्च धातून्संशुष्कान् पुष्णात्याशु प्रयोजितः||८१||
बलमग्निबलं पुष्टिं प्राणांश्चाप्यभिवर्धयेत्|
असकृत्तं पुनः स्नेहैः स्वेदैश्चाप्युपपादयेत्||८२||
तथा स्नेहमृदौ कोष्ठे न तिष्ठन्त्यनिलामयाः|८३|
यद्यनेन सदोषत्वात् कर्मणा न प्रशाम्यति||८३||
मृदुभिः स्नेहसंयुक्तैरौषधैस्तं विशोधयेत्|
घृतं तिल्वकसिद्धं वा सातलासिद्धमेव वा||८४||
पयसैरण्डतैलं वा पिबेद्दोषहरं शिवम्|
स्निग्धाम्ललवणोष्णाद्यैराहारैर्हि मलश्चितः||८५||
स्रोतो बद्ध्वाऽनिलं रुन्ध्यात्तस्मात्तमनुलोमयेत् |
दुर्बलो योऽविरेच्यः स्यात्तं निरूहैरुपाचरेत्||८६||
पाचनैर्दीपनीयैर्वा भोजनैस्तद्युतैर्नरम्|
संशुद्धस्योत्थिते चाग्नौ स्नेहस्वेदौ पुनर्हितौ||८७||
स्वाद्वम्ललवणस्निग्धैराहारैः सततं पुनः|
नावनैर्धूमपानैश्च सर्वानेवोपपादयेत्||८८||
इति सामान्यतः प्रोक्तं वातरोगचिकित्सितम्|८९|
विशेषतस्तु कोष्ठस्थे वाते क्षारं पिबेन्नरः||८९||
पाचनैर्दीपनैर्युक्तैरम्लैर्वा पाचयेन्मलान्|
गुदपक्वाशयस्थे तु कर्मोदावर्तनुद्धितम्||९०||
आमाशयस्थे शुद्धस्य यथादोषहरीः क्रियाः|
सर्वाङ्गकुपितेऽभ्यङ्गो बस्तयः सानुवासनाः||९१||
स्वेदाभ्यङ्गावगाहाश्च हृद्यं चान्नं त्वगाश्रिते|
शीताः प्रदेहा रक्तस्थे विरेको रक्तमोक्षणम्||९२||
विरेको मांसमेदःस्थे निरूहाः शमनानि च|
बाह्याभ्यन्तरतः स्नेहैरस्थिमज्जगतं जयेत्||९३||
हर्षोऽन्नपानं शुक्रस्थे बलशुक्रकरं हितम्|
विबद्धमार्गं दृष्ट्वा वा शुक्रं दद्याद्विरेचनम्||९४||
विरिक्तप्रतिभुक्तस्य पूर्वोक्तां कारयेत् क्रियाम्|
गर्भे शुष्के तु वातेन बालानां चापि शुष्यताम्||९५||
सिताकाश्मर्यमधुकैर्हितमुत्थापने पयः|
हृदि प्रकुपिते सिद्धमंशुमत्या पयो हितम्||९६||
मत्स्यान्नाभिप्रदेशस्थे सिद्धान् बिल्वशलाटुभिः|
वायुना वेष्ट्यमाने तु गात्रे स्यादुपनाहनम्||९७||
तैलं सङ्कुचितेऽभ्यङ्गो माषसैन्धवसाधितम्|
बाहुशीर्षगते नस्यं पानं चौत्तरभक्तिकम्||९८||
बस्तिकर्म त्वधो नाभेः शस्यते चावपीडकः|९९|
अर्दिते नावनं मूर्ध्नि तैलं तर्पणमेव च||९९||
नाडीस्वेदोपनाहाश्चाप्यानूपपिशितैर्हिताः|
स्वेदनं स्नेहसंयुक्तं पक्षाघाते विरेचनम्||१००||
अन्तराकण्डरागुल्फं सिरा बस्त्यग्निकर्म च|
गृध्रसीषु प्रयुञ्जीत खल्ल्यां तूष्णोपनाहनम्||१०१||
पायसैः कृशरैर्मांसैः शस्तं तैलघृतान्वितैः|
व्यात्तानने हनुं स्विन्नामङ्गुष्ठाभ्यां प्रपीड्य च||१०२||
प्रदेशिनीभ्यां चोन्नाभ्य चिबुकोन्नामनं हितम्|
स्रस्तं स्वं गमयेत्स्थानं स्तब्धं स्विन्नं विनामयेत्||१०३||
प्रत्येकं स्थानदूष्यादिक्रियावैशेष्यमाचरेत् |१०४|
सर्पिस्तैलवसामज्जसेकाभ्यञ्जनबस्तयः ||१०४||
स्निग्धाः स्वेदा निवातं च स्थानं प्रावरणानि च|
रसाः पयांसि भोज्यानि स्वाद्वम्ललवणानि च||१०५||
बृंहणं यच्च तत् सर्वं प्रशस्तं वातरोगिणाम्|१०६|
बलायाः पञ्चमूलस्य दशमूलस्य वा रसे||१०६||
अजशीर्षाम्बुजानूपमांसादपिशितैः पृथक्|
साधयित्वा रसान् स्निग्धान्दध्यम्लव्योषसंस्कृतान्||१०७||
भोजयेद्वातरोगार्तं तैर्व्यक्तलवणैर्नरम्|
एतैरेवोपनाहांश्च पिशितैः सम्प्रकल्पयेत्||१०८||
घृततैलयुतैः साम्लैः क्षुण्णस्विन्नैरनस्थिभिः|
पत्रोत्क्वाथपयस्तैलद्रोण्यः स्युरवगाहने||१०९||
स्वभ्यक्तानां प्रशस्यन्ते सेकाश्चानिलरोगिणाम्|
आनूपौदकमांसानि दशमूलं शतावरीम्||११०||
कुलत्थान् बदरान्माषांस्तिलान्रास्नां यवान् बलाम्|
वसादध्यारनालाम्लैः सह कुम्भ्यां विपाचयेत्||१११||
नाडीस्वेदं प्रयुञ्जीत पिष्टैश्चाप्युपनाहनम्|
तैश्च सिद्धं घृतं तैलमभ्यङ्गं पानमेव च||११२||
मुस्तं किण्वं तिलाः कुष्ठं सुराह्वं लवणं नतम्|
दधिक्षीरचतुःस्नेहैः सिद्धं स्यादुपनाहनम्||११३||
उत्कारिकावेसवारक्षीरमाषतिलौदनैः|
एरण्डबीजगोधूमयवकोलस्थिरादिभिः||११४||
सस्नेहैः सरुजं गात्रमालिप्य बहलं भिषक्|
एरण्डपत्रैर्बध्नीयाद्रात्रौ कल्यं विमोक्षयेत्||११५||
क्षीराम्बुना ततः सिक्तं पुनश्चैवोपनाहितम्|
मुञ्चेद्रात्रौ दिवाबद्धं चर्मभिश्च सलोमभिः||११६||
फलानां तैलयोनीनामम्लपिष्टान् सुशीतलान्|
प्रदेहानुपनाहांश्च गन्धैर्वातहरैरपि||११७||
पायसैः कृशरैश्चैव कारयेत् स्नेहसंयुतैः|११८|
रूक्षशुद्धानिलार्तानामतः स्नेहान् प्रचक्ष्महे||११८||
विविधान् विविधव्याधिप्रशमायामृतोपमान्|
द्रोणेऽम्भसः पचेद्भागान् दशमूलाच्चतुष्पलान्||११९||
यवकोलकुलत्थानां भागैः प्रस्थोन्मितैः सह|
पादशेषे रसे पिष्टैर्जीवनीयैः सशर्करैः||१२०||
तथा खर्जूरकाश्मर्यद्राक्षाबदरफल्गुभिः|
सक्षीरैः सर्पिषः प्रस्थः सिद्धः केवलवातनुत्||१२१||
निरत्ययः प्रयोक्तव्यः पानाभ्यञ्जनबस्तिषु|
चित्रकं नागरं रास्नां पौष्करं पिप्पलीं शटीम्||१२२||
पिष्ट्वा विपाचयेत् सर्पिर्वातरोगहरं परम्|
बलाबिल्वशृते क्षीरे घृतमण्डं विपाचयेत्||१२३||
तस्य शुक्तिः प्रकुञ्चो वा नस्यं मूर्धगतेऽनिले|
ग्राम्यानूपौदकानां तु भित्वाऽस्थीनि पचेज्जले||१२४||
तं स्नेहं दशमूलस्य कषायेण पुनः पचेत्|
जीवकर्षभकास्फोताविदारीकपिकच्छुभिः||१२५||
वातघ्नैर्जीवनीयैश्च कल्कैर्द्विक्षीरभागिकम्|
तत्सिद्धं नावनाभ्यङ्गात्तथा पानानुवासनात्||१२६||
सिरापर्वास्थिकोष्ठस्थं प्रणुदत्याशु मारुतम्|
ये स्युः प्रक्षीणमज्जानः क्षीणशुक्रौजसश्च ये||१२७||
बलपुष्टिकरं तेषामेतत् स्यादमृतोपमम्|
तद्वत्सिद्धा वसा नक्रमत्स्यकूर्मचुलूकजा||१२८||
प्रत्यग्रा विधिनाऽनेन नस्यपानेषु शस्यते|
प्रस्थः स्यात्त्रिफलायास्तु कुलत्थकुडवद्वयम्||१२९||
कृष्णगन्धात्वगाढक्योः पृथक् पञ्चपलं भवेत्|
रास्नाचित्रकयोर्द्वे द्वे दशमूलं पलोन्मितम्||१३०||
जलद्रोणे पचेत् पादशेषे प्रस्थोन्मितं पृथक्|
सुरारनालदध्यम्लसौवीरकतुषोदकम्||१३१||
कोलदाडिमवृक्षाम्लरसं तैलं वसां घृतम्|
मज्जानं च पयश्चैव जीवनीयपलानि षट्||१३२||
कल्कं दत्त्वा महास्नेहं सम्यगेनं विपाचयेत्|
सिरामज्जास्थिगे वाते सर्वाङ्गैकाङ्गरोगिषु||१३३||
वेपनाक्षेपशूलेषु तदभ्यङ्गे प्रयोजयेत्|
निर्गुण्ड्या मूलपत्राभ्यां गृहीत्वा स्वरसं ततः||१३४||
तेन सिद्धं समं तैलं नाडीकुष्ठानिलार्तिषु|
हितं पामापचीनां च पानाभ्यञ्जनपूरणम्||१३५||
कार्पासास्थिकुलत्थानां रसे सिद्धं च वातनुत्|१३६|
मूलकस्वरसे क्षीरसमे स्थाप्यं त्र्यहं दधि||१३६||
तस्याम्लस्य त्रिभिः प्रस्थैस्तैलप्रस्थं विपाचयेत्|
यष्ट्याह्वशर्करारास्नालवणार्द्रकनागरैः||१३७||
सुपिष्टैः पलिकैः पानात्तदभ्यङ्गाच्च वातनुत्|१३८|
पञ्चमूलकषायेण पिण्याकं बहुवार्षिकम्||१३८||
पक्त्वा तस्य रसं पूत्वा तैलप्रस्थं विपाचयेत्|
पयसाऽष्टगुणेनैतत् सर्ववातविकारनुत्||१३९||
संसृष्टे श्लेष्मणा चैतद्वाते शस्तं विशेषतः|
यवकोलकुलत्थानां श्रेयस्याः शुष्कमूलकात्||१४०||
बिल्वाच्चाञ्जलिमेकैकं द्रवैरम्लैर्विपाचयेत्|
तेन तैलं कषायेण फलाम्लैः कटुभिस्तथा||१४१||
पिष्टैः सिद्धं महावातैरार्तः शीते प्रयोजयेत्|१४२|
सर्ववातविकाराणां तैलान्यन्यान्यतः शृणु||१४२||
चतुष्प्रयोगाण्यायुष्यबलवर्णकराणि च|
रजःशुक्रप्रदोषघ्नान्यपत्यजननानि च||१४३||
निरत्ययानि सिद्धानि सर्वदोषहराणि च|
सहाचरतुलायाश्च रसे तैलाढकं पचेत्||१४४||
मूलकल्काद्दशपलं पयो दत्त्वा चतुर्गुणम्|
सिद्धेऽस्मिञ्छर्कराचूर्णादष्टादशपलं भिषक्||१४५||
विनीय दारुणेष्वेतद्वातव्याधिषु योजयेत्|
श्वदंष्ट्रास्वरसप्रस्थौ द्वौ समौ पयसा सह||१४६||
षट्पलं शृङ्गवेरस्य गुडस्याष्टपलं तथा|
तैलप्रस्थं विपक्वं तैर्दद्यात् सर्वानिलार्तिषु||१४७||
जीर्णे तैले च दुग्धेन पेयाकल्पः प्रशस्यते|
बलाशतं गुडूच्याश्च पादं रास्नाष्टभागिकम्||१४८||
जलाढकशते पक्त्वा दशभागस्थिते रसे|
दधिमस्त्विक्षुनिर्यासशुक्तैस्तैलाढकं समैः||१४९||
पचेत् साजपयोऽर्धांशैः कल्कैरेभिः पलोन्मितैः|
शटीसरलदार्वेलामञ्जिष्ठागुरुचन्दनैः||१५०||
पद्मकातिविषामुस्तसूर्पपर्णीहरेणुभिः|
यष्ट्याह्वसुरसव्याघ्रनखर्षभकजीवकैः||१५१||
पलाशरसकस्तूरीनलिकाजातिकोषकैः|
स्पृक्काकुङ्कुमशैलेयजातीकटुफलाम्बुभिः||१५२||
त्वचाकुन्दुरुकर्पूरतुरुष्कश्रीनिवासकैः |
लवङ्गनखकक्कोलकुष्ठमांसीप्रियङ्गुभिः||१५३||
स्थौणेयतगरध्यामवचामदनपल्लवैः|
सनागकेशरैः सिद्धे क्षिपेच्चात्रावतारिते||१५४||
पत्रकल्कं ततः पूतं विधिना तत् प्रयोजयेत्|
श्वासं कासं ज्वरं हिक्कां छर्दिं गुल्मान् क्षतं क्षयम्||१५५||
प्लीहशोषावपस्मारमलक्ष्मीं च प्रणाशयेत्|
बलातैलमिदं श्रेष्ठं वातव्याधिविनाशनम्||१५६||
(अग्निवेशाय गुरुणा कृष्णात्रेयेण भाषितम्)|
इति बलातैलम्|
अमृतायास्तुलाः पञ्च द्रोणेष्वष्टस्वपां पचेत्||१५७||
पादशेषे समक्षीरं तैलस्य द्व्याढकं पचेत्|
एलामांसीनतोशीरसारिवाकुष्ठचन्दनैः||१५८||
बलातामलकीमेदाशतपुष्पर्धिजीवकैः |
काकोलीक्षीरकाकोलीश्रावण्यतिबलानखैः||१५९||
महाश्रावणिजीवन्तीविदारीकपिकच्छुभिः|
शतावरीमहामेदाकर्कटाख्याहरेणुभिः||१६०||
वचागोक्षुरकैरण्डरास्नाकालासहाचरैः|
वीराशल्लकिमुस्तत्वक्पत्रर्षभकबालकैः||१६१||
सहैलाकुङ्कुमस्पृक्कात्रिदशाह्वैश्च कार्षिकैः|
मञ्जिष्ठायास्त्रिकर्षेण मधुकाष्टपलेन च||१६२||
कल्कैस्तत् क्षीणवीर्याग्निबलसम्मूढचेतसः|
उन्मादारत्यपस्मारैरार्तांश्च प्रकृतिं नयेत्||१६३||
वातव्याधिहरं श्रेष्ठं तैलाग्र्यममृताह्वयम्|
(कृष्णात्रेयेण गुरुणा भाषितं वैद्यपूजितम्)||१६४||
इत्यमृताद्यं तैलम्|
रास्नासहस्रनिर्यूहे तैलद्रोणं विपाचयेत्|
गन्धैर्हैमवतैः पिष्टैरेलाद्यैश्चानिलार्तिनुत्||१६५||
कल्पोऽयमश्वगन्धायां प्रसारण्यां बलाद्वये|
क्वाथकल्कपयोभिर्वा बलादीनां पचेत् पृथक्||१६६||
इति रास्नातैलम्|
मूलकस्वरसं क्षीरं तैलं दध्यम्लकाञ्जिकम्|
तुल्यं विपाचयेत् कल्कैर्बलाचित्रकसैन्धवैः||१६७||
पिप्पल्यतिविषारास्नाचविकागुरुशिग्रुकैः|
भल्लातकवचाकुष्ठश्वदंष्ट्राविश्वभेषजैः||१६८||
पुष्कराह्वशटीबिल्वशताह्वानतदारुभिः|
तत्सिद्धं पीतमत्युग्रान् हन्ति वातात्मकान् गदान्||१६९||
इति मूलकाद्यं तैलम्|
वृषमूलगुडूच्योश्च द्विशतस्य शतस्य च|
चित्रकात् साश्वगन्धाच्च क्वाथे तैलाढकं पचेत्||१७०||
सक्षीरं वायुना भग्ने दद्याज्जर्जरिते तथा|
प्राक्तैलावापसिद्धं च भवेदेतद्गुणोत्तरम्||१७१||
इति वृषमूलादितैलम्|
रास्नाशिरीषयष्ट्याह्वशुण्ठीसहचरामृताः||१७२||
स्योनाकदारुशम्पाकहयगन्धात्रिकण्टकाः|
एषां दशपलान् भागान् कषायमुपकल्पयेत्||१७३||
ततस्तेन कषायेण सर्वगन्धैश्च कार्षिकैः|
दध्यारनालमाषाम्बुमूलकेक्षुरसैः शुभैः||१७४||
पृथक् प्रस्थोन्मितैः सार्धं तैलप्रस्थं विपाचयेत्|
प्लीहमूत्रग्रहश्वासकासमारुतरोगनुत् ||१७५||
एतन्मूलकतैलाख्यं वर्णायुर्बलवर्धनम्|
इति मूलकतैलम्|
यवकोलकुलत्थानां मत्स्यानां शिग्रुबिल्वयोः|
रसेन मूलकानां च तैलं दधिपयोन्वितम्||१७६||
साधयित्वा भिषग्दद्यात् सर्ववातामयापहम्|
लशुनस्वरसे सिद्धं तैलमेभिश्च वातनुत्||१७७||
तैलान्येतान्यृतुस्नातामङ्गनां पाययेत च|
पीत्वाऽन्यतममेषां हि वन्ध्याऽपि जनयेत् सुतम्||१७८||
यच्च शीतज्वरे तैलमगुर्वाद्यमुदाहृतम्|
अनेकशतशस्तच्च सिद्धं स्याद्वातरोगनुत्||१७९||
वक्ष्यन्ते यानि तैलानि वातशोणितकेऽपि च|
तानि चानिलशान्त्यर्थं सिद्धिकामः प्रयोजयेत्||१८०||
नास्ति तैलात् परं किञ्चिदौषधं मारुतापहम्|
व्यवाय्युष्णगुरुस्नेहात् संस्काराद्वलवत्तरम्||१८१||
गणैर्वातहरैस्तस्माच्छतशोऽथ सहस्रशः|
सिद्धं क्षिप्रतरं हन्ति सूक्ष्ममार्गस्थितान् गदान्||१८२||
क्रिया साधारणी सर्वा संसृष्टे चापि शस्यते|
वाते पित्तादिभिः स्रोतःस्वावृतेषु विशेषतः||१८३||
पित्तावृते विशेषेण शीतामुष्णां तथा क्रियाम्|
व्यत्यासात् कारयेत् सर्पिर्जीवनीयं च शस्यते||१८४||
धन्वमांसं यवाः शालिर्यापनाः क्षीरबस्तयः|
विरेकः क्षीरपानं च पञ्चमूलीबलाशृतम्||१८५||
मधुयष्टिबलातैलघृतक्षीरैश्च सेचनम्|
पञ्चमूलकषायेण कुर्याद्वा शीतवारिणा||१८६||
कफावृते यवान्नानि जाङ्गला मृगपक्षिणः|
स्वेदास्तीक्ष्णा निरूहाश्च वमनं सविरेचनम्||१८७||
जीर्णं सर्पिस्तथा तैलं तिलसर्षपजं हितम्|
संसृष्टे कफपित्ताभ्यां पित्तमादौ विनिर्जयेत्||१८८||
आमाशयगतं मत्वा कफं वमनमाचरेत्||१८९||
पक्वाशये विरेकं तु पित्ते सर्वत्रगे तथा|
स्वेदैर्विष्यन्दितः श्लेष्मा यदा पक्वाशये स्थितः||१९०||
पित्तं वा दर्शयेल्लिङ्गं बस्तिभिस्तौ विनिर्हरेत्|
श्लेष्मणाऽनुगतं वातमुष्णैर्गोमूत्रसंयुतैः||१९१||
निरूहैः पित्तसंसृष्टं निर्हरेत् क्षीरसंयुतैः|
मधुरौषधसिद्धैश्च तैलैस्तमनुवासयेत्||१९२||
शिरोगते तु सकफे धूमनस्यादि कारयेत्|
हृते पित्ते कफे यः स्यादुरःस्रोतोऽनुगोऽनिलः||१९३||
सशेषः स्यात् क्रिया तत्र कार्या केवलवातिकी|
शोणितेनावृते कुर्याद्वातशोणितकीं क्रियाम्||१९४||
प्रमेहवातमेदोघ्नीमामवाते प्रयोजयेत्|
स्वेदाभ्यङ्गरसक्षीरस्नेहा मांसावृते हिताः||१९५||
महास्नेहोऽस्थिमज्जस्थे पूर्ववद्रेतसाऽऽवृते|
अन्नावृते तदुल्लेखः पाचनं दीपनं लघु||१९६||
मूत्रलानि तु मूत्रेण स्वेदाः सोत्तरबस्तयः|
शकृता तैलमैरण्डं स्निग्धोदावर्तवत्क्रिया ||१९७||
स्वस्थानस्थो बली दोषः प्राक् तं स्वैरौषधैर्जयेत्|
वमनैर्वा विरेकैर्वा बस्तिभिः शमनेन वा||१९८||
(इत्युक्तमावृते वाते पित्तादिभिर्यथायथम् )|१९९|
मारुतानां हि पञ्चानामन्योन्यावरणे शृणु||१९९||
लिङ्गं व्याससमासाभ्यामुच्यमानं मयाऽनघ!|
प्राणो वृणोत्युदानादीन् प्राणं वृण्वन्ति तेऽपि च||२००||
उदानाद्यास्तथाऽन्योन्यं सर्व एव यथाक्रमम्|
विंशतिर्वरणान्येतान्युल्बणानां परस्परम्||२०१||
मारुतानां हि पञ्चानां तानि सम्यक् प्रतर्कयेत्|
सर्वेन्द्रियाणां शून्यत्वं ज्ञात्वा स्मृतिबलक्षयम्||२०२||
व्याने प्राणावृते लिङ्गं कर्म तत्रोर्ध्वजत्रुकम्|
स्वेदोऽत्यर्थं लोमहर्षस्त्वग्दोषः सुप्तगात्रता||२०३||
प्राणे व्यानावृते तत्र स्नेहयुक्तं विरेचनम्|
प्राणावृते समाने स्युर्जडगद्गदमूकताः||२०४||
चतुष्प्रयोगाः शस्यन्ते स्नेहास्तत्र सयापनाः|
समानेनावृतेऽपाने ग्रहणीपार्श्वहृद्गदाः||२०५||
शूलं चामाशये तत्र दीपनं सर्पिरिष्यते|२०६|
शिरोग्रहः प्रतिश्यायो निःश्वासोच्छ्वाससङ्ग्रहः||२०६||
हृद्रोगो मुखशोषश्चाप्युदाने प्राणसंवृते|
तत्रोर्ध्वभागिकं कर्म कार्यमाश्वासनं तथा||२०७||
कर्मौजोबलवर्णानां नाशो मृत्युरथापि वा|
उदानेनावृते प्राणे तं शनैः शीतवारिणा||२०८||
सिञ्चेदाश्वासयेच्चैनं सुखं चैवोपपादयेत्|
उर्ध्वगेनावृतेऽपाने छर्दिश्वासादयो गदाः||२०९||
स्युर्वाते तत्र बस्त्यादि भोज्यं चैवानुलोमनम्|
मोहोऽल्पोऽग्निरतीसार ऊर्ध्वगेऽपानसंवृते||२१०||
वाते स्याद्वमनं तत्र दीपनं ग्राहि चाशनम्|
वम्याध्मानमुदावर्तगुल्मार्तिपरिकर्तिकाः||२११||
लिङ्गं व्यानावृतेऽपाने तं स्निग्धैरनुलोमयेत्|
अपानेनावृते व्याने भवेद्विण्मूत्ररेतसाम्||२१२||
अतिप्रवृत्तिस्तत्रापि सर्वं सङ्ग्रहणं मतम्|
मूर्च्छा तन्द्रा प्रलापोऽङ्गसादोऽग्न्योजोबलक्षयः||२१३||
समानेनावृते व्याने व्यायामो लघुभोजनम्|
स्तब्धताऽल्पाग्निताऽस्वेदश्चेष्टाहानिर्निमीलनम्||२१४||
उदानेनावृते व्याने तत्र पथ्यं मितं लघु|
पञ्चान्योन्यावृतानेवं वातान् बुध्येत लक्षणैः||२१५||
एषां स्वकर्मणां हानिर्वृद्धिर्वाऽऽवरणे मता|
यथास्थूलं समुद्दिष्टमेतदावरणेऽष्टकम्||२१६||
सलिङ्गभेषजं सम्यग्बुधानां बुद्धिवृद्धये|२१७|
स्थानान्यवेक्ष्य वातानां वृद्धिं हानिं च कर्मणाम्||२१७||
द्वादशावरणान्यन्यान्यभिलक्ष्य भिषग्जितम्|
कुर्यादभ्यञ्जनस्नेहपानबस्त्यादि सर्वशः||२१८||
क्रममुष्णमनुष्णं वा व्यत्यासादवचारयेत्|२१९|
उदानं योजयेदूर्ध्वमपानं चानुलोमयेत्||२१९||
समानं शमयेच्चैव त्रिधा व्यानं तु योजयेत्|
प्राणो रक्ष्यश्चतुर्भ्योऽपि स्थाने ह्यस्य स्थितिर्ध्रुवा||२२०||
स्वं स्थानं गमयेदेवं वृतानेतान् विमार्गगान्|२२१|
मूर्च्छा दाहो भ्रमः शूलं विदाहः शीतकामिता||२२१||
छर्दनं च विदग्धस्य प्राणे पित्तसमावृते|
ष्ठीवनं क्षवथूद्गारनिःश्वासोच्छ्वाससङ्ग्रहः||२२२||
प्राणे कफावृते रूपाण्यरुचिश्छर्दिरेव च|
मूर्च्छाद्यानि च रूपाणि दाहो नाभ्युरसः क्लमः||२२३||
ओजोभ्रंशश्च सादश्चाप्युदाने पित्तसंवृते|
आवृते श्लेष्मणोदाने वैवर्ण्यं वाक्स्वरग्रहः||२२४||
दौर्बल्यं गुरुगात्रत्वमरुचिश्चोपजायते|
अतिस्वेदस्तृषा दाहो मूर्च्छा चारुचिरेव च||२२५||
पित्तावृते समाने स्यादुपघातस्तथोष्मणः|
अस्वेदो वह्निमान्द्यं च लोमहर्षस्तथैव च||२२६||
कफावृते समाने स्याद्गात्राणां चातिशीतता|
व्याने पित्तावृते तु स्याद्दाहः सर्वाङ्गगः क्लमः||२२७||
गात्रविक्षेपसङ्गश्च ससन्तापः सवेदनः|
गुरुता सर्वगात्राणां सर्वसन्ध्यस्थिजा रुजः||२२८||
व्याने कफावृते लिङ्गं गतिसङ्गस्तथाऽधिकः |
हारिद्रमूत्रवर्चस्त्वं तापश्च गुदमेढ्रयोः||२२९||
लिङ्गं पित्तावृतेऽपाने रजसश्चातिवर्तनम्|
भिन्नामश्लेष्मसंसृष्टगुरुवर्चःप्रवर्तनम्||२३०||
श्लेष्मणा संवृतेऽपाने कफमेहस्य चागमः|२३१|
लक्षणानां तु मिश्रत्वं पित्तस्य च कफस्य च||२३१||
उपलक्ष्य भिषग्विद्वान् मिश्रमावरणं वदेत्|
यद्यस्य वायोर्निर्दिष्टं स्थानं तत्रेतरौ स्थितौ||२३२||
दोषौ बहुविधान् व्याधीन् दर्शयेतां यथानिजान्|
आवृतं श्लेष्मपित्ताभ्यां प्राणं चोदानमेव च||२३३||
गरीयस्त्वेन पश्यन्ति भिषजः शास्त्रचक्षुषः|
विशेषाज्जीवितं प्राणे उदाने संश्रितं बलम्||२३४||
स्यात्तयोः पीडनाद्धानिरायुषश्च बलस्य च|
सर्वेऽप्येतेऽपरिज्ञाताः परिसंवत्सरास्तथा||२३५||
उपेक्षणादसाध्याः स्युरथवा दुरुपक्रमाः |२३६|
हृद्रोगो विद्रधिः प्लीहा गुल्मोऽतीसार एव च||२३६||
भवन्त्युपद्रवास्तेषामावृतानामुपेक्षणात्|
तस्मादावरणं वैद्यः पवनस्योपलक्षयेत्||२३७||
पञ्चात्मकस्य वातेन पित्तेन श्लेष्मणाऽपि वा|
भिषग्जितमतः सम्यगुपलक्ष्य समाचरेत्||२३८||
अनभिष्यन्दिभिः स्निग्धैः स्रोतसां शुद्धिकारकैः|
कफपित्ताविरुद्धं यद्यच्च वातानुलोमनम्||२३९||
सर्वस्थानावृतेऽप्याशु तत् कार्यं मारुते हितम्|
यापना बस्तयः प्रायो मधुराः सानुवासनाः||२४०||
प्रसमीक्ष्य बलाधिक्यं मृदु वा स्रंसनं हितम्|
रसायनानां सर्वेषामुपयोगः प्रशस्यते||२४१||
शैलस्य जतुनोऽत्यर्थं पयसा गुग्गुलोस्तथा|
लेहं वा भार्गवप्रोक्तमभ्यसेत् क्षीरभुङ्नरः||२४२||
अभयामलकीयोक्तमेकादशसिताशतम् |
अपानेनावृते सर्वं दीपनं ग्राहि भेषजम्||२४३||
वातानुलोमनं यच्च पक्वाशयविशोधनम्|
इति सङ्क्षेपतः प्रोक्तमावृतानां चिकित्सितम्||२४४||
प्राणादीनां भिषक् कुर्याद्वितर्क्य स्वयमेव तत्|
पित्तावृते तु पित्तघ्नैर्मारुतस्याविरोधिभिः|
कफावृते कफघ्नैस्तु मारुतस्यानुलोमनैः||२४५||
लोके वाय्वर्कसोमानां दुर्विज्ञेया यथा गतिः|
तथा शरीरे वातस्य पित्तस्य च कफस्य च||२४६||
क्षयं वृद्धिं समत्वं च तथैवावरणं भिषक्|
विज्ञाय पवनादीनां न प्रमुह्यति कर्मसु||२४७||
तत्र श्लोकौ-
पञ्चात्मनः स्थानवशाच्छरीरे स्थानानि कर्माणि च देहधातोः|
प्रकोपहेतुः कुपितश्च रोगान् स्थानेषु चान्येषु वृतोऽवृतश्च||२४८||
प्राणेश्वरः प्राणभृतां करोति क्रिया च तेषामखिला निरुक्ता|
तां देशसात्म्यर्तुबलान्यवेक्ष्य प्रयोजयेच्छास्त्रमतानुसारी||२४९||
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते चिकित्सास्थाने
वातव्याधिचिकित्सितं नामाष्टाविंशोऽध्यायः||२८||