Shree Naval Kishori

सूत्रस्थानम् - २८. विविधाशितपीतीयोऽध्यायः

अथातो विविधाशितपीतीयमध्यायं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||

विविधमशितं पीतं लीढं खादितं जन्तोर्हितमन्तरग्निसन्धुक्षितबलेन यथास्वेनोष्मणा सम्यग्विपच्यमानं 

कालवदनवस्थितसर्वधातुपाकमनुपहतसर्वधातूष्ममारुतस्रोतः केवलं शरीरमुपचयबलवर्णसुखायुषा योजयति 

शरीरधातूनूर्जयति च|
धातवो हि धात्वाहाराः प्रकृतिमनुवर्तन्ते||३||

तत्राहारप्रसादाख्यो रसः किट्टं च मलाख्यमभिनिर्वर्तते|
किट्टात् स्वेदमूत्रपुरीषवातपित्तश्लेष्माणः कर्णाक्षिनासिकास्यलोमकूपप्रजननमलाः केशश्मश्रुलोमनखादयश्चावयवाः 

पुष्यन्ति|
पुष्यन्ति त्वाहाररसाद्रसरुधिरमांसमेदोस्थिमज्जशुक्रौजांसि पञ्चेन्द्रियद्रव्याणि धातुप्रसादसञ्ज्ञकानि 

शरीरसन्धिबन्धपिच्छादयश्चावयवाः|
ते सर्व एव धातवो मलाख्याः प्रसादाख्याश्च रसमलाभ्यां पुष्यन्तः स्वं मानमनुवर्तन्ते यथावयःशरीरम्|
एवं रसमलौ स्वप्रमाणावस्थितावाश्रयस्य समधातोर्धातुसाम्यमनुवर्तयतः|
निमित्ततस्तु क्षीणवृद्धानां प्रसादाख्यानां धातूनां वृद्धिक्षयाभ्यामाहारमूलाभ्यां रसः साम्यमुत्पादयत्यारोग्याय, 

किट्टं च मलानामेवमेव|
स्वमानातिरिक्ताः पुनरुत्सर्गिणः शीतोष्णपर्यायगुणैश्चोपचर्यमाणा मलाः शरीर धातुसाम्यकराः समुपलभ्यन्ते||४||

तेषां तु मलप्रसादाख्यानां धातूनां स्रोतांस्ययनमुखानि|
तानि यथाविभागेन यथास्वं धातूनापूरयन्ति|
एवमिदं शरीरमशितपीतलीढखादितप्रभवम्|
अशितपीतलीढखादितप्रभवाश्चास्मिञ् शरीरे व्याधयो भवन्ति|
हिताहितोपयोगविशेषास्त्वत्र शुभाशुभविशेषकरा भवन्तीति||५||
एवंवादिनं भगवन्तमात्रेयमग्निवेश उवाच- दृश्यन्ते हि भगवन्! हितसमाख्यातमप्याहारमुपयुञ्जाना व्याधिमन्तश्चागदाश्च, तथैवाहितसमाख्यातम्; एवं दुष्टे 

कथं हिताहितोपयोगविशेषात्मकं शुभाशुभविशेषमुपलभामह इति||६||

तमुवाच भगवानात्रेयः- न हिताहारोपयोगिनामग्निवेश! तन्निमित्ता व्याधयो जायन्ते, न च केवलं हिताहारोपयोगादेव 

सर्वव्याधिभयमतिक्रान्तं भवति, सन्ति ह्यृतेऽप्यहिताहारोपयोगादन्या रोगप्रकृतयः, तद्यथा- कालविपर्ययः, प्रज्ञापराधः, शब्दस्पर्शरूपरसगन्धाश्चासात्म्या इति|
ताश्च रोगप्रकृतयो रसान् सम्यगुपयुञ्जानमपि पुरुषमशुभेनोपपादयन्ति; तस्माद्धिताहारोपयोगिनोऽपि दृश्यन्ते

 व्याधिमन्तः|
अहिताहारोपयोगिनां पुनः कारणतो न सद्यो दोषवान् भवत्यपचारः|
न हि सर्वाण्यपथ्यानि तुल्यदोषाणि, न च सर्वे दोषास्तुल्यबलाः, न च सर्वाणि शरीराणि व्याधिक्षमत्वे समर्थानि भवन्ति|
तदेव ह्यपथ्यं देशकालसंयोगवीर्यप्रमाणातियोगाद्भूयस्तरमपथ्यं सम्पद्यते|
स एव दोषः संसृष्टयोनिर्विरुद्धोपक्रमो गम्भीरानुगतश्चिरस्थितः प्राणायतनसमुत्थो मर्मोपघाती कष्टतमः 

क्षिप्रकारितमश्च सम्पद्यते|
शरीराणि चातिस्थूलान्यतिकृशान्यनिविष्टमांसशोणितास्थीनि दुर्बलान्यसात्म्याहारोपचितान्यल्पाहाराण्यल्पसत्त्वानि 

च भवन्त्यव्याधिसहानि, विपरीतानि पुनर्व्याधिसहानि|
एभ्यश्चैवापथ्याहारदोषशरीरविशेषेभ्यो व्याधयो मृदवो दारुणाः क्षिप्रसमुत्थाश्चिरकारिणश्च भवन्ति|
त एव वातपित्तश्लेष्माणः स्थानविशेषे प्रकुपिता व्याधिविशेषानभिनिर्वर्तयन्त्यग्निवेश!||७||

तत्र रसादिषु स्थानेषु प्रकुपितानां दोषाणां यस्मिन् स्थाने ये ये व्याधयः सम्भवन्ति तांस्तान् यथावदनुव्याख्यास्यामः||८||

अश्रद्धा चारुचिश्चास्यवैरस्यमरसज्ञता|
हृल्लासो गौरवं तन्द्रा साङ्गमर्दो ज्वरस्तमः ||९||
पाण्डुत्वं स्रोतसां रोधः क्लैब्यं सादः कृशाङ्गता|
नाशोऽग्नेरयथाकालं वलयः पलितानि च||१०||
रसप्रदोषजा रोगावक्ष्यन्ते रक्तदोषजाः|
कुष्ठवीसर्पपिडका रक्तपित्तमसृग्दरः||११||
गुदमेढ्रास्यपाकश्च प्लीहा गुल्मोऽथ विद्रधिः|
नीलिका कामला व्यङ्गः पिप्प्लवस्तिलकालकाः||१२||
दद्रुश्चर्मदलं श्वित्रं पामा कोठास्रमण्डलम्|
रक्तप्रदोषाज्जायन्तेशृणु मांसप्रदोषजान्||१३||
अधिमांसार्बुदं कीलं गलशालूकशुण्डिके|
पूतिमांसालजीगण्डगण्डमालोपजिह्विकाः||१४||
विद्यान्मांसाश्रयान्मेदःसंश्रयांस्तु प्रचक्ष्महे|
निन्दितानि प्रमेहाणां पूर्वरूपाणि यानि च||१५||

अध्यस्थिदन्तौ दन्तास्थिभेदशूलं विवर्णता|
केशलोमनखश्मश्रुदोषाश्चास्थिप्रदोषजाः||१६||

रुक् पर्वणां भ्रमो मूर्च्छा दर्शनं तमसस्तथा|
अरुषां स्थूलमूलानां पर्वजानां च दर्शनम्||१७||
मज्जप्रदोषात्शुक्रस्य दोषात् क्लैब्यमहर्षणम्|
रोगि वा क्लीबमल्पायुर्विरूपं वा प्रजायते||१८||
न चास्य जायते गर्भः पतति प्रस्रवत्यपि|
शुक्रं हि दुष्टं सापत्यं सदारं बाधते नरम्||१९||

इन्द्रियाणि समाश्रित्य प्रकुप्यन्ति यदा मलाः|
उपघातोपतापाभ्यां योजयन्तीन्द्रियाणि ते||२०||
स्नायौ सिराकण्डराभ्यो दुष्टाः क्लिश्नन्ति मानवम्|
स्तम्भसङ्कोचखल्लीभिर्ग्रन्थिस्फुरणसुप्तिभिः||२१||
मलानाश्रित्य कुपिता भेदशोषप्रदूषणम्|
दोषा मलानां कुर्वन्ति सङ्गोत्सर्गावतीव च||२२||
विविधादशितात् पीतादहिताल्लीढखादितात्|
भवन्त्येते मनुष्याणां विकारा य उदाहृताः||२३||
तेषामिच्छन्ननुत्पत्तिं सेवेत मतिमान् सदा|
हितान्येवाशितादीनि न स्युस्तज्जास्तथाऽऽमयाः||२४||
रसजानां विकाराणां सर्वं लङ्घनमौषधम्|
विधिशोणितिकेऽध्याये रक्तजानां भिषग्जितम्||२५||
मांसजानां तु संशुद्धिः शस्त्रक्षाराग्निकर्म च|
अष्टौनिन्दितिकेऽध्याये मेदोजानां चिकित्सितम्||२६||
अस्थ्याश्रयाणां व्याधीनां पञ्चकर्माणि भेषजम्|
बस्त्यः क्षीरसर्पींषि तिक्तकोपहितानि च||२७||
मज्जशुक्रसमुत्थानामौषधं स्वादुतिक्तकम्|
अन्नं व्यवायव्यायामौ शुद्धिः काले च मात्रया||२८||
शान्तिरिन्द्रियजानां तु त्रिमर्मीये प्रवक्ष्यते|
स्नाय्वादिजानां प्रशमो वक्ष्यते वातरोगिके||२९||
नवेगान्धारणेऽध्याये चिकित्सासङ्ग्रहः कृतः|
मलजानां विकाराणां सिद्धिश्चोक्ता क्वचित्क्वचित्||३०||

व्यायामादूष्मणस्तैक्ष्ण्याद्धितस्यानवचारणात्|
कोष्ठाच्छाखा मला यान्ति द्रुतत्वान्मारुतस्य च||३१||
तत्रस्थाश्च विलम्बन्ते कदाचिन्न समीरिताः|
नादेशकाले कुप्यन्ति भूयो हेतुप्रतीक्षिणः||३२||

वृद्ध्या विष्यन्दनात् पाकात् स्रोतोमुखविशोधनात्|
शाखा मुक्त्वा मलाः कोष्ठं यान्ति वायोश्च निग्रहात्||३३||
अजातानामनुत्पत्तौ जातानां विनिवृत्तये|
रोगाणां यो विधिर्दृष्टः सुखार्थी तं समाचरेत्||३४||
सुखार्थाः सर्वभूतानां मताः सर्वाः प्रवृत्तयः|
ज्ञानाज्ञानविशेषात्तु मार्गामार्गप्रवृत्तयः||३५||

हितमेवानुरुध्यन्ते प्रपरीक्ष्य परीक्षकाः|
रजोमोहावृतात्मानः प्रियमेव तु लौकिकाः||३६||
श्रुतं बुद्धिः स्मृतिर्दाक्ष्यं धृतिर्हितनिषेवणम्|
वाग्विशुद्धिः शमो धैर्यमाश्रयन्ति परीक्षकम्||३७||
लौकिकं नाश्रयन्त्येते गुणा मोहरजःश्रितम्  |
तन्मूला बहवो यन्ति रोगाः शारीरमानसाः||३८||
प्रज्ञापराधाद्ध्यहितानर्थान् पञ्च निषेवते|
सन्धारयति वेगांश्च सेवते साहसानि च||३९||
तदात्वसुखसञ्ज्ञेषु भावेष्वज्ञोऽनुरज्यते|
रज्यते न तु विज्ञाता विज्ञाने ह्यमलीकृते||४०||
न रागान्नाप्यविज्ञानादाहारानुपयोजयेत्|
परीक्ष्य हितमश्नीयाद्देहो ह्याहारसम्भवः||४१||

आहारस्य विधावष्टौ विशेषा हेतुसञ्ज्ञकाः|
शुभाशुभसमुत्पत्तौ तान् परीक्ष्य प्रयोजयेत्||४२||
परिहार्याण्यपथ्यानि सदा परिहरन्नरः|
भवत्यनृणतां प्राप्तः साधूनामिह पण्डितः||४३||
यत्तु रोगसमुत्थानमशक्यमिह केनचित्|
परिहर्तुं न तत् प्राप्य शोचितव्यं मनीषिभिः||४४||

तत्र श्लोकाः-

आहारसम्भवं वस्तु रोगाश्चाहारसम्भवाः|
हिताहितविशेषाच्च विशेषः सुखदुःखयोः||४५||
सहत्वे चासहत्वे च दुःखानां देहसत्त्वयोः |
विशेषो रोगसङ्घाश्च धातुजा ये पृथक्पृथक्||४६||
तेषां चैव प्रशमनं कोष्ठाच्छाखा उपेत्य च|
दोषा यथा प्रकुप्यन्ति शाखाभ्यः कोष्ठमेत्य च||४७||
प्राज्ञाज्ञयोर्विशेषश्च स्वस्थातुरहितं च यत्|
विविधाशितपीतीये तत् सर्वं सम्प्रकाशितम्||४८||

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते सूत्रस्थाने विविधाशितपीतीयो नामाष्टाविंशोऽध्यायः||२८||
इत्यन्नपानचतुष्कः||७||