Shree Naval Kishori

सूत्रस्थानम् - ३०. अर्थेदशमहामूलीयोऽध्यायः

अथातोऽर्थेदशमहामूलीयमध्यायं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||

अर्थे दश महामूलाः समासक्ता महाफलाः|
महच्चार्थश्च हृदयं पर्यायैरुच्यते बुधैः||३||
षडङ्गमङ्गं विज्ञानमिन्द्रियाण्यर्थपञ्चकम्|
आत्मा च सगुणश्चेतश्चिन्त्यं च हृदि संश्रितम्||४||
प्रतिष्ठार्थं हि भावानामेषां हृदयमिष्यते|
गोपानसीनामागारकर्णिकेवार्थचिन्तकैः||५||
तस्योपघातान्मूर्च्छायं भेदान्मरणमृच्छति|६|

यद्धि तत् स्पर्शविज्ञानं धारि तत्तत्र संश्रितम्||६||
तत् परस्यौजसः स्थानं तत्र चैतन्यसङ्ग्रहः|
हृदयं महदर्थश्च तस्मादुक्तं चिकित्सकैः ||७||

तेन मूलेन महता महामूला मता दश|
ओजोवहाः शरीरेऽस्मिन् विधम्यन्ते समन्ततः||८||
येनौजसा वर्तयन्ति प्रीणिताः सर्वदेहिनः |
यदृते सर्वभूतानां जीवितं नावतिष्ठते||९||
यत् सारमादौ गर्भस्य यत्तद्गर्भरसाद्रसः |
संवर्तमानं हृदयं समाविशति यत् पुरा ||१०||
यस्य नाशात्तु नाशोऽस्ति धारि यद्धृदयाश्रितम्  |
यच्छरीररसस्नेहः प्राणा यत्र प्रतिष्ठिताः||११||
तत्फला बहुधा वा ताः फलन्तीव(ति) महाफलाः|१२|
ध्मानाद्धमन्यः स्रवणात् स्रोतांसि सरणात्सिराः||१२||
तन्महत् ता महामूलास्तच्चोजः परिरक्षता|
परिहार्या विशेषेण मनसो दुःखहेतवः||१३||
हृद्यं यत् स्याद्यदौजस्यं स्रोतसां यत् प्रसादनम्|
तत्तत् सेव्यं प्रयत्नेन प्रशमो ज्ञानमेव च||१४||
अथ खल्वेकं प्राणवर्धनानामुत्कृष्टतममेकं बलवर्धनानामेकं बृंहणानामेकं नन्दनानामेकं हर्षणानामेकमयनानामिति |
तत्राहिंसा प्राणिनां प्राणवर्धनानामुत्कृष्टतमं, वीर्यं बलवर्धनानां, विद्या बृंहणानाम्, इन्द्रियजयो नन्दनानां, 

तत्त्वावबोधो हर्षणानां, ब्रह्मचर्यमयनानामिति ; एवमायुर्वेदविदो मन्यन्ते||१५||

तत्रायुर्वेदविदस्तन्त्रस्थानाध्यायप्रश्नानां पृथक्त्वेन वाक्यशो वाक्यार्थशोऽर्थावयवशश्च प्रवक्तारो मन्तव्याः|
तत्राह- कथं तन्त्रादीनि वाक्यशो वाक्यार्थशोऽर्थावयवशश्चोक्तानि भवन्तीति||१६||
अत्रोच्यते- तन्त्रमार्षं कार्त्स्न्येन यथाम्नायमुच्यमानं वाक्यशो भवत्युक्तम्||१७||
बुद्ध्या सम्यगनुप्रविश्यार्थतत्त्वं 

वाग्भिर्व्याससमासप्रतिज्ञाहेतूदाहरणोपनयनिगमनयुक्ताभिस्त्रिविधशिष्यबुद्धिगम्याभिरुच्यमानं 

वाक्यार्थशो भवत्युक्तम्||१८||
तन्त्रनियतानामर्थदुर्गाणां पुनर्विभावनैरुक्तमर्थावयवशो भवत्युक्तम्||१९||

तत्र चेत् प्रष्टारः स्युः- चतुर्णामृक्सामयजुरथर्ववेदानां कं वेदमुपदिशन्त्यायुर्वेदविदः?, किमायुः?, कस्मादायुर्वेदः?, किमर्थमायुर्वेदः?, 

शाश्वतोऽशाश्वतो वा?, कति कानि चास्याङ्गानि?, कैश्चायमध्येतव्यः?, किमर्थं च? इति||२०||

तत्र भिषजा पृष्टेनैवं चतुर्णामृक्सामयजुरथर्ववेदानामात्मनोऽथर्ववेदे भक्तिरादेश्या, वेदो ह्याथर्वणो 

दानस्वस्त्ययनबलिमङ्गलहोमनियमप्रायश्चित्तोपवासमन्त्रादिपरिग्रहाच्चिकित्सां प्राह; चिकित्सा चायुषो 

हितायोपदिश्यते||२१||

वेदं चोपदिश्यायुर्वाच्यं; तत्रायुश्चेतनानुवृत्तिर्जीवितमनुबन्धो धारि चेत्येकोऽर्थः||२२||

तदायुर्वेदयतीत्यायुर्वेदः; कथमिति चेत्? उच्यते- स्वलक्षणतः सुखासुखतो हिताहिततः प्रमाणाप्रमाणतश्च; यतश्चायुष्याण्यनायुष्याणि च द्रव्यगुणकर्माणि 

वेदयत्यतोऽप्यायुर्वेदः|
तत्रायुष्याण्यनायुष्याणि च द्रव्यगुणकर्माणि केवलेनोपदेक्ष्यन्ते तन्त्रेण||२३||

तत्रायुरुक्तं स्वलक्षणतो यथावदिहैव पूर्वाध्याये च|
तत्र शारीरमानसाभ्यां रोगाभ्यामनभिद्रुतस्य विशेषेण यौवनवतः समर्थानुगतबलवीर्ययशःपौरुषपराक्रमस्य 

ज्ञानविज्ञानेन्द्रियेन्द्रियार्थबलसमुदये वर्तमानस्य परमर्द्धिरुचिरविविधोपभोगस्य समृद्धसर्वारम्भस्य यथेष्टविचारिणः

 सुखमायुरुच्यते; असुखमतो विपर्ययेण; हितैषिणः पुनर्भूतानां परस्वादुपरतस्य सत्यवादिनः शमपरस्य 

परीक्ष्यकारिणोऽप्रमत्तस्य त्रिवर्गं परस्परेणानुपहतमुपसेवमानस्य पूजार्हसम्पूजकस्य ज्ञानविज्ञानोपशमशीलस्य

 वृद्धोपसेविनः सुनियतरागरोषेर्ष्यामदमानवेगस्य सततं विविधप्रदानपरस्य तपोज्ञानप्रशमनित्यस्याध्यात्मविदस्तत्परस्य 

लोकमिमं चामुं चावेक्षमाणस्य स्मृतिमतिमतो हितमायुरुच्यते; अहितमतो विपर्ययेण||२४||

प्रमाणमायुषस्त्वर्थेन्द्रियमनोबुद्धिचेष्टादीनां विकृतिलक्षणैरुपलभ्यतेऽनिमित्तैः, अयमस्मात् क्षणान्मुहूर्ताद्दिवसात्

 त्रिपञ्चसप्तदशद्वादशाहात् पक्षान्मासात् षण्मासात् संवत्सराद्वा स्वभावमापत्स्यत इति; तत्र स्वभावः 

प्रवृत्तेरुपरमो मरणमनित्यता निरोध इत्येकोऽर्थः; इत्यायुषः प्रमाणम्; अतो विपरीतमप्रमाणमरिष्टाधिकारे; 

देहप्रकृतिलक्षणमधिकृत्य चोपदिष्टमायुषः प्रमाणमायुर्वेदे ||२५||
प्रयोजनं चास्य स्वस्थस्य स्वास्थ्यरक्षणमातुरस्य विकारप्रशमनं च||२६||

सोऽयमायुर्वेदः शाश्वतो निर्दिश्यते, अनादित्वात्, स्वभावसंसिद्धलक्षणत्वात्, भावस्वभावनित्यत्वाच्च|
न हि नाभूत्  कदाचिदायुषः सन्तानो बुद्धिसन्तानो वा, शाश्वतश्चायुषो वेदिता, अनादि च सुखदुःखं 

सद्रव्यहेतुलक्षणमपरापरयोगात्|
एष चार्थसङ्ग्रहो विभाव्यते आयुर्वेदलक्षणमिति|
गुरुलघुशीतोष्णस्निग्धरूक्षादीनां द्रव्याणां सामान्यविशेषाभ्यां वृद्धिह्रासौ, यथोक्तं- गुरुभिरभ्यस्यमानैर्गुरूणामुपचयो भवत्यपचयो लघूनां, एवमेवेतरेषामिति, एष भावस्वभावो नित्यः, स्वलक्षणं 

च द्रव्याणां पृथिव्यादीनां; सन्ति तु द्रव्याणि गुणाश्च नित्यानित्याः|
न ह्यायुर्वेदस्याभूत्वोत्पत्तिरुपलभ्यते, अन्यत्रावबोधोपदेशाभ्याम्; एतद्वै द्वयमधिकृत्योत्पत्तिमुपदिशन्त्येके|
स्वाभाविकं चास्य लक्षणमकृतकं, यदुक्तमिहाद्येऽध्याये च; यथा- अग्नेरौष्ण्यम्, अपां द्रवत्वम्|
भावस्वभावनित्यत्वमपि चास्य, यथोक्तं- गुरुभिरभ्यस्यमानैर्गुरूणामुपचयो भवत्यपचयो लघूनामिति||२७||

तस्यायुर्वेदस्याङ्गान्यष्टौ; तद्यथा- कायचिकित्सा, शालाक्यं, शल्यापहर्तृकं, विषगरवैरोधिकप्रशमनं, भूतविद्या, कौमारभृत्यकं, रसायनं, 

वाजीकरणमिति||२८||

स चाध्येतव्यो ब्राह्मणराजन्यवैश्यैः|
तत्रानुग्रहार्थं प्राणिनां ब्राह्मणैः, आरक्षार्थं राजन्यैः, वृत्त्यर्थं वैश्यैः; सामान्यतो वा धर्मार्थकामपरिग्रहार्थं सर्वैः|
तत्र यदध्यात्मविदां धर्मपथस्थानां धर्मप्रकाशकानां वा मातृपितृभ्रातृबन्धुगुरुजनस्य वा विकारप्रशमने प्रयत्नवान् 

भवति, यच्चायुर्वेदोक्तमध्यात्ममनुध्यायति वेदयत्यनुविधीयते वा, सोऽस्य परो धर्मः; या पुनरीश्वराणां वसुमतां वा 

सकाशात् सुखोपहारनिमित्ता भवत्यर्थावाप्तिरारक्षणं च, या च स्वपरिगृहीतानां प्राणिनामातुर्यादारक्षा, सोऽस्यार्थः; 

यत् पुनरस्य विद्वद्ग्रहणयशः शरण्यत्वं च, या च सम्मानशुश्रूषा, यच्चेष्टानां विषयाणामारोग्यमाधत्ते सोऽस्य कामः|
इति यथाप्रश्नमुक्तमशेषेण||२९||

अथ भिषगादित एव भिषजा प्रष्टव्योऽष्टविधं भवति- तन्त्रं, तन्त्रार्थान्, स्थानं, स्थानार्थान्, अध्यायम्, अध्यायार्थान्, प्रश्नं, प्रश्नार्थांश्चेति; पृष्टेन चैतद्वक्तव्यमशेषेण 

वाक्यशो वाक्यार्थशोऽर्थावयवशश्चेति ||३०||

तत्रायुर्वेदः शाखा विद्या सूत्रं ज्ञानं शास्त्रं लक्षणं तन्त्रमित्यनर्थान्तरम् ||३१||
तन्त्रार्थः पुनः स्वलक्षणैरुपदिष्टः|
स चार्थः प्रकरणैर्विभाव्यमानो भूय एव शरीरवृत्तिहेतुव्याधिकर्मकार्यकालकर्तृकरणविधिविनिश्चयाद्दशप्रकरणः, 

तानि च प्रकरणानि केवलेनोपदेक्ष्यन्ते तन्त्रेण||३२||

तन्त्रस्यास्याष्टौ स्थानानि; तद्यथा- श्लोकनिदानविमानशारीरेन्द्रियचिकित्सितकल्पसिद्धिस्थानानि|
तत्र त्रिंशदध्यायकं श्लोकस्थानम्, अष्टाष्टाध्यायकानि निदानविमानशारीरस्थानानि, द्वादशकमिन्द्रियाणां, 

त्रिंशकं चिकित्सितानां, द्वादशके कल्पसिद्धिस्थाने भवतः||३३||

भवति चात्र-

द्वे त्रिंशके द्वादशकं त्रयं च त्रीण्यष्टकान्येषु समाप्तिरुक्ता|
श्लोकौषधारिष्टविकल्पसिद्धिनिदानमानाश्रयसञ्ज्ञकेषु||३४||

स्वे स्वे स्थाने यथास्वं च स्थानार्थ उपदेक्ष्यते|
सविंशमध्यायशतं शृणु नामक्रमागतम्||३५||
दीर्घञ्जीवोऽप्यपामार्गतण्डुलारग्वधादिकौ|
षड्विरेकाश्रयश्चेति चतुष्को भेषजाश्रयः||३६||
मात्रातस्याशितीयौ च नवेगान्धारणं तथा|
इन्द्रियोपक्रमश्चेति चत्वारः स्वास्थ्यवृत्तिकाः ||३७||
खुड्डाकश्च चतुष्पादो महांस्तिस्रैषणस्तथा|
सह वातकलाख्येन विद्यान्नैर्देशिकान् बुधः||३८||
स्नेहनस्वेदनाध्यायावुभौ यश्चोपकल्पनः|
चिकित्साप्राभृतश्चैव सर्व एव प्रकल्पनाः||३९||
कियन्तःशिरसीयश्च त्रिशोफाष्टोदरादिकौ|
रोगाध्यायो महांश्चैव रोगाध्यायचतुष्टयम्||४०||
अष्टौनिन्दितसङ्ख्यातस्तथा लङ्घनतर्पणे|
विधिशोणितिकश्चैव व्याख्यातास्तत्र योजनाः||४१||
यज्जःपुरुषसङ्ख्यातो भद्रकाप्यान्नपानिकौ|
विविधाशितपीतीयश्चत्वारोऽन्नविनिश्चयाः||४२||
दशप्राणायतनिकस्तथाऽर्थेदशमूलिकः|
द्वावेतौ प्राणदेहार्थौ प्रोक्तौ वैद्यगुणाश्रयौ||४३||
औषधस्वस्थनिर्देशकल्पनारोगयोजनाः|
चतुष्काः षट् क्रमेणोक्ताः सप्तमश्चान्नपानिकः||४४||
द्वौ चान्त्यौ सङ्ग्रहाध्यायाविति त्रिंशकमर्थवत्|
श्लोकस्थानं समुद्दिष्टं तन्त्रस्यास्य शिरः शुभम् ||४५||
चतुष्काणां महार्थानां स्थानेऽस्मिन् सङ्ग्रहः कृतः|
श्लोकार्थः सङ्ग्रहार्थश्च श्लोकस्थानमतः स्मृतम्||४६||
ज्वराणां रक्तपित्तस्य गुल्मानां मेहकुष्ठयोः|
शोषोन्मादनिदाने च स्यादपस्मारिणां च यत्||४७||
इत्यध्यायाष्टकमिदं निदानस्थानमुच्यते|
रसेषु त्रिविधे कुक्षौ ध्वंसे जनपदस्य च||४८||
त्रिविधे रोगविज्ञाने स्रोतःस्वपि च वर्तने|
रोगानीके व्याधिरूपे रोगाणां च भिषग्जिते||४९||
अष्टौ विमानान्युक्तानि मानार्थानि महर्षिणा|
कतिधापुरुषीयं च गोत्रेणातुल्यमेव च||५०||
खुड्डिका महती चैव गर्भावक्रान्तिरुच्यते|
पुरुषस्य शरीरस्य विचयौ द्वौ विनिश्चितौ||५१||
शरीरसङ्ख्या सूत्रं च जातेरष्टममुच्यते |
इत्युद्दिष्टानि मुनिना शारीराण्यत्रिसूनुना||५२||
वर्णस्वरीयः पुष्पाख्यस्तृतीयः परिमर्शनः|
चतुर्थ इन्द्रियानीकः पञ्चमः पूर्वरूपिकः||५३||
कतमानिशरीरीयः पन्नरूपोऽप्यवाक्शिराः|
यस्यश्यावनिमित्तश्च सद्योमरण एव च||५४||
अणुज्योतिरिति ख्यातस्तथा गोमयचूर्णवान्|
द्वादशाध्यायकं स्थानमिन्द्रियाणामिति स्मृतम् ||५५||
अभयामलकीयं च प्राणकामीयमेव च|
करप्रचितकं वेदसमुत्थानं रसायनम्||५६||
संयोगशरमूलीयमासिक्तक्षीरकं तथा|
माषपर्णभृतीयं च पुमाञ्जातबलादिकम्||५७||
चतुष्कद्वयमप्येतदध्यायद्वयमुच्यते|
रसायनमिति ज्ञेयं वाजीकरणमेव च||५८||
ज्वराणां रक्तपित्तस्य गुल्मानां मेहकुष्ठयोः|
शोषोन्मादेऽप्यपस्मारे क्षतशोथोदरार्शसाम्||५९||
ग्रहणीपाण्डुरोगाणां श्वासकासातिसारिणाम्|
छर्दिवीसर्पतृष्णानां विषमद्यविकारयोः||६०||
द्विव्रणीयं त्रिमर्मीयमूरुस्तम्भिकमेव च|
वातरोगे वातरक्ते योनिव्यापत्सु चैव यत्||६१||
त्रिंशच्चिकित्सितान्युक्तान्यतः कल्पान् प्रचक्ष्महे|
फलजीमूतकेक्ष्वाकुकल्पो धामार्गवस्य च||६२||
पञ्चमो वत्सकस्योक्तः षष्ठश्च कृतवेधने|
श्यामात्रिवृतयोः कल्पस्तथैव चतुरङ्गुले||६३||
तिल्वकस्य सुधायाश्च सप्तलाशङ्खिनीषु च|
दन्तीद्रवन्त्योः कल्पश्च द्वादशोऽयं समाप्यते||६४||
कल्पना पञ्चकर्माख्या बस्तिसूत्री तथैव च|
स्नेहव्यापदिकी सिद्धिर्नेत्रव्यापदिकी तथा||६५||
सिद्धिः शोधनयोश्चैव बस्तिसिद्धिस्तथैव च|
प्रासृती मर्मसङ्ख्याता सिद्धिर्बस्त्याश्रया च या||६६||
फलमात्रा तथा सिद्धिः सिद्धिश्चोत्तरसञ्ज्ञिता|
सिद्धयो द्वादशैवैतास्तन्त्रं चासु समाप्यते||६७||
स्वे स्वे स्थाने तथाऽध्याये चाध्यायार्थः प्रवक्ष्यते|
तं ब्रूयात् सर्वतः सर्वं यथास्वं ह्यर्थसङ्ग्रहात्||६८||

पृच्छा तन्त्राद्यथाम्नायं विधिना प्रश्न उच्यते|
प्रश्नार्थो युक्तिमांस्तस्य तन्त्रेणैवार्थनिश्चयः ||६९||
निरुक्तं तन्त्रणात्तन्त्रं, स्थानमर्थप्रतिष्ठया|
अधिकृत्यार्थमध्यायनामसञ्ज्ञा प्रतिष्ठिता ||७०||
इति सर्वं यथाप्रश्नमष्टकं सम्प्रकाशितम्|
कार्त्स्न्येन चोक्तस्तन्त्रस्य सङ्ग्रहः सुविनिश्चितः||७१||

सन्ति पाल्लविकोत्पाताः सङ्क्षोभं जनयन्ति ये|
वर्तकानामिवोत्पाताः सहसैवाविभाविताः||७२||
तस्मात्तान्  पूर्वसञ्जल्पे सर्वत्राष्टकमादिशेत्|
परावरपरीक्षार्थं तत्र शास्त्रविदां बलम्||७३||
शब्दमात्रेण तन्त्रस्य केवलस्यैकदेशिकाः|
भ्रमन्त्यल्पबलास्तन्त्रे ज्याशब्देनेव वर्तकाः||७४||
पशुः पशूनां दौर्बल्यात् कश्चिन्मध्ये वृकायते|
स सत्यं वृकमासाद्य प्रकृतिं भजते पशुः||७५||
तद्वदज्ञोऽज्ञमध्यस्थः कश्चिन्मौखर्यसाधनः|
स्थापयत्याप्तमात्मानमाप्तं त्वासाद्य भिद्यते||७६||
बभ्रुर्गूढ इवोर्णाभिरबुद्धिरबहुश्रुतः|
किं वै वक्ष्यति सञ्जल्पे कुण्डभेदी जडो यथा||७७||
सद्वृत्तैर्न विगृह्णीयाद्भिषगल्पश्रुतैरपि|
हन्यात् प्रश्नाष्टकेनादावितरांस्त्वाप्तमानिनः ||७८||
दम्भिनो मुखरा ह्यज्ञाः प्रभूताबद्धभाषिणः|
प्रायः, प्रायेण सुमुखाः सन्तो युक्ताल्पभाषिणः||७९||
तत्त्वज्ञानप्रकाशार्थमहङ्कारमनाश्रितः|
स्वल्पाधाराज्ञमुखरान्मर्षयेन्न विवादिनः||८०||
परो भूतेष्वनुक्रोशस्तत्त्वज्ञान(ने)परा दया|
येषां तेषामसद्वादनिग्रहे निरता मतिः||८१||

असत्पक्षाक्षणित्वार्तिदम्भपारुष्यसाधनाः|
भवन्त्यनाप्ताः स्वे तन्त्रे प्रायः परविकत्थकाः||८२||
तान् कालपाशसदृशान् वर्जयेच्छास्त्रदूषकान्|
प्रशमज्ञानविज्ञानपूर्णाः सेव्या भिषक्तमाः||८३||

समग्रं दुःखमायत्तमविज्ञाने द्वयाश्रयम्|
सुखं समग्रं विज्ञाने विमले च प्रतिष्ठितम्||८४||
इदमेवमुदारार्थमज्ञानां न प्रकाशकम्|
शास्त्रं दृष्टिप्रणष्टानां यथैवादित्यमण्डलम्||८५||

तत्र श्लोकाः-

अर्थे दशमहामूलाः सञ्ज्ञा चासां यथा कृता|
अयनान्ताः षडग्र्याश्च रूपं वेदविदां च यत्||८६||
सप्तकश्चाष्टकश्चैव परिप्रश्नाः सनिर्णयाः|
यथा वाच्यं यदर्थं च षड्विधाश्चैकदेशिकाः||८७||
अर्थेदशमहामूले सर्वमेतत् प्रकाशितम्|
सङ्ग्रहश्चायमध्यायस्तन्त्रस्यास्यैव केवलः||८८||
यथा सुमनसां सूत्रं सङ्ग्रहार्थं विधीयते|
सङ्ग्रहार्थं तथाऽर्थानामृषिणा सङ्ग्रहः कृतः||८९||

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थानेऽर्थेदशमहामूलीयो नाम त्रिंशोऽध्यायः||३०||
अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते|
इयताऽवधिना सर्वं सूत्रस्थानं समाप्यते|