Skip to main content

Shree Naval Kishori

श्री गणेश स्तोत्रम्

सुमुखश्च एकदन्तश्च कपिलो गजकर्णकः।
लम्बोदरश्च विकटो विघ्ननाशो विनायकः॥

धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः।
वक्रतुण्डः शूर्पकर्णो हेरम्बः स्कन्दपूर्वजः॥

षोडशैतानि नामानि यः पठेच्छृणुयादपि।
विद्यारंभे विवाहे च प्रवेशे निर्गमे तथा॥

संग्रामे संकटे चैव विघ्नस्तस्य न जायते।
॥ इति श्रीनारदपुराणे संकटनाशनं श्रीगणेशस्तोत्रं सम्पूर्णम् ॥