श्री गणेश स्तोत्रम्
सुमुखश्च एकदन्तश्च कपिलो गजकर्णकः।
लम्बोदरश्च विकटो विघ्ननाशो विनायकः॥
धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः।
वक्रतुण्डः शूर्पकर्णो हेरम्बः स्कन्दपूर्वजः॥
षोडशैतानि नामानि यः पठेच्छृणुयादपि।
विद्यारंभे विवाहे च प्रवेशे निर्गमे तथा॥
संग्रामे संकटे चैव विघ्नस्तस्य न जायते।
॥ इति श्रीनारदपुराणे संकटनाशनं श्रीगणेशस्तोत्रं सम्पूर्णम् ॥