सूत्रस्थानम् - ३. आरग्वधीयोऽध्यायः
अथात आरग्वधीयमध्यायं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
आरग्वधः सैडगजः करञ्जो वासा गुडूची मदनं हरिद्रे|
श्र्याह्वः सुराह्वः खदिरो धवश्च निम्बो विडङ्गं करवीरकत्वक्||३||
ग्रन्थिश्च भौर्जो लशुनः शिरीषः सलोमशो गुग्गुलुकृष्णगन्धे|
फणिज्झको वत्सकसप्तपर्णौ पीलूनि कुष्ठं सुमनःप्रवालाः||४||
वचा हरेणुस्त्रिवृता निकुम्भो भल्लातकं गैरिकमञ्जनं च|
मनःशिलाले गृहधूम एला काशीसलोध्रार्जुनमुस्तसर्जाः||५||
इत्यर्धरूपैर्विहिताः षडेते गोपित्तपीताः पुनरेव पिष्टाः|
सिद्धाः परं सर्षपतैलयुक्ताश्चूर्णप्रदेहा भिषजा प्रयोज्याः||६||
कुष्ठानि कृच्छ्राणि नवं किलासं सुरेशलुप्तं किटिभं सदद्रु|
भगन्दरार्शांस्यपचीं सपामां हन्युः प्रयुक्तास्त्वचिरान्नराणाम्||७||
कुष्ठं हरिद्रे सुरसं पटोलं निम्बाश्वगन्धे सुरदारुशिग्रू|
ससर्षपं तुम्बुरुधान्यवन्यं चण्डां च चूर्णानि समानि कुर्यात्||८||
तैस्तक्रपिष्टैः प्रथमं शरीरं तैलाक्तमुद्वर्तयितुं यतेत|
तेनास्यकण्डूः पिडकाः सकोठाः कुष्ठानि शोफाश्च शमं व्रजन्ति||९||
कुष्ठामृतासङ्गकटङ्कटेरीकासीसकम्पिल्लकमुस्तलोध्राः|
सौगन्धिकं सर्जरसो विडङ्गं मनःशिलाले करवीरकत्वक्||१०||
तैलाक्तगात्रस्य कृतानि चूर्णान्येतानि दद्यादवचूर्णनार्थम्|
दद्रूः सकण्डूः किटिभानि पामा विचर्चिका चैव तथैति शान्तिम्||११||
मनःशिलाले मरिचानि तैलमार्कं पयः कुष्ठहरः प्रदेहः|
तुत्थं विडङ्गं मरिचानि कुष्ठं लोध्रं च तद्वत् समनःशिलं स्यात्||१२||
रसाञ्जनं सप्रपुन्नाडबीजं युक्तं कपित्थस्य रसेन लेपः|
करञ्जबीजैडगजं सकुष्ठं गोमूत्रपिष्टं च परः प्रदेहः||१३||
उभे हरिद्रे कुटजस्य बीजं करञ्जबीजं सुमनःप्रवालान्|
त्वचं समध्यां हयमारकस्य लेपं तिलक्षारयुतं विदध्यात्||१४||
मनःशिला त्वक् कुटजात् सकुष्ठात् सलोमशः सैडगजः करञ्जः|
ग्रन्थिश्च भौर्जः करवीरमूलं चूर्णानि साध्यानि तुषोदकेन||१५||
पलाशनिर्दाहरसेन चापि कर्षोद्धृतान्याढकसम्मितेन|
दर्वीप्रलेपं प्रवदन्ति लेपमेतं परं कुष्ठनिसूदनाय||१६||
पर्णानि पिष्ट्वा चतुरङ्गुलस्य तक्रेण पर्णान्यथ काकमाच्याः|
तैलाक्तगात्रस्य नरस्य कुष्ठान्युद्वर्तयेदश्वहनच्छदैश्च||१७||
कोलं कुलत्थाः सुरदारुरास्नामाषातसीतैलफलानि कुष्ठम्|
वचा शताह्वा यवचूर्णमम्लमुष्णानि वातामयिनां प्रदेहः||१८||
आनूपमत्स्यामिषवेसवारैरुष्णैः प्रदेहः पवनापहः स्यात्|
स्नेहैश्चतुर्भिर्दशमूलमिश्रैर्गन्धौषधैश्चानिलहः प्रदेहः||१९||
तक्रेण युक्तं यवचूर्णमुष्णं सक्षारमर्तिं जठरे निहन्यात्|
कुष्ठं शताह्वां सवचां यवानां चूर्णं सतैलाम्लमुशन्ति वाते||२०||
उभे शताह्वे मधुकं मधूकं बलां प्रियालं च कशेरुकं च|
घृतं विदारीं च सितोपलां च कुर्यात् प्रदेहं पवने सरक्ते||२१||
रास्ना गुडूची मधुकं बले द्वे सजीवकं सर्षभकं पयश्च|
घृतं च सिद्धं मधुशेषयुक्तं रक्तानिलार्तिं प्रणुदेत् प्रदेहः||२२||
वाते सरक्ते सघृतं प्रदेहो गोधूमचूर्णं छगलीपयश्च|२३|
नतोत्पलं चन्दनकुष्ठयुक्तं शिरोरुजायां सघृतं प्रदेहः||२३||
प्रपौण्डरीकं सुरदारु कुष्ठं यष्ट्याह्वमेला कमलोत्पले च|
शिरोरुजायां सघृतः प्रदेहो लोहैरकापद्मकचोरकैश्च||२४||
रास्ना हरिद्रे नलदं शताह्वे द्वे देवदारूणि सितोपला च|
जीवन्तिमूलं सघृतं सतैलमालेपनं पार्श्वरुजासु कोष्णम्||२५||
शैवालपद्मोत्पलवेत्रतुङ्गप्रपौण्डरीकाण्यमृणाललोध्रम्|
प्रियङ्गुकालेयकचन्दनानि निर्वापणः स्यात् सघृतः प्रदेहः||२६||
सितालतावेतसपद्मकानि यष्ट्याह्वमैन्द्री नलिनानि दूर्वा|
यवासमूलं कुशकाशयोश्च निर्वापणः स्याज्जलमेरका च||२७||
शैलेयमेलागुरुणी सकुष्ठे चण्डा नतं त्वक् सुरदारु रास्ना|
शीतं निहन्यादचिरात् प्रदेहो विषं शिरीषस्तु ससिन्धुवारः||२८||
शिरीषलामज्जकहेमलोध्रैस्त्वग्दोषसंस्वेदहरः प्रघर्षः|
पत्राम्बुलोध्राभयचन्दनानि शरीरदौर्गन्ध्यहरः प्रदेहः||२९||
तत्र श्लोकः-
इहात्रिजः सिद्धतमानुवाच द्वात्रिंशतं सिद्धमहर्षिपूज्यः|
चूर्णप्रदेहान् विविधामयघ्नानारग्वधीये जगतो हितार्थम्||३०||
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने आरग्वधीयो नाम तृतीयोऽध्यायः||३||