सूत्रस्थानम् - ९. खुड्डाकचतुष्पादोऽध्यायः
अथातः खुड्डाकचतुष्पादमध्यायं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
भिषग्द्रव्याण्युपस्थाता रोगी पादचतुष्टयम्|
गुणवत् कारणं ज्ञेयं विकारव्युपशान्तये||३||
विकारो धातुवैषम्यं, साम्यं प्रकृतिरुच्यते|
सुखसञ्ज्ञकमारोग्यं, विकारो दुःखमेव च||४||
चतुर्णां भिषगादीनां शस्तानां धातुवैकृते|
प्रवृत्तिर्धातुसाम्यार्था चिकित्सेत्यभिधीयते||५||
श्रुते पर्यवदातत्वं बहुशो दृष्टकर्मता|
दाक्ष्यं शौचमिति ज्ञेयं वैद्ये गुणचतुष्टयम्||६||
बहुता तत्रयोग्यत्वमनेकविधकल्पना|
सम्पच्चेति चतुष्कोऽयं द्रव्याणां गुण उच्यते||७||
उपचारज्ञता दाक्ष्यमनुरागश्च भर्तरि|
शौचं चेति चतुष्कोऽयं गुणः परिचरे जने||८||
स्मृतिर्निर्देशकारित्वमभीरुत्वमथापि च|
ज्ञापकत्वं च रोगाणामातुरस्य गुणाः स्मृताः||९||
कारणं षोडशगुणं सिद्धौ पादचतुष्टयम्|
विज्ञाता शासिता योक्ता प्रधानं भिषगत्र तु||१०||
पक्तौ हि कारणं पक्तुर्यथा पात्रेन्धनानलाः|
विजेतुर्विजये भूमिश्चमूः प्रहरणानि च||११||
आतुराद्यास्तथा सिद्धौ पादाः कारणसञ्ज्ञिताः|
वैद्यस्यातश्चिकित्सायां प्रधानं कारणं भिषक्||१२||
मृद्दण्डचक्रसूत्राद्याः कुम्भकारादृते यथा|
नावहन्ति गुणं वैद्यादृते पादत्रयं तथा||१३||
गन्धर्वपुरवन्नाशं यद्विकाराः सुदारुणाः|
यान्ति यच्चेतरे वृद्धिमाशूपायप्रतीक्षिणः||१४||
सति पादत्रये ज्ञाज्ञौ भिषजावत्र कारणम्|१५|
वरमात्मा हुतोऽज्ञेन न चिकित्सा प्रवर्तिता||१५||
पाणिचाराद्यथाऽचक्षुरज्ञानाद्भीतभीतवत्|
नौर्मारुतवशेवाज्ञो भिषक् चरति कर्मसु||१६||
यदृच्छया समापन्नमुत्तार्य नियतायुषम्|
भिषङ्मानी निहन्त्याशु शतान्यनियतायुषाम्||१७||
तस्माच्छास्त्रेऽर्थविज्ञाने प्रवृत्तौ कर्मदर्शने|
भिषक् चतुष्टये युक्तः प्राणाभिसर उच्यते||१८||
हेतौ लिङ्गे प्रशमने रोगाणामपुनर्भवे|
ज्ञानं चतुर्विधं यस्य स राजार्हो भिषक्तमः||१९||
शस्त्रं शास्त्राणि सलिलं गुणदोषप्रवृत्तये|
पात्रापेक्षीण्यतः प्रज्ञां चिकित्सार्थं विशोधयेत्||२०||
विद्या वितर्को विज्ञानं स्मृतिस्तत्परता क्रिया|
यस्यैते षड्गुणास्तस्य न साध्यमतिवर्तते||२१||
विद्या मतिः कर्मदृष्टिरभ्यासः सिद्धिराश्रयः|
वैद्यशब्दाभिनिष्पत्तावलमेकैकमप्यतः||२२||
यस्य त्वेते गुणाः सर्वे सन्ति विद्यादयः शुभाः|
स वैद्यशब्दं सद्भूतमर्हन् प्राणिसुखप्रदः||२३||
शास्त्रं ज्योतिः प्रकाशार्थं दर्शनं बुद्धिरात्मनः|
ताभ्यां भिषक् सुयुक्ताभ्यां चिकित्सन्नापराध्यति||२४||
चिकित्सिते त्रयः पादा यस्माद्वैद्यव्यपाश्रयः|
तस्मात् प्रयत्नमातिष्ठेद्भिषक् स्वगुणसम्पदि||२५||
मैत्री कारुण्यमार्तेषु शक्ये प्रीतिरुपेक्षणम्|
प्रकृतिस्थेषु भूतेषु वैद्यवृत्तिश्चतुर्विधेति||२६||
तत्र श्लोकौ-
भिषग्जितं चतुष्पादं पादः पादश्चतुर्गुणः|
भिषक् प्रधानं पादेभ्यो यस्माद्वैद्यस्तु यद्गुणः||२७||
ज्ञानानि बुद्धिर्ब्राह्मी च भिषजां या चतुर्विधा|
सर्वमेतच्चतुष्पादे खुड्डाके सम्प्रकाशितमिति||२८||
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने खुड्डाकचतुष्पादो नाम नवमोऽध्यायः||९||