Shree Naval Kishori

सूत्रस्थानम् - १३. स्नेहाध्यायः

अथातः स्नेहाध्यायं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||

साङ्ख्यैः सङ्ख्यातसङ्ख्येयैः सहासीनं पुनर्वसुम्|
जगद्धितार्थं पप्रच्छ वह्निवेशः स्वसंशयम्||३||

किंयोनयः कति स्नेहाः के च स्नेहगुणाः पृथक्|
कालानुपाने के कस्य कति काश्च विचारणाः||४||
कति मात्राः कथम्मानाः का च केषूपदिश्यते|
कश्च केभ्यो हितः स्नेहः प्रकर्षः स्नेहने च कः||५||
स्नेह्याः के के न च स्निग्धास्निग्धातिस्निग्धलक्षणम्|
किं पानात् प्रथमं पीते जीर्णे किञ्च हिताहितम्||६||
के मृदुक्रूरकोष्ठाः का व्यापदः सिद्धयश्च काः|
अच्छे संशोधने चैव स्नेहे का वृत्तिरिष्यते||७||
विचारणाः केषु योज्या विधिना केन तत् प्रभो!|
स्नेहस्यामितविज्ञान ज्ञानमिच्छामि वेदितुम्||८||

अथ तत्संशयच्छेत्ता प्रत्युवाच पुनर्वसुः|
स्नेहानां द्विविधा सौम्य योनिः स्थावरजङ्गमा||९||
तिलः प्रियालाभिषुकौ बिभीतकश्चित्राभयैरण्डमधूकसर्षपाः|
कुसुम्भबिल्वारुकमूलकातसीनिकोचकाक्षोडकरञ्जशिग्रुकाः||१०||
स्नेहाशयाः स्थावरसञ्ज्ञितास्तथा स्युर्जङ्गमा मत्स्यमृगाः सपक्षिणः|
तेषां दधिक्षीरघृतामिषं वसा स्नेहेषु मज्जा च तथोपदिश्यते||११||

सर्वेषां तैलजातानां तिलतैलं विशिष्यते|
बलार्थे स्नेहने चाग्र्यमैरण्डं तु विरेचने||१२||
(कटूष्णं तैलमैरण्डं वातश्लेष्महरं गुरु |
कषायस्वादुतिक्तैश्च योजितं पित्तहन्त्रपि ||१||)|
सर्पिस्तैलं वसा मज्जा सर्वस्नेहोत्तमा मताः|
एषु चैवोत्तमं सर्पिः संस्कारस्यानुवर्तनात्||१३||
घृतं पित्तानिलहरं रसशुक्रौजसां हितम्|
निर्वापणं मृदुकरं स्वरवर्णप्रसादनम्||१४||
मारुतघ्नं न च श्लेष्मवर्धनं बलवर्धनम्|
त्वच्यमुष्णं स्थिरकरं तैलं योनिविशोधनम्||१५||
विद्धभग्नाहतभ्रष्टयोनिकर्णशिरोरुजि|
पौरुषोपचये स्नेहे व्यायामे चेष्यते वसा||१६||
बलशुक्ररसश्लेष्ममेदोमज्जविवर्धनः|
मज्जा विशेषतोऽस्थ्नां च बलकृत् स्नेहने हितः||१७||

सर्पिः शरदि पातव्यं वसा मज्जा च माधवे|
तैलं प्रावृषि नात्युष्णशीते स्नेहं पिबेन्नरः||१८||

वातपित्ताधिको रात्रावुष्णे चापि पिबेन्नरः|
श्लेष्माधिको दिवा शीते पिबेच्चामलभास्करे||१९||

अत्युष्णे वा दिवा पीतो वातपित्ताधिकेन वा|
मूर्च्छां पिपासामुन्मादं कामलां वा समीरयेत्||२०||
शीते रात्रौ पिबन् स्नेहं नरः श्लेष्माधिकोऽपि वा|
आनाहमरुचिं शूलं पाण्डुतां वा समृच्छति||२१||

जलमुष्णं घृते पेयं यूषस्तैलेऽनु शस्यते|
वसामज्ज्ञोस्तु मण्डः स्यात् सर्वेषूष्णमथाम्बु वा||२२||
ओदनश्च विलेपी च रसो मांसं पयो दधि|
यवागूः सूपशाकौ च यूषः काम्बलिकः खडः||२३||
सक्तवस्तिलपिष्टं च मद्यं लेहास्तथैव च|
भक्ष्यमभ्यञ्जनं बस्तिस्तथा चोत्तरबस्तयः||२४||
गण्डूषः कर्णतैलं च नस्तःकर्णाक्षितर्पणम्|
चतुर्विंशतिरित्येताः स्नेहस्य प्रविचारणाः ||२५||

अच्छपेयस्तु यः स्नेहो न तामाहुर्विचारणाम्|
स्नेहस्य स भिषग्दृष्टः कल्पः प्राथमकल्पिकः||२६||

रसैश्चोपहितः स्नेहः समासव्यासयोगिभिः|
षड्भिस्त्रिषष्टिधा सङ्ख्यां प्राप्नोत्येकश्च केवलः||२७||
एवमेताश्चतुःषष्टिः स्नेहानां प्रविचारणा |
ओकर्तुव्याधिपुरुषान् प्रयोज्या जानता भवेत्||२८||

अहोरात्रमहः कृत्स्नमर्धाहं च प्रतीक्षते|
प्रधाना मध्यमा ह्रस्वा स्नेहमात्रा जरां प्रति||२९||
इति तिस्रः समुद्दिष्टा मात्राः स्नेहस्य मानतः|
तासां प्रयोगान् वक्ष्यामि पुरुषं पुरुषं प्रति||३०||
प्रभूतस्नेहनित्या ये क्षुत्पिपासासहा नराः|
पावकश्चोत्तमबलो येषां ये चोत्तमा बले||३१||
गुल्मिनः सर्पदष्टाश्च विसर्पोपहताश्च ये|
उन्मत्ताः कृच्छ्रमूत्राश्च गाढवर्चस एव च||३२||
पिबेयुरुत्तमां मात्रां तस्याः पाने गुणाञ्छृणु|
विकाराञ्छमयत्येषां शीघ्रं सम्यक्प्रयोजिता||३३||
दोषानुकर्षिणी मात्रा सर्वमार्गानुसारिणी|
बल्या पुनर्नवकरी शरीरेन्द्रियचेतसाम्||३४||
अरुष्कस्फोटपिडकाकण्डूपामाभिरर्दिताः|
कुष्ठिनश्च प्रमीढाश्च वातशोणितिकाश्च ये||३५||
नातिबह्वाशिनश्चैव मृदुकोष्ठास्तथैव च|
पिबेयुर्मध्यमां मात्रां मध्यमाश्चापि ये बले||३६||
मात्रैषा मन्दविभ्रंशा न चातिबलहारिणी|
सुखेन च स्नेहयति शोधनार्थे च युज्यते||३७||
ये तु वृद्धाश्च बालाश्च सुकुमाराः सुखोचिताः|
रिक्तकोष्ठत्वमहितं येषां मन्दाग्नयश्च ये||३८||
ज्वरातीसारकासाश्च येषां चिरसमुत्थिताः|
स्नेहमात्रां पिबेयुस्ते ह्रस्वां ये चावरा बले||३९||
परिहारे सुखा चैषा मात्रा स्नेहनबृंहणी|
वृष्या बल्या निराबाधा चिरं चाप्यनुवर्तते||४०||

वातपित्तप्रकृतयो वातपित्तविकारिणः|
चक्षुःकामाः क्षताः क्षीणा वृद्धा बालास्तथाऽबलाः||४१||
आयुःप्रकर्षकामाश्च बलवर्णस्वरार्थिनः|
पुष्टिकामाः प्रजाकामाः सौकुमार्यार्थिनश्च ये||४२||
दीप्त्योजःस्मृतिमेधाग्निबुद्धीन्द्रियबलार्थिनः|
पिबेयुः सर्पिरार्ताश्च दाहशस्त्रविषाग्निभिः||४३||

प्रवृद्धश्लेष्ममेदस्काश्चलस्थूलगलोदराः|
वातव्याधिभिराविष्टा वातप्रकृतयश्च ये||४४||
बलं तनुत्वं लघुतां दृढतां स्थिरगात्रताम्  |
स्निग्धश्लक्ष्णतनुत्वक्तां ये च काङ्क्षन्ति देहिनः||४५||
कृमिकोष्ठाः क्रूरकोष्ठास्तथा नाडीभिरर्दिताः|
पिबेयुः शीतले काले तैलं तैलोचिताश्च ये||४६||

वातातपसहा ये च रूक्षा भाराध्वकर्शिताः|
संशुष्करेतोरुधिरा निष्पीतकफमेदसः||४७||
अस्थिसन्धिसिरास्नायुमर्मकोष्ठमहारुजः|
बलवान्मारुतो येषां खानि चावृत्य तिष्ठति||४८||
महच्चाग्निबलं येषां वसासात्म्याश्च ये नराः|
तेषां स्नेहयितव्यानां वसापानं विधीयते||४९||

दीप्ताग्नयः क्लेशसहा घस्मराः स्नेहसेविनः|
वातार्ताः क्रूरकोष्ठाश्च स्नेह्या मज्जानमाप्नुयुः||५०||
येभ्यो येभ्यो हितो यो यः स्नेहः स परिकीर्तितः|५१|

स्नेहनस्य प्रकर्षौ तु सप्तरात्रत्रिरात्रकौ||५१||
स्वेद्याः शोधयितव्याश्च रूक्षा वातविकारिणः|
व्यायाममद्यस्त्रीनित्याः स्नेह्याः स्युर्ये च चिन्तकाः||५२||
संशोधनादृते येषां रूक्षणं सम्प्रवक्ष्यते|
न तेषां स्नेहनं शस्तमुत्सन्नकफमेदसाम्||५३||
अभिष्यण्णाननगुदा नित्यमन्दाग्नयश्च ये|
तृष्णामूर्च्छापरीताश्च गर्भिण्यस्तालुशोषिणः||५४||
अन्नद्विषश्छर्दयन्तो जठरामगरार्दिताः|
दुर्बलाश्च प्रतान्ताश्च स्नेहग्लाना मदातुराः||५५||
न स्नेह्या वर्तमानेषु न नस्तो बस्तिकर्मसु|
स्नेहपानात् प्रजायन्ते तेषां रोगाः सुदारुणाः||५६||

पुरीषं ग्रथितं रूक्षं वायुरप्रगुणो मृदुः|
पक्ता खरत्वं रौक्ष्यं च गात्रस्यास्निग्धलक्षणम्||५७||
वातानुलोम्यं दीप्तोऽग्निर्वर्चः स्निग्धमसंहतम्|
मार्दवं स्निग्धता चाङ्गे स्निग्धानामुपजायते||५८||
पाण्डुता गौरवं जाड्यं पुरीषस्याविपक्वता|
तन्द्रीररुचिरुत्केशः स्यादतिस्निग्धलक्षणम्||५९||

द्रवोष्णमनभिष्यन्दि भोज्यमन्नं प्रमाणतः|
नातिस्निग्धमसङ्कीर्णं श्वः स्नेहं पातुमिच्छता||६०||
पिबेत् संशमनं स्नेहमन्नकाले प्रकाङ्क्षितः|
शुद्ध्यर्थं पुनराहारे नैशे जीर्णे पिबेन्नरः||६१||

उष्णोदकोपचारी स्याद्ब्रह्मचारी क्षपाशयः |
शकृन्मूत्रानिलोद्गारानुदीर्णांश्च न धारयेत्||६२||
व्यायाममुच्चैर्वचनं क्रोधशोकौ हिमातपौ|
वर्जयेदप्रवातं च सेवेत शयनासनम्||६३||
स्नेहं पीत्वा नरः स्नेहं प्रतिभुञ्जान एव च|
स्नेहमिथ्योपचाराद्धि जायन्ते दारुणा गदाः||६४||

मृदुकोष्ठस्त्रिरात्रेण स्निह्यत्यच्छोपसेवया|
स्निह्यति क्रूरक्रोष्ठस्तु सप्तरात्रेण मानवः||६५||
गुडमिक्षुरसं मस्तु क्षीरमुल्लोडितं दधि|
पायसं कृशरां सर्पिः काश्मर्यत्रिफलारसम्||६६||
द्राक्षारसं पीलुरसं जलमुष्णमथापि वा|
मद्यं वा तरुणं पीत्वा मृदुकोष्ठो विरिच्यते||६७||
विरेचयन्ति नैतानि क्रूरकोष्ठं कदाचन|
भवति क्रूरकोष्ठस्य ग्रहण्यत्युल्बणानिला||६८||
उदीर्णपित्ताऽल्पकफा ग्रहणी मन्दमारुता|
मृदुकोष्ठस्य तस्मात् स सुविरेच्यो नरः स्मृतः||६९||
उदीर्णपित्ता ग्रहणी यस्य चाग्निबलं महत्|
भस्मीभवति तस्याशु स्नेहः पीतोऽग्नितेजसा||७०||
स जग्ध्वा स्नेहमात्रां तामोजः प्रक्षारयन् बली|
स्नेहाग्निरुत्तमां तृष्णां सोपसर्गामुदीरयेत्||७१||
नालं स्नेहसमृद्धस्य शमायान्नं सुगुर्वपि|
स चेत् सुशीतं सलिलं नासादयति दह्यते|
यथैवाशीविषः कक्षमध्यगः स्वविषाग्निना||७२||
अजीर्णे यदि तु स्नेहे तृष्णा स्याच्छर्दयेद्भिषक्|
शीतोदकं पुनः पीत्वा भुक्त्वा रूक्षान्नमुल्लिखेत्||७३||
न सर्पिः केवलं पित्ते पेयं सामे विशेषतः|
सर्वं ह्यनुरजेद्देहं हत्वा सञ्ज्ञां च मारयेत्||७४||
तन्द्रा सोत्क्लेश आनाहो ज्वरः स्तम्भो विसञ्ज्ञता|
कुष्ठानि कण्डूः पाण्डुत्वं शोफार्शांस्यरुचिस्तृषा||७५||
जठरं ग्रहणीदोषाः स्तैमित्यं वाक्यनिग्रहः|
शूलमामप्रदोषाश्च जायन्ते स्नेहविभ्रमात्||७६||
तत्राप्युल्लेखनं शस्तं स्वेदः कालप्रतीक्षणम्|
प्रति प्रति व्याधिबलं बुद्ध्वा स्रंसनमेव च||७७||
तक्रारिष्टप्रयोगश्च रूक्षपानान्नसेवनम्|
मूत्राणां त्रिफलायाश्च स्नेहव्यापत्तिभेषजम्||७८||

अकाले चाहितश्चैव मात्रया न च योजितः|
स्नेहो मिथ्योपचाराच्च व्यापद्येतातिसेवितः||७९||
स्नेहात् प्रस्कन्दनं जन्तुस्त्रिरात्रोपरतः पिबेत्|
स्नेहवद्द्रवमुष्णं च त्र्यहं भुक्त्वा रसौदनम्||८०||

एकाहोपरतस्तद्वद्भुक्त्वा प्रच्छर्दनं पिबेत्|८१|

स्यात्त्वसंशोधनार्थीये वृत्तिः स्नेहे विरिक्तवत्||८१||

स्नेहद्विषः स्नेहनित्या मृदुकोष्ठाश्च ये नराः|
क्लेशासहा मद्यनित्यास्तेषामिष्टा विचारणा||८२||
लावतैत्तिरमायूरहांसवाराहकौक्कुटाः|
गव्याजौरभ्रमात्स्याश्च रसाः स्युः स्नेहने हिताः||८३||
यवकोलकुलत्थाश्च स्नेहाः सगुडशर्कराः|
दाडिमं दधि सव्योषं रससंयोगसङ्ग्रहः||८४||
स्नेहयन्ति तिलाः पूर्वं जग्धाः सस्नेहफाणिताः|
कृशराश्च बहुस्नेहास्तिलकाम्बलिकास्तथा||८५||
फाणितं शृङ्गवेरं च तैलं च सुरया सह|
पिबेद्रूक्षो भृतैर्मांसैर्जीर्णेऽश्नीयाच्च भोजनम्||८६||
तैलं सुराया मण्डेन वसां मज्जानमेव वा|
पिबन् सफाणितं क्षीरं नरः स्निह्यति वातिकः||८७||
धारोष्णं स्नेहसंयुक्तं पीत्वा सशर्करं पयः|
नरः स्निह्यति पीत्वा वा सरं दध्नः सफाणितम्||८८||
पाञ्चप्रसृतिकी पेया पायसो माषमिश्रकः|
क्षीरसिद्धो बहुस्नेहः स्नेहयेदचिरान्नरम्||८९||
सर्पिस्तैलवसामज्जातण्डुलप्रसृतैः शृ(कृ)ता|
पाञ्चप्रसृतिकी पेया पेया स्नेहनमिच्छता||९०||
ग्राम्यानूपौदकं मांसं गुडं दधि पयस्तिलान्|
कुष्ठी शोथी प्रमेही च स्नेहने न प्रयोजयेत्||९१||
स्नेहैर्यथार्हं तान् सिद्धैः स्नेहयेदविकारिभिः|
पिप्पलीभिर्हरीतक्या सिद्धैस्त्रिफलयाऽपि वा||९२||
द्राक्षामलकयूषाभ्यां दध्ना चाम्लेन साधयेत्|
व्योषगर्भं भिषक् स्नेहं पीत्वा स्निह्यति तं नरः||९३||
यवकोलकुलत्थानां रसाः क्षारः सुरा दधि|
क्षीरसर्पिश्च तत् सिद्धं स्नेहनीयं घृतोत्तमम्||९४||

तैलमज्जवसासर्पिर्बदरत्रिफलारसैः|
योनिशुक्रप्रदोषेषु साधयित्वा प्रयोजयेत्||९५||
गृह्णात्यम्बु यथा वस्त्रं प्रस्रवत्यधिकं यथा|
यथाग्नि जीर्यति स्नेहस्तथा स्रवति चाधिकः||९६||
यथा वाऽऽक्लेद्य मृत्पिण्डमासिक्तं त्वरया जलम्|
स्रवति स्रंसते स्नेहस्तथा त्वरितसेवितः||९७||
लवणोपहिताः स्नेहाः स्नेहयन्त्यचिरान्नरम्|
तद्ध्यभिष्यन्द्यरूक्षं च सूक्ष्ममुष्णं व्यवायि च||९८||
स्नेहमग्रे प्रयुञ्जीत ततः स्वेदमनन्तरम्|
स्नेहस्वेदोपपन्नस्य संशोधनमथेतरत्  ||९९||


तत्र श्लोकः-


स्नेहाः स्नेहविधिः कृत्स्नव्यापत्सिद्धिः सभेषजा|
यथाप्रश्नं भगवता व्याहृतं चान्द्रभागिना||१००||

 

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने स्नेहाध्यायो नाम त्रयोदशोऽध्यायः समाप्तः||१३||