विमानस्थानम् - ५. स्रोतोविमानम्
अथातः स्रोतसां विमानं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
यावन्तः पुरुषे मूर्तिमन्तो भावविशेषास्तावन्त एवास्मिन् स्रोतसां प्रकारविशेषाः|
सर्वे हि भावा पुरुषे नान्तरेण स्रोतांस्यभिनिर्वर्तन्ते, क्षयं वाऽप्यभिगच्छन्ति|
स्रोतांसि खलु परिणाममापद्यमानानां धातूनामभिवाहीनि भवन्त्ययनार्थेन||३||
अपि चैके स्रोतसामेव समुदयं पुरुषमिच्छन्ति, सर्वगतत्वात् सर्वसरत्वाच्च दोषप्रकोपणप्रशमनानाम्|
न त्वेतदेवं, यस्य हि स्रोतांसि, यच्च वहन्ति, यच्चावहन्ति, यत्र चावस्थितानि, सर्वं तदन्यत्तेभ्यः||४||
अतिबहुत्वात् खलु केचिदपरिसङ्ख्येयान्याचक्षते स्रोतांसि, परिसङ्ख्येयानि पुनरन्ये||५||
तेषां तु खलु स्रोतसां यथास्थूलं कतिचित्प्रकारान्मूलतश्च प्रकोपविज्ञानतश्चानुव्याख्यास्यामः; ये
भविष्यन्त्यलमनुक्तार्थज्ञानाय ज्ञानवतां, विज्ञानाय चाज्ञानवताम्||६||
तद्यथा- प्राणोदकान्नरसरुधिरमांसमेदोस्थिमज्जशुक्रमूत्रपुरीषस्वेदवहानीति; वातपित्तश्लेष्मणां पुनः सर्वशरीरचराणां
सर्वाणि स्रोतांस्ययनभूतानि, तद्वदतीन्द्रियाणां पुनः सत्त्वादीनां केवलं चेतनावच्छरीरमयनभूतमधिष्ठानभूतं च|
तदेतत् स्रोतसां प्रकृतिभूतत्वान्न विकारैरुपसृज्यते शरीरम्||७||
तत्र प्राणवहानां स्रोतसां हृदयं मूलं महास्रोतश्च, प्रदुष्टानां तु खल्वेषामिदं विशेषविज्ञानं भवति; तद्यथा- अतिसृष्टमतिबद्धं कुपितमल्पाल्पमभीक्ष्णं वा सशब्दशूलमुच्छ्वसन्तं दृष्ट्वा प्राणवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात्|
उदकवहानां स्रोतसां तालुमूलं क्लोम च, प्रदुष्टानां तु खल्वेषामिदं विशेषविज्ञानं भवति; तद्यथा- जिह्वाताल्वोष्ठकण्ठक्लोमशोषं पिपासां चातिप्रवृद्धां दृष्ट्वोदकवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात्|
अन्नवहानां स्रोतसामामाशयो मूलं वामं च पार्श्वं, प्रदुष्टानां तु खल्वेषामिदं विशेषविज्ञानं भवति; तद्यथा- अनन्नाभिलषणमरोचकविपाकौ छर्दिं च दृष्ट्वाऽन्नवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात्|
रसवहानां स्रोतसां हृदयं मूलं दश च धमन्यः|
शोणितवहानां स्रोतसां यकृन्मूलं प्लीहा च|
मांसवहानां च स्रोतसां स्नायुर्मूलं त्वक् च|
मेदोवहानां स्रोतसां वृक्कौ मूलं वपावहनं च|
अस्थिवहानां स्रोतसां मेदो मूलं जघनं च|
मज्जवहानां स्रोतसामस्थीनि मूलं सन्धयश्च|
शुक्रवहानां स्रोतसां वृषणौ मूलं शेफश्च|
प्रदुष्टानां तु खल्वेषां रसादिवहस्रोतसां विज्ञानान्युक्तानि विविधाशितपीतीये; यान्येव हि धातूनां प्रदोषविज्ञानानि
तान्येव यथास्वं प्रदुष्टानां धातुस्रोतसाम्|
मूत्रवहानां स्रोतसां बस्तिर्मूलं वङ्क्षणौ च, प्रदुष्टानां तु खल्वेषामिदं विशेषविज्ञानं भवति; तद्यथा- अतिसृष्टमतिबद्धं प्रकुपितमल्पाल्पमभीक्ष्णं वा बहलं सशूलं मूत्रयन्तं दृष्ट्वा मूत्रवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात्|
पुरीषवहानां स्रोतसां पक्वाशयो मूलं स्थूलगुदं च, प्रदुष्टानां तु खल्वेषामिदं विशेषविज्ञानं भवति; तद्यथा- कृच्छ्रेणाल्पाल्पं सशब्दशूलमतिद्रवमतिग्रथितमतिबहु चोपविशन्तं दृष्ट्वा पुरीषवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात्|
स्वेदवहानां स्रोतसां मेदो मूलं लोमकूपाश्च, प्रदुष्टानां तु खल्वेषामिदं विशेषविज्ञानं भवति; तद्यथा- अस्वेदनमतिस्वेदनं पारुष्यमतिश्लक्ष्णतामङ्गस्य परिदाहं लोमहर्षं च दृष्ट्वा
स्वेदवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात्||८||
स्रोतांसि, सिराः, धमन्यः, रसायन्यः, रसवाहिन्यः, नाड्यः, पन्थानः, मार्गाः, शरीरच्छिद्राणि, संवृतासंवृतानि,
स्थानानि, आशयाः, निकेताश्चेति शरीरधात्ववकाशानां लक्ष्यालक्ष्याणां नामानि भवन्ति|
तेषां प्रकोपात् स्थानस्थाश्चैव मार्गगाश्च शरीरधातवः प्रकोपमापद्यन्ते, इतरेषां प्रकोपादितराणि च|
स्रोतांसि स्रोतांस्येव, धातवश्च धातूनेव प्रदूषयन्ति प्रदुष्टाः|
तेषां सर्वेषामेव वातपित्तश्लेष्माणः प्रदुष्टा दूषयितारो भवन्ति, दोषस्वभावादिति||९||
भवन्ति चात्र-
क्षयात् सन्धारणाद्रौक्ष्याद्व्यायामात् क्षुधितस्य च|
प्राणवाहीनि दुष्यन्ति स्रोतांस्यन्यैश्च दारुणैः||१०||
औष्ण्यादामाद्भयात् पानादतिशुष्कान्नसेवनात्|
अम्बुवाहीनि दुष्यन्ति तृष्णायाश्चातिपीडनात्||११||
अतिमात्रस्य चाकाले चाहितस्य च भोजनात्|
अन्नवाहीनि दुष्यन्ति वैगुण्यात् पावकस्य च||१२||
गुरुशीतमतिस्निग्धमतिमात्रं समश्नताम्|
रसवाहीनि दुष्यन्ति चिन्त्यानां चातिचिन्तनात्||१३||
विदाहीन्यन्नपानानि स्निग्धोष्णानि द्रवाणि च|
रक्तवाहीनि दुष्यन्ति भजतां चातपानलौ||१४||
अभिष्यन्दीनि भोज्यानि स्थूलानि च गुरूणि च|
मांसवाहीनि दुष्यन्ति भुक्त्वा च स्वपतां दिवा||१५||
अव्यायामाद्दिवास्वप्नान्मेद्यानां चातिभक्षणात्|
मेदोवाहीनि दुष्यन्ति वारुण्याश्चातिसेवनात्||१६||
व्यायामादतिसङ्क्षोभादस्थ्नामतिविघट्टनात्|
अस्थिवाहीनि दुष्यन्ति वातलानां च सेवनात्||१७||
उत्पेषादत्यभिष्यन्दादभिघातात् प्रपीडनात्|
मज्जवाहीनि दुष्यन्ति विरुद्धानां च सेवनात्||१८||
अकालयोनिगमनान्निग्रहादतिमैथुनात्|
शुक्रवाहीनि दुष्यन्ति शस्त्रक्षाराग्निभिस्तथा||१९||
मूत्रितोदकभक्ष्यस्त्रीसेवनान्मूत्रनिग्रहात्|
मूत्रवाहीनि दुष्यन्ति क्षीणस्याभिक्षतस्य च||२०||
सन्धारणादत्यशनादजीर्णाध्यशनात्तथा|
वर्चोवाहीनि दुष्यन्ति दुर्बलाग्नेः कृशस्य च||२१||
व्यायामादतिसन्तापाच्छीतोष्णाक्रमसेवनात् |
स्वेदवाहीनि दुष्यन्ति क्रोधशोकभयैस्तथा||२२||
आहारश्च विहारश्च यः स्याद्दोषगुणैः समः|
धातुभिर्विगुणश्चापि स्रोतसां स प्रदूषकः||२३||
अतिप्रवृत्तिः सङ्गो वा सिराणां ग्रन्थयोऽपि वा|
विमार्गगमनं चापि स्रोतसां दुष्टिलक्षणम्||२४||
स्वधातुसमवर्णानि वृत्तस्थूलान्यणूनि च|
स्रोतांसि दीर्घाण्याकृत्या प्रतानसदृशानि च||२५||
प्राणोदकान्नवाहानां दुष्टानां श्वासिकी क्रिया|
कार्या तृष्णोपशमनी तथैवामप्रदोषिकी||२६||
विविधाशितपीतीये रसादीनां यदौषधम्|
रसादिस्रोतसां कुर्यात्तद्यथास्वमुपक्रमम्||२७||
मूत्रविट्स्वेदवाहानां चिकित्सा मौत्रकृच्छ्रिकी|
तथाऽतिसारिकी कार्या तथा ज्वरचिकित्सिकी||२८||
तत्र श्लोकाः-
त्रयोदशानां मूलानि स्रोतसां दुष्टिलक्षणम्|
सामान्यं नामपर्यायाः कोपनानि परस्परम्||२९||
दोषहेतुः पृथक्त्वेन भेषजोद्देश एव च|
स्रोतोविमाने निर्दिष्टस्तथा चादौ विनिश्चयः||३०||
केवलं विदितं यस्य शरीरं सर्वभावतः|
शारीराः सर्वरोगाश्च स कर्मसु न मुह्यति||३१||
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते विमानस्थाने स्रोतोविमानं नाम पञ्चमोऽध्यायः||५||