Shree Naval Kishori

शारीरस्थानम् - ६. शरीरविचयशारीरम्

अथातः शरीरविचयं शारीरं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
शरीरविचयः शरीरोपकारार्थमिष्यते|
ज्ञात्वा हि शरीरतत्त्वं शरीरोपकारकरेषु भावेषु ज्ञानमुत्पद्यते|
तस्माच्छरीरविचयं प्रशंसन्ति कुशलाः||३||

तत्र शरीरं नाम चेतनाधिष्ठानभूतं पञ्चमहाभूतविकारसमुदायात्मकं समयोगवाहि |
यदा ह्यस्मिञ् शरीरे धातवो वैषम्यमापद्यन्ते तदा क्लेशं विनाशं वा प्राप्नोति|
वैषम्यगमनं हि पुनर्धातूनां वृद्धिह्रासगमनमकार्त्स्न्येन प्रकृत्या च||४||

यौगपद्येन तु विरोधिनां धातूनां वृद्धिह्रासौ भवतः|
यद्धि यस्य धातोर्वृद्धिकरं तत्ततो विपरीतगुणस्य धातोः प्रत्यवायकरं सम्पद्यते||५||
तदेव तस्माद्भेषजं सम्यगवचार्यमाणं युगपन्न्यूनातिरिक्तानां धातूनां साम्यकरं भवति, 

अधिकमपकर्षति न्यूनमाप्याययति||६||
एतावदेव हि भैषज्यप्रयोगे फलमिष्टं स्वस्थवृत्तानुष्ठाने च यावद्धातूनां साम्यं स्यात्|
स्वस्था ह्यपि धातूनां साम्यानुग्रहार्थमेव कुशला रसगुणानाहारविकारांश्च पर्यायेणेच्छन्त्युपयोक्तुं 

सात्म्यसमाज्ञातान्; एकप्रकारभूयिष्ठांश्चोपयुञ्जानास्तद्विपरीतकरसमाज्ञातया चेष्टया सममिच्छन्ति कर्तुम्||७||

देशकालात्मगुणविपरीतानां हि कर्मणामाहारविकाराणां च क्रियोपयोगः सम्यक्, सर्वातियोगसन्धारणम्, 

असन्धारणमुदीर्णानां च गतिमतां, साहसानां च वर्जनं, स्वस्थवृत्तमेतावद्धातूनां साम्यानुग्रहार्थमुपदिश्यते||८||

धातवः पुनः शारीराः समानगुणैः समानगुणभूयिष्ठैर्वाऽप्याहारविकारैरभ्यस्यमानैर्वृद्धिं प्राप्नुवन्ति, ह्रासं 

तु विपरीतगुणैर्विपरीतगुणभूयिष्ठैर्वाऽप्याहारैरभ्यस्यमानैः||९||

तत्रेमे शरीरधातुगुणाः सङ्ख्यासामर्थ्यकराः; तद्यथा- गुरुलघुशीतोष्णस्निग्धरूक्षमन्दतीक्ष्णस्थिरसरमृदुकठिनविशदपिच्छिलश्लक्ष्णखरसूक्ष्मस्थूलसान्द्रद्रवाः|
तेषु ये गुरवस्ते गुरुभिराहारविकारगुणैरभ्यस्यमानैराप्याय्यन्ते, लघवश्च ह्रसन्ति; लघवस्तु लघुभिराप्याय्यन्ते, 

गुरवश्च ह्रसन्ति|
एवमेव सर्वधातुगुणानां सामान्ययोगाद्वृद्धिः, विपर्ययाद्ध्रासः|
तस्मान्मांसमाप्याय्यते मांसेन भूयस्तरमन्येभ्यः शरीरधातुभ्यः, तथा लोहितं लोहितेन, मेदो मेदसा, 

वसा वसया, अस्थि तरुणास्थ्ना, मज्जा मज्ज्ञा, शुक्रं शुक्रेण, गर्भस्त्वामगर्भेण||१०||

यत्र त्वेवंलक्षणेन सामान्येन सामान्यवतामाहारविकाराणामसान्निध्यं स्यात्, सन्निहितानां 

वाऽप्ययुक्तत्वान्नोपयोगो घृणित्वादन्यस्माद्वा कारणात्, स च धातुरभिवर्धयितव्यः स्यात्, तस्य ये 

समानगुणाः स्युराहारविकारा असेव्याश्च, तत्र समानगुणभूयिष्ठानामन्यप्रकृतीनामप्याहारविकाराणामुपयोगः 

स्यात्|
तद्यथा- शुक्रक्षये क्षीरसर्पिषोरुपयोगो मधुरस्निग्धशीतसमाख्यातानां चापरेषां द्रव्याणां, मूत्रक्षये 

पुनरिक्षुरसवारुणीमण्डद्रवमधुराम्ललवणोपक्लेदिनां, पुरीषक्षये कुल्माषमाषकुष्कुण्डाजमध्ययवशाकधान्याम्लानां, 

वातक्षये कटुकतिक्तकषायरूक्षलघुशीतानां, पित्तक्षयेऽम्ललवणकटुकक्षारोष्णतीक्ष्णानां, 

श्लेष्मक्षये स्निग्धगुरुमधुरसान्द्रपिच्छिलानां द्रव्याणाम्|
कर्मापि यद्यस्य धातोर्वृद्धिकरं तत्तदासेव्यम्|
एवमन्येषामपि शरीरधातूनां सामान्यविपर्ययाभ्यां वृद्धिह्रासौ यथाकालं कार्यौ|
इति सर्वधातूनामेकैकशोऽतिदेशतश्च वृद्धिह्रासकराणि व्याख्यातानि भवन्ति||११||

कार्त्स्न्येन शरीरवृद्धिकरास्त्विमे भावा भवन्ति; तद्यथा- कालयोगः, स्वभावसंसिद्धिः, आहारसौष्ठवम्, अविघातश्चेति||१२||

बलवृद्धिकरास्त्विमे भावा भवन्ति|
तद्यथा- बलवत्पुरुषे देशे जन्म बलवत्पुरुषे काले च, सुखश्च कालयोगः, बीजक्षेत्रगुणसम्पच्च, आहारसम्पच्च, 

शरीरसम्पच्च, सात्म्यसम्पच्च, सत्त्वसम्पच्च, स्वभावसंसिद्धिश्च, यौवनं च, कर्म च, संहर्षश्चेति||१३||

आहारपरिणामकरास्त्विमे भावा भवन्ति|
तद्यथा- ऊष्मा, वायुः, क्लेदः, स्नेहः, कालः, समयोगश्चेति ||१४||

तत्र तु खल्वेषामूष्मादीनामाहारपरिणामकराणां भावानामिमे कर्मविशेषा भवन्ति|
तद्यथा- ऊष्मा पचति, वायुरपकर्षति, क्लेदः शैथिल्यमापादयति, स्नेहो मार्दवं जनयति, कालः 

पर्याप्तिमभिनिर्वर्तयति, समयोगस्त्वेषां परिणामधातुसाम्यकरः सम्पद्यते||१५||

परिणमतस्त्वाहारस्य गुणाः शरीरगुणभावमापद्यन्ते यथास्वमविरुद्धाः; विरुद्धाश्च विहन्युर्विहताश्च

 विरोधिभिः शरीरम्||१६||

शरीरगुणाः पुनर्द्विविधाः सङ्ग्रहेण- मलभूताः, प्रसादभूताश्च|
तत्र मलभूतास्ते ये शरीरस्याबाधकराः स्युः|
तद्यथा- शरीरच्छिद्रेषूपदेहाः पृथग्जन्मानो बहिर्मुखाः, परिपक्वाश्च धातवः, प्रकुपिताश्च वातपित्तश्लेष्माणः, 

ये चान्येऽपि केचिच्छरीरे तिष्ठन्तो भावाः शरीरस्योपघातायोपपद्यन्ते, सर्वांस्तान्मले सञ्चक्ष्महे; 

इतरांस्तु प्रसादे, गुर्वादींश्च द्रवान्तान् गुणभेदेन, रसादींश्च शुक्रान्तान् द्रव्यभेदेन||१७||

तेषां सर्वेषामेव वातपित्तश्लेष्माणो दुष्टा दूषयितारो भवन्ति, दोषस्वभावात्|
वातादीनां पुनर्धात्वन्तरे कालान्तरे प्रदुष्टानां विविधाशितपीतीयेऽध्याये विज्ञानान्युक्तानि|
एतावत्येव दुष्टदोषगतिर्यावत् संस्पर्शनाच्छरीरधातूनाम्|
प्रकृतिभूतानां तु खलु वातादीनां फलमारोग्यम्|
तस्मादेषां प्रकृतिभावे प्रयतितव्यं बुद्धिमद्भिरिति||१८||

भवति चात्र-

शरीरं सर्वथा सर्वं सर्वदा वेद यो भिषक्|
आयुर्वेदं स कार्त्स्न्येन वेद लोकसुखप्रदम्||१९||

एवंवादिनं भगवन्तमात्रेयमग्निवेश उवाच श्रुतमेतद्यदुक्तं भगवता शरीराधिकारे वचः|
किन्नु खलु गर्भस्याङ्गं पूर्वमभिनिर्वर्तते कुक्षौ, कुतो मुखः कथं चान्तर्गतस्तिष्ठति, किमाहारश्च वर्तयति, 

कथम्भूतश्च निष्क्रामति, कैश्चायमाहारोपचारैर्जातः सद्यो हन्यते, कैरव्याधिरभिवर्धते, किञ्चास्य 

देवादिप्रकोपनिमित्ता विकाराः सम्भवन्ति आहोस्विन्न, किञ्चास्य कालाकालमृत्य्वोर्भावाभावयोर्भगवानध्यवस्यति,

 किञ्चास्य परमायुः, कानि चास्य परमायुषो निमित्तानीति||२०||

तमेवमुक्तवन्तमग्निवेशं भगवान् पुनर्वसुरात्रेय उवाच- पूर्वमुक्तमेतद्गर्भावक्रान्तौ यथाऽयमभिनिर्वर्तते कुक्षौ, यच्चास्य यदा सन्तिष्ठतेऽङ्गजातम्|
विप्रतिवादास्त्वत्र बहुविधाः सूत्रकृतामृषीणां सन्ति सर्वेषां; तानपि निबोधोच्यमानान्- शिरः पूर्वमभिनिर्वर्तते कुक्षाविति कुमारशिरा भरद्वाजः पश्यति, सर्वेन्द्रियाणां तदधिष्ठानमिति कृत्वा;

 हृदयमिति काङ्कायनो बाह्लीकभिषक्, चेतनाधिष्ठानत्वात्; नाभिरिति भद्रकाप्यः, 

आहारागम इति कृत्वा; पक्वाशयगुदमिति भद्रशौनकः, मारुताधिष्ठानत्वात्; हस्तपादमिति बडिशः, 

तत्करणत्वात् पुरुषस्य; इन्द्रियाणीति जनको वैदेहः, तान्यस्य बुद्ध्यधिष्ठानानीति कृत्वा; 

परोक्षत्वादचिन्त्यमिति मारीचिः कश्यपः; सर्वाङ्गाभिनिर्वृत्तिर्युगपदिति धन्वन्तरिः; 

तदुपपन्नं, सर्वाङ्गानां तुल्यकालाभिनिर्वृत्तत्वाद्धृदयप्रभृतीनाम्|
सर्वाङ्गानां ह्यस्य हृदयं मूलमधिष्ठानं च केषाञ्चिद्भावानाम्, नच तस्मात् पूर्वाभिनिर्वृत्तिरेषां; 

तस्माद्धृदयप्रभृतीनां सर्वाङ्गानां तुल्यकालाभिनिर्वृत्तिः, सर्वे भावा ह्यन्योन्यप्रतिबद्धाः; तस्माद्यथाभूतदर्शनं साधु||२१||

गर्भस्तु खलु मातुः पृष्ठाभिमुख ऊर्ध्वशिराः सङ्कुच्याङ्गान्यास्तेऽन्तःकुक्षौ ||२२||
व्यपगतपिपासाबुभुक्षस्तु खलु गर्भः परतन्त्रवृत्तिर्मातरमाश्रित्य वर्तयत्युपस्नेहोपस्वेदाभ्यां गर्भाशये 

सदसद्भूताङ्गावयवः, तदनन्तरं ह्यस्य कश्चिल्लोमकूपायनैरुपस्नेहः कश्चिन्नाभिनाड्ययनैः|
नाभ्यां ह्यस्य नाडी प्रसक्ता, नाड्यां चापरा, अपरा चास्य मातुः प्रसक्ता हृदये, मातृहृदयं ह्यस्य 

तामपरामभिसम्प्लवते सिराभिः स्यन्दमानाभिः; स तस्य रसो बलवर्णकरः सम्पद्यते, स च सर्वरसवानाहारः|
स्त्रिया ह्यापन्नगर्भायास्त्रिधा रसः प्रतिपद्यते- स्वशरीरपुष्टये, स्तन्याय, गर्भवृद्धये च|
स तेनाहारेणोपष्टब्धः (परतन्त्रवृत्तिर्मातरमाश्रित्य) वर्तयत्यन्तर्गतः||२३||

स चोपस्थितकाले जन्मनि प्रसूतिमारुतयोगात् परिवृत्त्यावाक्शिरा निष्क्रामत्यपत्यपथेन, 

एषा प्रकृतिः, विकृतिः पुनरतोऽन्यथा|
परं त्वतः स्वतन्त्रवृत्तिर्भवति||२४||

तस्याहारोपचारौ जातिसूत्रीयोपदिष्टावविकारकरौ चाभिवृद्धिकरौ भवतः||२५||
ताभ्यामेव च विषमसेविताभ्यां जातः सद्य उपहन्यते तरुरिवाचिरव्यपरोपितो वातातपाभ्यामप्रतिष्ठितमूलः||२६||
आप्तोपदेशादद्भुतरूपदर्शनात् समुत्थानलिङ्गचिकित्सितविशेषाच्चादोषप्रकोपानुरूपा 

देवादिप्रकोपनिमित्ता विकाराः समुपलभ्यन्ते||२७||

कालाकालमृत्य्वोस्तु खलु भावाभावयोरिदमध्यवसितं नः- “यः कश्चिन् म्रियते स काल एव म्रियते, न हि कालच्छिद्रमस्ति” इत्येके भाषन्ते|
तच्चासम्यक्|
न ह्यच्छिद्रता सच्छिद्रता वा कालस्योपपद्यते, कालस्वलक्षणस्वभावात्|
तत्राहुरपरे- यो यदा म्रियते स तस्य नियतो मृत्युकालः; स सर्वभूतानां सत्यः, समक्रियत्वादिति|
एतदपि चान्यथाऽर्थग्रहणम्|
न हि कश्चिन्न म्रियत इति समक्रियः|
कालो ह्यायुषः प्रमाणमधिकृत्योच्यते|
यस्य चेष्टं यो यदा म्रियते स तस्य मृत्युकाल इति, तस्य सर्वे भावा यथास्वं नियतकाला भविष्यन्ति; 

तच्च नोपपद्यते, प्रत्यक्षं ह्यकालाहारवचनकर्मणां फलमनिष्टं, विपर्यये चेष्टं; प्रत्यक्षतश्चोपलभ्यते 

खलु कालाकालव्यक्तिस्तासु तास्ववस्थासु तं तमर्थमभिसमीक्ष्य, तद्यथा- कालोऽयमस्य व्याधेराहारस्यौषधस्य प्रतिकर्मणो विसर्गस्य, अकालो वेति|
लोकेऽप्येतद्भवति- काले देवो वर्षत्यकाले देवो वर्षति, काले शीतमकाले शीतं, काले तपत्यकाले तपति, काले 

पुष्पफलमकाले च पुष्पफलमिति|
तस्मादुभयमस्ति- काले मृत्युरकाले च; नैकान्तिकमत्र|
यदि ह्यकाले मृत्युर्न स्यान्नियतकालप्रमाणमायुः सर्वं स्यात्; एवं गते हिताहितज्ञानमकारणं स्यात्, 

प्रत्यक्षानुमानोपदेशाश्चाप्रमाणानि स्युर्ये प्रमाणभूताः सर्वतन्त्रेषु, यैरायुष्याण्यनायुष्याणि चोपलभ्यन्ते|
वाग्वस्तुमात्रमेतद्वादमृषयो मन्यन्ते- नाकाले मृत्युरस्तीति||२८||

वर्षशतं खल्वायुषः प्रमाणमस्मिन् काले||२९||
तस्य निमित्तं प्रकृतिगुणात्मसम्पत् सात्म्योपसेवनं चेति||३०||

तत्र श्लोकाः-

शरीरं यद्यथा तच्च वर्तते क्लिष्टमामयैः|
यथा क्लेशं विनाशं च याति ये चास्य धातवः||३१||
वृद्धिह्रासौ यथा तेषां क्षीणानामौषधं च यत्|
देहवृद्धिकरा भावा बलवृद्धिकराश्च ये||३२||
परिणामकरा भावा या च तेषां पृथक् क्रिया|
मलाख्याः सम्प्रसादाख्या धातवः प्रश्न एव च||३३||
नवको निर्णयश्चास्य विधिवत् सम्प्रकाशितः|
तथ्यः शरीरविचये शारीरे परमर्षिणा||३४||

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते शारीरस्थानेशरीरविचयशारीरं नाम षष्ठोऽध्यायः||६||