इन्द्रियस्थानम् - ४. इन्द्रियानीकमिन्द्रियम्
अथात इन्द्रियानीकमिन्द्रियं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
इन्द्रियाणि यथा जन्तोः परीक्षेत विशेषवित्|
ज्ञातुमिच्छन् भिषङ्मानमायुषस्तन्निबोधत ||३||
अनुमानात् परीक्षेत दर्शनादीनि तत्त्वतः|
अद्धा हि विदितं ज्ञानमिन्द्रियाणामतीन्द्रियम्||४||
स्वस्थेभ्यो विकृतं यस्य ज्ञानमिन्द्रियसंश्रयम् |
आलक्ष्येतानिमित्तेन लक्षणं मरणस्य तत्||५||
इत्युक्तं लक्षणं सम्यगिन्द्रियेष्वशुभोदयम्|
तदेव तु पुनर्भूयो विस्तरेण निबोधत||६||
घनीभूतमिवाकाशमाकाशमिव मेदिनीम्|
विगीतमुभयं ह्येतत् पश्यन् मरणमृच्छति||७||
यस्य दर्शनमायाति मारुतोऽम्बरगोचरः|
अग्निर्नायाति चादीप्तस्तस्यायुःक्षयमादिशेत्||८||
जले सुविमले जालमजालावतते नरः|
स्थिते गच्छति वा दृष्ट्वा जीवितात् परिमुच्यते||९||
जाग्रत् पश्यति यः प्रेतान् रक्षांसि विविधानि च|
अन्यद्वाऽप्यद्भुतं किञ्चिन्न स जीवितुमर्हति||१०||
योऽग्निं प्रकृतिवर्णस्थं नीलं पश्यति निष्प्रभम्|
कृष्णं वा यदि वा शुक्लं निशां व्रजति सप्तमीम्||११||
मरीचीनसतो मेघान्मेघान् वाऽप्यसतोऽम्बरे|
विद्युतो वा विना मेघैः पश्यन् मरणमृच्छति||१२||
मृन्मयीमिव यः पात्रीं कृष्णाम्बरसमावृताम्|
आदित्यमीक्षते शुद्धं चन्द्रं वा न स जीवति||१३||
अपर्वणि यदा पश्येत् सूर्याचन्द्रमसोर्ग्रहम्|
अव्याधितो व्याधितो वा तदन्तं तस्य जीवितम्||१४||
नक्तं सूर्यमहश्चन्द्रमनग्नौ धूममुत्थितम्|
अग्निं वा निष्प्रभं रात्रौ दृष्ट्वा मरणमृच्छति||१५||
प्रभावतः प्रभाहीनान्निष्प्रभांश्च प्रभावतः|
नरा विलिङ्गान् पश्यन्ति भावान् भावाञ्जिहासवः ||१६||
व्याकृतीनि विवर्णानि विसङ्ख्योपगतानि च|
विनिमित्तानि पश्यन्ति रूपाण्यायुःक्षये नराः||१७||
यश्च पश्यत्यदृश्यान् वै दृश्यान् यश्च न पश्यति|
तावुभौ पश्यतः क्षिप्रं यमक्षयमसंशयम्||१८||
अशब्दस्य च यः श्रोता शब्दान् यश्च न बुध्यते|
द्वावप्येतौ यथा प्रेतौ तथा ज्ञेयौ विजानता ||१९||
संवृत्याङ्गुलिभिः कर्णौ ज्वालाशब्दं य आतुरः|
न शृणोति गतासुं तं बुद्धिमान् परिवर्जयेत्||२०||
विपर्ययेण यो विद्याद्गन्धानां साध्वसाधुताम्|
न वा तान् सर्वशो विद्यात्तं विद्याद्विगतायुषम्||२१||
यो रसान्न विजानाति न वा जानाति तत्त्वतः|
मुखपाकादृते पक्वं तमाहुः कुशला नरम्||२२||
उष्णाञ्छीतान् खराञ्छ्लक्ष्णान्मृदूनपि च दारुणान्|
स्पृश्यान् स्पृष्ट्वा ततोऽन्यत्वं मुमूर्षुस्तेषु मन्यते||२३||
अन्तरेण तपस्तीव्रं योगं वा विधिपूर्वकम्|
इन्द्रियैरधिकं पश्यन् पञ्चत्वमधिगच्छति||२४||
इन्द्रियाणामृते दृष्टेरिन्द्रियार्थानदोषजान्|
नरः पश्यति यः कश्चिदिन्द्रियैर्न स जीवति||२५||
स्वस्थाः प्रज्ञाविपर्यासैरिन्द्रियार्थेषु वैकृतम्|
पश्यन्ति येऽसद्बहुशस्तेषां मरणमादिशेत्||२६||
तत्र श्लोकः-
एतदिन्द्रियविज्ञानं यः पश्यति यथातथम्|
मरणं जीवितं चैव स भिषक् ज्ञातुमर्हति||२७||
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थानेइन्द्रियानीकमिन्द्रियं नाम चतुर्थोऽध्यायः||४||