इन्द्रियस्थानम् - ६. कतमानिशरीरीयमिन्द्रियम्
अथातः कतमानिशरीरीयमिन्द्रियं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
कतमानि शरीराणि व्याधिमन्ति महामुने!|
यानि वैद्यः परिहरेद्येषु कर्म न सिद्ध्यति||३||
इत्यात्रेयोऽग्निवेशेन प्रश्नं पृष्टः सुदुर्वचम्|
आचचक्षे यथा तस्मै भगवांस्तन्निबोधत||४||
यस्य वै भाषमाणस्य रुजत्यूर्ध्वमुरो भृशम्|
अन्नं च च्यवते भुक्तं स्थितं चापि न जीर्यति||५||
बलं च हीयते शीघ्रं तृष्णा चातिप्रवर्धते|
जायते हृदि शूलं च तं भिषक् परिवर्जयेत्||६||
हिक्का गम्भीरजा यस्य शोणितं चातिसार्यते|
न तस्मै भेषजं दद्यात् स्मरन्नात्रेयशासनम्||७||
आनाहश्चातिसारश्च यमेतौ दुर्बलं नरम्|
व्याधितं विशतो रोगौ दुर्लभं तस्य जीवितम्||८||
आनाहश्चातितृष्णा च यमेतौ दुर्बलं नरम्|
विशतो विजहत्येनं प्राणा नातिचिरान्नरम्||९||
ज्वरः पौर्वाह्णिको यस्य शुष्ककासश्च दारुणः|
बलमांसविहीनस्य यथा प्रेतस्तथैव सः||१०||
यस्य मूत्रं पुरीषं च ग्रथितं सम्प्रवर्तते|
निरूष्मणो जठरिणः श्वसनो न स जीवति||११||
श्वयथुर्यस्य कुक्षिस्थो हस्तपादं विसर्पति|
ज्ञातिसङ्घं स सङ्क्लेश्य तेन रोगेण हन्यते||१२||
श्वयथुर्यस्य पादस्थस्तथा स्रस्ते च पिण्डिके|
सीदतश्चाप्युभे जङ्घे तं भिषक् परिवर्जयेत्||१३||
शूनहस्तं शूनपादं शूनगुह्योदरं नरम्|
हीनवर्णबलाहारमौषधैर्नोपपादयेत्||१४||
उरोयुक्तो बहुश्लेष्मा नीलः पीतः सलोहितः|
सततं च्यवते यस्य दूरात्तं परिवर्जयेत्||१५||
हृष्टरोमा सान्द्रमूत्रः शूनः कासज्वरार्दितः |
क्षीणमांसो नरो दूराद्वर्ज्यो वैद्येन जानता||१६||
त्रयः प्रकुपिता यस्य दोषाः कष्टाभिलक्षिताः |
कृशस्य बलहीनस्य नास्ति तस्य चिकित्सितम्||१७||
ज्वरातिसारौ शोफान्ते श्वयथुर्वा तयोः क्षये|
दुर्बलस्य विशेषेण नरस्यान्ताय जायते||१८||
पाण्डुरश्च कृशोऽत्यर्थं तृष्णयाऽभिपरिप्लुतः|
डम्बरी कुपितोच्छ्वासः प्रत्याख्येयो विजानता||१९||
हनुमन्याग्रहस्तृष्णा बलह्रासोऽतिमात्रया|
प्राणाश्चोरसि वर्तन्ते यस्य तं परिवर्जयेत्||२०||
ताम्यत्यायच्छते शर्म न किञ्चिदपि विन्दति|
क्षीणमांसबलाहारो मुमूर्षुरचिरान्नरः||२१||
विरुद्धयोनयो यस्य विरुद्धोपक्रमा भृशम्|
वर्धन्ते दारुणा रोगाः शीघ्रं शीघ्रं स हन्यते||२२||
बलं विज्ञानमारोग्यं ग्रहणी मांसशोणितम् |
एतानि यस्य क्षीयन्ते क्षिप्रं क्षिप्रं स हन्यते||२३||
आरोग्यं हीयते यस्य प्रकृतिः परिहीयते|
सहसा सहसा तस्य मृत्युर्हरति जीवितम्||२४||
तत्र श्लोकः-
इत्येतानि शरीराणि व्याधिमन्ति विवर्जयेत्|
न ह्येषु धीराः पश्यन्ति सिद्धिं काञ्चिदुपक्रमात्||२५||
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थानेकतमानिशरीरीयमिन्द्रियं नाम षष्ठोऽध्यायः||६||