Shree Naval Kishori

इन्द्रियस्थानम् - ९. यस्यश्यावनिमित्तीयमिन्द्रियम्

अथातो यस्यश्यावनिमित्तीयमिन्द्रियं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||

यस्य श्यावे परिध्वस्ते हरिते चापि दर्शने|
आपन्नो व्याधिरन्ताय ज्ञेयस्तस्य विजानता||३||
निःसञ्ज्ञः परिशुष्कास्यः समृद्धो व्याधिभिश्च यः|
उपरुद्धायुषं ज्ञात्वा तं धीरः परिवर्जयेत्||४||
हरिताश्च सिरा यस्य लोमकूपाश्च संवृताः|
सोऽम्लाभिलाषी पुरुषः पित्तान्मरणमश्नुते||५||
शरीरान्ताश्च शोभन्ते शरीरं चोपशुष्यति|
बलं च हीयते यस्य राजयक्ष्मा हिनस्ति तम्||६||
अंसाभितापो हिक्का च छर्दनं शोणितस्य च|
आनाहः पार्श्वशूलं च भवत्यन्ताय शोषिणः||७||
वातव्याधिरपस्मारी कुष्ठी शोफी तथोदरी|
गुल्मी च मधुमेही च राजयक्ष्मी च यो नरः||८||
अचिकित्स्या भवन्त्येते बलमांसक्षये सति|
अन्येष्वपि विकारेषु तान् भिषक् परिवर्जयेत्||९||
विरेचनहृतानाहो यस्तृष्णानुगतो नरः|
विरिक्तः पुनराध्माति यथा प्रेतस्तथैव सः||१०||
पेयं पातुं न शक्नोति कण्ठस्य च मुखस्य च|
उरसश्च विशुष्कत्वाद्यो नरो न स जीवति ||११||
स्वरस्य दुर्बलीभावं हानिं च बलवर्णयोः|
रोगवृद्धिमयुक्त्या च दृष्ट्वा मरणमादिशेत्||१२||
ऊर्ध्वश्वासं गतोष्माणं शूलोपहतवङ्क्षणम्|
शर्म चानधिगच्छन्तं बुद्धिमान् परिवर्जयेत्||१३||

अपस्वरं भाषमाणं प्राप्तं मरणमात्मनः|
श्रोतारं चाप्यशब्दस्य दूरतः परिवर्जयेत्||१४||
यं नरं सहसा रोगो दुर्बलं परिमुञ्चति|
संशयप्राप्तमात्रेयो जीवितं तस्य मन्यते||१५||
अथ चेज्ज्ञातयस्तस्य याचेरन् प्रणिपाततः|
रसेनाद्यादिति ब्रूयान्नास्मै दद्याद्विशोधनम्||१६||
मासेन चेन्न दृश्येत विशेषस्तस्य शोभनः|
रसैश्चान्यैर्बहुविधैर्दुर्लभं तस्य जीवितम्||१७||

निष्ठ्यूतं च पुरीषं च रेतश्चाम्भसि मज्जति|
यस्य तस्यायुषः प्राप्तमन्तमाहुर्मनीषिणः||१८||
निष्ठ्यूते यस्य दृश्यन्ते वर्णा बहुविधाः पृथक्|
तच्च सीदत्यपः प्राप्य न स जीवितुमर्हति ||१९||
पित्तमूष्मानुगं यस्य शङ्खौ प्राप्य विमूर्च्छति |
स रोगः शङ्खको नाम्ना त्रिरात्राद्धन्ति जीवितम्||२०||
सफेनं रुधिरं यस्य मुहुरास्यात् प्रसिच्यते|
शूलैश्च तुद्यते कुक्षिः प्रत्याख्येयस्तथाविधः||२१||
बलमांसक्षयस्तीव्रो रोगवृद्धिररोचकः|
यस्यातुरस्य लक्ष्यन्ते त्रीन् पक्षान्न स जीवति||२२||

 

तत्र श्लोकौ-


विज्ञानानि मनुष्याणां मरणे प्रत्युपस्थिते|
भवन्त्येतानि सम्पश्येदन्यान्येवंविधानि च||२३||
तानि सर्वाणि लक्ष्यन्ते न तु सर्वाणि मानवम्|
विशन्ति विनशिष्यन्तं तस्माद्बोध्यानि सर्वतः||२४||

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थानेयस्यश्यावनिमित्तीयमिन्द्रियं नाम नवमोऽध्यायः||९||