Shree Naval Kishori

इन्द्रियस्थानम् - ११. अणुज्योतीयमिन्द्रियम्

 

अथातोऽणुज्योतीयमिन्द्रियं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||

अणुज्योतिरनेकाग्रो दुश्छायो दुर्मनाः सदा|
रतिं न लभते याति परलोकं समान्तरम्||३||
बलिं बलिभृतो यस्य प्रणीतं नोपभुञ्जते|
लोकान्तरगतः पिण्डं भुङ्क्ते संवत्सरेण सः||४||
सप्तर्षीणां समीपस्थां यो न पश्यत्यरुन्धतीम्|
संवत्सरान्ते जन्तुः स सम्पश्यति महत्तमः||५||
विकृत्या विनिमित्तं यः शोभामुपचयं धनम्|
प्राप्नोत्यतो वा विभ्रंशं समान्तं तस्य जीवितम्||६||
भक्तिः शीलं स्मृतिस्त्यागो बुद्धिर्बलमहेतुकम्|
षडेतानि निवर्तन्ते षड्भिर्मासैर्मरिष्यतः||७||
धमनीनामपूर्वाणां जालमत्यर्थशोभनम्|
ललाटे दृश्यते यस्य षण्मासान्न स जीवति||८||
लेखाभिश्चन्द्रवक्राभिर्ललाटमुपचीयते|
यस्य तस्यायुषः षड्भिर्मासैरन्तं समादिशेत्||९||
शरीरकम्पः सम्मोहो गतिर्वचनमेव च|
मत्तस्येवोपलभ्यन्ते यस्य मासं न जीवति||१०||
रेतोमूत्रपुरीषाणि यस्य मज्जन्ति चाम्भसि|
स मासात् स्वजनद्वेष्टा मृत्युवारिणि मज्जति||११||
हस्तपादं मुखं चोभे विशेषाद्यस्य शुष्यतः|
शूयेते वा विना देहात् स च मासं न जीवति||१२||
ललाटे मूर्ध्नि बस्तौ वा नीला यस्य प्रकाशते|
राजी बालेन्दुकुटिला न स जीवितुमर्हति||१३||
प्रवालगुटिकाभासा यस्य गात्रे मसूरिकाः|
उत्पद्याशु विनश्यन्ति न चिरात् स विनश्यति||१४||
ग्रीवावमर्दो बलवाञ्जिह्वाश्वयथुरेव च|
ब्रध्नास्यगलपाकश्च यस्य पक्वं तमादिशेत्||१५||
सम्भ्रमोऽतिप्रलापोऽतिभेदोऽस्थ्नामतिदारुणः |
कालपाशपरीतस्य त्रयमेतत् प्रवर्तते||१६||
प्रमुह्य लुञ्चयेत् केशान् परिगृह्णात्यतीव च|
नरः स्वस्थवदाहारमबलः कालचोदितः||१७||
समीपे चक्षुषोः कृत्वा मृगयेताङ्गुलीकरम्|
स्मयतेऽपि च कालान्ध ऊर्ध्वगानिमिषेक्षणः ||१८||
शयनादासनादङ्गात् काष्ठात् कुड्यादथापि वा|
असन्मृगयते किञ्चित् स मुह्यन् कालचोदितः||१९||
अहास्यहासी सम्मुह्यन् प्रलेढि दशनच्छदौ|
शीतपादकरोच्छ्वासो यो नरो न स जीवति||२०||
आह्वयंस्तं समीपस्थं स्वजनं जनमेव वा|
महामोहावृतमनाः पश्यन्नपि न पश्यति||२१||
अयोगमतियोगं वा शरीरे मतिमान् भिषक्|
खादीनां युगपद्दृष्ट्वा भेषजं नावचारयेत्||२२||
अतिप्रवृद्ध्या रोगाणां मनसश्च बलक्षयात्|
वासमुत्सृजति क्षिप्रं शरीरी देहसञ्ज्ञकम्||२३||
वर्णस्वरावग्निबलं वागिन्द्रियमनोबलम्|
हीयतेऽसुक्षये निद्रा नित्या भवति वा न वा||२४||
भिषग्भेषजपानान्नगुरुमित्रद्विषश्च ये|
वशगाः सर्व एवैते बोद्धव्याः समवर्तिनः||२५||
एतेषु रोगः क्रमते भेषजं प्रतिहन्यते|
नैषामन्नानि भुञ्जीत न चोदकमपि स्पृशेत्||२६||
पादाः समेताश्चत्वारः सम्पन्नाः साधकैर्गुणैः|
व्यर्था गतायुषो द्रव्यं विना नास्ति गुणोदयः||२७||
परीक्ष्यमायुर्भिषजा नीरुजस्यातुरस्य च|
आयुर्ज्ञानफलं कृत्स्नमायुर्ज्ञे ह्यनुवर्तते||२८||

 

तत्र श्लोकः-


क्रियापथमतिक्रान्ताः केवलं देहमाप्लुताः|
चिह्नं कुर्वन्ति यद्दोषास्तदरिष्टं निरुच्यते||२९||

 

 

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेइन्द्रियस्थानेऽणुज्योतीयमिन्द्रियं नामैकादशोऽध्यायः||११||