चिकित्सास्थानम् - १/३. करप्रचितीयो रसायनपादः
अथातः करप्रचितीयं रसायनपादं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
करप्रचितानां यथोक्तगुणानामामलकानामुद्धृतास्थ्नां शुष्कचूर्णितानां पुनर्माघे फाल्गुने वा मासे
त्रिःसप्तकृत्वः स्वरसपरिपीतानां पुनः शुष्कचूर्णीकृतानामाढकमेकं ग्राहयेत्, अथ जीवनीयानां
बृंहणीयानां स्तन्यजननानां शुक्रजननानां वयःस्थापनानां षड्विरेचनशताश्रितीयोक्तानामौषधगणानां
चन्दनागुरुधवतिनिशखदिरशिंशपासनसाराणां चाणुशः कृत्तानामभयाबिभीतकपिप्पलीवचाचव्यचित्रकविडङ्गानां
च समस्तानामाढकमेकं दशगुणेनाम्भसा साधयेत्, तस्मिन्नाढकावशेषे रसे सुपूते तान्यामलकचूर्णानि
दत्त्वा गोमयाग्निभिर्वंशविदलशरतेजनाग्निभिर्वा साधयेद्यावदपनयाद्रसस्य, तमनुपदग्धमुपहृत्यायसीषु
पात्रीष्वास्तीर्य शोषयेत्, सुशुष्कं तत् कृष्णाजिनस्योपरि दृषदि श्लक्ष्णपिष्टमयःस्थाल्यां निधापयेत्
सम्यक्, तच्चूर्णमयश्चूर्णाष्टभागसम्प्रयुक्तं मधुसर्पिर्भ्यामग्निबलमभिसमीक्ष्य प्रयोजयेदिति||३||
भवन्ति चात्र-
एतद्रसायनं पूर्वं वसिष्ठः कश्यपोऽङ्गिराः|
जमदग्निर्भरद्वाजो भृगुरन्ये च तद्विधाः||४||
प्रयुज्य प्रयता मुक्ताः श्रमव्याधिजराभयात्|
यावदैच्छंस्तपस्तेपुस्तत्प्रभावान्महाबलाः||५||
इदं रसायनं चक्रे ब्रह्मा वार्षसहस्रिकम्|
जराव्याधिप्रशमनं बुद्धीन्द्रियबलप्रदम्||६||
(इत्यामलकायसं ब्राह्मरसायनम्)|
तपसा ब्रह्मचर्येण ध्यानेन प्रशमेन च|
रसायनविधानेन कालयुक्तेन चायुषा||७||
स्थिता महर्षयः पूर्वं, नहि किञ्चिद्रसायनम्|
ग्राम्यानामन्यकार्याणां सिध्यत्यप्रयतात्मनाम्||८||
संवत्सरं पयोवृत्तिर्गवां मध्ये वसेत् सदा|
सावित्रीं मनसा ध्यायन् ब्रह्मचारी यतेन्द्रियः||९||
संवत्सरान्ते पौषीं वा माघीं वा फाल्गुनीं तिथिम्|
त्र्यहोपवासी शुक्लस्य प्रविश्यामलकीवनम्||१०||
बृहत्फलाढ्यमारुह्य द्रुमं शाखागतं फलम्|
गृहीत्वा पाणिना तिष्ठेज्जपन् ब्रह्मामृतागमात्||११||
तदा ह्यवश्यममृतं वसत्यामलके क्षणम्|
शर्करामधुकल्पानि स्नेहवन्ति मृदूनि च||१२||
भवन्त्यमृतसंयोगात्तानि यावन्ति भक्षयेत्|
जीवेद्वर्षसहस्राणि तावन्त्यागतयौवनः||१३||
सौहित्यमेषां गत्वा तु भवत्यमरसन्निभः|
स्वयं चास्योपतिष्ठन्ते श्रीर्वेदा वाक् च रूपिणी||१४||
(इति केवलामलकरसायनम्)|
त्रिफलाया रसे मूत्रे गवां क्षारे च लवणे|
क्रमेण चेङ्गुदीक्षारे किंशुकक्षार एव च||१५||
तीक्ष्णायसस्य पत्राणि वह्निवर्णानि साधयेत् |
चतुरङ्गुलदीर्घाणि तिलोत्सेधतनूनि च||१६||
ज्ञात्वा तान्यञ्जनाभानि सूक्ष्मचूर्णानि कारयेत्|
तानि चूर्णानि मधुना रसेनामलकस्य च||१७||
युक्तानि लेहवत् कुम्भे स्थितानि घृतभाविते|
संवत्सरं निधेयानि यवपल्ले तथैव च||१८||
दद्यादालोडनं मासे सर्वत्रालोडयन् बुधः|
संवत्सरात्यये तस्य प्रयोगो मधुसर्पिषा||१९||
प्रातः प्रातर्बलापेक्षी सात्म्यं जीर्णे च भोजनम्|
एष एव च लौहानां प्रयोगः सम्प्रकीर्तितः||२०||
नाभिघातैर्न चातङ्कैर्जरया न च मृत्युना|
स धृष्यः स्याद्गजप्राणः सदा चातिबलेन्द्रियः||२१||
धीमान् यशस्वी वाक्सिद्धः श्रुतधारी महाधनः |
भवेत् समां प्रयुञ्जानो नरो लौहरसायनम्||२२||
अनेनैव विधानेन हेम्नश्च रजतस्य च|
आयुःप्रकर्षकृत्सिद्धः प्रयोगः सर्वरोगनुत्||२३||
(इति लौहादिरसायनम्)|
ऐन्द्री मत्स्याख्यको ब्राह्मी वचा ब्रह्मसुवर्चला|
पिप्पल्यो लवणं हेम शङ्खपुष्पी विषं घृतम्||२४||
एषां त्रियवकान् भागान् हेमसर्पिर्विषैर्विना|
द्वौ यवौ तत्र हेम्नस्तु तिलं दद्याद्विषस्य च||२५||
सर्पिषश्च पलं दद्यात्तदैकध्यं प्रयोजयेत्|
घृतप्रभूतं सक्षौद्रं जीर्णे चान्नं प्रशस्यते||२६||
जराव्याधिप्रशमनं स्मृतिमेधाकरं परम्|
आयुष्यं पौष्टिकं धन्यं स्वरवर्णप्रसादनम्||२७||
परमोजस्करं चैतत् सिद्धमैन्द्रं रसायनम्|
नैनत् प्रसहते कृत्या नालक्ष्मीर्न विषं न रुक्||२८||
श्वित्रं सकुष्ठं जठराणि गुल्माः प्लीहा पुराणो विषमज्वरश्च|
मेधास्मृतिज्ञानहराश्च रोगाः शाम्यन्त्यनेनातिबलाश्च वाताः||२९||
(इत्यैन्द्रं रसायनम्)|
मण्डूकपर्ण्याः स्वरसः प्रयोज्यः क्षीरेण यष्टीमधुकस्य चूर्णम्|
रसो गुडूच्यास्तु समूलपुष्प्याः कल्कः प्रयोज्यः खलु शङ्खपुष्प्याः||३०||
आयुःप्रदान्यामयनाशनानि बलाग्निवर्णस्वरवर्धनानि|
मेध्यानि चैतानि रसायनानि मेध्या विशेषेण च शङ्खपुष्पी||३१||
(इति मेध्यरसायनानि)|
पञ्चाष्टौ सप्त दश वा पिप्पलीर्मधुसर्पिषा|
रसायनगुणान्वेषी समामेकां प्रयोजयेत्||३२||
तिस्रस्तिस्रस्तु पूर्वाह्णे भुक्त्वाऽग्रे भोजनस्य च|
पिप्पल्यः किंशुकक्षारभाविता घृतभर्जिताः||३३||
प्रयोज्या मधुसम्मिश्रा रसायनगुणैषिणा|
जेतुं कासं क्षयं शोषं श्वासं हिक्कां गलामयान्||३४||
अर्शांसि ग्रहणीदोषं पाण्डुतां विषमज्वरम्|
वैस्वर्यं पीनसं शोफं गुल्मं वातबलासकम्||३५||
(इति पिप्पलीरसायनम्)|
क्रमवृद्ध्या दशाहानि दशपैप्पलिकं दिनम्|
वर्धयेत् पयसा सार्धं तथैवापनयेत् पुनः||३६||
जीर्णे जीर्णे च भुञ्जीत षष्टिकं क्षीरसर्पिषा|
पिप्पलीनां सहस्रस्य प्रयोगोऽयं रसायनम्||३७||
पिष्टास्ता बलिभिः सेव्याः, शृता मध्यबलैर्नरैः|
चूर्णीकृता ह्रस्वबलैर्योज्या दोषामयान् प्रति||३८||
दशपैप्पलिकः श्रेष्ठो मध्यमः षट् प्रकीर्तितः|
प्रयोगो यस्त्रिपर्यन्तः स कनीयान् स चाबलैः||३९||
बृहणं स्वर्यमायुष्यं प्लीहोदरविनाशनम्|
वयसः स्थापनं मेध्यं पिप्पलीनां रसायनम्||४०||
(इति पिप्पलीवर्धमानं रसायनम्)|
जरणान्तेऽभयामेकां प्राग्भुक्ताद् द्वे बिभीतके|
भुक्त्वा तु मधुसर्पिर्भ्यां चत्वार्यामलकानि च||४१||
प्रयोजयन् समामेकां त्रिफलाया रसायनम्|
जीवेद्वर्षशतं पूर्णमजरोऽव्याधिरेव च||४२||
(इति त्रिफलारसायनम्)|
त्रैफलेनायसीं पात्रीं कल्केनालेपयेन्नवाम्|
तमहोरात्रिकं लेपं पिबेत् क्षौद्रोदकाप्लुतम्||४३||
प्रभूतस्नेहमशनं जीर्णे तत्र प्रशस्यते|
अजरोऽरुक् समाभ्यासाज्जीवेच्चैव समाः शतम्||४४||
(इति त्रिफलारसायनमपरम्)|
मधुकेन तुगाक्षीर्या पिप्पल्या क्षौद्रसर्पिषा|
त्रिफला सितया चापि युक्ता सिद्धं रसायनम्||४५||
(इति त्रिफलारसायनमपरम्)|
सर्वलौहैः सुवर्णेन वचया मधुसर्पिषा|
विडङ्गपिप्पलीभ्यां च त्रिफला लवणेन च||४६||
संवत्सरप्रयोगेण मेधास्मृतिबलप्रदा|
भवत्यायुःप्रदा धन्या जरारोगनिबर्हणी||४७||
(इति त्रिफलारसायनमपरम्)|
अनम्लं च कषायं च कटु पाके शिलाजतु|
नात्युष्णशीतं धातुभ्यश्चतुर्भ्यस्तस्य सम्भवः||४८||
हेम्नश्च रजतात्ताम्राद्वरात् कृष्णायसादपि|
रसायनं तद्विधिभिस्तद्वृष्यं तच्च रोगनुत्||४९||
वातपित्तकफघ्नैश्च निर्यूहैस्तत् सुभावितम्|
वीर्योत्कर्षं परं याति सर्वैरेकैकशोऽपि वा||५०||
प्रक्षिप्तोद्धृतमप्येनत् पुनस्तत् प्रक्षिपेद्रसे|
कोष्णे सप्ताहमेतेन विधिना तस्य भावना||५१||
पूर्वोक्तेन विधानेन लोहैश्चूर्णीकृतैः सह|
तत् पीतं पयसा दद्याद्दीर्घमायुः सुखान्वितम्||५२||
जराव्याधिप्रशमनं देहदार्ढ्यकरं परम्|
मेधास्मृतिकरं धन्यं क्षीराशी तत् प्रयोजयेत्||५३||
प्रयोगः सप्तसप्ताहास्त्रयश्चैकश्च सप्तकः|
निर्दिष्टस्त्रिविधस्तस्य परो मध्योऽवरस्तथा||५४||
पलमर्धपलं कर्षो मात्रा तस्य त्रिधा मता|५५|
जातेर्विशेषं सविधिं तस्य वक्ष्याम्यतः परम्||५५||
हेमाद्याः सूर्यसन्तप्ताः स्रवन्ति गिरिधातवः|
जत्वाभं मृदु मृत्स्नाच्छं यन्मलं तच्छिलाजतु||५६||
मधुरश्च सतिक्तश्च जपापुष्पनिभश्च यः|
कटुर्विपाके शीतश्च स सुवर्णस्य निस्रवः||५७||
रूप्यस्य कटुकः श्वेतः शीतः स्वादु विपच्यते|
ताम्रस्य बर्हिकण्ठाभस्तिक्तोष्णः पच्यते कटु||५८||
यस्तु गुग्गुलुकाभासस्तिक्तको लवणान्वितः|
कटुर्विपाके शीतश्च सर्वश्रेष्ठः स चायसः||५९||
गोमूत्रगन्धयः सर्वे सर्वकर्मसु यौगिकाः|
रसायनप्रयोगेषु पश्चिमस्तु विशिष्यते||६०||
यथाक्रमं वातपित्ते श्लेष्मपित्ते कफे त्रिषु|
विशेषतः प्रशस्यन्ते मला हेमादिधातुजाः||६१||
शिलाजतुप्रयोगेषु विदाहीनि गुरूणि च|
वर्जयेत् सर्वकालं तु कुलत्थान् परिवर्जयेत्||६२||
ते ह्यत्यन्तविरुद्धत्वादश्मनो भेदनाः परम्|
लोके दृष्टास्ततस्तेषां प्रयोगः प्रतिषिध्यते||६३||
पयांसि तक्राणि रसाः सयूषास्तोयं समूत्रा विविधाः कषायाः|
आलोडनार्थं गिरिजस्य शस्तास्ते ते प्रयोज्याः प्रसमीक्ष्य कार्यम्||६४||
न सोऽस्ति रोगो भुवि साध्यरूपः शिलाह्वयं यं न जयेत् प्रसह्य|
तत् कालयोगैर्विधिभिः प्रयुक्तं स्वस्थस्य चोर्जां विपुलां ददाति||६५||
(इति शिलाजतुरसायनम्)|
तत्र श्लोकः-
करप्रचितिके पादे दश षट् च महर्षिणा|
रसायनानां सिद्धानां संयोगाः समुदाहृताः||६६||
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने रसायनाध्याये करप्रचितीयो नाम रसायनपादस्तृतीयः||३||