Shree Naval Kishori

चिकित्सास्थानम् - २/२. आसिक्तक्षीरीयो वाजीकरणपादः

अथात आसिक्तक्षीरिकं वाजीकरणपादं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||

आसिक्तक्षीरमापूर्णमशुष्कं शुद्धषष्टिकम्|
उदूखले समापोथ्य पीडयेत् क्षीरमर्दितम्||३||
गृहीत्वा तं रसं पूतं गव्येन पयसा सह|
बीजानामात्मगुप्ताया धान्यमाषरसेन च||४||
बलायाः शूर्पपर्ण्योश्च जीवन्त्या जीवकस्य च |
ऋद्ध्यर्षभककाकोलीश्वदंष्ट्रामधुकस्य च||५||
शतावर्या विदार्याश्च द्राक्षाखर्जूरयोरपि|
संयुक्तं मात्रया वैद्यः साधयेत्तत्र चावपेत्||६||
तुगाक्षीर्याः समाषाणां शालीनां षष्टिकस्य च|
गोधूमानां च चूर्णानि यैः स सान्द्रीभवेद्रसः||७||
सान्द्रीभूतं च कुर्यात् प्रभूतमधुशर्करम्|
गुलि(टि)का बदरैस्तुल्यास्ताश्च सर्पिषि भर्जयेत्||८||
ता यथाग्नि प्रयुञ्जानः क्षीरमांसरसाशनः|
पश्यत्यपत्यं विपुलं वृद्धोऽप्यात्मजमक्षयम्||९||
(इत्यपत्यकरी षष्टिकादिगुटिका)|

चटकानां सहंसानां दक्षाणां शिखिनां तथा|
शिशुमारस्य नक्रस्य भिषक् शुक्राणि संहरेत्||१०||
गव्यं सर्पिर्वराहस्य कुलिङ्गस्य वसामपि|
षष्टिकानां च चूर्णानि चूर्णं गोधूमकस्य च||११||
एभिः पूपलिकाः कार्याः शष्कुल्यो वर्तिकास्तथा|
पूपा धानाश्च विविधा भक्ष्याश्चान्ये पृथग्विधाः||१२||
एषां प्रयोगाद्भक्ष्याणां स्तब्धेनापूर्णरेतसा|
शेफसा वाजिवद्याति यावदिच्छं स्त्रियो नरः||१३||
(इति वृष्यपूपलिकादियोगाः)|
आत्मगुप्ताफलं माषान् खर्जूराणि शतावरीम्|
शृङ्गाटकानि मृद्वीकां साधयेत् प्रसृतोन्मितम्||१४||
क्षीरप्रस्थं जलप्रस्थमेतत् प्रस्थावशेषितम्|
शुद्धेन वाससा पूतं योजयेत् प्रसृतैस्त्रिभिः||१५||
शर्करायास्तुगाक्षीर्याः सर्पिषोऽभिनवस्य च|
तत् पाययेत सक्षौद्रं षष्टिकान्नं च भोजयेत्||१६||
जरापरीतोऽप्यबलो योगेनानेन विन्दति|
नरोऽपत्यं सुविपुलं युवेव च स हृष्यति||१७||
(इत्यपत्यकरः स्वरसः)|

खर्जूरीमस्तकं माषान् पयस्यां च शतावरीम्|
खर्जूराणि मधूकानि मृद्वीकामजडाफलम्||१८||
पलोन्मितानि मतिमान् साधयेत् सलिलाढके|
तेन पादावशेषेण क्षीरप्रस्थं विपाचयेत्||१९||
क्षीरशेषेण तेनाद्याद् घृताढ्यं षष्टिकौदनम्|
सशर्करेण संयोग एष वृष्यः परं स्मृतः||२०||
(इति वृष्यक्षीरम्)|

जीवकर्षभकौ मेदां जीवन्तीं श्रावणीद्वयम्|
खर्जूरं मधुकं द्राक्षां पिप्पलीं विश्वभेषजम्||२१||
शृङ्गाटकं विदारीं च नवं सर्पिः पयो जलम्|
सिद्धं घृतावशेषं तच्छर्कराक्षौद्रपादिकम्||२२||
षष्टिकान्नेन संयुक्तमुपयोज्यं यथाबलम्|
वृष्यं बल्यं च वर्ण्यं च कण्ठ्यं बृंहणमुत्तमम्||२३||
(इति वृष्यघृतम्)|

दध्नः सरं शरच्चन्द्रसन्निभं दोषवर्जितम्|
शर्कराक्षौद्रमरिचैस्तुगाक्षीर्या च बुद्धिमान्||२४||
युक्त्या युक्तं ससूक्ष्मैलं नवे कुम्भे शुचौ पटे|
मार्जितं प्रक्षिपेच्छीते घृताढ्ये षष्टिकौदने||२५||
पिबेन्मात्रां रसालायास्तं भुक्त्वा षष्टिकौदनम् |
वर्णस्वरबलोपेतः पुमांस्तेन वृषायते||२६||
(वृष्यो दधिसरप्रयोगः)|

चन्द्रांशुकल्पं पयसा घृताढ्यं षष्टिकौदनम्|
शर्करामधुसंयुक्तं प्रयुञ्जानो वृषायते||२७||
(इति वृष्यः षष्टिकौदनप्रयोगः)|
तप्ते सर्पिषि नक्राण्डं ताम्रचूडाण्डमिश्रितम्|
युक्तं षष्टिकचूर्णेन सर्पिषाऽभिनवेन च||२८||
पक्त्वा पूपलिकाः खादेद्वारुणीमण्डपो नरः|
य इच्छेदश्ववद्गन्तुं प्रसेक्तुं गजवच्च यः||२९||
(इति वृष्यपूपलिकाः)|

भवतश्चात्र-

एतैः प्रयोगैर्विधिवद्वपुष्मान् वीर्योपपन्नो बलवर्णयुक्तः|
हर्षान्वितो वाजिवदष्टवर्षो भवेत् समर्थश्च वराङ्गनासु||३०||
यद्यच्च किञ्चिन्मनसः प्रियं स्याद्रम्या वनान्ताः पुलिनानि शैलाः|
इष्टाः स्त्रियो भूषणगन्धमाल्यं प्रिया वयस्याश्च तदत्र योग्यम् ||३१||

तत्र श्लोकः-

आसिक्तक्षीरिके पादे ये योगाः परिकीर्तिताः|
अष्टावपत्यकामैस्ते प्रयोज्याः पौरुषार्थिभिः||३२||

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने वाजीकरणाध्याये 

आसिक्तक्षीरिको नाम वाजीकरणपादो द्वितीयः||२||