चिकित्सास्थानम् - २/४. पुमाञ्जातबलादिको वाजीकरणपादः
अथातः पुमाञ्जातबलादिकं वाजीकरणपादं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
पुमान् यथा जातबलो यावदिच्छं स्त्रियो व्रजेत्|
यथा चापत्यवान् सद्यो भवेत्तदुपदेक्ष्यते||३||
न हि जातबलाः सर्वे नराश्चापत्यभागिनः|
बृहच्छरीरा बलिनः सन्ति नारीषु दुर्बलाः||४||
सन्ति चाल्पाश्रयाः स्त्रीषु बलवन्तो बहुप्रजाः|
प्रकृत्या चाबलाः सन्ति सन्ति चामयदुर्बलाः||५||
नराश्चटकवत् केचिद् व्रजन्ति बहुशः स्त्रियम्|
गजवच्च प्रसिञ्चन्ति केचिन्न बहुगामिनः||६||
कालयोगबलाः केचित् केचिदभ्यसनध्रुवाः|
केचित् प्रयत्नैर्व्यज्यन्ते वृषाः केचित् स्वभावतः||७||
तस्मात् प्रयोगान् वक्ष्यामो दुर्बलानां बलप्रदान्|
सुखोपभोगान् बलिनां भूयश्च बलवर्धनान्||८||
पूर्वं शुद्धशरीराणां निरूहैः सानुवासनैः|
बलापेक्षी प्रयुञ्जीत शुक्रापत्यविवर्धनान्||९||
घृततैलरसक्षीरशर्करामधुसंयुताः|
बस्तयः संविधातव्याः क्षीरमांसरसाशिनाम्||१०||
पिष्ट्वा वराहमांसानि दत्त्वा मरिचसैन्धवे|
कोलवद्गुलिकाः कृत्वा तप्ते सर्पिषि वर्तयेत् ||११||
वर्तनस्तम्भितास्ताश्च प्रक्षेप्याः कौक्कुटे रसे|
घृताढ्ये गन्धपिशुने दधिदाडिमसारिके||१२||
यथा न भिन्द्याद्गुलि(टि)कास्तथा तं साधयेद्रसम्|
तं पिबन् भक्षयंस्ताश्च लभते शुक्रमक्षयम्||१३||
मांसानामेवमन्येषां मेद्यानां कारयेद्भिषक्|
गुटिकाः सरसास्तासं प्रयोगः शुक्रवर्धनः||१४||
(इति वृष्या मांसगुटिकाः)|
माषानङ्कुरिताञ्छुद्धान् वितुषान् साजडाफलान्|
घृताढ्ये माहिषरसे दधिदाडिमसारिके||१५||
प्रक्षिपेन्मात्रया युक्तो धान्यजीरकनागरैः|
भुक्तः पीतश्च स रसः कुरुते शुक्रमक्षयम्||१६||
(इति वृष्यो माहिषरसः)|
आर्द्राणि मत्स्यमांसानि शफरीर्वा सुभार्जिताः|
तप्ते सर्पिषि यः खादेत् स गच्छेत् स्त्रीषु न क्षयम्||१७||
घृतभृष्टान् रसे च्छागे रोहितान् फलसारिके|
अनुपीतरसान् स्निग्धानपत्यार्थी प्रयोजयेत्||१८||
(इति वृष्यघृतभृष्टमत्स्यमांसानि)|
कुट्टकं मत्स्यमांसानां हिङ्गुसैन्धवधान्यकैः|
युक्तं गोधूमचूर्णेन घृते पूपलिकाः पचेत्||१९||
माहिषे च रसे मत्स्यान् स्निग्धाम्ललवणान् पचेत्|
रसे चानुगते मांसं पोथयेत्तत्र चावपेत्||२०||
मरिचं जीरकं धान्यमल्पं हिङ्गु नवं घृतम्|
माषपूपलिकानां तद्गर्भार्थमुपकल्पयेत्||२१||
एतौ पूपलिकायोगौ बृंहणौ बलवर्धनौ|
हर्षसौभाग्यदौ पुत्र्यौ परं शुक्राभिवर्धनौ||२२||
(इति वृष्यौ पूपलिकायोगौ)|
माषात्मगुप्तागोधूमशालिषष्टिकपैष्टिकम्|
शर्कराया विदार्याश्च चूर्णमिक्षुरकस्य च||२३||
संयोज्य मसृणे क्षीरे घृते पूपलिकाः पचेत्|
पयोऽनुपानास्ताः शीघ्रं कुर्वन्ति वृषतां पराम्||२४||
(इति वृष्या माषादिपूपलिकाः)|
शर्करायास्तुलैका स्यादेका गव्यस्य सर्पिषः|
प्रस्थो विदार्याश्चूर्णस्य पिप्पल्याः प्रस्थ एव च||२५||
अर्धाढकं तुगाक्षीर्याः क्षौद्रस्याभिनवस्य च|
तत्सर्वं मूर्च्छितं तिष्ठेन्मार्तिके घृतभाजने||२६||
मात्रामग्निसमां तस्य प्रातः प्रातः प्रयोजयेत्|
एष वृष्यः परं योगो बल्यो बृंहण एव च||२७||
शतावर्या विदार्याश्च तथा माषात्मगुप्तयोः|
श्वदंष्ट्रायाश्च निष्क्वाथाञ्जलेषु च पृथक् पृथक्||२८||
साधयित्वा घृतप्रस्थं पयस्यष्टगुणे पुनः|
शर्करामधुयुक्तं तदपत्यार्थी प्रयोजयेत्||२९||
(इत्यपत्यकरं घृतम्)|
घृतपात्रं शतगुणे विदारीस्वरसे पचेत्|
सिद्धं पुनः शतगुणे गव्ये पयसि साधयेत्||३०||
शर्करायास्तुगाक्षीर्यां क्षौद्रस्येक्षुरकस्य च|
पिप्पल्याः साजडायाश्च भागैः पादांशिकैर्युतम्||३१||
गुलि(टि)काः कारयेद्वैद्यो यथा स्थुलमुदुम्बरम्|
तासां प्रयोगात् पुरुषः कुलिङ्ग इव हृष्यति||३२||
(इति वृष्यगुटिकाः)|
सितोपलापलशतं तदर्धं नवसर्पिषः|
क्षौद्रपादेन संयुक्तं साधयेज्जलपादिकम्||३३||
सान्द्रं गोधूमचूर्णानां पादं स्तीर्णे शिलातले|
शुचौ श्लक्ष्णे समुत्कीर्य मर्दनेनोपपादयेत्||३४||
शुद्धा उत्कारिकाः कार्यश्चन्द्रमण्डलसन्निभाः|
तासां प्रयोगाद्गजवन्नारीः सन्तर्पयेन्नरः||३५||
(इति वृष्योत्कारिका)|
यत् किञ्चिन्मधुरं स्निग्धं जीवनं बृंहणं गुरु|
हर्षणं मनसश्चैव सर्वं तद्वृष्यमुच्यते||३६||
द्रव्यैरेवंविधैस्तस्माद्भावितः प्रमदां व्रजेत्|
आत्मवेगेन चोदीर्णः स्त्रीगुणैश्च प्रहर्षितः||३७||
गत्वा स्नात्वा पयः पीत्वा रसं वाऽनु शयीत ना|
तथाऽस्याप्यायते भूयः शुक्रं च बलमेव च||३८||
यथा मुकुलपुष्पस्य सु(ख) गन्धो नोपलभ्यते|
लभ्यते तद्विकाशात्तु तथा शुक्रं हि देहिनाम्||३९||
नर्ते वै षोडशाद्वर्षात् सप्तत्याः परतो न च|
आयुष्कामो नरः स्त्रीभिः संयोगं कर्तुमर्हति||४०||
अतिबालो ह्यसम्पूर्णसर्वधातुः स्त्रियं व्रजन्|
उपशुष्येत सहसा तडागमिव काजलम्||४१||
शुष्कं रूक्षं यथा काष्ठं जन्तुदग्धं विजर्जरम्|
स्पृष्टमाशु विशीर्येत तथा वृद्धः स्त्रियो व्रजन्||४२||
जरया चिन्तया शुक्रं व्याधिभिः कर्मकर्षणात्|
क्षयं गच्छत्यनशनात् स्त्रीणां चातिनिषेवणात्||४३||
क्षयाद्भयादविश्रम्भाच्छोकात् स्त्रीदोषदर्शनात्|
नारीणामरसज्ञत्वादविचारादसेवनात्||४४||
तृप्तस्यापि स्त्रियो गन्तुं न शक्तिरुपजायते|
देहसत्त्वबलापेक्षी हर्षः शक्तिश्च हर्षजा||४५||
रस इक्षौ यथा दध्नि सर्पिस्तैलं तिले यथा|
सर्वत्रानुगतं देहे शुक्रं संस्पर्शने तथा||४६||
तत् स्त्रीपुरुषसंयोगे चेष्टासङ्कल्पपीडनात्|
शुक्रं प्रच्यवते स्थानाज्जलमार्द्रात् पटादिव||४७||
हर्षात्तर्षात् सरत्वाच्च पैच्छिल्याद्गौरवादपि|
अणुप्रवणभावाच्च द्रुतत्वान्मारुतस्य च||४८||
अष्टाभ्य एभ्यो हेतुभ्यः शुक्रं देहात् प्रसिच्यते|
चरतो विश्वरूपस्य रूपद्रव्यं यदुच्यते||४९||
बहलं मधुरं स्निग्धमविस्रं गुरु पिच्छिलम्|
शुक्लं बहु च यच्छुक्रं फलवत्तदसंशयम्||५०||
येन नारीषु सामर्थ्यं वाजीवल्लभते नरः|
व्रजेच्चाभ्यधिकं येन वाजीकरणमेव तत्||५१||
तत्र श्लोकौ-
हेतुर्योगोपदेशस्य योगा द्वादश चोत्तमाः|
यत् पूर्वं मैथुनात् सेव्यं सेव्यं यन्मैथुनादनु||५२||
यदा न सेव्याः प्रमदाः कृत्स्नः शुक्रविनिश्चयः|
निरुक्तं चेह निर्दिष्टं पुमाञ्जातबलादिके||५३||
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने वाजीकरणाध्याये
पुमाञ्जातबलादिको नाम वाजीकरणपादश्चतुर्थः||४||
समाप्तश्चायं द्वितीयो वाजीकरणाध्यायः||२||