Shree Naval Kishori

चिकित्सास्थानम् - ३. ज्वरचिकित्सितम्

अथातो ज्वरचिकित्सितं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||

विज्वरं ज्वरसन्देहं पर्यपृच्छत् पुनर्वसुम्|
विविक्ते शान्तमासीनमग्निवेशः कृताञ्जलिः||३||

देहेन्द्रियमनस्तापी सर्वरोगाग्रजो बली|
ज्वरः प्रधानो रोगाणामुक्तो भगवता पुरा||४||
तस्य प्राणिसपत्नस्य ध्रुवस्य प्रलयोदये|
प्रकृतिं च प्रवृत्तिं च प्रभावं कारणानि च||५||
पूर्वरूपमधिष्ठानं बलकालात्मलक्षणम्|
व्यासतो विधिभेदाच्च पृथग्भिन्नस्य चाकृतिम्||६||
लिङ्गमामस्य जीर्णस्य सौषधं च क्रियाक्रमम्|
विमुञ्चतः प्रशान्तस्य चिह्नं यच्च पृथक् पृथक्||७||
ज्वरावसृष्टो रक्ष्यश्च यावत्कालं यतो यतः|
प्रशान्तः कारणैर्यैश्च पुनरावर्तते ज्वरः||८||
याश्चापि पुनरावृत्तं क्रियाः प्रशमयन्ति तम्|
जगद्धितार्थं तत् सर्वं भगवन्! वक्तुमर्हसि||९||
तदग्निवेशस्य वचो निशम्य गुरुरब्रवीत्|
ज्वराधिकारे यद्वाच्यं तत् सौम्य! निखिलं शृणु||१०||

ज्वरो विकारो रोगश्च व्याधिरातङ्क एव च|
एकोऽर्थो नामपर्यायैर्विविधैरभिधीयते||११||

तस्य प्रकृतिरुद्दिष्टा दोषाः शारीरमानसाः|
देहिनं न हि निर्दोषं ज्वरः समुपसेवते||१२||

क्षयस्तमो ज्वरः पाप्मा मृत्युश्चोक्ता यमात्मकाः|
पञ्चत्वप्रत्ययान्नॄणां क्लिश्यतां स्वेन कर्मणा||१३||
इत्यस्य प्रकृतिः प्रोक्ताप्रवृत्तिस्तु परिग्रहात्|
निदाने पूर्वमुद्दिष्टा रुद्रकोपाच्च दारुणात्||१४||

द्वितीये हि युगे शर्वमक्रोधव्रतमास्थितम्|
दिव्यं सहस्रं वर्षाणामसुरा अभिदुद्रुवुः||१५||
तपोविघ्नाशनाः कर्तुं तपोविघ्नं महात्मनः|
पश्यन् समर्थश्चोपेक्षां चक्रे दक्षः प्रजापतिः||१६||
पुनर्माहेश्वरं भागं ध्रुवं दक्षः प्रजापतिः|
यज्ञे न कल्पयामास प्रोच्यमानः सुरैरपि||१७||
ऋचः पशुपतेर्याश्च शैव्य आहतयश्च याः|
यज्ञसिद्धिप्रदास्ताभिर्हीनं चैव स इष्टवान्||१८||
अथोत्तीर्णव्रतो देवो बुद्ध्वा दक्षव्यतिक्रमम्|
रुद्रो रौद्रं पुरस्कृत्य भावमात्मविदात्मनः||१९||
सृष्ट्वा ललाटे चक्षुर्वै दग्ध्वा तानसुरान् प्रभुः|
बालं क्रोधाग्निसन्तप्तमसृजत् सत्रनाशनम्||२०||
ततो यज्ञः स विध्वस्तो व्यथिताश्च दिवौकसः|
दाहव्यथापरीताश्च भ्रान्ता भूतगणा दिशः||२१||
अथेश्वरं देवगणः सह सप्तर्षिभिर्विभुम्|
तमृग्भिरस्तुवन् यावच्छैवे भावे शिवः स्थितः||२२||
शिवं शिवाय भूतानां स्थितं ज्ञात्वा कृताञ्जलिः|
भिया भस्मप्रहरणस्त्रिशिरा नवलोचनः||२३||
ज्वालामालाकुलो रौद्रो ह्रस्वजङ्घोदरः क्रमात्|
क्रोधाग्निरुक्तवान् देवमहं किं करवाणि ते||२४||
तमुवाचेश्वरः क्रोधं ज्वरो लोके भविष्यसि|
जन्मादौ निधने च त्वमपचारान्तरेषु च||२५||

सन्तापः सारुचिस्तृष्णा साङ्गमर्दो हृदि व्यथा|
ज्वरप्रभावो, जन्मादौ निधने च महत्तमः||२६||
प्रकृतिश्च प्रवृत्तिश्च प्रभावश्च प्रदर्शितः|२७|

निदाने कारणान्यष्टौ पूर्वोक्तानि विभागशः||२७||

आलस्यं नयने सास्रे जृम्भणं गौरवं क्रमः|
ज्वलनातपवाय्वम्बुभक्तिद्वेषावनिश्चितौ||२८||
अविपाकास्यवैरस्ये हानिश्च बलवर्णयोः|
शीलवैकृतमल्पं च ज्वरलक्षणमग्रजम्||२९||

केवलं समनस्कं च ज्वराधिष्ठानमुच्यते|
शरीरं, बलकालस्तु निदाने सम्प्रदर्शितः||३०||

ज्वरप्रत्यात्मिकं लिङ्गं सन्तापो देहमानसः|
ज्वरेणाविशता भूतं न हि किञ्चिन्न तप्यते||३१||

द्विविधो विधिभेदेन ज्वरः शारीरमानसः|
पुनश्च द्विविधो दृष्टः सौम्यश्चाग्नेय एव वा||३२||
अन्तर्वेगो बहिर्वेगो द्विविधः पुनरुच्यते|
प्राकृतो वैकृतश्चैव साध्यश्चासाध्य एव च||३३||
पुनः पञ्चविधो दृष्टो दोषकालबलाबलात्|
सन्ततः सततोऽन्येद्युस्तृतीयकचतुर्थकौ||३४||
पुनराश्रयभेदेन धातूनां सप्तधा मतः|
भिन्नः कारणभेदेन पुनरष्टविधो ज्वरः||३५||

शारीरो जायते पूर्वं देहे, मनसि मानसः|
वैचित्त्यमरतिर्ग्लानिर्मनसस्तापलक्षणम्||३६||
इन्द्रियाणां च वैकृत्यं ज्ञेयं सन्तापलक्षणम्|३७|

वातपित्तात्मकः शीतमुष्णं वातकफात्मकः||३७||
इच्छत्युभयमेतत्तु ज्वरो व्यामिश्रलक्षणः|३८|

योगवाहः परं वायुः संयोगादुभयार्थकृत्||३८||
दाहकृत्तेजसा युक्तः, शीतकृत् सोमसंश्रयात्|३९|

अन्तर्दाहोऽधिकस्तृष्णा प्रलापः श्वसनं भ्रमः||३९||
सन्ध्यस्थिशूलमस्वेदो दोषवर्चोविनिग्रहः|
अन्तर्वेगस्य लिङ्गानि ज्वरस्यैतानि लक्षयेत्||४०||
सन्तापोऽभ्यधिको बाह्यस्तृष्णादीनां च मार्दवम्|
बहिर्वेगस्य लिङ्गानि सुखसाध्यत्वमेव च||४१||

प्राकृतः सुखसाध्यस्तु वसन्तशरदुद्भवः|
उष्णमुष्णेन संवृद्धं पित्तं शरदि कुप्यति||४२||
चितः शीते कफश्चैवं वसन्ते समुदीर्यते|
वर्षास्वम्लविपाकाभिरद्भिरोषधिभिस्तथा||४३||
सञ्चितं पित्तमुद्रिक्तं शरद्यादित्यतेजसा|
ज्वरं सञ्जनयत्याशु तस्य चानुबलः कफः||४४||
प्रकृत्यैव विसर्गस्य तत्र नानशनाद्भयम्|
अद्भिरोषधिभिश्चैव मधुराभिश्चितः कफः||४५||
हेमन्ते, सूर्यसन्तप्तः स वसन्ते प्रकुप्यति|
वसन्ते श्लेष्मणा तस्माज्ज्वरः समुपजायते||४६||
आदानमध्ये तस्यापि वातपित्तं भवेदनु|४७|

आदावन्ते च मध्ये च बुद्ध्वा दोषबलाबलम्||४७||
शरद्वसन्तयोर्विद्वाञ्ज्वरस्य प्रतिकारयेत्|४८|

कालप्रकृतिमुद्दिश्य निर्दिष्टः प्राकृतो ज्वरः||४८||
प्रायेणानिलजो दुःखः कालेष्वन्येषु वैकृतः|
हेतवो विविधास्तस्य निदाने सम्प्रदर्शिताः||४९||

बलवत्स्वल्पदोषेषु ज्वरः साध्योऽनुपद्रवः|५०|

हेतुभिर्बहुभिर्जातो बलिभिर्बहुलक्षणः||५०||
ज्वरः प्राणान्तकृद्यश्च शीघ्रमिन्द्रियनाशनः|५१|

सप्ताहाद्वा दशाहाद्वा द्वादशाहात्तथैव च||५१||
सप्रलापभ्रमश्वासस्तीक्ष्णो हन्याज्ज्वरो नरम्|५२|

ज्वरः क्षीणस्य शूनस्य गम्भीरो दैर्घरात्रिकः||५२||
असाध्यो बलवान् यश्च केशसीमन्तकृज्ज्वरः|५३|

स्रोतोभिर्विसृता दोषा गुरवो रसवाहिभिः||५३||
सर्वदेहानुगाः स्तब्धा ज्वरं कुर्वन्ति सन्ततम्|
दशाहं द्वादशाहं वा सप्ताहं वा सुदुःसहः||५४||
स शीघ्रं शीघ्रकारित्वात् प्रशमं याति हन्ति वा|
कालदूष्यप्रकृतिभिर्दोषस्तुल्यो हि सन्ततम्||५५||
निष्प्रत्यनीकः कुरुते तस्माज्ज्ञेयः सुदुःसहः|
यथा धातूंस्तथा मूत्रं पुरीषं चानिलादयः||५६||
युगपच्चानुपद्यन्ते नियमात् सन्तते ज्वरे|
स शुद्ध्या वाऽप्यशुद्ध्या वा रसादीनामशेषतः||५७||
सप्ताहादिषु कालेषु प्रशमं याति हन्ति वा|
यदा तु नातिशुध्यन्ति न वा शुध्यन्ति सर्वशः||५८||
द्वादशैते समुद्दिष्टाः सन्ततस्याश्रयास्तदा|
विसर्गं द्वादशे कृत्वा दिवसेऽव्यक्तलक्षणम्||५९||
दुर्लभोपशमः कालं दीर्घमप्यनुवर्तते|
इति बुद्ध्वा ज्वरं वैद्य उपक्रामेत्तु सन्ततम् ||६०||
क्रियाक्रमविधौ युक्तः प्रायः प्रागपतर्पणैः|६१|

रक्तधात्वाश्रयः प्रायो दोषः सततकं ज्वरम्||६१||
सप्रत्यनीकः कुरुते कालवृद्धिक्षयात्मकम्|
अहोरात्रे सततको द्वौ कालावनुवर्तते||६२||

कालप्रकृतिदूष्याणां प्राप्यैवान्यतमाद्बलम्|
अन्येद्युष्कं ज्वरं दोषो रुद्ध्वा मेदोवहाः सिराः||६३||
सप्रत्यनीको जनयत्येककालमहर्निशि|
दोषोऽस्थिमज्जगः कुर्यात्तृतीयकचतुर्थकौ||६४||
गतिर्द्व्येकान्तराऽन्येद्युर्दोषस्योक्ताऽन्यथा परैः|
अन्येद्युष्कं ज्वरं कुर्यादपि संश्रित्य शोणितम्||६५||
मांसस्रोतांस्यनुगतो जनयेत्तु तृतीयकम्|
संश्रितो मेदसो मार्गं दोषश्चापि चतुर्थकम् ||६६||
अन्येद्युष्कः प्रतिदिनं दिनं हित्वा तृतीयकः|
दिनद्वयं यो विश्रम्य प्रत्येति स चतुर्थकः||६७||

अधिशेते यथा भूमिं बीजं काले च रोहति|
अधिशेते तथा धातुं दोषः काले च कुप्यति||६८||
स वृद्धिं बलकालं च प्राप्य दोषस्तृतीयकम्|
चतुर्थकं च कुरुते प्रत्यनीकबलक्षयात्||६९||

कृत्वा वेगं गतबलाः स्वे स्वे स्थाने व्यवस्थिताः|
पुनर्विवृद्धाः स्वे काले ज्वरयन्ति नरं मलाः||७०||

कफपित्तात्त्रिकग्राही पृष्ठाद्वातकफात्मकः|
वातपित्ताच्छिरोग्राही त्रिविधः स्यात्तृतीयकः||७१||
चतुर्थको दर्शयति प्रभावं द्विविधं ज्वरः|
जङ्घाभ्यां श्लैष्मिकः पूर्वं शिरस्तोऽनिलसम्भवः||७२||

विषमज्वर एवान्यश्चतुर्थकविपर्ययः|
त्रिविधो धातुरेकैको द्विधातुस्थः करोति यम्||७३||

प्रायशः सन्निपातेन दृष्टः पञ्चविधो ज्वरः|
सन्निपाते तु यो भूयान् स दोषः परिकीर्तितः||७४||

ऋत्वहोरात्रदोषाणां मनसश्च बलाबलात्|
कालमर्थवशाच्चैव ज्वरस्तं तं प्रपद्यते||७५||
गुरुत्वं दैन्यमुद्वेगः सदनं छर्द्यरोचकौ|
रसस्थिते बहिस्तापः साङ्गमर्दो विजृम्भणम्||७६||
रक्तोष्णाः पिडकास्तृष्णा सरक्तं ष्ठीवनं मुहुः|
दाहरागभ्रममदप्रलापा रक्तसंस्थिते||७७||
अन्तर्दाहः सतृण्मोहः सग्लानिः सृष्टविट्कता|
दौर्गन्ध्यं गात्रविक्षेपो ज्वरे मांसस्थिते भवेत्||७८||
स्वेदस्तीव्रा पिपासा च प्रलापो वम्यभीक्ष्णशः|
स्वगन्धस्यासहत्वं च मेदःस्थे ग्लान्यरोचकौ||७९||
विरेकवमने चोभे सास्थिभेदं प्रकूजनम्|
विक्षेपणं च गात्राणां श्वासश्चास्थिगते ज्वरे||८०||
हिक्का श्वासस्तथा कासस्तमसश्चातिदर्शनम्|
मर्मच्छेदो बहिः शैत्यं दाहोऽन्तश्चैव मज्जगे||८१||
शुक्रस्थानगतः शुक्रमोक्षं कृत्वा विनाश्य च|
प्राणं वाय्वग्निसोमैश्च सार्धं गच्छत्यसौ विभुः||८२||
रसरक्ताश्रितः साध्यो मेदोमांसगतश्च यः|
अस्थिमज्जगतः कृच्छ्रः शुक्रस्थो नैव सिद्ध्यति||८३||

हेतुभिर्लक्षणैश्चोक्तः पूर्वमष्टविधो ज्वरः|
समासेनोपदिष्टस्य व्यासतः शृणु लक्षणम्||८४||
शिरोरुक् पर्वणां भेदो दाहो रोम्णां प्रहर्षणम्|
कण्ठास्यशोषो वमथुस्तृष्णा मूर्च्छा भ्रमोऽरुचिः||८५||
स्वप्ननाशोऽतिवाग्जृम्भा वातपित्तज्वराकृतिः|
शीतको गौरवं तन्द्रा स्तैमित्यं पर्वणां च रुक्||८६||
शिरोग्रहः प्रतिश्यायः कासः स्वेदाप्रवर्तनम्|
सन्तापो मध्यवेगश्च वातश्लेष्मज्वराकृतिः||८७||
मुहुर्दाहो मुहुः शीतं स्वेदस्तम्भो मुहुर्मुहुः|
मोहः कासोऽरुचिस्तृष्णा श्लेष्मपित्तप्रवर्तनम्||८८||
लिप्ततिक्तास्यता तन्द्रा श्लेष्मपित्तज्वराकृतिः|
इत्येते द्वन्द्वजाः प्रोक्ताः सन्निपातज उच्यते||८९||
सन्निपातज्वरस्योर्ध्वं त्रयोदशविधस्य हि|
प्राक्सूत्रितस्य वक्ष्यामि लक्षणं वै पृथक् पृथक्||९०||
भ्रमः पिपासा दाहश्च गौरवं शिरसोऽतिरुक्|
वातपित्तोल्बणे विद्याल्लिङ्गं मन्दकफे ज्वरे||९१||
शैत्यं कासोऽरुचिस्तन्द्रापिपासादाहरुग्व्यथाः|
वातश्लेष्मोल्बणे व्याधौ लिङ्गं पित्तावरे विदुः||९२||
छर्दिः शैत्यं मुहुर्दाहस्तृष्णा मोहोऽस्थिवेदना|
मन्दवाते व्यवस्यन्ति लिङ्गं पित्तकफोल्बणे||९३||
सन्ध्यस्थिशिरसः शूलं प्रलापो गौरवं भ्रमः|
वातोल्बणे स्याद् द्व्यनुगे तृष्णा कण्ठास्यशुष्कता||९४||
रक्तविण्मूत्रता दाहः स्वेदस्तृड् बलसङ्क्षयः|
मूर्च्छा चेति त्रिदोषे स्याल्लिङ्गं पित्ते गरीयसि||९५||
आलस्यारुचिहृल्लासदाहवम्यरतिभ्रमैः|
कफोल्बणं सन्निपातं तन्द्राकासेन चादिशेत्||९६||
प्रतिश्या छर्दिरालस्यं तन्द्राऽरुच्यग्निमार्दवम्|
हीनवाते पित्तमध्ये लिङ्गं श्लेष्माधिके मतम्||९७||
हारिद्रमूत्रनेत्रत्वं दाहस्तृष्णा भ्रमोऽरुचिः|
हीनवाते मध्यकफे लिङ्गं पित्ताधिके मतम्||९८||
शिरोरुग्वेपथुः श्वासः प्रलापश्छर्द्यरोचकौ|
हीनपित्ते मध्यकफे लिङ्गं स्यान्मारुताधिके||९९||
शीतको गौरवं तन्द्रा प्रलापोऽस्थिशिरोऽतिरुक्|
हीनपित्ते वातमध्ये लिङ्गं श्लेष्माधिके विदुः||१००||
श्वासः कासः प्रतिश्यायो मुखशोषोऽतिपार्श्वरुक्|
कफहीने पित्तमध्ये लिङ्गं वाताधिके मतम्||१०१||
वर्चोभेदोऽग्निदौर्बल्यं तृष्णा दाहोऽरुचिर्भ्रमः|
कफहीने वातमध्ये लिङ्गं पित्ताधिके विदुः||१०२||
सन्निपातज्वरस्योर्ध्वमतो वक्ष्यामि लक्षणम्|
क्षणे दाहः क्षणे शीतमस्थिसन्धिशिरोरुजा||१०३||
सास्रावे कलुषे रक्ते निर्भुग्ने चापि दर्शने |
सस्वनौ सरुजौ कर्णौ कण्ठः शूकैरिवावृतः||१०४||
तन्द्रा मोहः प्रलापश्च कासः श्वासोऽरुचिर्भ्रमः|
परिदग्धा खरस्पर्शा जिह्वा स्रस्ताङ्गता परम्||१०५||
ष्ठीवनं रक्तपित्तस्य कफेनोन्मिश्रितस्य च|
शिरसो लोठनं तृष्णा निद्रानाशो हृदि व्यथा||१०६||
स्वेदमूत्रपुरीषाणां चिराद्दर्शनमल्पशः|
कृशत्वं नातिगात्राणां प्रततं कण्ठकूजनम्||१०७||
कोठानां श्यावरक्तानां मण्डलानां च दर्शनम्|
मूकत्वं स्रोतसां पाको गुरुत्वमुदरस्य च||१०८||
चिरात् पाकश्च दोषाणां सन्निपातज्वराकृतिः|१०९|

दोषे विबद्धे नष्टेऽग्नौ सर्वसम्पूर्णलक्षणः||१०९||
सन्निपातज्वरोऽसाध्यः कृच्छ्रसाध्यस्त्वतोऽन्यथा|११०|

निदाने त्रिविधा प्रोक्ता या पृथग्जज्वराकृतिः||११०||
संसर्गसन्निपातानां तया चोक्तं स्वलक्षणम्|१११|

आगन्तुरष्टमो यस्तु स निर्दिष्टश्चतुर्विधः||१११||
अभिघाताभिषङ्गाभ्यामभिचाराभिशापतः|
शस्त्रलोष्टकशाकाष्ठमुष्ट्यरत्नितलद्विजैः||११२||
तद्विधैश्च हते गात्रे ज्वरः स्यादभिघातजः|
तत्राभिघातजे वायुः प्रायो रक्तं प्रदूषयन्||११३||
सव्यथाशोफवैवर्ण्यं करोति सरुजं ज्वरम्|११४|

कामशोकभयक्रोधैरभिषक्तस्य यो ज्वरः||११४||
सोऽभिषङ्गाज्वरो ज्ञेयो यश्च भूताभिषङ्गजः|
कामशोकभयाद्वायुः, क्रोधात् पित्तं, त्रयो मलाः||११५||
भूताभिषङ्गात् कुप्यन्ति भूतसामान्यलक्षणाः|
भूताधिकारे व्याख्यातं तदष्टविधलक्षणम्||११६||
विषवृक्षानिलस्पर्शात्तथाऽन्यैर्विषसम्भवैः|
अभिषक्तस्य चाप्याहुर्ज्वरमेकेऽभिषङ्गजम्||११७||
चिकित्सया विषघ्न्यैव स शमं लभते नरः|
अभिचाराभिशापाभ्यां सिद्धानां यः प्रवर्तते||११८||
सन्निपातज्वरो घोरः स विज्ञेयः सुदुःसहः|
सन्निपातज्वरस्योक्तं लिङ्गं यत्तस्य तत् स्मृतम्||११९||
चित्तोन्द्रियशरीराणामर्तयोऽन्याश्च नैकशः|
प्रयोगं त्वभिचारस्य दृष्ट्वा शापस्य चैव हि||१२०||
स्वयं श्रुत्वाऽनुमानेन लक्ष्यते प्रशमेन वा|
वैविध्यादभिचारस्य शापस्य च तदात्मके||१२१||
यथाकर्मप्रयोगेण लक्षणं स्यात् पृथग्विधम्|
ध्याननिःश्वासबहुलं लिङ्गं कामज्वरे स्मृतम्||१२२||
शोकजे बाष्पबहुलं त्रासप्रायं भयज्वरे|
क्रोधजे बहुसंरम्भं भूतावेशे त्वमानुषम्||१२३||
मूर्च्छामोहमदग्लानिभूयिष्ठं विषसम्भवे|
केषाञ्चिदेषां लिङ्गानां सन्तापो जायते पुरः||१२४||
पश्चात्तुल्यं तु केषाञ्चिदेषु कामज्वरादिषु|
कामादिजानामुद्दिष्टं ज्वराणां यद्विशेषणम्||१२५||
कामादिजानां रोगाणामन्येषामपि तत् स्मृतम्|
मनस्यभिहते पूर्वं कामाद्यैर्न तथा बलम्||१२६||
ज्वरः प्राप्नोति वाताद्यैर्देहो यावन्न दूष्यति|
देहे चाभिह(द्रु)ते पूर्वं वाताद्यैर्न तथा बलम्||१२७||
ज्वरः प्राप्नोति कामाद्यैर्मनो यावन्न दूष्यति|१२८|

ते पूर्वं केवलाः पश्चान्निजैर्व्यामिश्रलक्षणाः||१२८||
हेत्वौषधविशिष्टाश्च भवन्त्यागन्तवो ज्वराः|१२९|

संसृष्टाः सन्निपतिताः पृथग्वा कुपिता मलाः||१२९||
रसाख्यं धातुमन्वेत्य पक्तिं स्थानान्निरस्य च|
स्वेन तेनोष्मण चैव कृत्वा देहोष्मणो बलम्||१३०||
स्रोतांसि रुद्ध्वा सम्प्राप्ताः केवलं देहमुल्बणाः|
सन्तापमधिकं देहे जनयन्ति नरस्तदा||१३१||
भवत्यत्युष्णसर्वाङ्गो ज्वरितस्तेन चोच्यते|१३२|

स्रोतसां सन्निरुद्धत्वात् स्वेदं ना नाधिगच्छति||१३२||
स्वस्थानात् प्रच्युते चाग्नौ प्रायशस्तरुणेज्वरे|१३३|

अरुचिश्चाविपाकश्च गुरुत्वमुदरस्य च||१३३||
हृदयस्याविशुद्धिश्च तन्द्रा चालस्यमेव च|
ज्वरोऽविसर्गी बलवान् दोषाणामप्रवर्तनम्||१३४||
लालाप्रसेको हृल्लासः क्षुन्नाशो विरसं मुखम्|
स्तब्धसुप्तगुरुवं च गात्राणां बहुमूत्रता||१३५||
न विड् जीर्णा न च ग्लानिर्ज्वरस्यामस्य लक्षणम्|
ज्वरवेगोऽधिकस्तृष्णा प्रलापः श्वसनं भ्रमः||१३६||
मलप्रवृत्तिरुत्क्लेशः पच्यमानस्य लक्षणम्|१३७|

क्षुत् क्षामता लघुत्वं च गात्राणां ज्वरमार्दवम्||१३७||
दोषप्रवृत्तिरष्टाहो निरामज्वरलक्षणम्|१३८|

नवज्वरे दिवास्वप्नस्नानाभ्यङ्गान्नमैथुनम्||१३८||
क्रोधप्रवातव्यायामान् कषायांश्च विवर्जयेत्|१३९|

ज्वरे लङ्घनमेवादावुपदिष्टमृते ज्वरात्||१३९||
क्षयानिलभयक्रोधकामशोकश्रमोद्भवात् |१४०|

लङ्घनेन क्षयं नीते दोषे सन्धुक्षितेऽनले||१४०||
विज्वरत्वं लघुत्वं च क्षुच्चैवास्योपजायते |
प्राणाविरोधिना चैनं लङ्घनेनोपपादयेत्||१४१||
बलाधिष्ठानमारोग्यं यदर्थोऽयं क्रियाक्रमः|१४२|

लङ्घनं स्वेदनं कालो यवाग्वस्तिक्तको रसः||१४२||
पाचनान्यविपक्वानां दोषाणां तरुणे ज्वरे|१४३|

तृष्यते सलिलं चोष्णं दद्याद्वातकफज्वरे ||१४३||
मद्योत्थे पैत्तिके चाथ शीतलं तिक्तकैः शृतम्|
दीपनं पाचनं चैव ज्वरघ्नमुभयं हि तत्||१४४||
स्रोतसां शोधनं बल्यं रुचिस्वेदकरं शिवम्|१४५|

मुस्तपर्पटकोशीरचन्दनोदीच्यनागरैः||१४५||
शृतशीतं जलं दद्यात् पिपासाज्वरशान्तये|१४६|

कफप्रधानानुत्क्लिष्टान् दोषानामाशयस्थितान्||१४६||
बुद्ध्वा ज्वरकरान् काले वम्यानां वमनैर्हरेत्|१४७|

अनुपस्थितदोषाणां वमनं तरुणेज्वरे||१४७||
हृद्रोगं श्वासमानाहं मोहं च जनयेद्भृशम्|
सर्वदेहानुगाः सामा धातुस्था असुनिर्हराः ||१४८||
दोषाः फलानामामानां स्वरसा इव सात्ययाः|१४९|

वमितं लङ्घितं काले यवागूभिरुपाचरेत्||१४९||
यथास्वौषधसिद्धाभिर्मण्डपूर्वाभिरादितः|
यावज्ज्वरमृदूभावात् षडहं वा विचक्षणः||१५०||
तस्याग्निर्दीप्यते ताभिः समिद्भिरिव पावकः|
ताश्च भेषजसंयोगाल्लघुत्वाच्चाग्निदीपनाः||१५१||
वातमूत्रपुरीषाणां दोषाणां चानुलोमनाः|
स्वेदनाय द्रवोष्णत्वाद्द्रवत्वात्तृट्प्रशान्तये||१५२||
आहारभावात् प्राणाय सरत्वाल्लाघवाय च|
ज्वरघ्न्यो ज्वरसात्म्यत्वात्तस्मात् पेयाभिरादितः||१५३||
ज्वरानुपचरेद्धीमानृते मद्यसमुत्थितात्|
मदात्यये मद्यनित्ये ग्रीष्मे पित्तकफाधिके||१५४||
ऊर्ध्वगे रक्तपित्ते च यवागूर्न हिता ज्वरे|१५५|

तत्र तर्पणमेवाग्रे प्रयोज्यं लाजसक्तुभिः||१५५||
ज्वरापहैः फलरसैर्युक्तं समधुशर्करम्|१५६|

ततः सात्म्यबलापेक्षी भोजयेज्जीर्णतर्पणम्||१५६||
तनुना मुद्गयूषेण जाङ्गलानां रसेन वा|
अन्नकालेषु चाप्यस्मै विधेयं दन्तधावनम्||१५७||
योऽस्य वक्त्ररसस्तस्माद्विपरीतं प्रियं च यत्|
तदस्य मुखवैशद्यं प्रकाङ्क्षां चान्नपानयोः||१५८||
धत्ते रसविशेषाणामभिज्ञत्वं करोति यत्|
विशोध्य द्रुमशाखाग्रैरास्यं प्रक्षाल्य चासकृत्||१५९||
मस्त्विक्षुरसमद्याद्यैर्यथाहारमवाप्नुयात्|१६०|

पाचनं शमनीयं वा कषायं पाययेद्भिषक्||१६०||
ज्वरितं षडहेऽतीते लघ्वन्नप्रतिभोजितम्|१६१|

स्तभ्यन्ते न विपच्यन्ते कुर्वन्ति विषमज्वरम्||१६१||
दोषा बद्धाः कषायेण स्तम्भित्वात्तरुणे ज्वरे|
न तु कल्पनमुद्दिश्य कषायः प्रतिषिध्यते||१६२||
यः कषायकषायः स्यात् स वर्ज्यस्तरुणज्वरे|१६३|

यूषैरम्लैरनम्लैर्वा जाङ्गलैर्वा रसैर्हितैः||१६३||
दशाहं यावदश्नीयाल्लघ्वन्नं ज्वरशान्तये|१६४|

अत ऊर्ध्वं कफे मन्दे वातपित्तोत्तरे ज्वरे||१६४||
परिपक्वेषु दोषेषु सर्पिष्पानं यथाऽमृतम्|१६५|

निर्दशाहमपि ज्ञात्वा कफोत्तरमलङ्घितम्||१६५||
न सर्पिः पाययेद्वैद्यः कषायैस्तमुपाचरेत् |
यावल्लघुत्वादशनं दद्यान्मांसरसेन च||१६६||
बलं ह्यलं निग्रहाय दोषाणां, बलकृच्च तत् |१६७|

दाहतृष्णापरीतस्य वातपित्तोत्तरं ज्वरम्||१६७||
बद्धप्रच्युतदोषं वा निरामं पयसा जयेत्|१६८|

क्रियाभिराभिः प्रशमं न प्रयाति यदा ज्वरः||१६८||
अक्षीणबलमांसाग्नेः शमयेत्तं विरेचनैः|१६९|

ज्वरक्षीणस्य न हितं वमनं न विरेचनम्||१६९||
कामं तु पयसा तस्य निरूहैर्वा हरेन्मलान्|
निरूहो बलमग्निं च विज्वरत्वं मुदं रुचिम्||१७०||
परिपक्वेषु दोषेषु प्रयुक्तः शीघ्रमावहेत्|१७१|

पित्तं वा कफपित्तं वा पित्ताशयगतं हरेत्||१७१||
स्रंसनं त्रीन्मलान् बस्तिर्हरेत् पक्वाशयस्थितान्|१७२|

ज्वरे पुराणे सङ्क्षीणे कफपित्ते दृढाग्नये||१७२||
रूक्षबद्धपुरीषाय प्रदद्यादनुवासनम्|१७३|

गौरवे शिरसः शूले विबद्धेष्विन्द्रियेषु च||१७३||
जीर्णज्वरे रुचिकरं कुर्यान्मूर्धविरेचनम्|१७४|

अभ्यङ्गांश्च प्रदेहांश्च परिषेकावगाहने||१७४||
विभज्य शीतोष्णकृतं कुर्याज्जीर्णे ज्वरे भिषक्|
तैराशु प्रशमं याति बहिर्मार्गगतो ज्वरः||१७५||
लभन्ते सुखमङ्गानि बलं वर्णश्च वर्धते|१७६|

धूपनाञ्जनयोगैश्च यान्ति जीर्णज्वराः शमम्||१७६||
त्वङ्मात्रशेषा येषां च भवत्यागन्तुरन्वयः|१७७|

इति क्रियाक्रमः सिद्धो ज्वरघ्नः सम्प्रकाशितः||१७७||
येषां त्वेष क्रमस्तानि द्रव्याण्यूर्ध्वमतः शृणु|
रक्तशाल्यादयः शस्ताः पुराणाः षष्टिकैः सह||१७८||
यवाग्वोदनलाजार्थे ज्वरितानां ज्वरापहाः|१७९|

लाजपेयां सुखजरां पिप्पलीनागरैः शृताम्||१७९||
पिबेज्ज्वरी ज्वरहरां क्षुद्वानल्पाग्निरादितः|
अम्लाभिलाषी तामेव दाडिमाम्लां सनागराम्||१८०||
सृष्टविट् पैत्तिको वाऽथ शीतां मधुयुतां पिबेत्|
पेयां वा रक्तशालीनां पार्श्वबस्तिशिरोरुजि||१८१||
श्वदंष्ट्राकण्टकारिभ्यां सिद्धां ज्वरहरां पिबेत्|
ज्वरातिसारी पेयां वा पिबेत् साम्लां शृतां नरः||१८२||
पृश्निपर्णीबलाबिल्वनागरोत्पलधान्यकैः|
शृतां विदारीगन्धाद्यैर्दीपनीं स्वेदनीं नरः||१८३||
कासी श्वासी च हिक्की च यवागूं ज्वरितः पिबेत्|
विबद्धवर्चाः सयवां पिप्पल्यामलकैः शृताम्||१८४||
सर्पिष्मतीं पिबेत् पेयां ज्वरी दोषानुलोमनीम्|
कोष्ठे विबद्धे सरुजि पिबेत् पेयां शृतां ज्वरी||१८५||
मृद्वीकापिप्पलीमूलचव्यामलकनागरैः|
पिबेत् सबिल्वां पेयां वा ज्वरे सपरिकर्तिके||१८६||
बलावृक्षाम्लकोलाम्लकलशीधावनीशृताम्|
अस्वेदनिद्रस्तृष्णार्तः पिबेत् पेयां सशर्कराम्||१८७||
नागरामलकैः सिद्धां घृतभृष्टां ज्वरापहाम्|१८८|

मुद्गान्मसूरांश्चणकान् कुलत्थान् समकुष्टकान्||१८८||
यूषार्थे यूषसात्म्यानां ज्वरितानां प्रदापयेत्|१८९|

पटोलपत्रं सफलं कुलकं पापचेलिकम्||१८९||
कर्कोटकं कठिल्लं च विद्याच्छाकं ज्वरे हितम्|१९०|

लावान् कपिञ्जलानेणांश्चकोरानुपचक्रकान्||१९०||
कुरङ्गान् कालपुच्छांश्च हरिणान् पृषताञ्छशान्|
प्रदद्यान्मांससात्म्याय ज्वरिताय ज्वरापहान्||१९१||
ईषदम्लाननम्लान् वा रसान् काले विचक्षणः|
कुक्कुटांश्च मयूरांश्च तित्तिरिक्रौञ्चवर्तकान्||१९२||
गुरूष्णत्वान्न शंसन्ति ज्वरे केचिच्चिकित्सकाः|
लङ्घनेनानिलबलं ज्वरे यद्यधिकं भवेत्||१९३||
भिषङ्मात्राविकल्पज्ञो दद्यात्तानपि कालवित्|१९४|

घर्माम्बु चानुपानार्थं तृषिताय प्रदापयेत्||१९४||
मद्यं वा मद्यसात्म्याय यथादोषं यथाबलम्|१९५|

गुरूष्णस्निग्धमधुरान् कषायांश्च नवज्वरे||१९५||
आहारान् दोषपक्त्यर्थं प्रायशः परिवर्जयेत्|
अन्नपानक्रमः सिद्धो ज्वरघ्नः सम्प्रकाशितः||१९६||

अत ऊर्ध्वं प्रवक्ष्यन्ते कषाया ज्वरनाशनाः|
पाक्यं शीतकषायं वा मुस्तपर्पटकं पिबेत्||१९७||
सनागरं पर्पटकं पिबेद्वा सदुरालभम्|
किराततिक्तकं मुस्तं गुडूचीं विश्वभेषजम्||१९८||
पाठामुशीरं सोदीच्यं पिबेद्वा ज्वरशान्तये|
ज्वरघ्ना दीपनाश्चैते कषाया दोषपाचनाः||१९९||
तृष्णारुचिप्रशमना मुखवैरस्यनाशनाः|२००|

कलिङ्गकाः पटोलस्य पत्रं कटुकरोहिणी||२००||
पटोलः सारिवा मुस्तं पाठा कटुकरोहिणी|
निम्बः पटोलस्त्रिफला मृद्वीका मुस्तवत्सकौ||१०१||
किराततिक्तममृता चन्दनं विश्वभेषजम्|
गुडूच्यामलकं मुस्तमर्धश्लोकसमापनाः||२०२||
कषायाः शमयन्त्याशु पञ्च पञ्चविधाञ्ज्वरान्|
सन्ततं सततान्येद्युस्तृतीयकचतुर्थकान्||२०३||

वत्सकारग्वधौ पाठां षड्ग्रन्थां कटुरोहिणीम्|
मूर्वां सातिविषां निम्बं पटोलं धन्वयासकम्||२०४||
वचां मुस्तमुशीरं च मधुकं त्रिफलां बलाम्|
पाक्यं शीतकषायं वा पिबेज्ज्वरहरं नरः||२०५||
मधूकमुस्तमृद्वीकाकाश्मर्याणि परूषकम्|
त्रायमाणामुशीरं च त्रिफलां कटुरोहिणीम्||२०६||
पीत्वा निशिस्थितं जन्तुर्ज्वराच्छीघ्रं विमुच्यते|२०७|

जात्यामलकमुस्तानि तद्वद्धन्वयवासकम्||२०७||
विबद्धदोषो ज्वरितः कषायं सगुडं पिबेत्|
त्रिफलां त्रायमाणां च मृद्वीकां कटुरोहिणीम्||२०८||
पित्तश्लेष्महरस्त्वेष कषायो ह्यानुलोमिकः|
त्रिवृताशर्करायुक्तः पित्तश्लेष्मज्वरापहः||२०९||

बृहत्यौ वत्सकं मुस्तं देवदारु महौषधम्|
कोलवल्ली च योगोऽयं सन्निपातज्वरापहः||२१०||
शटी पुष्करमूलं च व्याघ्री शृङ्गी दुरालभा|
गुडूची नागरं पाठा किरातं कटुरोहिणी||२११||
एष शट्यादिको वर्गः सन्निपातज्वरापहः|
कासहृद्ग्रहपार्श्वार्तिश्वासतन्द्रासु शस्यते||२१२||
बृहत्यौ पौष्करं भार्गी शटी शृङ्गी दुरालभा|
वत्सकस्य च बीजानि पटोलं कटुरोहिणी||२१३||
बृहत्यादिर्गणः प्रोक्तः सन्निपातज्वरापहः|
कासादिषु च सर्वेषु दद्यात् सोपद्रवेषु च||२१४||

कषायाश्च यवाग्वश्च पिपासाज्वरनाशनाः|
निर्दिष्टा भेषजाध्याये भिषक्तानपि योजयेत्||२१५||

ज्वराः कषायैर्वमनैर्लङ्घनैर्लघुभोजनैः|
रूक्षस्य ये न शाम्यन्ति सर्पिस्तेषां भिषग्जितम्||२१६||
रूक्षं तेजो ज्वरकरं तेजसा रूक्षितस्य च|
यः स्यादनुबलो धातुः स्नेहवध्यः स चानिलः||२१७||

कषायाः सर्व एवैते सर्पिषा सह योजिताः|
प्रयोज्या ज्वरशान्त्यर्थमग्निसन्धुक्षणाः शिवाः||२१८||

पिप्पल्यश्चन्दनं मुस्तमुशीरं कटुरोहिणी|
कलिङ्गकास्तामलकी सारिवाऽतिविषा स्थिरा||२१९||
द्राक्षामलकबिल्वानि त्रायमाणा निदिग्धिका|
सिद्धमितैर्घृतं सद्यो जीर्णज्वरमपोहति||२२०||
क्षयं कासं शिरःशूलं पार्श्वशूलं हलीमकम्|
अंसाभितापमाग्निं च विषमं सन्नियच्छति||२२१||

वासां गुडूचीं त्रिफलां त्रायमाणां यवासकम्|
पक्त्वा तेन कषायेण पयसा द्विगुणेन च||२२२||
पिप्पलीमुस्तमृद्वीकाचन्दनोत्पलनागरैः|
कल्कीकृतैश्च विपचेद्धृतं जीर्णज्वरापहम्||२२३||

बलां श्वदंष्ट्रां बृहतीं कलसीं धावनीं स्थिराम्|
निम्बं पर्पटकं मुस्तं त्रायमाणां दुरालभाम्||२२४||
कृत्वा कषायं पेष्यार्थे दद्यात्तामलकीं शटीम्|
द्राक्षां पुष्करमूलं च मेदामामलकानि च||२२५||
घृतं पयश्च तत् सिद्धं सर्पिर्ज्वरहरं परम्|
क्षयकासशिरःशूलपार्श्वशूलांसतापनुत् ||२२६||

ज्वरिभ्यो बहुदोषेभ्य ऊर्ध्वं चाधश्च बुद्धिमान्|
दद्यात् संशोधनं काले कल्पे यदुपदेक्ष्यते||२२७||
मदनं पिप्पलीभिर्वा कलिङ्गैर्मधुकेन वा|
युक्तमुष्णाम्बुना पेयं वमनं ज्वरशान्तये||२२८||
क्षौद्राम्बुना रसेनेक्षोरथवा लवणाम्बुना|
ज्वरे प्रच्छर्दनं शस्तं मद्यैर्वा तर्पणेन वा||२२९||
मृद्वीकामलकानां वा रसं प्रस्कन्दनं पिबेत्|
रसमामलकानां वा घृतभृष्टं ज्वरापहम्||२३०||
लिह्याद्वा त्रैवृतं चूर्णं संयुक्तं मधुसर्पिषा|
पिबेद्वा क्षौद्रमावाप्य सघृतं त्रिफलारसम्||२३१||
आरग्वधं वा पयसा मृद्वीकानां रसेन वा|
त्रिवृतां त्रायमाणां वा पयसा ज्वरितः पिबेत्||२३२||
ज्वराद्विमुच्यते पीत्वा मृद्वीकाभिः सहाभयाम्|
पयोऽनुपानमुष्णं वा पीत्वा द्राक्षारसं नरः||२३३||

कासाच्छ्वासाच्छिरःशूलात्पार्श्वशूलाच्चिरज्वरात्|
मुच्यते ज्वरितः पीत्वा पञ्चमूलीशृतं पयः||२३४||
एरण्डमूलोत्क्वथितं ज्वरात् सपरिकर्तिकात्|
पयो विमुच्यते पीत्वा तद्वद्बिल्वशलाटुभिः||२३५||
त्रिकण्टकबलाव्याघ्रीगुडनागरसाधितम्|
वर्चोमूत्रविबन्धघ्नं शोफज्वरहरं पयः||२३६||
सनागरं समृद्वीकं सघृतक्षौद्रशर्करम्|
शृतं पयः सखर्जूरं पिपासाज्वरनाशनम्||२३७||
चतुर्गुणेनाम्भसा वा शृतं ज्वरहरं पयः|
धारोष्णं वा पयः सद्यो वातपित्तज्वरं जयेत्||२३८||
जीर्णज्वराणां सर्वेषां पयः प्रशमनं परम्|
पेयं तदुष्णं शीतं वा यथास्वं भेषजैः शृतम्||२३९||

प्रयोजयेज्ज्वरहरान्निरूहान् सानुवासनान्|
पक्वाशयगते दोषे वक्ष्यन्ते ये च सिद्धिषु||२४०||
पटोलारिष्टपत्राणि सोशीरश्चतुरङ्गुलः|
ह्रीबेरं रोहिणी तिक्ता श्वदंष्ट्रा मदनानि च||२४१||
स्थिरा बला च तत् सर्वं पयस्यर्धोदके शृतम्|
क्षीरावशेषं निर्यूहं संयुक्तं मधुसर्पिषा||२४२||
कल्कैर्मदनमुस्तानां पिप्पल्या मधुकस्य च|
वत्सकस्य च संयुक्तं बस्तिं दद्याज्ज्वरापहम्||२४३||
शुद्धे मार्गे हृते दोषे विप्रसन्नेषु धातुषु|
गताङ्गशूलो लघ्वङ्गः सद्यो भवति विज्वरः||२४४||
आरग्वधमुशीरं च मदनस्य फलं तथा|
चतस्रः पर्णिनीश्चैव निर्यूहमुपकल्पयेत्||२४५||
प्रियङ्गुर्मदनं मुस्तं शताह्वा मधुयष्टिका|
कल्कः सर्पिर्गुडः क्षौद्रं ज्वरघ्नो बस्तिरुत्तमः||२४६||
गुडूचीं त्रायमाणां च चन्दनं मधुकं वृषम्|
स्थिरां बलां पृश्निपर्णीं मदनं चेति साधयेत्||२४७||
रसं जाङ्गलमांसस्य रसेन सहितं भिषक्|
पिप्पलीफलमुस्तानां कल्केन मधुकस्य च||२४८||
ईषत्सलवणं युक्त्या निरूहं मधुसर्पिषा|
ज्वरप्रशमनं दद्याद्बलस्वेदरुचिप्रदम्||२४९||

जीवन्तीं मधुकं मेदां पिप्पलीं मदनं वचाम्|
ऋद्धिं रास्नां बलां विश्वं शतपुष्पां शतावरीम्||२५०||
पिष्ट्वा क्षीरं जलं सर्पिस्तैलं च विपचेद्भिषक्|
आनुवासनिकं स्नेहमेतं विद्याज्ज्वरापहम्||२५१||
पटोलपिचुमर्दाभ्यां गुडूच्या मधुकेन च|
मदनैश्च शृतः स्नेहो ज्वरघ्नमनुवासनम्||२५२||
चन्दनागुरुकाश्मर्यपटोलमधुकोत्पलैः|
सिद्धः स्नेहो ज्वरहरः स्नेहबस्तिः प्रशस्यते||२५३||

यदुक्तं भेषजाध्याये विमाने रोगभेषजे|
शिरोविरेचनं कुर्याद्युक्तिज्ञस्तज्ज्वरापहम्||२५४||
यच्च नावनिकं तैलं याश्च तैलं याश्च प्राग्धूमवर्तयः|
मात्राशितीये निर्दिष्टाः प्रयोज्यास्ता ज्वरेष्वपि||२५५||

अभ्यङ्गांश्च प्रदेहांश्च परिषेकांश्च कारयेत्|
यथाभिलाषं शीतोष्णं विभज्य द्विविधं ज्वरम्||२५६||

सहस्रधौतं सर्पिर्वा तैलं वा चन्दनादिकम्|
दाहज्वरप्रशमनं दद्यादभ्यञ्जनं भिषक्||२५७||

अथ चन्दनाद्यं तैलमुपदेक्ष्यामः- चन्दनभद्रश्रीकालानुसार्यकालीयकपद्मापद्मकोशीरसारिवामधुकप्रपौण्डरीकनागपुष्पोदीच्यवन्यपद्मोत्पलनलिनकुमुद-

 सौगन्धिकपुण्डरीकशतपत्रबिसमृणालशालूकशैवालकशेरुकानन्ताकुशकाशेक्षुदर्भशरनलशालिमूलजम्बुवेतसवानीरगुन्द्रा-

 ककुभासनाश्वकर्णस्यन्दनवातपोथशालतालधवतिनिशखदिरकदरकदम्बकाश्मर्यफलसर्जप्लक्षवटकपीतनोदुम्बराश्वत्थ-

 न्यग्रोधधातकीदूर्वेत्कटशृङ्गाटकमञ्जिष्ठाज्योतिष्मतीपुष्करबीजक्रौञ्चादनबदरीकोविदारकदली-

 संवर्तकारिष्टशतपर्वाशीतकुम्भिकाशतावरीश्रीपर्णीश्रावणीमहाश्रावणीरोहिणीशीतपाक्योदनपाकीकालबलापयस्याविदारी-

 जीवकर्षभकमेदामहामेदामधुरसर्ष्यप्रोक्तातृणशून्यमोचरसाटरूषकबकुलकुटजपटोलनिम्बशाल्मलीनारिकेल-

 खर्जूरमृद्वीकाप्रियालप्रियङ्गुधन्वनात्मागुप्तामधूकानामन्येषां च शीतवीर्याणां यथालाभमौषधानां कषायं कारयेत्|

तेन कषायेण द्विगुणितपयसा तेषामेव च कल्केन कषायार्धमात्रं मृद्वग्निना साधयेत्तैलम्|
एतत्तैलमभ्यङ्गात् सद्यो दाहज्वरमपनयति|
एतैरेव चौषधैरश्लक्ष्णपिष्टैः सुशीतैः प्रदेहं कारयेत्|
एतैरेव च शृतशीतं सलिलमवगाहपरिषेकार्थं प्रयुञ्जीत||२५८||
इति चन्दनाद्यं तैलम्|
मध्वारनालक्षीरदधिघृतसलिलसेकावगाहाश्च सद्यो दाहज्वरमपनयन्ति शीतस्पर्शत्वात्||२५९||

भवन्ति चात्र-

पौष्करेषु सुशीतेषु पद्मोत्पलदलेषु च|
कदलीनां च पत्रेषु क्षौमेषु विमलेषु च||२६०||
चन्दनोदकशीतेषु शीते धारागृहेऽपि वा|
हिमाम्बुसिक्ते सदने दाहार्तः संविशेत् सुखम्||२६१||
हेमशङ्खप्रवालानां मणीनां मौक्तिकस्य च|
चन्दनोदकशीतानां संस्पर्शानुरसान् स्पृशेत्||२६२||
स्रग्भिर्नीलोत्पलैः पद्मैर्व्यजनैर्विविधैरपि|
शीतवातावहैर्व्यज्ज्येच्चन्दनोदकवर्षिभिः ||२६३||
नद्यस्तडागाः पद्मिन्यो ह्रदाश्च विमलोदकाः|
अवगाहे हिता दाहतृष्णाग्लानिज्वरापहाः||२६४||
प्रियाः प्रदक्षिणाचाराः प्रमदाश्चन्दनोक्षिताः|
सान्त्वयेयुः परैः कामैर्मणिमौक्तिकभूषणाः||२६५||
शीतानि चान्नपानानि शीतान्युपवनानि च|
वायवश्चन्द्रपादाश्च शीता दाहज्वरापहाः||२६६||

अथोष्णाभिप्रायिणां ज्वरितानामभ्यङ्गादीनुपक्रमानुपदेक्ष्यामः- अगुरुकुष्ठतगरपत्रनलदशैलेयध्यामकहरेणुकास्थौणेयकक्षेमकैलावराङ्गदलपुरतमालपत्रभूतीकरोहिषसरलशल्लकी-

 देवदार्वग्निमन्थबिल्वस्योनाककाश्मर्यपाटलापुनर्नवावृश्चीरकण्टकारीबृहतीशालपर्णीपृश्निपर्णीमाषपर्णीमुद्गपर्णीगोक्षुरकैरण्ड

– शोभाञ्जनकवरुणार्कचिरबिल्वतिल्वकशटीपुष्करमूलगण्डीरोरुबूकपत्तूराक्षीवाश्मान्तकशिग्रुमातुलुङ्गपीलुकमूलकपर्णी-

 तिलपर्णीपीलुपर्णीमेषशृङ्गीहिंस्रादन्तशठैरावतकभल्लातकास्फोतकाण्डीरात्मजैकेषीकाकरञ्जधान्यकाजमोद- 

पृथ्वीकासुमुखसुरसकुठेरककालमालकपर्णासक्षवकफणिज्झकभूस्तृणशृङ्गवेरपिप्पलीसर्षपाश्वगन्धारास्नारुहारोहावचाबला

तिबला- गुडूचीशतपुष्पाशीतवल्लीनाकुलीगन्धनाकुलीश्वेताज्योतिष्मतीचित्रकाध्यण्डाम्लचाङ्गेरी-

 तिलबदरकुलत्थमाषाणामेवंविधानामन्येषां चोष्णवीर्याणां यथालाभमौषधानां कषायं कारयेत्, तेन कषायेण 

तेषामेव च कल्केन सुरासौवीरकतुषोदकमैरेयमेदकदधिमण्डारनालकट्वरप्रतिविनीतेन तैलपात्रं विपाचयेत्|

तेन सुखोष्णेन तैलेनोष्णाभिप्रायिणं ज्वरितमभ्यञ्ज्यात्, तथा शीतज्वरः प्रशाम्यति; एतैरेव चौषधैः श्लक्ष्णपिष्टैः 

सुखोष्णैः प्रदेहं कारयेत्, एतैरेव च शृतं सुखोष्णं सलिलमवगाहनार्थं परिषेकार्थं च प्रयुञ्जीत शीतज्वरप्रशमार्थम्||२६७||
इत्यगुर्वाद्यं तैलम्|

भवन्ति चात्र-

त्रयोदशविधः स्वेदः स्वेदाध्याये निदर्शितः|
मात्राकालविदा युक्तः स च शीतज्वरापहः||२६८||
सा कुटी तच्च शयनं तच्चावच्छादनं ज्वरम्|
शीतं प्रशमयन्त्याशु धूपाश्चागुरुजा घनाः||२६९||
चारूपचितगात्र्यश्च तरुण्यो यौवनोष्मणा|
आश्लेषाच्छमयन्त्याशु प्रमदाः शिशिरज्वरम्||२७०||
स्वेदनान्यन्नपानानि वातश्लेष्महराणि च|
शीतज्वरं जयन्त्याशु संसर्गबलयोजनात्||२७१||

वातजे श्रमजे चैव पुराणे क्षतजे ज्वरे|
लङ्घनं न हितं विद्याच्छमनैस्तानुपाचरेत्||२७२||
विक्षिप्यामाशयोष्माणं यस्माद्गत्वा रसं नृणाम्|
ज्वरं कुर्वन्ति दोषास्तु हीयतेऽग्निबलं ततः||२७३||
यथा प्रज्वलितो वह्निः स्थाल्यामिन्धनवानपि|
न पचत्योदनं सम्यगनिलप्रेरितो बहिः||२७४||
पक्तिस्थानात्तथा दोषैरूष्मा क्षिप्तो बहिर्नृणाम्|
न पचत्यभ्यवहृतं कृच्छ्रात् पचति वा लघु||२७५||
अतोऽग्निबलरक्षार्थं लङ्घनादिक्रमो हितः|
सप्ताहेन हि पच्यन्ते सप्तधातुगता मलाः||२७६||
निरामश्चाप्यतः प्रोक्तो ज्वरः प्रायोऽष्टमेऽहनि|
उदीर्णदोषस्त्वल्पाग्निरश्नन् गुरु विशेषतः||२७७||
मुच्यते सहसा प्राणैश्चिरं क्लिश्यति वा नरः|
एतस्मात्कारणाद्विद्वान् वातिकेऽप्यादितो ज्वरे||२७८||
नाति गुर्वति वा स्निग्धं भोजयेत् सहसा नरम्|
ज्वरे मारुतजे त्वादावनपेक्ष्यापि हि क्रमम्||२७९||
कुर्यान्निरनुबन्धानामभ्यङ्गादीनुपक्रमान्|
पाययित्वा कषायं च भोजयेद्रसभोजनम्||२८०||
जीर्णज्वरहरं कुर्यात् सर्वशश्चाप्युपक्रमम्|
श्लेष्मलानामवातानां ज्वरोऽनुष्णः कफाधिकः||२८१||
परिपाकं न सप्ताहेनापि याति मृदूष्मणाम्|
तं क्रमेण यथोक्तेन लङ्घनाल्पाशनादिना||२८२||
आदशाहमुपक्रम्य कषायाद्यैरुपाचरेत्|२८३|

सामा ये ये च कफजाः कफपित्तज्वराश्च ये||२८३||
लङ्घनं लङ्घनीयोक्तं तेषु कार्यं प्रति प्रति|२८४|

वमनैश्च विरेकैश्च बस्तिभिश्च यथाक्रमम्||२८४||
ज्वरानुपचरेद्धीमान् कफपित्तानिलोद्भवान्|२८५|

संसृष्टान् सन्निपतितान् बुद्ध्वा तरतमैः समैः||२८५||
ज्वरान् दोषक्रमापेक्षी यथोक्तैरौषधैर्जयेत्|
वर्धनेनैकदोषस्य क्षपणेनोच्छ्रितस्य वा||२८६||
कफस्थानानुपूर्व्या वा सन्निपातज्वरं जयेत्|२८७|

सन्निपातज्वरस्यान्ते कर्णमूले सुदारूणः||२८७||
शोथः सञ्जायते तेन कश्चिदेव प्रमुच्यते|
रक्तावसेचनैः शीघ्रं सर्पिष्पानैश्च तं जयेत्||२८८||
प्रदेहैः कफपित्तघ्नैर्नावनैः कवलग्रहैः|२८९|

शीतोष्णस्निग्धरूक्षाद्यैर्ज्वरो यस्य न शाम्यति||२८९||
शाखानुसारी रक्तस्य सोऽवसेकात् प्रशाम्यति|२९०|

विसर्पेणाभिघातेन यश्च विस्फोटकैर्ज्वरः||२९०||
तत्रादौ सर्पिषः पानं कफपित्तोत्तरो न चेत्|२९१|

दौर्बल्याद्देहधातूनां ज्वरो जीर्णोऽनुवर्तते||२९१||
बल्येः सम्बृंहणैस्तस्मादाहारैस्तमुपाचरेत्|२९२|

कर्म साधारणं जह्यात्तृतीयकचतुर्थकौ ||२९२||
आगन्तुरनुबन्धो हि प्रायशो विषमज्वरे|
वातप्रधानं सर्पिर्भिर्बस्तिभिः सानुवासनैः||२९३||
स्निग्धोष्णैरन्नपानैश्च शमयेद्विषमज्वरम्|
विरेचनेन पयसा सर्पिषा संस्कृतेन च||२९४||
विषमं तिक्तशीतैश्च ज्वरं पित्तोत्तरं जयेत्|
वमनं पाचनं रूक्षमन्नपानं विलङ्घनम्||२९५||
कषायोष्णं च विषमे ज्वरे शस्तं कफोत्तरे|२९६|

योगाः पराः प्रवक्ष्यन्ते विषमज्वरनाशनाः||२९६||
प्रयोक्तव्या मतिमता दोषादीन् प्रविभज्य ते|
सुरा समण्डा पानार्थे भक्ष्यार्थे चरणायुधः||२९७||
तित्तिरिश्च मयूरश्च प्रयोज्या विषमज्वरे|
पिबेद्वा षट्पलं सर्पिरभयां वा प्रयोजयेत्||२९८||
त्रिफलायाः कषायं वा गुडूच्या रसमेव वा|
नीलिनीमजगन्धां च त्रिवृतां कटुरोहिणीम्||२९९||
पिबेज्ज्वरागमे युक्त्या स्नेहस्वेदोपपादितः|
सर्पिषो महतीं मात्रां पीत्वा वा छर्दयेत् पुनः||३००||
उपयुज्यान्नपानं वा प्रभूतं पुनरुल्लिखेत्|
सान्नं मद्यं प्रभूतं वा पीत्वा स्वप्याज्ज्वरागमे||३०१||
आस्थापनं यापनं वा कारयेद्विषमज्वरे|
पयसा वृषदंशस्य शकृद्वा तदहः पिबेत्||३०२||
वृषस्य दधिमण्डेन सुरया वा ससैन्धवम्|
पिप्पल्यास्त्रिफलायाश्च दध्नस्तक्रस्य सर्पिषः||३०३||
पञ्चगव्यस्य पयसः प्रयोगो विषमज्वरे|
रसोनस्य सतैलस्य प्राग्भक्तमुपसेवनम्||३०४||
मेद्यानामुष्णवीर्याणामामिषाणां च भक्षणम्|
हिङ्गुतुल्या तु वैयाघ्री वसा नस्यं ससैन्धवा||३०५||
पुराणसर्पिः सिंहस्य वसा तद्वत् ससैन्धवा|
सैन्धवं पिप्पलीनां च तण्डुलाः समनःशिलाः||३०६||
नेत्राञ्जनं तैलपिष्टं शस्यते विषमज्वरे|
पलङ्कषा निम्बपत्रं वचा कुष्ठं हरीतकी||३०७||
सर्षपाः सयवाः सर्पिर्धूपनं ज्वरनाशनम्|
ये धूमा धूपनं यच्च नावनं चाञ्जनं च यत्||३०८||
मनोविकारे निर्दिष्टं कार्यं तद्विषमज्वरे|
मणीनामोषधीनां च मङ्गल्यानां विषस्य च||३०९||
धारणादगदानां च सेवनान्न भवेज्ज्वरः|३१०|

सोमं सानुचरं देवं समातृगणमीश्वरम्||३१०||
पूजयन् प्रयतः शीघ्रं मुच्यते विषमज्वरात्|
विष्णुं सहस्रमूर्धानं चराचरपतिं विभुम्||३११||
स्तुवन्नामसहस्रेण ज्वरान् सर्वानपोहति|
ब्रह्माणमश्विनाविन्द्रं हुतभक्षं हिमाचलम्||३१२||
गङ्गां मरुद्गणांश्चेष्ट्या पूजयञ्जयति ज्वरान्|
भक्त्या मातुः पितुश्चैव गुरूणां पूजनेन च||३१३||
ब्रह्मचर्येण तपसा सत्येन नियमेन च|
जपहोमप्रदानेन वेदानां श्रवणेन च||३१४||
ज्वराद्विमुच्यते शीघ्रं साधूनां दर्शनेन च|
ज्वरे रसस्थे वमनमुपवासं च कारयेत्||३१५||
सेकप्रदेहौ रक्तस्थे तथा संशमनानि च|
विरेचनं सोपवासं मांसमेदःस्थिते हितम्||३१६||
अस्थिमज्जगते देया निरूहाः सानुवासनाः|३१७|

शापाभिचाराद्भूतानामभिषङ्गाच्च यो ज्वरः||३१७||
दैवव्यपाश्रयं तत्र सर्वमौषधमिष्यते|
अभिघातज्वरो नश्येत पानाभ्यङ्गेन सर्पिषः||३१८||
रक्तावसेकैर्मद्यैश्च सात्म्यैर्मांसरसौदनैः|
सानाहो मद्यसात्म्यानां मदिरारसभोजनैः||३१९||
क्षतानां व्रणितानां च क्षतव्रणचिकित्सया|
आश्वासेनेष्टलाभेन वायोः प्रशमनेन च||३२०||
हर्षणैश्च शमं यान्ति कामशोकभयज्वराः|
काम्यैरर्थैर्मनोज्ञैश्च पित्तघ्नैश्चाप्युपक्रमैः||३२१||
सद्वाक्यैश्च शमं याति ज्वरः क्रोधसमुत्थितः|
कामात् क्रोधज्वरो नाशं क्रोधात् कामसमुद्भवः||३२२||
याति ताभ्यामुभाभ्यां च भयशोकसमुत्थितः|३२३|

ज्वरस्य वेगं कालं च चिन्तयञ्ज्वर्यते तु यः||३२३||
तस्येष्टैस्तु विचित्रैश्च विषयैर्नाशयेत् स्मृतिम्|३२४|

ज्वरप्रमोक्षे पुरुषः कूजन् वमति चेष्टते|
श्वसन्विवर्णः स्विन्नाङ्गो वेपते लीयते मुहुः||३२४||
प्रलपत्युष्णसर्वाङ्गः शीताङ्गश्च भवत्यपि|
विसञ्ज्ञो ज्वरवेगार्तः सक्रोध इव वीक्ष्यते ||३२५||
सदोषशब्दं च शकृद्द्रवं स्रवति वेगवत्|
लिङ्गान्येतानि जानीयाज्ज्वरमोक्षे विचक्षणः||३२६||
बहुदोषस्य बलवान् प्रायेणाभिनवो ज्वरः|
सत्क्रियादोषपक्त्या चेद्विमुञ्चति सुदारुणम्||३२७||
कृत्वा दोषवशाद्वेगं क्रमादुपरमन्ति ये|
तेषामदारुणो मोक्षो ज्वराणां चिरकारिणाम्||३२८||

विगतक्लमसन्तापमव्यथं विमलेन्द्रियम्|
युक्तं प्रकृतिसत्त्वेन विद्यात् पुरुषमज्वरम्||३२९||

सज्वरो ज्वरमुक्तश्च विदाहीनि गुरूणि च|
असात्म्यान्यन्नपानानि विरुद्धानि च वर्जयेत्||३३०||
व्यवायमतिचेष्टाश्च स्नानमत्यशनानि च|
तथा ज्वरः शमं याति प्रशान्तो जायते न च||३३१||
व्यायामं च व्यवायं च स्नानं चङ्क्रमणानि च|
ज्वरमुक्तो न सेवेत यावन्न बलवान् भवेत्||३३२||

असञ्जातबलो यस्तु ज्वरमुक्तो निषेवते|
वर्ज्यमेतन्नरस्तस्य पुनरावर्तते ज्वरः||३३३||
दुर्हृतेषु च दोषेषु यस्य वा विनिवर्तते|
स्वल्पेनप्यपचारेण तस्य व्यावर्तते पुनः||३३४||
चिरकालपरिक्लिष्टं दुर्बलं हीनतेजसम् |
अचिरेणैव कालेन स हन्ति पुनरागतः||३३५||
अथवाऽपि परीपाकं धातुष्वेव क्रमान्मलाः|
यान्ति ज्वरमकुर्वन्तस्ते तथाऽप्यपकुर्वते||३३६||
दीनतां श्वयथुं ग्लानिं पाण्डुतां नान्नकामताम्|
कण्डूरुक्तोठपिडकाः कुर्वन्त्यग्निं च ते मृदुम्||३३७||
एवमन्येऽपि च गदा व्यावर्तन्ते पुनर्गताः|
अनिर्घातेन दोषाणामल्पैरप्यहितैर्नृणाम्||३३८||
निर्वृत्तेऽपि ज्वरे तस्माद्यथावस्थं यथाबलम्|
यथाप्राणं हरेद्दोषं प्रयोगैर्वा शमं नयेत्||३३९||
मृदुभिः शोधनैः शुद्धिर्यापना बस्तयो हिताः|
हिताश्च लघवो यूषा जाङ्गलामिषजा रसाः||३४०||
अभ्यङ्गोद्वर्तनस्नानधूपनान्यञ्जनानि च|
हितानि पुनरावृत्ते ज्वरे तिक्तघृतानि च||३४१||
गुर्व्यभिष्यन्द्यसात्म्यानां भोजनात् पुनरागते|
लङ्घनोष्णोपचारादिः क्रमः कार्यश्च पूर्ववत्||३४२||
किराततिक्तकं तिक्ता मुस्तं पर्पटकोऽमृता|
घ्नन्ति पीतानि चाभ्यासात् पुनरावर्तकं ज्वरम्||३४३||

तस्यां तस्यामवस्थायां ज्वरितानां विचक्षणः|
ज्वराक्रियाक्रमापेक्षी कुर्यात्तत्तच्चिकित्सितम्||३४४||

रोगराट् सर्वभूतानामन्तकृद्दारुणो ज्वरः|
तस्माद्विशेषतस्तस्य यतेत प्रशमे भिषक्||३४५||

तत्र श्लोकः-

यथाक्रमं यथाप्रश्नमुक्तं ज्वरचिकित्सितम्|
आत्रेयेणाग्निवेशाय भूतानां हितकाम्यया||३४६||

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सितस्थानेज्वरचिकित्सितं नाम तृतीयोऽध्यायः||३||