चिकित्सास्थानम् - ४. रक्तपित्तचिकित्सितम्
अथातो रक्तपित्तचिकित्सितं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
विहरन्तं जितात्मानं पञ्चगङ्गे पुनर्वसुम्|
प्रणम्योवाच निर्मोहमग्निवेशोऽग्निवर्चसम्||३||
भगवन् रक्तपित्तस्य हेतुरुक्तः सलक्षणः|
वक्तव्यं यत् परं तस्य वक्तुमर्हसि तद्गुरो||४||
गुरुरुवाच-
महागदं महावेगमग्निवच्छीघ्रकारि च|
हेतुलक्षणविच्छीघ्रं रक्तपित्तमुपाचरेत्||५||
तस्योष्णं तीक्ष्णमम्लं च कटूनि लवणानि च|
घर्मश्चान्नविदाहश्च हेतुः पूर्वं निदर्शितः||६||
तैर्हेतुभिः समुत्क्लिष्टं पित्तं रक्तं प्रपद्यते|
तद्योनित्वात् प्रपन्नं च वर्धते तत् प्रदूषयत्||७||
तस्योष्मणा द्रवो धातुर्धातोर्धातोः प्रसिच्यते|
स्विद्यतस्तेन संवृद्धिं भूयस्तदधिगच्छति||८||
संयोगाद्दूषणात्तत्तु सामान्याद्गन्धवर्णयोः|
रक्तस्य पित्तमाख्यातं रक्तपित्तं मनीषिभिः||९||
प्लीहानं च यकृच्चैव तदधिष्ठाय वर्तते|
स्रोतांसि रक्तवाहीनि तन्मूलानि हि देहिनाम्||१०||
सान्द्रं सपाण्डु सस्नेहं पिच्छिलं च कफान्वितम्|
श्यावारुणं सफेनं च तनु रूक्षं च वातिकम्||११||
रक्तपित्तं कषायाभं कृष्णं गोमूत्रसन्निभम्|
मेचकागारधूमाभमञ्जनाभं च पैत्तिकम्||१२||
संसृष्टलिङ्गं संसर्गात्त्रिलिङ्गं सान्निपातिकम्|१३|
एकदोषानुगं साध्यं द्विदोषं याप्यमुच्यते||१३||
यत्त्रिदोषमसाध्यं तन्मन्दाग्नेरतिवेगवत्|
व्याधिभिः क्षीणदेहस्य वृद्धस्यानश्नतश्च यत्||१४||
गतिरूर्ध्वमधश्चैव रक्तपित्तस्य दर्शिता|
ऊर्ध्वा सप्तविधद्वारा द्विद्वारा त्वधरा गतिः||१५||
सप्त च्छिद्राणि शिरसि द्वे चाधः, साध्यमूर्ध्वगम्|
याप्यं त्वधोगं, मार्गौ तु द्वावसाध्यं प्रपद्यते||१६||
यदा तु सर्वच्छिद्रेभ्यो रोमकूपेभ्य एव च|
वर्तते तामसङ्ख्येयां गतिं तस्याहुरान्तिकीम्||१७||
यच्चोभयाभ्यां मार्गाभ्यामतिमात्रं प्रवर्तते|
तुल्यं कुणपगन्धेन रक्तं कृष्णमतीव च||१८||
संसृष्टं कफवाताभ्यां कण्ठे सज्जति चापि यत्|
यच्चाप्युपद्रवैः सर्वैर्यथोक्तैः समभिद्रुतम्||१९||
हारिद्रनीलहरितताम्रैर्वर्णैरुपद्रुतम्|
क्षीणस्य कासमानस्य यच्च तच्च न सिध्यति||२०||
यद्विदोषानुगं यद्वा शान्तं शान्तं प्रकुप्यति|
मार्गान्मार्गं चरेद्यद्वा याप्यं पित्तमसृक् च तत्||२१||
एकमार्गं बलवतो नातिवेगं नवोत्थितम्|
रक्तपित्तं सुखे काले साध्यं स्यान्निरुपद्रवम्||२२||
स्निग्धोष्णमुष्णरूक्षं च रक्तपित्तस्य कारणम्|
अधोगस्योत्तरं प्रायः, पूर्वं स्यादूर्ध्वगस्य तु||२३||
ऊर्ध्वगं कफसंसृष्टमधोगं मारुतानुगम्|
द्विमार्गं कफवाताभ्यामुभाभ्यामनुबध्यते||२४||
अक्षीणबलमांसस्य रक्तपित्तं यदश्नतः|
तद्दोषदुष्टमुत्क्लिष्टं नादौ स्तम्भनमर्हति||२५||
गलग्रहं पूतिनस्यं मूर्च्छायमरुचिं ज्वरम्|
गुल्मं प्लीहानमानाहं किलासं कृच्छ्रमूत्रताम्||२६||
कुष्ठान्यर्शांसि वीसर्पं वर्णनाशं भगन्दरम्|
बुद्धीन्द्रियोपरोधं च कुर्यात् स्तम्भितमादितः||२७||
तस्मादुपेक्ष्यं बलिनो बलदोषविचारिणा |
रक्तपित्तं प्रथमतः प्रवृद्धं सिद्धिमिच्छता||२८||
प्रायेण हि समुत्क्लिष्टमामदोषाच्छरीरिणाम्|
वृद्धिं प्रयाति पित्तासृक्तस्मात्तल्लङ्घ्यमादितः||२९||
मार्गौ दोषानुबन्धं च निदानं प्रसमीक्ष्य च|
लङ्घनं रक्तपित्तादौ तर्पणं वा प्रयोजयेत्||३०||
ह्रीबेरचन्दनोशीरमुस्तपर्पटकैः शृतम्|
केवलं शृतशीतं वा दद्यात्तोयं पिपासवे||३१||
ऊर्ध्वगे तर्पणं पूर्वं पेयां पूर्वमधोगते|
कालसात्म्यानुबन्धज्ञो दद्यात् प्रकृतिकल्पवित्||३२||
जलं खर्जूरमृद्वीकामधूकैः सपरूषकैः|
शृतशीतं प्रयोक्तव्यं तर्पणार्थे सशर्करम्||३३||
तर्पणं सघृतक्षौद्रं लाजचूर्णैः प्रदापयेत्|
ऊर्ध्वगं रक्तपित्तं तत् पीतं काले व्यपोहति||३४||
मन्दाग्नेरम्लसात्म्याय तत् साम्लमपि कल्पयेत्|
दाडिमामलकैर्विद्वानम्लार्थं चानुदापयेत्||३५||
शालिषष्टिकनीवारकोरदूषप्रशान्तिकाः|
श्यामाकश्च प्रियङ्गुश्च भोजनं रक्तपित्तिनाम्||३६||
मुद्गा मसूराश्चणकाः समकुष्ठाढकीफलाः|
प्रशस्ताः सूपयूषार्थे कल्पिता रक्तपित्तिनाम्||३७||
पटोलनिम्बवेत्राग्रप्लक्षवेतसपल्लवाः|
किराततिक्तकं शाकं गण्डीरः सकठिल्लकः||३८||
कोविदारस्य पुष्पाणि काश्मर्यस्याथ शाल्मलेः|
अन्नपानविधौ शाकं यच्चान्यद्रक्तपित्तनुत्||३९||
शाकार्थं शाकसात्म्यानां तच्छस्तं रक्तपित्तिनाम्|
स्विन्नं वा सर्पिषा भृष्टं यूषवद्वा विपाचितम्||४०||
पारावतान् कपोतांश्च लावान् रक्ताक्षवर्तकान्|
शशान् कपिञ्जलानेणान् हरिणान्कालपुच्छकान्||४१||
रक्तपित्ते हितान् विद्याद्रसांस्तेषां प्रयोजयेत्|
ईषदम्लाननम्लान् वा घृतभृष्टान् सशर्करान्||४२||
कफानुगे यूषशाकं दद्याद्वातानुगे रसम्|
रक्तपित्ते यवागूनामतः कल्पः प्रवक्ष्यते||४३||
पद्मोत्पलानां किञ्जल्कः पृश्निपर्णी प्रियङ्गुकाः|
जले साध्या रसे तस्मिन् पेया स्याद्रक्तपित्तिनाम्||४४||
चन्दनोशीरलोध्राणां रसे तद्वत् सनागरे|
किराततिक्तकोशीरमुस्तानां तद्वदेव च||४५||
धातकीधन्वयासाम्बुबिल्वानां वा रसे शृता|
मसूरपृश्निपर्ण्योर्वा स्थिरामुद्गरसेऽथ वा||४६||
रसे हरेणुकानां वा सघृते सबलारसे|
सिद्धाः पारावतादीनां रसे वा स्युः पृथक्पृथक्||४७||
इत्युक्ता रक्तपित्तघ्न्यः शीताः समधुशर्कराः|
यवाग्वः कल्पना चैषा कार्या मांसरसेष्वपि||४८||
शशः सवास्तुकः शस्तो विबन्धे रक्तपित्तिनाम्|
वातोल्बणे तित्तिरिः स्यादुदुम्बररसे शृतः||४९||
मयूरः प्लक्षनिर्यूहे न्यग्रोधस्य च कुक्कुटः|
रसे बिल्वोत्पलादीनां वर्तकक्रकरौ हितौ||५०||
तृष्यते तिक्तकैः सिद्धं तृष्णाघ्नं वा फलोदकम्|
सिद्धं विदारिगन्धाद्यैरथवा शृतशीतलम्||५१||
ज्ञात्वा दोषावनुबलौ बलमाहारमेव च|
जलं पिपासवे दद्याद्विसर्गादल्पशोऽपि वा||५२||
निदानं रक्तपित्तस्य यत्किञ्चित् सम्प्रकाशितम्|
जीवितारोग्यकामैस्तन्न सेव्यं रक्तपित्तिभिः||५३||
इत्यन्नपानं निर्दिष्टं क्रमशो रक्तपित्तनुत्|५४|
वक्ष्यते बहुदोषाणां कार्यं बलवतां च यत्||५४||
अक्षीणबलमांसस्य यस्य सन्तर्पणोत्थितम्|
बहुदोषं बलवतो रक्तपित्तं शरीरिणः||५५||
काले संशोधनार्हस्य तद्धरेन्निरुपद्रवम्|
विरेचनेनोर्ध्वभागमधोगं वमनेन च||५६||
त्रिवृतामभयां प्राज्ञः फलान्यारग्वधस्य वा|
त्रायमाणां गवाक्ष्या वा मूलमामलकानि वा||५७||
विरेचनं प्रयुञ्जीत प्रभूतमधुशर्करम्|
रसः प्रशस्यते तेषां रक्तपित्ते विशेषतः||५८||
वमनं मदनोन्मिश्रो मन्थः सक्षौद्रशर्करः|
सशर्करं वा सलिलमिक्षूणां रस एव वा||५९||
वत्सकस्य फलं मुस्तं मदनं मधुकं मधु|
अधोवहे रक्तपित्ते वमनं परमुच्यते||६०||
ऊर्ध्वगे शुद्धकोष्ठस्य तर्पणादिः क्रमो हितः|
अधोगते यवाग्वादिर्न चेत्स्यान्मारुतो बली||६१||
बलमांसपरिक्षीणं शोकभाराध्वकर्शितम्|
ज्वलनादित्यसन्तप्तमन्यैर्वा क्षीणमामयैः||६२||
गर्भिणीं स्थविरं बालं रूक्षाल्पप्रमिताशिनम्|
अवम्यमविरेच्यं वा यं पश्येद्रक्तपित्तिनम्||६३||
शोषेण सानुबन्धं वा तस्य संशमनी क्रिया|
शस्यते रक्तपित्तस्य परं साऽथ प्रवक्ष्यते||६४||
अटरूषकमृद्वीकापथ्याक्वाथः सशर्करः|
मधुमिश्रः श्वासकासरक्तपित्तनिबर्हणः||६५||
अटरूषकनिर्यूहे प्रियङ्गुं मृत्तिकाञ्जने|
विनीय लोध्रं क्षौद्रं च रक्तपित्तहरं पिबेत्||६६||
पद्मकं पद्मकिञ्जल्कं दूर्वां वास्तूकमुत्पलम्|
नागपुष्पं च लोध्रं च तेनैव विधिना पिबेत्||६७||
प्रपौण्डरीकं मधुकं मधु चाश्वशकृद्रसे|
यवासभृङ्गरजसोर्मूलं वा गोशकृद्रसे||६८||
विनीय रक्तपित्तघ्नं पेयं स्यात्तण्डुलाम्बुना|
युक्तं वा मघुसर्पिर्भ्यां लिह्याद्गोश्वशकृद्रसम्||६९||
खदिरस्य प्रियङ्गूणां कोविदारस्य शाल्मलेः|
पुष्पचूर्णानि मधुना लिह्यान्ना रक्तपित्तिकः||७०||
शृङ्गाटकानां लाजानां मुस्तखर्जूरयोरपि|
लिह्याच्चूर्णानि मधुना पद्मानां केशरस्य च||७१||
धन्वजानामसृग्लिह्यान्मधुना मृगपक्षिणाम्|
सक्षौद्रं ग्रथिते रक्ते लिह्यात् पारावतं शकृत्||७२||
उशीरकालीयकलोध्रपद्मकप्रियङ्गुकाकट्फलशङ्खगैरिकाः|
पृथक् पृथक् चन्दनतुल्यभागिकाः सशर्करास्तण्डुलधावनाप्लुताः||७३||
रक्तं सपित्तं तमकं पिपासां दाहं च पीताः शमयन्ति सद्यः|
किराततिक्तं क्रमुकं समुस्तं प्रपौण्डरीकं कमलोत्पले च||७४||
ह्रीबेरमूलानि पटोलपत्रं दुरालभा पर्पटको मृणालम्|
धनञ्जयोदुम्बरवेतसत्वङ्न्यग्रोधशालेययवासकत्वक्||७५||
तुगालतावेतसतण्डुलीयं ससारिवं मोचरसः समङ्गा|
पृथक् पृथक् चन्दनयोजितानि तेनैव कल्पेन हितानि तत्र||७६||
निशि स्थिता वा स्वरसीकृता वा कल्कीकृता वा मृदिताः शृता वा|
एते समस्ता गणशः पृथग्वा रक्तं सपित्तं शमयन्ति योगाः||७७||
मुद्गाः सलाजाः सयवाः सकृष्णाः सोशीरमुस्ताः सह चन्दनेन|
बलाजले पर्युषिताः कषाया रक्तं सपित्तं शमयन्त्युदीर्णम्||७८||
वैदूर्यमुक्तामणिगैरिकाणां मृच्छङ्खहेमामलकोदकानाम्|
मधूदकस्येक्षुरसस्य चैव पानाच्छमं गच्छति रक्तपित्तम्||७९||
उशीरपद्मोत्पलचन्दनानां पक्वस्य लोष्टस्य च यः प्रसादः|
सशर्करः क्षौद्रयुतः सुशीतो रक्तातियोगप्रशमाय देयः||८०||
प्रियङ्गुकाचन्दनलोध्रसारिवामधूकमुस्ताभयधातकीजलम्|
समृत्प्रसादं सह यष्टिकाम्बुना सशर्करं रक्तनिबर्हणं परम्||८१||
कषाययोगैर्विविधैर्यथोक्तैर्दीप्तेऽनले श्लेष्मणि निर्जिते च|
यद्रक्तपित्तं प्रशमं न याति तत्रानिलः स्यादनु तत्र कार्यम्||८२||
छागं पयः स्यात् परमं प्रयोगे गव्यं शृतं पञ्चगुणे जले वा|
सशर्करं माक्षिकसम्प्रयुक्तं विदारिगन्धादिगणैः शृतं वा||८३||
द्राक्षाशृतं नागरकैः शृतं वा बलाशृतं गोक्षुरकैः शृतं वा|
सजीवकं सर्षभकं ससर्पिः पयः प्रयोज्यं सितया शृतं वा||८४||
शतावरीगोक्षुरकैः शृतं वा शृतं पयो वाऽप्यथ पर्णिनीभिः|
रक्तं निहन्त्याशु विशेषतस्तु यन्मूत्रमार्गात् सरुजं प्रयाति||८५||
विशेषतो विट्पथसम्प्रवृत्ते पयो मतं मोचरसेन सिद्धम्|
वटावरोहैर्वटशुङ्गकैर्वा ह्रीबेरनीलोत्पलनागरैर्वा||८६||
कषाययोगान् पयसा पुरा वा पीत्वाऽनु चाद्यात् पयसैव शालीन्|
कषाययोगैरथवा विपक्वमेतैः पिबेत् सर्पिरतिस्रवे च||८७||
वासां सशाखां सपलाशमूलां कृत्वा कषायं कुसुमानि चास्याः|
प्रदाय कल्कं विपचेद्घृतं तत् सक्षौद्रमाश्वेव निहन्ति रक्तम्||८८||
इति वासाघृतम्|
पलाशवृन्तस्वरसेन सिद्धं तस्यैव कल्केन मधुद्रवेण|
लिह्याद्घृतं वत्सककल्कसिद्धं तद्वत् समङ्गोत्पललोध्रसिद्धम्||८९||
स्यात्त्रायमाणाविधिरेष एव सोदुम्बरे चैव पटोलपत्रे|
सर्पींषि पित्तज्वरनाशनानि सर्वाणि शस्तानि च रक्तपित्ते||९०||
अभ्यङ्गयोगाः परिषेचनानि सेकावगाहाः शयनानि वेश्म|
शीतो विधिर्बस्तिविधानमग्र्यं पित्तज्वरे यत् प्रशमाय दिष्टम्||९१||
तद्रक्तपित्ते निखिलेन कार्यं कालं च मात्रां च पुरा समीक्ष्य|
सर्पिर्गुडा ये च हिताः क्षतेभ्यस्ते रक्तपित्तं शमयन्ति सद्यः||९२||
कफानुबन्धे रुधिरे सपित्ते कण्ठागते स्याद्ग्रथिते प्रयोगः|
युक्तस्य युक्त्या मधुसर्पिषोश्च क्षारस्य चैवोत्पलनालजस्य||९३||
मृणालपद्मोत्पलकेशराणां तथा पलाशस्य तथा प्रियङ्गोः|
तथा मधूकस्य तथाऽसनस्य क्षाराः प्रयोज्या विधिनैव तेन||९४||
शतावरीदाडिमतिन्तिडीकं काकोलिमेदे मधुकं विदारीम्|
पिष्ट्वा च मूलं फलपूरकस्य घृतं पचेत् क्षीरचतुर्गुणं ज्ञः||९५||
कासज्वरानाहविबन्धशूलं तद्रक्तपित्तं च घृतं निहन्यात्|
यत् पञ्चमूलैरथ पञ्चभिर्वा सिद्धं घृतं तच्च तदर्थकारि||९६||
इति शतावर्यादिघृतम्|
कषाययोगा य इहोपदिष्टास्ते चावपीडे भिषजा प्रयोज्याः|
घ्राणात् प्रवृत्तं रुधिरं सपित्तं यदा भवेन्निःसृतदुष्टदोषम्||९७||
रक्ते प्रदुष्टे ह्यवपीडबन्धे दुष्टप्रतिश्यायशिरोविकाराः|
रक्तं सपूयं कुणपश्च गन्धः स्याद् घ्राणनाशः कृमयश्च दुष्टाः||९८||
नीलोत्पलं गैरिकशङ्खयुक्तं सचन्दनं स्यात्तु सिताजलेन|
नस्यं तथाऽऽम्रास्थिरसः समङ्गा सधातकीमोचरसः सलोध्रः||९९||
द्राक्षारसस्येक्षुरसस्य नस्यं क्षीरस्य दूर्वास्वरसस्य चैव|
यवासमूलानि पलाण्डुमूलं नस्यं तथा दाडिमपुष्पतोयम्||१००||
प्रियालतैलं मधुकं पयश्च सिद्धं घृतं माहिषमाजिकं वा|
आम्रास्थिपूर्वैः पयसा च नस्यं ससारिवैः स्यात् कमलोत्पलैश्च||१०१||
भद्रश्रियं लोहितचन्दनं च प्रपौण्डरीकं कमलोत्पले च|
उशीरवानीरजलं मृणालं सहस्रवीर्या मधुकं पयस्या||१०२||
शालीक्षुमूलानि यवासगुन्द्रामूलं नलानां कुशकाशयोश्च|
कुचन्दनं शैवलमप्यनन्ता कालानुसार्या तृणमूलमृद्धिः||१०३||
मूलानि पुष्पाणि च वारिजानां प्रलेपनं पुष्करिणीमृदश्च|
उदुम्बराश्वत्थमधूकलोध्राः कषायवृक्षाः शिशिराश्च सर्वे||१०४||
प्रदेहकल्पे परिषेचने च तथाऽवगाहे घृततैलसिद्धौ|
रक्तस्य पित्तस्य च शान्तिमिच्छन् भद्रश्रियादीनि भिषक् प्रयुञ्ज्यात्||१०५||
धारागृहं भूमिगृहं सुशीतं वनं च रम्यं जलवातशीतम्|
वैदूर्यमुक्तामणिभाजनानां स्पर्शाश्च दाहे शिशिराम्बुशीताः||१०६||
पत्राणि पुष्पाणि च वारिजानां क्षौमं च शीतं कदलीदलानि|
प्रच्छादनार्थं शयनासनानां पद्मोत्पलानां च दलाः प्रशस्ताः||१०७||
प्रियङ्गुकाचन्दनरूषितानां स्पर्शाः प्रियाणां च वराङ्गनानाम्|
दाहे प्रशस्ताः सजलाः सुशीताः पद्मोत्पलानां च कलापवाताः||१०८||
सरिद्ध्रदानां हिमवद्दरीणां चन्द्रोदयानां कमलाकराणाम्|
मनोऽनुकूलाः शिशिराश्च सर्वाः कथाः सरक्तं शमयन्ति पित्तम्||१०९||
तत्र श्लोकौ-
हेतुं वृद्धिं सञ्ज्ञां स्थानं लिङ्गं पृथक् प्रदुष्टस्य|
मार्गौ साध्यमसाध्यं याप्यं कार्यक्रमं चैव||११०||
पानान्नमिष्टमेव च वर्ज्यं संशोधनं च शमनं च|
गुरुरुक्तवान्यथावच्चिकित्सिते रक्तपित्तस्य||१११||
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सितस्थानेरक्तपित्तचिकित्सितं नाम चतुर्थोऽध्यायः||४||