चिकित्सास्थानम् - १९. अतिसारचिकित्सितम्
अथातोऽतीसारचिकित्सितं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
भगवन्तं खल्वात्रेयं कृताह्निकं हुताग्निहोत्रमासीनमृषिगणपरिवृतमुत्तरे हिमवतः पार्श्वे विनयादुपेत्याभिवाद्य
चाग्निवेश उवाच- भगवन्! अतीसारस्य प्रागुत्पत्तिनिमित्तलक्षणोपशमनानि प्रजानुग्रहार्थमाख्यातुमर्हसीति||३||
अथ भगवान् पुनर्वसुरात्रेयस्तदग्निवेशवचनमनुनिशम्योवाच- श्रूयतामग्निवेश! सर्वमेतदखिलेन व्याख्यायमानम्|
आदिकाले खलु यज्ञेषु पशवः समालभनीया बभूवुर्नालम्भाय प्रक्रियन्ते स्म|
ततो दक्षयज्ञं प्रत्यवरकालं मनोः पुत्राणां नरिष्यन्नाभागेक्ष्वाकुनृगशर्यात्यादीनां
क्रतुषु पशूनामेवाभ्यनुज्ञानात् पशवः प्रोक्षणमवापुः|
अतश्च प्रत्यवरकालं पृषध्रेण दीर्घसत्रेण यजता पशूनामलाभाद्गवामालम्भः प्रवर्तितः|
तं दृष्ट्वा प्रव्यथिता भूतगणाः, तेषां चोपयोगादुपाकृतानां गवां
गौरवादौष्ण्यादसात्म्यत्वादशस्तोपयोगाच्चोपहताग्नीनामुपहतमनसां चातीसारः पूर्वमुत्पन्नः पृषध्रयज्ञे||४||
अथावरकालं वातलस्य वातातपव्यायामातिमात्रनिषेविणो रूक्षाल्पप्रमिताशिनस्तीक्ष्णमद्यव्यवायनित्यस्योदावर्तयतश्च
वेगान् वायुः प्रकोपमापद्यते, पक्ता चोपहन्यते; स वायुः कुपितोऽग्नावुपहते मूत्रस्वेदौ पुरीषाशयमुपहृत्य,
ताभ्यां पुरीषं द्रवीकृत्य, अतीसाराय प्रकल्पते|
तस्य रूपाणि- विज्जलमामं विप्लुतमवसादि रूक्षं द्रवं सशूलमामगन्धमीषच्छब्दमशब्दं वा
विबद्धमूत्रवातमतिसार्यते पुरीषं, वायुश्चान्तःकोष्ठे सशब्दशूलस्तिर्यक् चरति विबद्ध इत्यामातिसारो वातात्|
पक्वं वा विबद्धमल्पाल्पं सशब्दं सशूलफेनपिच्छापरिकर्तिकं हृष्टरोमा विनिःश्वसञ् शुष्कमुखः
कट्यूरुत्रिकजानुपृष्ठपार्श्वशूली भ्रष्टगुदो मुहुर्मुहुर्विग्रथितमुपवेश्यते पुरीषं वातात्;
तमाहुरनुग्रथितमित्येके, वातानुग्रथितवर्चस्त्वात्||५||
पित्तलस्य पुनरम्ललवणकटुकक्षारोष्णतीक्ष्णातिमात्रनिषेविणः प्रतताग्निसूर्यसन्तापोष्णमारुतोपहतगात्रस्य
क्रोधेर्ष्याबहुलस्य पित्तं प्रकोपमापद्यते|
तत् प्रकुपितं द्रवत्वादूष्माणमुपहत्य पुरीषाशयविसृतमौष्ण्याद् द्रवत्वात् सरत्वाच्च भित्त्वा
पुरीषमतिसाराय प्रकल्पते|
तस्य रूपाणि- हारिद्रं हरितं नीलं
कृष्णं रक्तपित्तोपहितमतिदुर्गन्धमतिसार्यते पुरीषं, तृष्णादाहस्वेदमूर्च्छाशूलब्रध्नसन्तापपाकपरीत
इति पित्तातिसारः||६||
श्लेष्मलस्य तु गुरुमधुरशीतस्निग्धोपसेविनः सम्पूरकस्याचिन्तयतो दिवास्वप्नपरस्यालसस्य
श्लेष्मा प्रकोपमापद्यते|
स स्वभावाद् गुरुमधुरशीतस्निग्धः स्रस्तोऽग्निमुपहत्य सौम्यस्वभावात्
पुरीषाशयमुपहत्योपक्लेद्य पुरीषमतिसाराय कल्पते|
तस्य रूपाणि- स्निग्धं श्वेतं पिच्छिलं तन्तुमदामं गुरु दुर्गन्धं श्लेष्मोपहितमनुबद्धशूलमल्पाल्पमभीक्ष्णमतिसार्यते
सप्रवाहिकं, गुरूदरगुदबस्तिवङ्क्षणदेशः कृतेऽप्यकृतसञ्ज्ञः सलोमहर्षः सोत्क्लेशो
निद्रालस्यपरीतः सदनोऽन्नद्वेषी चेति श्लेष्मातिसारः||७||
अतिशीतस्निग्धरूक्षोष्णगुरुखरकठिनविषमविरुद्धासात्म्यभोजनादभोजनात् कालातीतभोजनाद्
यत्किञ्चिदभ्यवहरणात् प्रदुष्टमद्यपानीयपानादतिमद्यपानादसंशोधनात् प्रतिकर्मणां
विषमगमनादनुपचाराज्ज्वलनादित्यपवनसलिलातिसेवनादस्वप्ना-
दतिस्वप्नाद्वेगविधारणादृतुविपर्ययादयथाबलमारम्भाद्भयशोकचित्तोद्वेगातियोगात्
कृमिशोषज्वरार्शोविकारातिकर्षणाद्वा व्यापन्नाग्नेस्त्रयो दोषाः प्रकुपिता भूय एवाग्निमुपहत्य
पक्वाशयमनुप्रविश्यातीसारं सर्वदोषलिङ्गं जनयन्ति||८||
अपि च शोणितादीन् धातूनतिप्रकृष्टं दूषयन्तो धातुदोषस्वभावकृतानतीसारवर्णानुपदर्शयन्ति|
तत्र शोणितादिषु धातुष्वतिप्रदुष्टेषु हारिद्रहरितनीलमाञ्जिष्ठमांसधावनसन्निकाशं रक्तं कृष्णं
श्वेतं वराहभेदःसदृशमनुबद्धवेदनमवेदनं वा समासव्यत्यासादुपवेश्यते शकृद् ग्रथितमामं सकृत्,
सकृदपि पक्वमनतिक्षीणमांसशोणितबलो मन्दाग्निर्विहतमुखरसश्च; तादृशमातुरं कृच्छ्रसाध्यं विद्यात्|
एभिर्वर्णैरतिसार्यमाणं सोपद्रवमातुरमसाध्योऽयमिति प्रत्याचक्षीत; तद्यथा-
पक्वशोणिताभं यकृत्खण्डोपमं मेदोमांसोदकसन्निकाशं
दधिघृतमज्जतैलवसाक्षीरवेसवाराभमतिनीलमतिरक्तमतिकृष्णमुदकमिवाच्छं पुनर्मेचकाभमतिस्निग्धं
हरितनीलकषायवर्णं कर्बुरमाविलं पिच्छिलं तन्तुमदामं चन्द्रकोपगतमतिकुणपपूतिपूयगन्ध्यामाममत्स्यगन्धि
मक्षिकाकान्तं कुथितबहुधातुस्रावमल्पपुरीषमपुरीषं वाऽतिसार्यमाणं
तृष्णादाहज्वरभ्रमतमकहिक्काश्वासानुबन्धमतिवेदनमवेदनं वा स्रस्तपक्वगुदं पतितगुदवलिं
मुक्तनालमतिक्षीणबलमांसशोणितं सर्वपर्वास्थिशूलिनमरोचकारतिप्रलापसम्मोहपरीतं
सहसोपरतविकारमतिसारिणमचिकित्स्यं विद्यात्; इति सन्निपातातिसारः||९||
तमसाध्यतामसम्प्राप्तं चिकित्सेद् यथाप्रधानोपक्रमेण हेतूपशयदोषविशेषपरीक्षया चेति||१०||
आगन्तू द्वावतीसारौ मानसौ भयशोकजौ|
तत्तयोर्लक्षणं वायोर्यदतीसारलक्षणम्||११||
मारुतो भयशोकाभ्यां शीघ्रं हि परिकुप्यति|
तयोः क्रिया वातहरी हर्षणाश्वासनानि च||१२||
इत्युक्ताः षडतीसाराः, साध्यानां साधनं त्वतः|
प्रवक्ष्याम्यनुपूर्वेण यथावत्तन्निबोधत||१३||
दोषाः सन्निचिता यस्य विदग्धाहारमूर्च्छिताः|
अतीसाराय कल्पन्ते भूयस्तान् सम्प्रवर्तयेत्||१४||
न तु सङ्ग्रहणं देयं पूर्वमामातिसारिणे|
विबध्यमानाः प्राग्दोषा जनयन्त्यामयान् बहून्||१५||
दण्डकालसकाध्मानग्रहण्यर्शोगदांस्तथा|
शोथपाण्ड्वामयप्लीहकुष्ठगुल्मोदरज्वरान्||१६||
तस्मादुपेक्षेतोत्क्लिष्टान् वर्तमानान् स्वयं मलान्|
कृच्छ्रं वा वहतां दद्यादभयां सम्प्रवर्तिनीम्||१७||
तया प्रवाहिते दोषे प्रशाम्यत्युदरामयः|
जायते देहलघुता जठराग्निश्च वर्धते||१८||
प्रमथ्यां मध्यदोषाणां दद्याद्दीपनपाचनीम्|
लङ्घनं चाल्पदोषाणां प्रशस्तमतिसारिणाम्||१९||
पिप्पली नागरं धान्यं भूतीकमभया वचा|
ह्रीवेरं भद्रमुस्तानि बिल्वं नागरधान्यकम्||२०||
पृश्निपर्णी श्वदंष्ट्रा च समङ्गा कण्टकारिका|
तिस्रः प्रमथ्या विहिताः श्लोकार्धैरतिसारिणाम्||२१||
वचाप्रतिविषाभ्यां वा मुस्तपर्पटकेन वा|
ह्रीवेरशृङ्गवेराभ्यां पक्वं वा पाययेज्जलम्||२२||
युक्तेऽन्नकाले क्षुत्क्षामं लघून्यन्नानि भोजयेत्|
तथा स शीघ्रमाप्नोति रुचिमग्निबलं बलम्||२३||
तक्रेणावन्तिसोमेन यवाग्वा तर्पणेन वा|
सुरया मधुना चादौ यथासात्म्यमुपाचरेत्||२४||
यवागूभिर्विलेपीभिः खडैर्यूषै रसौदनैः|
दीपनग्राहिसंयुक्तैः क्रमश्च स्यादतः परम्||२५||
शालपर्णीं पृश्निपर्णीं बृहतीं कण्टकारिकाम्|
बलां श्वदंष्ट्रां बिल्वानि पाठां नागरधान्यकम्||२६||
शटीं पलाशं हपुषां वचां जीरकपिप्पलीम्|
यवानीं पिप्पलीमूलं चित्रकं हस्तिपिप्पलीम्||२७||
वृक्षाम्लं दाडिमाम्लं च सहिङ्गु बिडसैन्धवम्|
प्रयोजयेदन्नपाने विधिना सूपकल्पितम्||२८||
वातश्लेष्महरो ह्येष गणो दीपनपाचनः|
ग्राही बल्यो रोचनश्च तस्माच्छस्तोऽतिसारिणाम्||२९||
आमे परिणते यस्तु विबद्धमतिसार्यते|
सशूलपिच्छमल्पाल्पं बहुशः सप्रवाहिकम्||३०||
यूषेण मूलकानां तं बदराणामथापि वा|
उपोदिकायाः क्षीरिण्या यवान्या वास्तुकस्य वा||३१||
सुवर्चलायाश्चञ्चोर्वा शाकेनावल्गुजस्य वा|
शट्याः कर्कारुकाणां वा जीवन्त्याश्चिर्भटस्य वा||३२||
लोणिकायाः सपाठायाः शुष्कशाकेन वा पुनः|
दधिदाडिमसिद्धेन बहुस्नेहेन भोजयेत्||३३||
कल्कः स्याद्बालबिल्वानां तिलकल्कश्च तत्समः|
दध्नः सरोऽम्लस्नेहाद्यः खडो हन्यात् प्रवाहिकाम्||३४||
यवानां मुद्गमाषाणां शालीनां च तिलस्य च|
कोलानां बालबिल्वानां धान्ययूषं प्रकल्पयेत्||३५||
ऐकध्यं यमके भृष्टं दधिदाडिमसारिकम्|
वर्चःक्षये शुष्कमुखं शाल्यन्नं तेन भोजयेत्||३६||
दध्नः सरं वा यमके भृष्टं सगुडनागरम्|
सुरां वा यमके भृष्टां व्यञ्जनार्थे प्रदापयेत्||३७||
फलाम्लं यमके भृष्टं यूषं गृञ्जनकस्य वा|
लोपाकरसमम्लं वा स्निग्धाम्लं कच्छपस्य वा||३८||
बर्हितित्तिरिदक्षाणां वर्तकानां तथा रसाः|
स्निग्धाम्लाः शालयश्चाग्र्या वर्चःक्षयरुजापहाः||३९||
अन्तराधिरसं पूत्वा रक्तं मेषस्य चोभयम्|
पचेद्दाडिमसाराम्लं सधान्यस्नेहनागरम्||४०||
ओदनं रक्तशालीनां तेनाद्यात् प्रपिबेच्च तत्|
तथा वर्चःक्षयकृतैर्व्याधिभिर्विप्रमुच्यते||४१||
गुदनिःसरणे शूले पानमम्लस्य सर्पिषः|
प्रशस्यते निरामाणामथवाऽप्यनुवासनम्||४२||
चाङ्गेरीकोलदध्यम्लनागरक्षारसंयुतम्|
घृतमुत्क्वथितं पेयं गुदभ्रंशरुजापहम्||४३||
इति चाङ्गेरीघृतम्|
सचव्यपिप्पलीमूलं सव्योषविडदाडिमम्|
पेयमम्लं घृतं युक्त्या सधान्याजाजिचित्रकम्||४४||
इति गुदभ्रंशे चव्यादिघृतम्|
दशमूलोपसिद्धं वा सबिल्वमनुवासनम्|
शटीशताह्वाबिल्वैर्वा वचया चित्रकेण वा||४५||
इति गुदभ्रंशेऽनुवासनम्|
स्तब्धभ्रष्टगुदे पूर्वं स्नेहस्वेदौ प्रयोजयेत्|
सुस्विन्नं तं मृदूभूतं पिचुना सम्प्रवेशयेत्||४६||
विबद्धवातवर्चास्तु बहुशूलप्रवाहिकः|
सरक्तपिच्छस्तृष्णार्तः क्षीरसौहित्यमर्हति||४७||
यमकस्योपरि क्षीरं धारोष्णं वा पिबेन्नरः|
शृतमेरण्डमूलेन बालबिल्वेन वा पयः ||४८||
एवं क्षीरप्रयोगेण रक्तं पिच्छा च शाम्यति|
शूलं प्रवाहिका चैव विबन्धश्चोपशाम्यति||४९||
पित्तातिसारं पुनर्निदानोपशयाकृतिभिरामान्वयमुपलभ्य यथाबलं लङ्घनपाचनाभ्यामुपाचरेत्|
तृष्यतस्तु मुस्तपर्पटकोशीरसारिवाचन्दनकिराततिक्तकोदीच्यवारिभिरुपचारः|
लङ्घितस्य चाहारकाले बलातिबलासूर्पपर्णीशालपर्णीपृश्निपर्णीबृहतीकण्टकारिकाशतावरीश्वदंष्ट्रानिर्यूहसंयुक्तेन
यथासात्म्यं यवागूमण्डादिना तर्पणादिना वा क्रमेणोपचारः|
मुद्गमसूरहरेणुमकुष्ठकाढकीयूषैर्वा लावकपिञ्जलशशहरिणैणकालपुच्छकरसैरीषदम्लैरनम्लैर्वा
क्रमशोऽग्निं सन्धुक्षयेत्|
अनुबन्धे त्वस्य दीपनीयपाचनीयोपशमनीयसङ्ग्रहणीयान् योगान् सम्प्रयोजयेदिति||५०||
सक्षौद्रातिविषं पिष्ट्वा वत्सकस्य फलत्वचम्|
पिबेत् पित्तातिसारघ्नं तण्डुलोदकसंयुतम्||५१||
किराततिक्तको मुस्तं वत्सकः सरसाञ्जनः|
बिल्वं दारुहरिद्रा त्वक् ह्रीबेरं सदुरालभम्||५२||
चन्दनं च मृणालं च नागरं लोध्रमुत्पलम्|
तिला मोचरसो लोध्रं समङ्गा कमलोत्पलम्||५३||
उत्पलं धातकीपुष्पं दाडिमत्वङ्महौषधम्|
कट्फलं नागरं पाठा जम्ब्वाम्रास्थिदुरालभाः||५४||
योगाः षडेते सक्षौद्रास्तण्डुलोदकसंयुताः|
पेयाः पित्तातिसारघ्नाः श्लोकार्धेन निदर्शिताः||५५||
जीर्णोषधानां शस्यन्ते यथायोगं प्रकल्पितैः|
रसैः साङ्ग्राहिकैर्युक्ताः पुराणा रक्तशालयः||५६||
पित्तातिसारो दीपाग्नेः क्षिप्रं समुपशाम्यति|
अजाक्षीरप्रयोगेण बलं वर्णश्च वर्धते||५७||
बहुदोषस्य दीप्ताग्नेः सप्राणस्य न तिष्ठति|
पैत्तिको यद्यतीसारः पयसा तं विरेचयेत्||५८||
पलाशफलनिर्यूहं पयसा सह पाययेत्|
ततोऽनुपाययेत् कोष्णं क्षीरमेव यथाबलम्||५९||
प्रवाहिते तेन मले प्रशाम्यत्युदरामयः|
पलाशवत् प्रयोज्या वा त्रायमाणा विशोधिनी||६०||
सांसर्ग्यां क्रियमाणायां शूलं यद्यनुवर्तते|
स्रुतदोषस्य तं शीघ्रं यथावदनुवासयेत्||६१||
शतपुष्पावरीभ्यां च पयसा मधुकेन च|
तैलपादं घृतं सिद्धं सबिल्वमनुवासनम्||६२||
कृतानुवासनस्यास्य कृतसंसर्जनस्य च|
वर्तते यद्यतीसारः पिच्छाबस्तिरतः परम्||६३||
परिवेष्ट्य कुशैरार्द्रैरार्द्रवृन्तानि शाल्मलेः|
कृष्णमृत्तिकयाऽऽलिप्य स्वेदयेद्गोमयाग्निना||६४||
सुशुष्कां मृत्तिकां ज्ञात्वा तानि वृन्तानि शाल्मलेः|
शृते पयसि मृद्नीयादापोथ्योलूखले ततः||६५||
पिण्डं मुष्टिसमं प्रस्थे तत् पूतं तैलसर्पिषोः|
स्नेहितं मात्रया युक्तं कल्केन मधुकस्य च||६६||
बस्तिमभ्यक्तगात्राय दद्यात् प्रत्यागते ततः|
स्नात्वा भुञ्जीत पयसा जाङ्गलानां रसेन वा||६७||
पित्तातिसारज्वरशोथगुल्मजीर्णातिसारग्रहणीप्रदोषान्|
जयत्ययं शीघ्रमतिप्रवृद्धान् विरेचनास्थापनयोश्च बस्तिः ||६८||
पित्तातिसारी यस्त्वेतां क्रियां मुक्त्वा निषेवते|
पित्तलान्यन्नपानानि तस्य पित्तं महाबलम्||६९||
कुर्याद्रक्तातिसारं तु रक्तमाशु प्रदूषयेत्|
तृष्णां शूलं विदाहं च गुदपाकं च दारुणम्||७०||
तत्र च्छागं पयः शस्तं शीतं समधुशर्करम्|
पानार्थं भोजनार्थं च गुदप्रक्षालने तथा||७१||
ओदनं रक्तशालीनां पयसा तेन भोजयेत्|
रसैः पारावतादीनां घृतभृष्टैः सशर्करैः||७२||
शशपक्षिमृगाणां च शीतानां धन्वचारिणाम्|
रसैरनम्लैः सघृतैर्भोजयेत्तं सशर्करैः||७३||
रुधिरं मार्गमाजं वा घृतभृष्टं प्रशस्यते|
काश्मर्यफलयूषो वा किञ्चिदम्लः सशर्करः||७४||
नीलोत्पलं मोचरसं समङ्गा पद्मकेशरम्|
अजाक्षीरयुतं दद्याज्जीर्णे च पयसौदनम्||७५||
दुर्बलं पाययित्वा वा तस्यैवोपरि भोजयेत्|
प्राग्भक्तं नवनीतं वा दद्यात् समधुशर्करम्||७६||
प्राश्य क्षीरोत्थितं सर्पिः कपिञ्जलरसाशनः|
त्र्यहादारोग्यमाप्नोति पयसा क्षीरभुक् तथा||७७||
पीत्वा शतावरीकल्कं पयसा क्षीरभुग्जयेत्|
रक्तातिसारं पीत्वा वा तया सिद्धं घृतं नरः||७८||
घृतं यवागूमण्डेन कुटजस्य फलैः शृतम्|
पेयं तस्यानु पातव्या पेया रक्तोपशान्तये||७९||
त्वक् च दारुहरिद्रायाः कुटजस्य फलानि च|
पिप्पली शृङ्गवेरं च द्राक्षा कटुकरोहिणी||८०||
षड्भिरेतैर्घृतं सिद्धं पेयामण्डावचारितम्|
अतीसारं जयेच्छीघ्रं त्रिदोषमपि दारुणम्||८१||
कृष्णमृन्मधुकं शङ्खं रुधिरं तण्डुलोदकम्|
पीतमेकत्र सक्षौद्रं रक्तसङ्ग्रहणं परम्||८२||
पीतः प्रियङ्गुकाकल्कः सक्षौद्रस्तण्डुलाम्भसा|
रक्तस्रावं जयेच्छीघ्रं धन्वमांसरसाशिनः||८३||
कल्कस्तिलानां कृष्णानां शर्करापञ्चभागिकः|
आजेन पयसा पीतः सद्यो रक्तं नियच्छति||८४||
पलं वत्सकबीजस्य श्रपयित्वा रसं पिबेत्|
यो रसाशी जयेच्छीघ्रं स पैत्तं जठरामयम्||८५||
पीत्वा सशर्कराक्षौद्रं चन्दनं तण्डुलाम्भसा|
दाहतृष्णाप्रमेहेभ्यो रक्तस्रावाच्च मुच्यते||८६||
गुदो बहुभिरुत्थानैर्यस्य पित्तेन पच्यते|
सेचयेत्तं सुशीतेन पटोलमधुकाम्बुना||८७||
पञ्चवल्कमधूकानां रसैरिक्षुरसैर्घृतैः|
छागैर्गव्यैः पयोभिर्वा शर्कराक्षौद्रसंयुतैः||८८||
प्रक्षालनानां कल्कैर्वा ससर्पिष्कैः प्रलेपयेत्|
एषां वा सुकृतैश्चूर्णैस्तं गुदं प्रतिसारयेत्||८९||
धातकीलोध्रचूर्णैर्वा समांशैः प्रतिसारयेत्|
तथा स्रवति नो रक्तं गुदं तैः प्रतिसारितम्||९०||
पक्वता प्रशमं याति वेदना चोपशाम्यति|
यथोक्तैः सेचनैः शीतैः शोणितेऽतिस्रवत्यपि||९१||
गुदवङ्क्षणकट्यूरु सेचयेद्घृतभावितम्|
चन्दनाद्येन तैलेन शतधौतेन सर्पिषा||९२||
कार्पाससङ्गृहीतेन सेचयेद्गुदवङ्क्षणम्|९३|
अल्पाल्पं बहुशो रक्तं सशूलमुपवेश्यते||९३||
यदा वायुर्विबद्धश्च कृच्छ्रं चरति वा न वा|
पिच्छाबस्तिं तदा तस्य यथोक्तमुपकल्पयेत्||९४||
प्रपौण्डरीकसिद्धेन सर्पिषा चानुवासयेत्|
प्रायशो दुर्बलगुदाश्चिरकालातिसारिणः||९५||
तस्मादभीक्ष्णशस्तेषां गुदे स्नेहं प्रयोजयेत्|९६|
पवनोऽतिप्रवृत्तो हि स्वे स्थाने लभतेऽधिकम्||९६||
बलं तस्य सपित्तस्य जयार्थे बस्तिरुत्तमः|
रक्तं विट्सहितं पूर्वं पश्चाद्वा योऽतिसार्यते||९७||
शतावरीघृतं तस्य लेहार्थमुपकल्पयेत्|
शर्करार्धांशिकं लीढं नवनीतं नवोद्धृतम्||९८||
क्षौद्रपादं जयेच्छीघ्रं तं विकारं हिताशिनः|
न्यग्रोधोदुम्बराश्वत्थशुङ्गानापोथ्य वासयेत्||९९||
अहोरात्रं जले तप्ते घृतं तेनाम्भसा पचेत्|
तदर्धशर्करायुक्तं लिह्यात् सक्षौद्रपादिकम्||१००||
अधो वा यदि वाऽप्यूर्ध्वं यस्य रक्तं प्रवर्तते|१०१|
यस्त्वेवं दुर्बलो मोहात् पित्तलान्येव सेवते||१०१||
दारुणं स वलीपाकं प्राप्य शीघ्रं विपद्यते|१०२|
श्लेष्मातिसारे प्रथमं हितं लङ्घनपाचनम्||१०२||
योज्यश्चामातिसारघ्नो यथोक्तो दीपनो गणः|
लङ्घितस्यानुपूर्व्यां च कृतायां न निवर्तते||१०३||
कफजो यद्यतीसारः कफघ्नैस्तमुपाचरेत्|१०४|
बिल्वं कर्कटिका मुस्तमभया विश्वभेषजम्||१०४||
वचा विडङ्गं भूतीकं धान्यकं देवदारु च|
कुष्ठं सातिविषा पाठा चव्यं कटुकरोहिणी||१०५||
पिप्पली पिप्पलीमूलं चित्रकं हस्तिपिप्पली|
योगाञ्छ्लोकार्धविहितांश्चतुरस्तान् प्रयोजयेत्||१०६||
शृताञ्छ्लेष्मातिसारेषु कायाग्निबलवर्धनान्|
अजाजीमसितां पाठां नागरं मरिचानि च||१०७||
धातकीद्विगुणं दद्यान्मातुलुङ्गरसाप्लुतम्|
रसाञ्जनं सातिविषं कुटजस्य फलानि च||१०८||
धातकीद्विगुणं दद्यात् पातुं सक्षौद्रनागरम्|
धातकी नागरं बिल्वं लोध्रं पद्मस्य केशरम्||१०९||
जम्बूत्वङ्नागरं धान्यं पाठा मोचरसो बला|
समङ्गा धातकी बिल्वमध्यं जम्ब्वाम्रयोस्त्वचः||११०||
कपित्थानि विडङ्गानि नागरं मरिचानि च|
चाङ्गेरीकोलतक्राम्लांश्चतुरस्तान् कफोत्तरे||१११||
श्लोकार्धविहितान् दद्यात् सस्नेहलवणान् खडान्|
कपित्थमध्यं लीढ्वा तु सव्योषक्षौद्रशर्करम्||११२||
कट्फलं मधुयुक्तं वा मुच्यते जठरामयात्|११३|
कणां मधुयुतां पीत्वा तक्रं पीत्वा सचित्रकम्||११३||
जग्ध्वा वा बालबिल्वानि मुच्यते जठरामयात्|
बालबिल्वं गुडं तैलं पिप्पलीं विश्वभेषजम्|
लिह्याद्वाते प्रतिहते सशूलः सप्रवाहिकः||११४||
भोज्यं मूलकषायेण वातघ्नैश्चोपसेवनैः|
वातातिसारविहितैर्यूषैर्मांसरसैः खडैः||११५||
पूर्वोक्तमम्लसर्पिर्वा षट्पलं वा यथाबलम्|
पुराणं वा घृतं दद्याद्यवागूमण्डमिश्रितम्||११६||
वातश्लेष्मविबन्धे वा कफे वाऽतिस्रवत्यपि|
शूले प्रवाहिकायां वा पिच्छाबस्तिं प्रयोजयेत्||११७||
पिप्पलीबिल्वकुष्ठानां शताह्वावचयोरपि|
कल्कैः सलवणैर्युक्तं पूर्वोक्तं सन्निधापयेत्||११८||
प्रत्यागते सुखं स्नातं कृताहारं दिनात्यये|
बिल्वतैलेन मतिमान्सुखोष्णेनानुवासयेत्||११९||
वचान्तैरथवा कल्कैस्तैलं पक्त्वाऽनुवासयेत्|
बहुशः कफवातार्तस्तथा स लभते सुखम्||१२०||
स्वे स्थाने मारुतोऽवश्यं वर्धते कफसङ्क्षये|
स वृद्धः सहसा हन्यात्तस्मात्तं त्वरया जयेत्||१२१||
वातस्यानु जयेत् पित्तं, पित्तस्यानु जयेत् कफम्|
त्रयाणां वा जयेत् पूर्वं यो भवेद्बलवत्तमः||१२२||
तत्र श्लोकः-
प्रागुत्पत्तिनिमित्तानि लक्षणं साध्यता न च|
क्रिया चावस्थिकी सिद्धा निर्दिष्टा ह्यतिसारिणाम्||१२३||
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थानेऽतिसारचिकित्सितं नामैकोनविंशोऽध्यायः||१९||