चिकित्सास्थानम् - २३. विषचिकित्सितम्
अथातो विषचिकित्सितं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
प्रागुत्पत्तिं गुणान् योनिं वेगाँल्लिङ्गान्युपक्रमान्|
विषस्य ब्रुवतः सम्यगग्निवेश निबोध मे||३||
अमृतार्थं समुद्रे तु मथ्यमाने सुरासुरैः|
जज्ञे प्रागमृतोत्पत्तेः पुरुषो घोरदर्शनः||४||
दीप्ततेजाश्चतुर्दंष्ट्रो हरिकेशोऽनलेक्षणः|
जगद्विषण्णं तं दृष्ट्वा तेनासौ विषसञ्ज्ञितः||५||
जङ्गमस्थावरायां तद्योनौ ब्रह्मा न्ययोजयत्|
तदम्बुसम्भवं तस्माद्द्विविधं पावकोपमम्||६||
अष्टवेगं दशगुणं चतुर्विंशत्युपक्रमम्|७|
तद्वर्षास्वम्बुयोनित्वात् सङ्क्लेदं गुडवद्गतम्||७||
सर्पत्यम्बुधरापाये तदगस्त्यो हिनस्ति च|
प्रयाति मन्दवीर्यत्वं विषं तस्माद्धनात्यये||८||
सर्पाः कीटोन्दुरा लूता वृश्चिका गृहगोधिकाः|
जलौकामत्स्यमण्डूकाः कणभाः सकृकण्टकाः||९||
श्वसिंहव्याघ्रगोमायुतरक्षुनकुलादयः|
दंष्ट्रिणो ये विषं तेषां दंष्ट्रोत्थं जङ्गमं मतम्||१०||
मुस्तकं पौष्करं क्रौञ्चं वत्सनाभं बलाहकम्|
कर्कटं कालकूटं च करवीरकसञ्ज्ञकम्||११||
पालकेन्द्रायुधं तैलं मेघकं कुशपुष्पकम्|
रोहिषं पुण्डरीकं च लाङ्गलक्यञ्जनाभकम्||१२||
सङ्कोचं मर्कटं शृङ्गीविषं हालाहलं तथा|
एवमादीनि चान्यानि मूलजानि स्थिराणि च||१३||
गरसंयोगजं चान्यद्गरसञ्ज्ञं गदप्रदम्|
कालान्तरविपाकित्वान्न तदाशु हरत्यसून्||१४||
निद्रां तन्द्रां क्लमं दाहं सपाकं लोमहर्षणम्|
शोफं चैवातिसारं च जनयेज्जङ्गमं विषम्||१५||
स्थावरं तु ज्वरं हिक्कां दन्तहर्षं गलग्रहम्|
फेनवम्यरुचिश्वासमूर्च्छाश्च जनयेद्विषम् ||१६||
जङ्गमं स्यादधोभागमूर्ध्वभागं तु मूलजम्|
तस्माद्दंष्ट्राविषं मौलं हन्ति मौलं च दंष्ट्रजम् ||१७||
तृण्मोहदन्तहर्षप्रसेकवमथक्लमा भवन्त्याद्ये|
वेगे रसप्रदोषादसृक्प्रदोषाद्द्वितीये तु||१८||
वैवर्ण्यभ्रमवेपथुमूर्च्छाजृम्भाङ्गचिमिचिमातमकाः |
दुष्टपिशितात्तृतीये मण्डलकण्डूश्वयथुकोठाः||१९||
वातादिजाश्चतुर्थे दाहच्छर्द्यङ्गशूलमूर्च्छाद्याः|
नीलादीनां तमसश्च दर्शनं पञ्चमे वेगे||२०||
षष्ठे हिक्का, भङ्गः स्कन्धस्य तु सप्तमेऽष्टमे मरणम्|
नॄणां, चतुष्पदां स्याच्चतुर्विधः, पक्षिणां त्रिविधः||२१||
सीदत्याद्ये भ्रमति च, चतुष्पदो वेपते, ततः शून्यः |
मन्दाहारो म्रियते श्वासेन हि चतुर्थवेगे तु||२२||
ध्यायति विहगः प्रथमे वेगे, प्रभ्राम्यति द्वितीये तु|
स्रस्ताङ्गश्च तृतीये विषवेगे याति पञ्चत्वम्||२३||
लघु रूक्षमाशु विशदं व्यवायि तीक्ष्णं विकासि सूक्ष्मं च|
उष्णमनिर्देश्यरसं दशगुणमुक्तं विषं तज्ज्ञैः||२४||
रौक्ष्याद्वातमशैत्यात्पित्तं सौक्ष्म्यादसृक् प्रकोपयति|
कफमव्यक्तरसत्वादन्नरसांश्चानुवर्तते शीघ्रम्||२५||
शीघ्रं व्यवायिभावादाशु व्याप्नोति केवलं देहम्|
तीक्ष्णत्वान्मर्मघ्नं प्राणघ्नं तद्विकासित्वात्||२६||
दुरुपक्रमं लघुत्वाद्वैशद्यात् स्यादसक्तगतिदोषम्|
दोषस्थानप्रकृतीः प्राप्यान्यतमं ह्युदीरयति||२७||
स्याद्वातिकस्य वातस्थाने कफपित्तलिङ्गमीषत्तु|
तृण्मोहारतिमूर्च्छागलग्रहच्छर्दिफेनादि ||२८||
पित्ताशयस्थितं पैत्तिकस्य कफवातयोर्विषं तद्वत्|
तृट्कासज्वरवमथुक्लमदाहतमोतिसारादि ||२९||
कफदेशगं कफस्य च दर्शयेद्वातपित्तयोश्चेषत्|
लिङ्गं श्वासगलग्रहकण्डूलालावमथ्वादि||३०||
दूषीविषं तु शोणितदुष्ट्यारुःकिटिमकोठलिङ्गं च|
विषमेकैकं दोषं सन्दूष्य हरत्यसूनेवम्||३१||
क्षरति विषतेजसाऽसृक् तत् खानि निरुध्य मारयति जन्तुम्|
पीतं मृतस्य हृदि तिष्ठति दष्टविद्धयोर्दंशदेशे स्यात्||३२||
नीलौष्ठदन्तशैथिल्यकेशपतनाङ्गभङ्गविक्षेपाः|
शिशिरैर्न लोमहर्षो नाभिहते दण्डराजी स्यात्||३३||
क्षतजं क्षताच्च नायात्येतानि भवन्ति मरणलिङ्गानि|
एभ्योऽन्यथा चिकित्स्यास्तेषां चोपक्रमाञ्छृणु मे||३४||
मन्त्रारिष्टोत्कर्तननिष्पीडनचूषणाग्निपरिषेकाः|
अवगाहरक्तमोक्षणवमनविरेकोपधानानि||३५||
हृदयावरणाञ्जननस्यधूमलेहौषधप्रशमनानि |
प्रतिसारणं प्रतिविषं सञ्ज्ञासंस्थानपनं लेपः||३६||
मृतसञ्जीवनमेव च विंशतिरेते चतुर्भिरधिकाः|
स्युरुपक्रमा यथा ये यत्र योज्याः शृणु तथा तान्||३७||
दंशात्तु विषं दष्टस्याविसृतं वेणिकां भिषग्बद्ध्वा|
निष्पीडयेद्भृशं दंशमुद्धरेन्मर्मवर्जं वा||३८||
तं दंशं वा चूषेन्मुखेन यवचूर्णपांशुपूर्णेन|३९|
प्रच्छनशृङ्गजलौकाव्यधनैः स्राव्यं ततो रक्तम्||३९||
रक्ते विषप्रदुष्टे दुष्येत् प्रकृतिस्ततस्त्यजेत् प्राणान्|
तस्मात् प्रघर्षणैरसृगवर्तमानं प्रवर्त्यं स्यात्||४०||
त्रिकटुगृहधूमरजनीपञ्चलवणरोचनाः सवार्ताकाः|
घर्षणमतिप्रवृत्ते वटादिभिः शीतलैर्लेपः||४१||
रक्तं हि विषाधानं वायुरिवाग्नेः प्रदेहसेकैस्तत्|
शीतैः स्कन्दति तस्मिन् स्कन्ने व्यपयाति विषवेगः||४२||
विषवेगान्मदमूर्च्छाविषादहृदयद्रवाः प्रवर्तन्ते|
शीतैर्निवर्तयेत्तान् वीज्यश्चालोमहर्षात् स्यात्||४३||
तरुरिव मूलच्छेदाद्दंशच्छेदान्न वृद्धिमेति विषम्|
आचूषणमानयनं जलस्य सेतुर्यथा तथाऽरिष्टाः||४४||
त्वङ्मांसगतं दाहो दहति विषं स्रावणं हरति रक्तात्|
पीतं वमनैः सद्यो हरेद्विरेकैर्द्वितीये तु||४५||
आदौ हृदयं रक्ष्यं तस्यावरणं पिबेद्यथालाभम्|
मधुसर्पिर्मज्जपयोगैरिकमथ गोमयरसं वा||४६||
इक्षुं सुपक्वमथवा काकं निष्पीड्य तद्रसं वरणम्|
छागादीनां वाऽसृग्भस्म मृदं वा पिबेदाशु||४७||
क्षारागदस्तृतीये शोफहरैर्लेखनं समध्वम्बु|
गोमयरसश्चतुर्थे वेगे सकपित्थमधुसर्पिः||४८||
काकाण्डशिरीषाभ्यां स्वरसेनाश्च्योतनाञ्जने नस्यम्|
स्यात्पञ्चमेऽथ षष्ठे सञ्ज्ञायाः स्थापनं कार्यम्||४९||
गोपित्तयुता रजनी मञ्जिष्ठामरिचपिप्पलीपानम्|
विषपानं दष्टानां विषपीते दंशनं चान्ते||५०||
शिखिपित्तार्धयुतं स्यात् पलाशबीजमगदो मृतेषु वरः|
वार्ताकुफाणितागारधूमगोपित्तनिम्बं वा||५१||
गोपित्तयुतैर्गुटिकाः सुरसाग्रन्थिद्विरजनीमधुककुष्ठैः |
शस्ताऽमृतेन तुल्या शिरीषपुष्पकाकाण्डकरसैर्वा||५२||
काकाण्डसुरसगवाक्षीपुनर्नवावायसीशिरीषफलैः|
उद्बन्धविषजलमृते लेपौपधिनस्यपानानि ||५३||
स्पृक्काप्लवस्थौणेयकाङ्क्षीशैलेयरोचनातगरम्|
ध्यामककुङ्कुममांसीसुरसाग्रैलालकुष्ठघ्नम्||५४||
बृहती शिरीषपुष्पं श्रीवेष्टकपद्मचारटिविशालाः|
सुरदारुपद्मकेशरसावरकमनःशिलाकौन्त्यः||५५||
जात्यर्कपुष्परसरजनीद्वयहिङ्गुपिप्पलीलाक्षाः|
जलमुद्गपर्णिचन्दनमधुकमदनसिन्धुवाराश्च||५६||
शम्पाकलोध्रमयूरकगन्धफलानाकुलीविडङ्गाश्च|
पुष्ये संहृत्य समं पिष्ट्वा गुटिका विधेयाः स्युः||५७||
सर्वविषघ्नो जयकृद्विषमृतसञ्जीवनो ज्वरनिहन्ता|
घ्रेयविलेपनधारणधूमग्रहणैर्गृहस्थश्च||५८||
भूतविषजन्त्वलक्ष्मीकार्मणमन्त्राग्न्यशन्यरीन् हन्यात्|
दुःस्वप्नस्त्रीदोषानकालमरणाम्बुचौरभयम्||५९||
धनधान्यकार्यसिद्धिः श्रीपुष्ट्यायुर्विवर्धनो धन्यः|
मृतसञ्जीवन एष प्रागमृताद्ब्रह्मणा विहितः||६०||
इति मृतसञ्जीवनोऽगदः|
मन्त्रैर्धमनीबन्धोऽवमार्जनं कार्यमात्मरक्षा च|
दोषस्य विषं यस्य स्थाने स्यात्तं जयेत्पूर्वम्||६१||
वातस्थाने स्वेदो दध्ना नतकुष्ठकल्कपानं च|
घृतमधुपयोऽम्बुपानावगाहसेकाश्च पित्तस्थे||६२||
क्षारागदः कफस्थानगते स्वेदस्तथा सिराव्यधनम्|
दूषीविषेऽथ रक्तस्थिते सिराकर्म पञ्चविधम्||६३||
भेषजमेवं कल्प्यं भिषग्विदाऽऽलक्ष्य सर्वदा सर्वम्|
स्थानं जयेद्धि पूर्वं स्थानस्थस्याविरुद्धं च||६४||
विषदूषितकफमार्गः स्रोतःसंरोधरुद्धवायुस्तु|
मृत इव श्वसेन्मर्त्यः स्यादसाध्यलिङ्गैर्विहीनश्च||६५||
चर्मकषायाः कल्कं बिल्वसमं मूर्ध्नि काकपदमस्य|
कृत्वा दद्यात्कटभीकटुकट्फलप्रधमनं च||६६||
छागं गव्यं माहिषं वा मांसं कौक्कुटमेव वा|
दद्यात् काकपदे तस्मिंस्ततः सङ्क्रमते विषम्||६७||
नासाक्षिकर्णजिह्वाकण्ठनिरोधेषु कर्म नस्तः स्यात्|
वार्ताकुबीजपूरज्योतिष्मत्यादिभिः पिष्टैः||६८||
अञ्जनमक्ष्युपरोधे कर्तव्यं बस्तमूत्रपिष्टैस्तु|
दारुव्योषहरिद्राकरवीरकरञ्जनिम्बसुरसैस्तु||६९||
श्वेता वचाऽश्वगन्धा हिङ्ग्वमृता कुष्ठसैन्धवे लशुनम्|
सर्षपकपित्थमध्यं टुण्टुककरञ्जबीजानि ||७०||
व्योषं शिरीषपुष्पं द्विरजन्यौ वंशलोचनं च समम्|
पिष्ट्वाऽजस्य मूत्रेण गोश्वपित्तेन सप्ताहम्||७१||
व्यत्यासभावितोऽयं निहन्ति शिरसि स्थितं विषं क्षिप्रम्|
सर्वज्वरभूतग्रहविसूचिकाजीर्णमूर्च्छार्तीः||७२||
उन्मादापस्मारौ काचपटलनीलिकाशिरोदोषान्|
शुष्काक्षिपाकपिल्लार्बुदार्मकण्डूतमोदोषान्||७३||
क्षयदौर्बल्यमदात्ययपाण्डुगदांश्चाञ्जनात्तथा मोहान्|
लेपाद्विषदिग्धक्षतलीढदष्टपीतविषघाती||७४||
अर्शःस्वानद्धेषु च गुदलेपो योनिलेपनं स्त्रीणाम्|
मूढे गर्भे दुष्टे ललाटलेपः प्रतिश्याये||७५||
वृद्धौ किटिमे कुष्ठे श्वित्रविचर्चिकादिषु लेपः|
गज इव तरून् विषगदान्निहन्त्यगदगन्धहस्त्येषः||७६||
इति गन्धहस्तीनामाऽगदः|
पत्रागुरुमुस्तैला निर्यासाः पञ्च चन्दनं स्पृक्का|
त्वङ्नलदोत्पलबालकहरेणुकोशीरवन्यनखाः||७७||
सुरदारुकनककुङ्कुमध्यामककुष्ठप्रियङ्गवस्तगरम्|
पञ्चाङ्गानि शिरीषाद्व्योषालमनःशिलाजाज्यः||७८||
श्वेतकटभीकरञ्जौ रक्षोघ्नी सिन्धुवारिका रजनी|
सुरसाञ्जनगैरिकमञ्जिष्ठानिम्बनिर्यासाः||७९||
वंशत्वगश्वगन्धाहिङ्गुदधित्थाम्लवेतसं लाक्षा|
मधुमधुकसोमराजीवचारुहारोचनातगरम्||८०||
अगदोऽयं वैश्रवणायाख्यातस्त्र्यम्बकेण षष्ट्यङ्गः|
अप्रतिहतप्रभावः ख्यातो महागन्धहस्तीति||८१||
पित्तेन गवां पेष्यो गुटिकाः कार्यास्तु पुष्ययोगेन|
पानाञ्जनप्रलेपैः प्रसाधयेत् सर्वकर्माणि||८२||
पिल्लं कण्डूं तिमिरं रात्र्यान्ध्यं काचमर्बुदं पटलम्|
हन्ति सततप्रयोगाद्धितमितपथ्याशिनां पुंसाम्||८३||
विषमज्वरानजीर्णान्दद्रुं कण्डूं विसूचिकां पामाम्|
विषमूषिकलूतानां सर्वेषां पन्नगानां च|
आशु विषं नाशयति समूलजमथ कन्दजं सर्वम्||८४||
एतेन लिप्तगात्रः सर्पान् गृह्णाति भक्षयेच्च विषम्|
कालपरीतोऽपि नरो जीवति नित्यं निरातङ्कः||८५||
आनद्धे गुदलेपो योनौ लेपश्च मूढगर्भाणाम्|
मूर्च्छार्तिषु च ललाटे प्रलेपनमाहुः प्रधानतमम्||८६||
भेरीमृदङ्गपटहाञ्छत्राण्यमुना तथा ध्वजपताकाः|
लिप्त्वाऽहिविषनिरस्त्यै प्रध्वनयेद्दर्शयेन्मतिमान्||८७||
यत्र च सन्निहितोऽयं न तत्र बालग्रहा न रक्षांसि|
न च कार्मणवेताला वहन्ति नाथर्वणा मन्त्राः||८८||
सर्वग्रहा न तत्र प्रभवन्ति न चाग्निशस्त्रनृपचौराः|
लक्ष्मीश्च तत्र भजते यत्र महागन्धहस्त्यस्ति||८९||
पिष्यमाण इमं चात्र सिद्धं मन्त्रमुदीरयेत्|
‘मम माता जया नाम जयो नामेति मे पिता||९०||
सोऽहं जयजयापुत्रो विजयोऽथ जयामि च|
नमः पुरुषसिंहाय विष्णवे विश्वकर्मणे||९१||
सनातनाय कृष्णाय भवाय विभवाय च|
तेजो वृषाकपेः साक्षात्तेजो ब्रह्मेन्द्रयोर्यमे||९२||
यथाऽहं नाभिजानामि वासुदेवपराजयम्|
मातुश्च पाणिग्रहणं समुद्रस्य च शोषणम्||९३||
अनेन सत्यवाक्येन सिध्यतामगदो ह्ययम्|
हिलिमिलिसंस्पृष्टे रक्ष सर्वभेषजोत्तमे स्वाहा ||९४||
इति महागन्धहस्तीनामाऽगदः|
ऋषभकजीवकभार्गीमधुकोत्पलधान्यकेशराजाज्यः|
ससितगिरिकोलमध्याः पेयाः श्वासज्वरादिहराः||९५||
हिङ्गु च कृष्णायुक्तं कपित्थरसयुक्तमग्र्यलवणं च|
समधुसितौ पातव्यौ ज्वरहिक्काश्वासकासघ्नौ||९६||
लेहः कोलास्थ्यञ्जनलाजोत्पलमधुघृतैर्वम्याम्|
बृहतीद्वयाढकीपत्रधूमवर्तिस्तु हिक्काघ्नी||९७||
शिखिबर्हिबलाकास्थीनि सर्षपाश्चन्दनं च घृतयुक्तम्|
धूमो गृहशयनासनवस्त्रादिषु शस्यते विषनुत्||९८||
घृतयुक्ते नतकुष्ठे भुजगपतिशिरः शिरीषपुष्पं च|
धूमागदः स्मृतोऽयं सर्वविषघ्नः श्वयथुहृच्च||९९||
जतुसेव्यपत्रगुग्गुलुभल्लातकककुभपुष्पसर्जरसाः|
श्वेता च धूम उरगाखुकीटवस्त्रक्रिमिनुदग्र्यः||१००||
तरुणपलाशक्षारं स्रुतं पचेच्चूर्णितैः सह समांशैः|
लोहितमृद्रजनीद्वयशुक्लसुरसमञ्जरीमधुकैः||१०१||
लाक्षासैन्धवमांसीहरेणुहिङ्गुद्विसारिवाकुष्ठैः|
सव्योषैर्बाह्लीकैर्दर्वीविलेपनं घट्टयेद्यावत्||१०२||
सर्वविषशोथगुल्मत्वग्दोषार्शोभगन्दरप्लीह्नः|
शोथापस्मारक्रिमिभूतस्वरभेदपाण्डुगदान्||१०३||
मन्दाग्नित्वं कासं सोन्मादं नाशयेयुरथ पुंसाम्|
गुटिकाश्छायाशुष्काः कोलसमास्ताः समुपयुक्ताः||१०४||
इति क्षारागदः|
विषपीतदष्टविद्धेष्वेतद्दिग्धे च वाच्यमुद्दिष्टम्|
सामान्यतः, पृथक्त्वान्निर्देशमतः शृणु यथावत्||१०५||
रिपुयुक्तेभ्यो नृभ्यः स्वेभ्यः स्त्रीभ्योऽथवा भयं नृपतेः|
आहारविहारगतं तस्मात् प्रेष्यान् परीक्षेत||१०६||
अत्यर्थशङ्कितः स्याद्बहुवागथवाऽल्पवाग्विगतलक्ष्मीः|
प्राप्तः प्रकृतिविकारं विषप्रदाता नरो ज्ञेयः||१०७||
दृष्ट्वैवं न तु सहसा भोज्यं कुर्यात्तदन्नमग्नौ तु|
सविषं हि प्राप्यान्नं बहून्विकारान् भजत्यग्निः||१०८||
शिखिबर्हविचित्रार्चिस्तीक्ष्णाक्षमरूक्षकुणपधूमश्च |
स्फुटति च सशब्दमेकावर्तो विहतार्चिरपि च स्यात्||१०९||
पात्रस्थं च विवर्णं भोज्यं स्यान्मक्षिकांश्च मारयति|
क्षामस्वरांश्च काकान् कुर्याद्विरजेच्चकोराक्षि||११०||
पाने नीला राजी वैवर्ण्यं स्वां च नेक्षते छायाम्|
पश्यति विकृतामथवा लवणाक्ते फेनमाला स्यात्||१११||
पानान्नयोःसविषयोर्गन्धेन शिरोरुग्घृदि च मूर्च्छा च|
स्पर्शेन पाणिशोथः सुप्त्यङ्गुलिदाहतोदनखभेदाः||११२||
मुखगे त्वोष्ठचिमिचिमा जिह्वा शूना जडा विवर्णा च|
द्विजहर्षहनुस्तम्भास्यदाहलालागलविकाराः||११३||
आमाशयं प्रविष्टे वैवर्ण्यं स्वेदसदनमुत्क्लेदः|
दृष्टिहृदयोपरोधो बिन्दुशतैश्चीयते चाङ्गम्||११४||
पक्वाशयं तु याते मूर्च्छामदमोहदाहबलनाशाः|
तन्द्रा कार्श्यं च विषे पाण्डुत्वं चोदरस्थे स्यात्||११५||
दन्तपवनस्य कूर्चो विशीर्यते दन्तौष्ठमांसशोफश्च|
केशच्युतिः शिरोरुग्ग्रन्थयश्च सविषेऽथ शिरोभ्यङ्गे||११६||
दुष्टेऽञ्जनेऽक्षिदाहस्रावात्युपदेहशोथरागाश्च|
खाद्यैरादौ कोष्ठः स्पृश्यैस्त्वग्दूष्यते दुष्टैः||११७||
स्नानाभ्यङ्गोत्सादनवस्त्रालङ्कारवर्णकैर्दुष्टैः|
कण्ड्वर्तिकोठपिडकारोमोद्गमचिमिचिमा शोथाः||११८||
एते करचरणदाहतोदक्लमाविपाकाश्च|
भूपादुकाश्वगजवर्मकेतुशयनासनैर्दुष्टैः||११९||
माल्यमगन्धं म्लायति शिरोरुजालोमहर्षकरम् |
स्तम्भयति खानि नासामुपहन्ति दर्शनं च धूमः||१२०||
कूपतडागादिजलं दुर्गन्धं सकलुषं विवर्णं च|
पीतं श्वयथुं कोठान् पिडकाश्च करोति मरणं च||१२१||
आदावामाशयगे वमनं त्वक्स्थे प्रदेहसेकादि|
कुर्याद्भिषक् चिकित्सां दोषबलं चैव हि समीक्ष्य||१२२||
इति मूलविषविशेषाः प्रोक्ताः शृणु जङ्गमस्यातः|
सविशेषचिकित्सितमेवादौ तत्रोच्यते तु सर्पाणाम्||१२३||
इह दर्वीकरः सर्पो मण्डली राजिमानिति|
त्रयो यथाक्रमं वातपित्तश्लेष्मप्रकोपणाः||१२४||
दर्वीकरः फणी ज्ञेयो मण्डली मण्डलाफणः|
बिन्दुलेखविचित्राङ्गः पन्नगः स्यात्तु राजिमान्||१२५||
विशेषाद्रूक्षकटुकमम्लोष्णं स्वादु शीतलम्|
विषं यथाक्रमं तेषां तस्माद्वातादिकोपनम्||१२६||
दर्वीकरकृतो दंशः सूक्ष्मदंष्ट्रापदोऽसितः|
निरुद्धरक्तः कूर्माभो वातव्याधिकरो मतः||१२७||
पृथ्वर्पितः सशोथश्च दंशो मण्डलिना कृतः|
पीताभः पीतरक्तश्च सर्वपित्तविकारकृत्||१२८||
कृतो राजिमता दंशः पिच्छिलः स्थिरशोफकृत्|
स्निग्धः पाण्डुश्च सान्द्रासृक् श्लेष्मव्याधिसमीरणः||१२९||
वृत्तभोगो महाकायः श्वसन्नूर्ध्वेक्षणः पुमान्|
स्थूलमूर्धा समाङ्गश्च स्त्री त्वतः स्याद्विपर्ययात्||१३०||
क्लीबस्त्रसत्यधोदृष्टिः स्वरहीनः प्रकम्पते|
स्त्रिया दष्टो विपर्यस्तैरेतैः पुंसा नरो मतः||१३१||
व्यामिश्रलिङ्गैरेतैस्तु क्लीबदष्टं नरं वदेत्|
इत्येतदुक्तं सर्पाणां स्त्रीपुङ्क्लीबनिदर्शनम्||१३२||
पाण्डुवक्त्रस्तु गर्भिण्या शूनौष्ठोऽप्यसितेक्षणः|
जृम्भाक्रोधोपजिह्वार्तः सूतया रक्तमूत्रवान्||१३३||
सर्पो गौधेर(य)को नाम गोधायां स्याच्चतुष्पदः|
कृष्णसर्पेण तुल्यः स्यान्नाना स्युर्मिश्रजातयः||१३४||
गूढसम्पादितं वृत्तं पीडितं लम्बितार्पितम्|
सर्पितं च भृशाबाधं, दंशा येऽन्ये न ते भृशाः||१३५||
तरुणाः कृष्णसर्पास्तु गोनसाः स्थविरास्तथा|
राजिमन्तो वयोमध्ये भवन्त्याशीविषोपमाः||१३६||
सर्पदंष्ट्राश्चतस्रस्तु तासां वामाधरा सिता|
पीता वामोत्तरा दंष्ट्रा रक्तश्यावाऽधरोत्तरा ||१३७||
यन्मात्रः पतते बिन्दुर्गोबालात् सलिलोद्धृतात्|
वामाधरायां दंष्ट्रायां तन्मात्रं स्यादहेर्विषम्||१३८||
एकद्वित्रिचतुर्वृद्धविषभागोत्तरोत्तराः|
सवर्णास्तत्कृता दंशा बहूत्तरविषा भृशाः||१३९||
सर्पाणामेव विण्मूत्रात् कीटाः स्युः कीटसम्मताः|
दूषीविषाः प्राणहरा इति सङ्क्षेपतो मताः||१४०||
गात्रं रक्तं सितं कृष्णं श्यावं वा पिडकान्वितम्|
सकण्डूदाहवीसर्पपाकि स्यात् कुथितं तथा||१४१||
कीटैर्दूषीविषैर्दष्टं लिङ्गं प्राणहरं शृणु|
सर्पदष्टे यथा शोथो वर्धते सोग्रगन्ध्यसृक्||१४२||
दंशोऽक्षिगौरवं मूर्च्छा स रुगार्तः श्वसित्यपि|
तृष्णारुचिपरीतश्च भवेद्दूषीविषार्दितः||१४३||
दंशस्य मध्ये यत् कृष्णं श्यावं वा जालकावृतम्|
दग्धाकृति भृशं पाकि क्लेदशोथज्वरान्वितम्||१४४||
दूषीविषाभिर्लूताभिस्तं दष्टमिति निर्दिशेत्|
सर्वासामेव तासां च दंशे लक्षणमुच्यते||१४५||
शोफः श्वेतासिता रक्ताः पीता वा पिडका ज्वरः|
प्राणान्तिको भवेच्छ्वासो दाहहिक्काशिरोग्रहाः||१४६||
आदंशाच्छोणितं पाण्डु मण्डलानि ज्वरोऽरुचिः|
लोमहर्षश्च दाहश्चाप्याखुदूषीविषार्दिते||१४७||
मूर्च्छाङ्गशोथवैवर्ण्यक्लेदशब्दाश्रुतिज्वराः|
शिरोगुरुत्वं लालासृक्छर्दिश्चासाध्यमूषिकैः||१४८||
श्यावत्वमथ कार्ष्ण्यं वा नानावर्णत्वमेव वा|
मोहः पुरीषभेदश्च दष्टे स्यात् कृकलासकैः||१४९||
दहत्यग्निरिवादौ तु भिनत्तीवोर्ध्वमाशु च|
वृश्चिकस्य विषं याति दंशे पश्चात्तु तिष्ठति||१५०||
दष्टोऽसाध्यस्तु दृग्घ्राणरसनोपहतो नरः|
मांसैः पतद्भिरत्यर्थं वेदनार्तो जहात्यसून्||१५१||
विसर्पः श्वयथुः शूलं ज्वरश्छर्दिरथापि च|
लक्षणं कणभैर्दष्टे दंशश्चैव विशीर्यते||१५२||
हृष्टरोमोच्चिटिङ्गेन स्तब्धलिङ्गो भृशार्तिमान्|
दष्टः शीतोदकेनेव सिक्तान्यङ्गानि मन्यते||१५३||
एकदंष्ट्रार्दितः शूनः सरुक् स्यात् पीतकः सतृट्|
छर्दिर्निद्रा च मण्डूकैः सविषैर्दष्टलक्षणम्||१५४||
मत्स्यास्तु सविषाः कुर्युर्दाहशोफरुजस्तथा|
कण्डूं शोथं ज्वरं मूर्च्छां सविषास्तु जलौकसः||१५५||
दाहतोदस्वेदशोथकरी तु गृहगोधिका |
दंशे स्वेदं रुजं दाहं कुर्याच्छतपदीविषम्||१५६||
कण्डूमान्मशकैरीषच्छोथः स्यान्मन्दवेदनः|
असाध्यकीटसदृशमसाध्यमशकक्षतम्||१५७||
सद्यःप्रस्राविणी श्यावा दाहमूर्च्छाज्वरान्विता|
पीडका मक्षिकादंशे तासां तु स्थगिकाऽसुहृत्||१५८||
श्मशानचैत्यवल्मीकयज्ञाश्रमसुरालये|
पक्षसन्धिषु मध्याह्ने सार्धरात्रेऽष्टमीषु च||१५९||
न सिद्ध्यन्ति नरा दष्टाः पाषण्डायतनेषु च|
दृष्टिश्वासमलस्पर्शविषैराशीविषैस्तथा||१६०||
विनश्यन्त्याशु सम्प्राप्ता दष्टाः सर्वेषु मर्मसु|१६१|
(येन केनापि सर्पेण सम्भवः सर्व एव च)||१६१||
भीतमत्ताबलोष्णक्षुत्तृषार्ते वर्धते विषम्|
विषं प्रकृतिकालौ च तुल्यौ प्राप्याल्पमन्यथा ||१६२||
वारिविप्रहताः क्षीणा भीता नकुलनिर्जिताः|
वृद्धा बालास्त्वचो मुक्ताः सर्पा मन्दविषाः स्मृताः||१६३||
सर्वदेहाश्रितं क्रोधाद्विषं सर्पो विमुञ्चति|
तदेवाहारहेतोर्वा भयाद्वा न प्रमुञ्चति||१६४||
वातोल्बणविषाः प्राय उच्चिटिङ्गाः सवृश्चिकाः|
वातपित्तोल्बणाः कीटाः श्लैष्मिकाः कणभादयः||१६५||
यस्य यस्य हि दोषस्य लिङ्गाधिक्यानि लक्षयेत्|
तस्य तस्यौषधैः कुर्याद्विपरीतगुणैः क्रियाम्||१६६||
हृत्पीडोर्ध्वानिलः स्तम्भः सिरायामोऽस्थिपर्वरुक्|
घूर्णनोद्वेष्टनं गात्रश्यावता वातिके विषे||१६७||
सञ्ज्ञानाशोष्णनिश्वासौ हृद्दाहः कटुकास्यता|
दंशावदरणं शोथो रक्तपीतश्च पैत्तिके||१६८||
वम्यरोचकहृल्लासप्रसेकोत्क्लेशगौरवैः|
सशैत्यमुखमाधुर्यैर्विद्याच्छ्लेष्माधिकं विषम्||१६९||
खण्डेन च व्रणालेपस्तैलाभ्यङ्गश्च वातिके|
स्वेदो नाडीपुलाकाद्यैर्बृंहणश्च विधिर्हितः||१७०||
सुशीतैः स्तम्भयेत् सेकैः प्रदेहैश्चापि पैत्तिकम्|
लेखनच्छेदनस्वेदवमनैः श्लैष्मिकं जयेत्||१७१||
विषेष्वपि च सर्वेषु सर्वस्थानगतेषु च|
अवृश्चिकोच्चिटिङ्गेषु प्रायः शीतो विधिर्हितः||१७२||
वृश्चिके स्वेदमभ्यङ्गं घृतेन लवणेन च|
सेकांश्चोष्णान् प्रयुञ्जीत भोज्यं पानं च सर्पिषः||१७३||
एतदेवोच्चिटिङ्गेऽपि प्रतिलोमं च पांशुभिः|
उद्वर्तनं सुखाम्बूष्णैस्तथाऽवच्छादनं घनैः||१७४||
श्वा त्रिदोषप्रकोपात्तु तथा धातुविपर्ययात्|
शिरोऽभितापी लालास्राव्यधोवक्त्रस्तथा भवेत्||१७५||
अन्येऽप्येवंविधा व्यालाः कफवातप्रकोपणाः|
हृच्छिरोरुग्ज्वरस्तम्भतृषामूर्च्छाकरा मताः||१७६||
कण्डूनिस्तोदवैवर्ण्यसुप्तिक्लेदोपशोषणम्|
विदाहरागरुक्पाकाः शोफो ग्रन्थिनिकुञ्चनम्||१७७||
दंशावदरणं स्फोटाः कर्णिका मण्डलानि च|
ज्वरश्च सविषे लिङ्गं विपरीतं तु निर्विषे||१७८||
तत्र सर्वे यथावस्थं प्रयोज्याः स्युरुपक्रमाः|
पूर्वोक्ता विधिमन्यं च यथावद्ब्रुवतः शृणु||१७९||
हृद्विदाहे प्रसेके वा विरेकवमनं भृशम्|
यथावस्थं प्रयोक्तव्यं शुद्धे संसर्जनक्रमः||१८०||
शिरोगते विषे नस्तः कुर्यान्मूलानि बुद्धिमान्|
बन्धुजीवस्य भार्ग्याश्च सुरसस्यासितस्य च||१८१||
दक्षकाकमयूराणां मांसासृङ्मस्तके क्षते|
उपधेयमधोदष्टस्योर्ध्वदष्टस्य पादयोः||१८२||
पिप्पलीमरिचक्षारवचासैन्धवशिग्रुकाः|
पिष्टा रोहितपित्तेन घ्नन्त्यक्षिगतमञ्जनात्||१८३||
कपित्थमामं ससिताक्षौद्रं कण्ठगते विषे|
लिह्यादामाशयगते ताभ्यां चूर्णपलं नतात्||१८४||
विषे पक्वाशयगते पिप्पलीं रजनीद्वयम्|
मञ्जिष्ठां च समं पिष्ट्वा गोपित्तेन नरः पिबेत्||१८५||
रक्तं मांसं च गोधायाः शुष्कं चूर्णीकृतं हितम्|
विषे रसगते पानं कपित्थरससंयुतम्||१८६||
शेलोर्मूलत्वगग्राणि बादरौदुम्बराणि च|
कटभ्याश्च पिबेद्रक्तगते, मांसगते पिबेत्||१८७||
सक्षौद्रं खदिरारिष्टं कौटजं मूलमम्भसा|
सर्वेषु च बले द्वे तु मधूकं मधुकं नतम्||१८८||
पिप्पलीं नागरं क्षारं नवनीतेन मूर्च्छितम्|
कफे भिषगुदीर्णे तु विदध्यात्प्रतिसारणम्||१८९||
मांसीकुङ्कुमपत्रत्वग्रजनीनतचन्दनैः|
मनःशिलाव्याघ्रनखसुरसैरम्बुपेषितैः||१९०||
पाननस्याञ्जनालेपाः सर्वशोथविषापहाः|
चन्दनं तगरं कुष्ठं हरिद्रे द्वे त्वगेव च||१९१||
मनःशिला तमालश्च रसः कैशर एव च|
शार्दूलस्य नखश्चैव सुपिष्टं तण्डुलाम्बुना||१९२||
हन्ति सर्वविषाण्येव वज्रिवज्रमिवासुरान्|
रसे शिरीषपुष्पस्य सप्ताहं मरिचं सितम्||१९३||
भावितं सर्पदष्टानां नस्यपानाञ्जने हितम्|
द्विपलं नतकुष्ठाभ्यां घृतक्षौद्रचतुष्पलम्||१९४||
अपि तक्षकदष्टानां पानमेतत् सुखप्रदम्|
सिन्धुवारस्य मूलं च श्वेता च गिरिकर्णिका||१९५||
पानं दर्वीकरैर्दष्टे नस्यं समधु पाकलम्|
मञ्जिष्ठा मधुयष्टी च जीवकर्षभकौ सिता||१९६||
काश्मर्यं वटशुङ्गानि पानं मण्डलिनां विषे|
व्योषं सातिविषं कुष्ठं गृहधूमो हरेणुका||१९७||
तगरं कटुका क्षौद्रं हन्ति राजीमतां विषम्|
गृहधूमं हरिद्रे द्वे समूलं तण्डुलीयकम्||१९८||
अपि वासुकिना दष्टः पिबेन्मधुघृताप्लुतम् |१९९|
क्षीरिवृक्षत्वगालेपः शुद्धे कीटविषापहः||१९९||
मुक्तालेपो वरः शोथदाहतोदज्वरापहः|
चन्दनं पद्मकोशीरं शिरीषः सिन्धुवारिका||२००||
क्षीरशुक्ला नतं कुष्ठं पाटलोदीच्यसारिवाः|
शेलुस्वरसपिष्टोऽयं लूतानां सार्वकार्मिकः||२०१||
(यथायोगं प्रयोक्तव्यः समीक्ष्यालेपनादिषु)|
मधूकं मधुकं कुष्ठं शिरीषोदीच्यपाटलाः|
सनिम्बसारिवाक्षौद्राः पानं लूताविषापहम्||२०२||
कुसुम्भपुष्पं गोदन्तः स्वर्णक्षीरी कपोतविट्|
दन्ती त्रिवृत्सैन्धवं च कर्णिकापातनं तयोः||२०३||
कटभ्यर्जुनशैरीषशेलुक्षीरिद्रुमत्वचः|
कषायकल्कचूर्णाः स्युः कीटलूताव्रणापहाः||२०४||
त्वचं च नागरं चैव समांशं श्लक्ष्णपेषितम्|
पेयमुष्णाम्बुना सर्वं मूषिकाणां विषापहम्||२०५||
कुटजस्य फलं पिष्टं तगरं जालमालिनी|
तिक्तेक्ष्वाकुश्च योगोऽयं पानप्रधमनादिभिः||२०६||
वृश्चिकोन्दुरुलूतानां सर्पाणां च विषं हरेत्|
समानो ह्यमृतेनायं गराजीर्णं च नाशयेत्||२०७||
सर्वेऽगदा यथादोषं प्रयोज्याः स्युः कृकण्टके|
कपोतविण्मातुलुङ्गं शिरीषकुसुमाद्रसः||२०८||
शङ्खिन्यार्कं पयः शुण्ठी करञ्जो मधु वार्श्चिके|
शिरीषस्य फलं पिष्टं स्नुहीक्षीरेण दार्दुरे||२०९||
मूलानि श्वेतभण्डीनां व्योषं सर्पिश्च मत्स्यजे|
कीटदष्टक्रियाः सर्वाः समानाः स्युर्जलौकसाम्||२१०||
वातपित्तहरी चापि क्रिया प्रायः प्रशस्यते|
वार्श्चिको ह्युच्चिटिङ्गस्य कणभस्यौन्दुरोऽगदः ||२११||
वचां वंशत्वचं पाठां नतं सुरसमञ्जरीम्|
द्वे बले नाकुलीं कुष्ठं शिरीषं रजनीद्वयम्||२१२||
गुहामतिगुहां श्वेतामजगन्धां शिलाजतु|
कत्तृणं कटभीं क्षारं गृहधूमं मनःशिलाम्||२१३||
रोहीतकस्य पित्तेन पिष्ट्वा तु परमोऽगदः|
नस्याञ्जनादिलेपेषु हितो विश्वम्भरादिषु||२१४||
स्वर्जिकाऽजशकृत्क्षारः सुरसाऽथाक्षिपीडकः |
मदिरामण्डसंयुक्तो हितः शतपदीविषे||२१५||
कपित्थमक्षिपीडोऽर्कबीजं त्रिकटुकं तथा|
करञ्जो द्वे हरिद्रे च गृहगोधाविषं जयेत्||२१६||
काकाण्डरससंयुक्तो विषाणां तण्डुलीयकः|
प्रधानो बर्हिपित्तेन तद्वद्वायसपीलुकः||२१७||
शिरीषफलमूलत्वक्पुष्पपत्रैः समैर्धृतैः|
श्रेष्ठः पञ्चशिरीषोऽयं विषाणां प्रवरो वधे||२१८||
इति पञ्चशिरीषोऽगदः|
चतुष्पद्भिर्द्विपद्भिर्वा नखदन्तक्षतं तु यत्|
शूयते पच्यते चापि स्रवति ज्वरयत्यपि||२१९||
सोमवल्कोऽश्वकर्णश्च गोजिह्वा हंसपद्यपि|
रजन्यौ गैरिकं लेपो नखदन्तविषापहः||२२०||
दुरन्धकारे विद्धस्य केनचिद्विषशङ्कया|
विषोद्वेगाज्ज्वरशछर्दिर्मूर्च्छा दाहोऽपि वा भवेत्||२२१||
ग्लानिर्मोहोऽतिसारश्चाप्येतच्छङ्काविषं मतम्|
चिकित्सितमिदं तस्य कुर्यादाश्वासयन् बुधः||२२२||
सिता वैगन्धिको द्राक्षा पयस्या मधुकं मधु|
पानं समन्त्रपूताम्बु प्रोक्षणं सान्त्वहर्षणम्||२२३||
शालयः षष्टिकाश्चैव कोरदूषाः प्रियङ्गवः|
भोजनार्थे प्रशस्यन्ते लवणार्थे च सैन्धवम्||२२४||
तण्डुलीयकजीवन्तीवार्ताकसुनिषण्णकाः|
चुच्चूर्मण्डूकपर्णी च शाकं च कुलकं हितम्||२२५||
धात्री दाडिममम्लार्थे यूषा मुद्गहरेणुभिः|
रसाश्चैणशिखिश्वाविल्लावतैत्तिरपार्षताः||२२६||
विषघ्नौषधसंयुक्ता रसा यूषाश्च संस्कृताः|
अविदाहीनि चान्नानि विषार्तानां भिषग्जितम्||२२७||
विरुद्धाध्यशनक्रोधक्षुद्भयायासमैथुनम्|
वर्जयेद्विषमुक्तोऽपि दिवास्वप्नं विशेषतः||२२८||
मुहुर्मुहुः शिरोन्यासः शोथः स्रस्तौष्ठकर्णाता |
ज्वरः स्तब्धाक्षिगात्रत्वं हनुकम्पोऽङ्गमर्दनम्||२२९||
रोमापगमनं ग्लानिररतिर्वेपथुर्भ्रमः|
चतुष्पदां भवत्येतद्दष्टानामिह लक्षणम्||२३०||
देवदारु हरिद्रे द्वे सरलं चन्दनागुरु|
रास्ना गोरोचनाऽजाजी गुग्गुल्विक्षुरसो नतम्||२३१||
चूर्णं ससैन्धवानन्तं गोपित्तमधुसंयुतम्|
चतुष्पदानां दष्टानामगदः सार्वकार्मिकः||२३२||
सौभाग्यार्थं स्त्रियः स्वेदरजोनानाङ्गजान्मलान्|
शत्रुप्रयुक्तांश्च गरान् प्रयच्छन्त्यन्नमिश्रितान्||२३३||
तैः स्यात् पाण्डुः कृशोऽल्पाग्निर्गरश्चास्योपजायते|
मर्मप्रधमनाध्मानं श्वयथुं हस्तपादयोः||२३४||
जठरं ग्रहणीदोषो यक्ष्मा गुल्मः क्षयो ज्वरः |
एवंविधस्य चान्यस्य व्याधेर्लिङ्गानि दर्शयेत्||२३५||
स्वप्ने मार्जारगोमायुव्यालान् सनकुलान् कपीन्|
प्रायः पश्यति नद्यादीञ्छुष्कांश्च सवनस्पतीन्||२३६||
कालश्च गौरमात्मानं स्वप्ने गौरश्च कालकम्|
विकर्णनासिकं वाऽपि प्रपश्येद्विहतेन्द्रियः ||२३७||
तमवेक्ष्य भिषक् प्राज्ञाः पृच्छेत् किं कैः कदा सह|
जग्धमित्यवगम्याशु प्रदद्याद्वमनं भिषक्||२३८||
सूक्ष्मं ताम्ररजस्तस्मै सक्षौद्रं हृद्विशोधनम्|
शुद्धे हृदि ततः शाणं हेमचूर्णस्य दापयेत्||२३९||
हेम सर्वविषाण्याशु गरांश्च विनियच्छति|
न सज्जते हेमपाङ्गे विषं पद्मदलेऽम्बुवत्||२४०||
नागदन्तीत्रिवृद्दन्तीद्रवन्तीस्नुक्पयःफलैः|
साधितं माहिषं सर्पिः सगोमूत्राढकं हितम्||२४१||
सर्पकीटविषार्तानां गरार्तानां च शान्तये|२४२|
शिरीषत्वक् त्रिकटुकं त्रिफलां चन्दनोत्पले||२४२||
द्वे बले सारिवास्फोतासुरभीनिम्बपाटलाः|
बन्धुजीवाढकीमूर्वावासासुरसवत्सकान्||२४३||
पाठाङ्कोलाश्वगन्धार्कमूलयष्ट्याह्वपद्मकान्|
विशालां बृहतीं लाक्षां कोविदारं शतावरीम्||२४४||
कटभीदन्त्यपामार्गान् पृश्निपर्णीं रसाञ्जनम्|
श्वेतभण्डाश्वखुरकौ कुष्ठदारुप्रियङ्गुकान्||२४५||
विदारीं मधुकात् सारं करञ्जस्य फलत्वचौ|
रजन्यौ लोध्रमक्षांशं पिष्ट्वा साध्यं घृताढकम्||२४६||
तुल्याम्बुच्छागगोमूत्रत्र्याढके तद्विषापहम्|
अपस्मारक्षयोन्मादभूतग्रहगरोदरम्||२४७||
पाण्डुरोगक्रिमीगुल्मप्लीहोरुस्तम्भकामलाः|
हनुस्कन्धग्रहादींश्च पानाभ्यञ्जननावनैः||२४८||
हन्यात् सञ्जीवयेच्चापि विबोद्बन्धमृतान्नरान्|
नाम्नेदममृतं सर्वविषाणां स्याद्धृतोत्तमम्||२४९||
इत्यमृतघृतम्|
भवन्ति चात्र-
छत्री झर्झरपाणिश्च चरेद्रात्रौ तथा दिवा|
तच्छायाशब्दवित्रस्ताः प्रणश्यन्त्याशु पन्नगाः||२५०||
दष्टमात्रो दशेदाशु तं सर्पं लोष्टमेव वा|
उपर्यरिष्टां बध्नीयाद्दंशं छिन्द्याद्दहेत्तथा||२५१||
वज्रं मरकतः सारः पिचुको विषमूषिका|
कर्केतनः सर्पमणिर्वैदूर्यं गजमौक्तिकम्||२५२||
धार्यं गरमणिर्याश्च वरौषध्यो विषापहाः|
खगाश्च शारिकाक्रौञ्चशिखिहंसशुकादयः||२५३||
तत्र श्लोकः-
इतीदमुक्तं द्विविधस्य विस्तरैर्बहुप्रकारं विषरोगभेषजम्|
अधीत्य विज्ञाय तथा प्रयोजयन् व्रजेद्विषाणामविषह्यतां बुधः||२५४||
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थानेविषचिकित्सितं नाम त्रयोविंशोऽध्यायः||२३||