Shree Naval Kishori

कल्पस्थानम् - ८. चतुरङ्गुलकल्पः

अथातश्चतुरङ्गुलकल्पं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||

आरग्वधो राजवृक्षः शम्पाकश्चतुरङ्गुलः|
प्रग्रहः कृतमालश्च कर्णिकारोऽवघातकः||३||
ज्वरहृद्रोगवातासृगुदावर्तादिरोगिषु|
राजवृक्षोऽधिकं पथ्यो मृदुर्मधुरशीतलः||४||
बाले वृद्धे क्षते क्षीणे सुकुमारे च मानवे|
योज्यो मृद्वनपायित्वाद्विशेषाच्चतुरङ्गुलः||५||

फलकाले फलं तस्य ग्राह्यं परिणतं च यत्|
तेषं गुणवतां भारं सिकतासु निधापयेत्||६||
सप्तरात्रात् समुद्धृत्य शोषयेदातपे भिषक्|
ततो मज्जानमुद्धृत्य शुचौ भाण्डे निधापयेत्||७||

द्राक्षारसयुतं दद्याद्दाहोदावर्तपीडिते|
चतुर्वर्षमुखे बाले यावद्द्वादशवार्षिके||८||
चतुरङ्गुलमज्ज्ञस्तु प्रसृतं वाऽथवाऽञ्जलिम्|९|

सुरामण्डेन संयुक्तमथवा कोलसीधुना||९||
दधिमण्डेन वा युक्तं रसेनामलकस्य वा|
कृत्वा शीतकषायं तं पिबेत् सौवीरकेण वा||१०||

त्रिवृतो वा कषायेण मज्ज्ञः कल्कं तथा पिबेत्|
तथा बिल्वकषायेण लवणक्षौद्रसंयुतम्||११||

कषायेणाथवा तस्य त्रिवृच्चूर्णं गुडान्वितम्|
साधयित्वा शनैर्लेहं लेहयेन्मात्रया नरम्||१२||

चतुरङ्गुलसिद्धाद्वा क्षीराद्यदुदियाद्घृतम्|
मज्ज्ञः कल्केन धात्रीणां रसे तत्साधितं पिबेत्||१३||

तदेव दशमूलस्य कुलत्थानां यवस्य च|
कषाये साधितं सर्पिः कल्कैः श्यामादिभिः पिबेत्||१४||
दन्तीक्वाथेऽञ्जलिं मज्ज्ञाः शम्पाकस्य गुडस्य च|
दत्त्वा मासार्धमासस्थमरिष्टं पाययेत च||१५||

यस्य यत् पानमन्नं च हृद्यं स्वाद्वथ वा कटु|
लवणं वा भवेत्तेन युक्तं दद्याद्विरेचनम्||१६||

तत्र श्लोकाः

द्राक्षारसे सुरासीध्वोर्दध्नि चामलकीरसे|
सौवीरके कषाये च त्रिवृतो बिल्वकस्य च||१७||
लेहेऽरिष्टे घृते द्वे च योगा द्वादश कीर्तिताः|
चतुरङ्गुलकल्पेऽस्मिन् सुकुमाराः सुखोदयाः||१८||

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरितेकल्पस्थाने 

चतुरङ्गुलकल्पो नामाष्टमोऽध्यायः||८||