Shree Naval Kishori

सिद्धिस्थानम् - ८. प्रासृतयोगीया सिद्धिः

अथातः प्रासृतयोगीयां सिद्धिं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||

अथेमान् सुकुमाराणां निरूहान् स्नेहनान् मृदून्|
कर्मणा विप्लुतानां च वक्ष्यामि प्रसृतैः पृथक्||३||

क्षीराद्द्वौ प्रसृतौ कार्यौ मधुतैलघृतात्त्रयः|
खजेन मथितो बस्तिर्वातघ्नो बलवर्णकृत्||४||
एकैकः प्रसृतस्तैलप्रसन्नाक्षौद्रसर्पिषाम्|
बिल्वादिमूलक्वाथाद्द्वौ कौलत्थाद्द्वौ स वातनुत्||५||
पञ्चमूलरसात् पञ्च द्वौ तैलात् क्षौद्रसर्पिषोः|
एकैकः प्रसृतो बस्तिः स्नेहनीयोऽनिलापहः||६||

सैन्धवार्धाक्ष एकैकः क्षौद्रतैलपयोघृतात्|
प्रसृतो हपुषाकर्षो निरूहः शुक्रकृत् परम्||७||

पटोलनिम्बभूनिम्बरास्नासप्तच्छदाम्भसः|
चत्वारः प्रसृता एको घृतात् सर्षपकल्कितः||८||
निरूहः पञ्चतिक्तोऽयं मेहाभिष्यन्दकुष्ठनुत् |९|

विडङ्गत्रिफलाशिग्रुफलमुस्ताखुपर्णिजात्||९||
कषायात् प्रसृताः पञ्च तैलादेको विमथ्य तान्|
विडङ्गपिप्पलीकल्को निरूहः क्रिमिनाशनः||१०||

पयस्येक्षुस्थिरारास्नाविदारीक्षौद्रसर्पिषाम्|
एकैकः प्रसृतो बस्तिः कृष्णाकल्को वृषत्वकृत्||११||
चत्वारस्तैलगोमूत्रदधिमण्डाम्लकाञ्जिकात्|
प्रसृताः सर्षपैः कल्कैर्विट्सङ्गानाहभेदनः ||१२||

श्वदंष्ट्राश्मभिदेरण्डरसात्तैलात् सुरासवात्|
प्रसृताः पञ्च यष्ट्याह्वकौन्तीमागधिकासिताः||१३||
कल्कः स्यान्मूत्रकृच्छ्रे तु सानाहे बस्तिरुत्तमः|
एते सलवणाः कोष्णा निरूहाः प्रसृतैर्नव||१४||

मृदुबस्तिजडीभूते तीक्ष्णोऽन्यो बस्तिरिष्यते|
तीक्ष्णैर्विकर्षिते स्वादु प्रत्यास्थापनमिष्यते ||१५||

वातोपसृष्टस्योष्णैः स्युर्गुददाहादयो यदि|
द्राक्षाम्बुना त्रिवृत्कल्कं दद्याद्दोषानुलोमनम्||१६||
तद्धि पित्तशकृद्वातान् हृत्वा दाहादिकाञ्जयेत्|
शुद्धश्चापि पिबेच्छीतां यवागूं शर्करायुताम्||१७||

अथवाऽतिविरिक्तः स्यात् क्षीणविट्कः स भक्षयेत्|
माषयूषेण कुल्माषान् पिबेन्मध्वथवा सुराम्||१८||

सामं चेत् कुणपं शूलैरुपविशेदरोचकी|
स घनातिविषाकुष्ठनतदारुवचाः पिबेत्||१९||

शकृद्वातमसृक् पित्तं कफं वा योऽतिसार्यते|
पक्वं, तत्र स्ववर्गीयैर्बस्तिः श्रेष्ठं भिषग्जितम्||२०||

षण्णामेषां द्विसंसर्गात् त्रिंशद्भेदा भवन्ति तु|
केवलैः सह षट्त्रिंशद्विद्यात् सोपद्रवानपि||२१||

शूलप्रवाहिकाध्मानपरिकर्त्यरुचिज्वरान्|
तृष्णोष्णदाहमूर्च्छादींश्चैषां विद्यादुपद्रवान्||२२||

तत्रामेऽन्तरपानं स्यात् व्योषाम्ललवणैर्युतम्|
पाचनं शस्यते बस्तिरामे हि प्रतिषिध्यते||२३||

वातघ्नैर्ग्राहिवर्गीयैर्बस्तिः शकृति शस्यते|२४|

स्वाद्वम्ललवणैः शस्तः स्नेहबस्तिः समीरणे||२४||

रक्ते रक्तेन, पित्ते तु कषायस्वादुतिक्तकैः|
सार्यमाणे कफे बस्तिः कषायकटुतिक्तकैः||२५||

शकृता वायुना वाऽऽमे तेन वर्चस्यथानिले|
संसृष्टेऽन्तरपानं स्याद् व्योषाम्ललवणैर्युतम्||२६||
पित्तेनामेऽसृजा वाऽपि तयोरामेन वा पुनः|
संसृष्टयोर्भवेत् पानं सव्योषस्वादुतिक्तकम्||२७||
तथाऽऽमे कफसंसृष्टे कषायव्योषतिक्तकम्|
आमेन तु कफे व्योषकषायलवणैर्युतम्||२८||
वातेन विशि पित्ते वा विट्पित्ताभ्यां तथाऽनिले|
मधुराम्लकषायः स्यात् संसृष्टे बस्तिरुत्तमः||२९||
शकृच्छोणितयोः पित्तशकृतो रक्तपित्तयोः|
बस्तिरन्योन्यसंसर्गे कषायस्वादुतिक्तकः||३०||
कफेन विशि पित्ते वा कफे विट्पित्तशोणितैः|
व्योषतिक्तकषायः स्यात् संसृष्टे बस्तिरुत्तमः||३१||
स्याद्बस्तिर्व्योषतिक्ताम्लः संसृष्टे वायुना कफे|
मधुरव्योषतिक्तस्तु रक्ते कफविमूर्च्छिते||३२||
मारुते कफसंसृष्टे व्योषाम्ललवणो भवेत्|
बस्तिर्वातेन पित्ते तु कार्यः स्वाद्वम्लतिक्तकः||३३||

त्रिचतुःपञ्चसंसर्गानेवमेव विकल्पयेत्|
युक्तिश्चैषातिसारोक्ता सर्वरोगेष्वपि स्मृता||३४||

युगपत् षड्रसं षण्णां संसर्गे पाचनं भवेत् |
निरामाणां तु पञ्चानां बस्तिः षाड्रसिको मतः||३५||

उदुम्बरशलाटूनि जम्ब्वाम्रोदुम्बरत्वचः|
शङ्खं सर्जरसं लाक्षां कर्दमं च पलांशिकम्||३६||
पिष्ट्वा तैः सर्पिषः प्रस्थं क्षीरद्विगुणितं पचेत्|
अतीसारेषु सर्वेषु पेयमेतद्यथाबलम्||३७||
कच्छुराधातकीबिल्वसमङ्गारक्तशालिभिः|
मसूराश्वत्थशुङ्गैश्च यवागूः स्याज्जले शृतैः||३८||
बालोदुम्बरकट्वङ्गसमङ्गाप्लक्षपल्लवैः |
मसूरधातकीपुष्पबलाभिश्च तथा भवेत्||३९||
स्थिरादीनां बलादीनामिक्ष्वादीनामथापि वा|
क्वाथेषु समसूराणां यवाग्वः स्युः पृथक् पृथक्||४०||
कच्छुरामूलशाल्यादितण्डुलैरुपसाधिताः|
दधितक्रारनालाम्लक्षीरेष्विक्षुरसेऽपि वा||४१||
शीताः सशर्कराक्षौद्राः सर्वातिसारनाशनाः|
ससर्पिर्मरिचाजाज्यो मधुरा लवणाः शिवाः||४२||

भवन्ति चात्र श्लोकाः-

स्निग्धाम्ललवणमधुरं पानं बस्तिश्च मारुते कोष्णः|
शीतं तिक्तकषायं मधुरं पित्ते च रक्ते च||४३||
तिक्तोष्णकषायकटुश्लेष्मणि सङ्ग्राहि वातनुच्छकृति|
पाचनमामे पानं पिच्छासृग्बस्तयो रक्ते||४४||
अतिसारं प्रत्युक्तं मिश्रं द्वन्द्वादियोगजेष्वपि च|
तत्रोद्रेकविशेषाद्दोषेषूपक्रमः कार्यः||४५||

तत्र श्लोकः-

प्रासृतिकाः सव्यापत्क्रिया निरूहास्तथाऽतिसारहिताः|
रसकल्पघृतयवाग्वश्चोक्ता गुरुणा प्रसृतसिद्धौ||४६||

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्तेदृढबलसम्पूरिते सिद्धिस्थाने 

प्रासृतयोगीयसिद्धिर्नामाष्टमोऽध्यायः ||८||