Shree Naval Kishori

सिद्धिस्थानम् - १०. बस्तिसिद्धिः

अथातो बस्तिसिद्धिं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेय||२||

सिद्धानां बस्तीनां शस्तानां तेषु तेषु रोगेषु|
शृण्वग्निवेश ! गदतः सिद्धिं सिद्धिप्रदां भिषजाम्||३||

बलदोषकालरोगप्रकृतीः प्रविभज्य योजिताः सम्यक्
स्वैः स्वैरौषधवर्गैः स्वान् स्वान् रोगान्नियच्छन्ति||४||
कर्मान्यद्बस्तिसमं न विद्यते शीघ्रसुखविशोधित्वात्|
आश्वपतर्पणतर्पणयोगाच्च निरत्ययत्वाच्च||५||

सत्यपि दोषहरत्वे कटुतीक्ष्णोष्णादि भेषजादानात्|
दुःखोद्गारोत्क्लेशाहृद्यत्वकोष्ठरुजा विरेके स्युः||६||
अविरेच्यौ शिशुवृद्धौ तावप्राप्तप्रहीनधातुबलौ|
आस्थापनमेव तयोः सर्वार्थकृदुत्तमं कर्म||७||
बलवर्णहर्षमार्दवगात्रस्नेहान्नृणां ददात्याशु|८|

अनुवासनं निरूहश्चोत्तरबस्तिश्च स त्रिविधः||८||
शाखावातार्तानां सकुञ्चितस्तब्धभग्नरुग्णानाम् |
विट्सङ्गाध्मानारुचिपरिकर्तिरुगादिषु च शस्तः||९||
उष्णार्तानां शीताञ्छीतार्तानां तथा सुखोष्णांश्च|
तद्योग्यौषधयुक्तान् बस्तीन् सन्तर्क्य विनियुज्यात्||१०||

बस्तीन्न बृंहणीयान् दद्याद् व्याधिषु विशोधनीयेषु|
मेदस्विनो विशोध्या येऽपि नराः कुष्ठमेहार्ताः||११||
न क्षीणक्षतदुर्बलमूर्च्छितकृशशुष्कदेहानाम्|
युञ्जाद्विशोधनीयान् दोषनिबद्धायुषो ये च||१२||

वाजीकरणेऽसृक्पित्तयोश्च मधुघृतपयोयुक्ताः|
शस्ताः सतैलमूत्रारनाललवणाश्च कफवाते||१३||
युञ्जाद्द्रव्याणि बस्तिष्वम्लं मूत्रं पयः सुरां क्वाथान्|
अविरोधाद्धातूनां रसयोनित्वाच्च जलमुष्णम्||१४||

सुरदारुशताह्वैलाकुष्ठमधुकपिप्पलीमधुस्नेहाः|
ऊर्ध्वानुलोमभागाः ससर्षपाः शर्करा लवणम्||१५||
आवापा बस्तीनामतः प्रयोज्यानि येषु यानि स्युः|
युक्तानि सह कषायैस्तान्युत्तरतः प्रवक्ष्यामि||१६||
चिरजातकठिनबलेषु व्याधिषु तीक्ष्णा विपर्यये मृदवः|
सप्रतिवापकषाया योज्यास्त्वनुवासननिरूहाः||१७||

अर्धश्लोकैरतः सिद्धान् नानाव्याधिषु सर्वशः |
बस्तीन् वीर्यसमैर्भागैर्यथार्हालोडनाञ्छृणु||१८||
बिल्वोऽग्निमन्थः श्योनाकः काश्मर्यः पाटलिस्तथा|
शालपर्णी पृश्निपर्णी बृहत्यौ वर्धमानकः||१९||
यवाः कुलत्थाः कोलानि स्थिरा चेति त्रयोऽनिले|
शस्यन्ते सचतुःस्नेहाः पिशितस्य रसान्विताः||२०||
नलवञ्जुलवानीरशतपत्राणि शैवलम्|
मञ्जिष्ठा सारिवाऽनन्ता पयस्या मधुयष्टिका||२१||
चन्दनं पद्मकोशीरं तुङ्गं ते पैत्तिके त्रयः|
सशर्कराक्षौद्रघृताः सक्षीरा बस्तयो हिताः||२२||
अर्कस्तथैव चालर्क एकाष्ठीला पुनर्नवा|
हरिद्रा त्रिफला मुस्तं पीतदारु कुटन्नटम्||२३||
पिप्पल्यश्चित्रकश्चेति त्रयस्ते श्लेष्मरोगिषु |
सक्षारक्षौद्रगोमूत्रा नातिस्नेहान्विता हिताः||२४||

फलजीमूतकेक्ष्वाकुधामार्गवकवत्सकाः |
श्यामा च त्रिफला चैव स्थिरा दन्ती द्रवन्त्यपि||२५||
प्रकीर्या चोदकीर्या च नीलिनी क्षीरिणी तथा|
सप्तला शङ्खिनी लोध्रं फलं कम्पिल्लकस्य च||२६||
चत्वारो मूत्रसिद्धास्ते पक्वाशयविशोधनाः|
(व्यस्तैरपि समस्तैश्च चतुर्योगा उदाहृताः)||२७||

काकोली क्षीरकाकोली मुद्गपर्णी शतावरी|
विदारी मधुयष्ट्याह्वा शृङ्गाटककशेरुके||२८||
आत्मगुप्ताफलं माषाः सगोधूमा यवास्तथा|
जलजानूपजं मांसमित्येते शुक्रमांसलाः ||२९||

जीवन्ती चाग्निमन्थश्च धातकीपुष्पवत्सकौ|
प्रग्रहः खदिरः कुष्ठं शमी पिण्डीतको यवाः||३०||
प्रियङ्गू रक्तमूली च तरुणी स्वर्णयूथिका|
वटाद्याः किंशुकं लोध्रमिति साङ्ग्राहिका मताः||३१||

परिस्रावे शृतं क्षीरं सवृश्चीरपुनर्नवम्|
आखुपर्णिकया वाऽपि तण्डुलीयकयुक्तया||३२||

कालङ्कतककाण्डेक्षुदर्भपोटगलेक्षुभिः |
दाहघ्नः सघृतक्षीरो द्वितीयश्चोत्पलादिभिः||३३||

कर्बुदाराढकीनीपविदुलैः क्षीरसाधितैः|
बस्तिः प्रदेयो भिषजा शीतः समधुशर्करः||३४||
परिकर्ते तथा वृन्तैः श्रीपर्णीकोविदारजैः|
(देयो बस्तिः सुवैद्यैस्तु यथावद्विदितक्रियैः)||३५||

बस्तिः शाल्मलिवृन्तानां क्षीरसिद्धो घृतान्वितः|
हितः प्रवाहणे तद्वद्वेष्टैः शाल्मलिकस्य च||३६||

अश्वावरोहिकाकाकनासाराजकशेरुकैः|
सिद्धाः क्षीरेऽतियोगे स्युः क्षौद्राञ्जनघृतैर्युताः||३७||
न्यग्रोधाद्यैश्चतुर्भिश्च तेनैव विधिना परः|३८|

बृहती क्षीरकाकोली पृश्निपर्णी शतावरी||३८||
काश्मर्यबदरीदूर्वास्तथोशीरप्रियङ्गवः|
जीवादाने शृतौ क्षीरे द्वौ घृताञ्जनसंयुतौ||३९||
बस्ती प्रदेयौ भिषजा शीतौ समधुशर्करौ|
गोऽव्यजामहिषीक्षीरैर्जीवनीययुतैस्तथा||४०||
शशैणदक्षमार्जारमहिषाव्यजशोणितैः|
सद्यस्कैर्मृदितैर्बस्तिर्जीवादाने प्रशस्यते||४१||
मधूकमधुकद्राक्षादूर्वाकाश्मर्यचन्दनैः|
तेनैव विधिना बस्तिर्देयः सक्षौद्रशर्करः||४२||

मञ्जिष्ठासारिवानन्तापयस्यामधुकैस्तथा|
शर्कराचन्दनद्राक्षामधुधात्रीफलोत्पलैः|
रक्तपित्ते, प्रमेहे तु कषायः सोमवल्कजः||४३||

गुल्मातिसारोदावर्तस्तम्भसङ्कुचितादिषु|
सर्वाङ्गैकाङ्गरोगेषु रोगेष्वेवंविधेषु च||४४||
यथास्वैरौषधैः सिद्धान् बस्तीन् दद्याद्विचक्षणः|
पूर्वोक्तेन विधानेन कुर्वन् योगान् पृथग्विधान्||४५||

तत्र श्लोकाः-

त्रिकास्त्रयोऽनिलादीनां चतुष्काश्चापरे त्रयः|
पक्वाशयविशुद्ध्यर्थं वृष्याः साङ्ग्राहिकास्तथा||४६||
परिस्रावे तथा दाहे परिकर्ते प्रवाहणे|
सातियोगे मतौ द्वौ द्वौ जीवादाने तथा त्रयः||४७||
द्वौ रक्तपित्ते मेहे च एकत्रिंशच्च सप्त ते|
सुलभाल्पौषधक्लेशा बस्तयो गुणवत्तमाः||४८||

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरितेसिद्धिस्थाने 

बस्तिसिद्धिर्नाम दशमोऽध्यायः||१०||