Shree Naval Kishori

सिद्धिस्थानम् - १२. उत्तरबस्तिसिद्धिः

अथात उत्तरबस्तिसिद्धिं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||

अथ स्वल्वातुरं वैद्यः संशुद्धं वमनादिभिः|
दुर्बलं कृशमल्पाग्निं मुक्तसन्धानबन्धनम्||३||
निर्हृतानिलविण्मूत्रकफपित्तं कृशाशयम्|
शून्यदेहं प्रतीकारासहिष्णुं परिपालयेत्||४||
यथाऽण्डं तरुणं पूर्णं तैलपात्रं यथैव च|
गोपाल इव दण्डी गाः सर्वस्मादपचारतः||५||

अग्निसन्धुक्षणार्थं तु पूर्वं पेयादिना भिषक्|
रसोत्तरेणोपचरेत् क्रमेण क्रमकोविदः||६||
स्निग्धाम्लस्वादुहृद्यानि ततोऽम्ललवणौ रसौ|
स्वादुतिक्तौ ततो भूयः कषायकटुकौ ततः||७||
अन्योऽन्यप्रत्यनीकानां रसानां स्निग्धरूक्षयोः|
व्यत्यासादुपयोगेन प्रकृतिं गमयेद्भिषक्||८||

सर्वक्षमो ह्यसंसर्गो रतियुक्तः स्थिरेन्द्रियः|
बलवान् सत्त्वसम्पन्नो विज्ञेयः प्रकृतिं गतः||९||

एतां प्रकृतिमप्राप्तः सर्ववर्ज्यानि वर्जयेत्|
महादोषकराण्यष्टाविमानि तु विशेषतः||१०||
उच्चैर्भाष्यं रथक्षोभमविचङ्क्रमणासने|
अजीर्णाहितभोज्ये च दिवास्वप्नं समैथुनम्||११||
तज्जा देहोर्ध्वसर्वाधोमध्यपीडामदोषजाः|
श्लेष्मजाः क्षयजाश्चैव व्याध्यः स्युर्यथाक्रमम्||१२||

तेषां विस्तरतो लिङ्गमेकैकस्य च भेषजम्|
यथावत्सम्प्रवक्ष्यामि सिद्धान् बस्तींश्च यापनान्||१३||
तत्रोच्चैर्भाष्यातिभाष्याभ्यां शिरस्तापशङ्खकर्णनिस्तोदश्रोत्रोपरोधमुखतालुकण्ठशोषतैमिर्यपिपासाज्वरतमक-

 हनुग्रहमन्यास्तम्भनिष्ठीवनोरःपार्श्वशूलस्वरभेदहिक्काश्वासादयः स्युः (१)|

रथक्षोभात् सन्धिपर्वशैथिल्यहनुनासाकर्णशिरःशूलतोदकुक्षिक्षोभाटोपान्त्रकूजनाध्मानहृदयेन्द्रियोपरोध-

 स्फिक्पार्श्ववङ्क्षणवृषणकटीपृष्ठवेदनासन्धिस्कन्धग्रीवादौर्बल्याङ्गाभितापपादशोफप्रस्वापहर्षणादयः  (२)|

अतिचङ्कमणात् पादजङ्घोरुजानुवङ्क्षणश्रोणीपृष्ठशूलसक्थिसादनिस्तोद-

 पिण्डिकोद्वेष्टनाङ्गमर्दांसाभितापसिराधमनीहर्षश्वासकासादयः (३)|

अत्यासनाद्रथक्षोभजाः स्फिक्पार्श्ववङ्क्षणवृषणकटीपृष्ठवेदनादयः (४)|

अजीर्णाध्यशनाभ्यां तु मुखशोषाध्मानशूलनिस्तोदपिपासागात्रसादच्छर्द्यतीसारमूर्च्छाज्वरप्रवाहणामविषादयः(५)|

विषमाहिताशनाभ्यामनन्नाभिलाषदौर्बल्यवैवर्ण्यकण्डूपामागात्रसादवातादिप्रकोपजाश्च ग्रहण्यर्शोविकारादयः (६)|

दिवास्वप्नादरोचकाविपाकाग्निनाशस्तैमित्यपाण्डुत्वकण्डूपामादाहच्छर्द्यङ्गमर्दहृत्स्तम्भजाड्यतन्द्रानिद्रा-

 प्रसङ्गग्रन्थिजन्मदौर्बल्यरक्तमूत्राक्षितातालुलेपाः (७)|

व्यवायादाशुबलनाशोरुसादशिरोबस्तिगुदमेढ्रवङ्क्षणोरुजानुजङ्घापादशूलहृदयस्पन्दननेत्रपीडाङ्गशैथिल्य-

 शुक्रमार्गशोणितागमनकासश्वासशोणितष्ठीवनस्वरावसादकटीदौर्बल्यैकाङ्गसर्वाङ्गरोगमुष्कश्वयथु-

 वातवर्चोमूत्रसङ्गशुक्रविसर्गजाड्यवेपथुबाधिर्यविषादादयः स्युः; अवलुप्यत इव गुदः, ताड्यत इव मेढ्रम्, 

अवसीदतीव मनो, वेपते हृदयं, पीड्यन्ते सन्धयः, तमः प्रवेश्यत इव च (८)|

इत्येवमेभिरष्टभिरपचारैरेते प्रादुर्भवन्त्युपद्रवाः||१४||

तेषां सिद्धिः- तत्रोच्चैर्भाष्यातिभाष्यजानामभ्यङ्गस्वेदोपनाहधूमनस्योपरिभक्तस्नेहपानरसक्षीरादिर्वातहरः सर्वो विधिर्मौनं च (१)|

रथक्षोभातिचङ्क्रमणात्यासनजानां स्नेहस्वेदादिवातहरं कर्म सर्वं निदानवर्जनं च (२)|

अजीर्णाध्यशनजानां निरवशेषतश्छर्दनं रूक्षः स्वेदो लङ्घनीयपाचनीयदीपनीयौषधावचारणं च (३)|

विषमाहिताशनजानां यथास्वं दोषहराः क्रियाः (४)|

दिवास्वप्नजानां धूमपानलङ्घनवमनशिरोविरेचनव्यायामरूक्षाशनारिष्टदीपनीयौषधोपयोगः 

प्रघर्षणोन्मर्दनपरिषेचनादिश्च श्लेष्महरः सर्वो विधिः (५)|

मैथुनजानां जीवनीयसिद्धयोः क्षीरसर्पिषोरुपयोगः, तथा वातहराः स्वेदाभ्यङ्गोपनाहा 

वृष्याश्चाहाराः स्नेहाः स्नेहविधयो यापनाबस्तयोऽनुवासनं च; मूत्रवैकृतबस्तिशूलेषु 

चोत्तरबस्तिर्विदारीगन्धादिगणजीवनीयक्षीरसंसिद्धं तैलं स्यात्||१५||

यापनाश्च बस्तयः सर्वकालं देयाः; तानुपदेक्ष्यामः-

 मुस्तोशीरबलारग्वधरास्नामञ्जिष्ठाकटुरोहिणीत्रायमाणापुनर्नवाबिभीतकगुडूचीस्थिरादिपञ्चमूलानि 

पलिकानि खण्डशः क्लृप्तान्यष्टौ च मदनफलानि प्रक्षाल्य जलाढके परिक्वाथ्य पादशेषो रसः 

क्षीरद्विप्रस्थसंयुक्तः पुनः शृतः क्षीरावशेषः पादजाङ्गलरसस्तुल्यमधुघृतः 

शतकुसुमामधुककुटजफलरसाञ्जनप्रियङ्गुकल्कीकृतः ससैन्धवः सुखोष्णो बस्तिः 

शुक्रमांसबलजननः क्षतक्षीणकासगुल्मशूलविषमज्वरब्रध्न(वर्ध्म)-

 कुण्डलोदावर्तकुक्षिशूलमूत्रकृच्छ्रासृग्रजोविसर्पप्रवाहिकाशिरोरुजा-

 जानूरुजङ्घाबस्तिग्रहाश्मर्युन्मादार्शःप्रमेहाध्मानवातरक्तपित्तश्लेष्मव्याधिहरः सद्यो बलजननो रसायनश्चेति (१)|

एरण्डमूलपलाशात् षट्पलं शालिपर्णीपृश्निपर्णी बृहती कण्टकारिका गोक्षुरको रास्नाऽश्वगन्धा गुडूची 

वर्षाभूरारग्वधो देवदार्विति पलिकानि खण्डशः क्लृप्तानि फलानि चाष्टौ प्रक्षाल्य जलाढके क्षीरपादे पचेत्|

पादशेषं कषायं पूतं शतकुसुमाकुष्ठमुस्तपिप्पलीहपुषाबिल्ववचावत्सकफलरसाञ्जनप्रियङ्गुयवानिप्रक्षेपकल्कितं 

मधुघृततैलसैन्धवयुक्तं सुखोष्णं निरूहमेकं द्वौ त्रीन् वा दद्यात्|

सर्वेषां प्रशस्तो विशेषतो ललितसुकुमारस्त्रीविहारक्षीणक्षतस्थविरचिरार्शसामपत्यकामानां च (२)|

तद्वत् सहचरबलादर्भमूलसारिवासिद्धेन पयसा (३)|

तथा बृहतीकण्टकारीशतावरीच्छिन्नरुहाशृतेन पयसा मधुकमदनपिप्पलीकल्कितेन पूर्ववद्वस्तिः (४)|

तथा बलातिबलाविदारीशालिपर्णीपृश्निपर्णीबृहतीकण्टकारिकादर्भमूलपरूषककाश्मर्यबिल्वफलयवसिद्धेन 

पयसा मधुकमदनकल्कितेन मधुघृतसौवर्चलयुक्तेन कासज्वरगुल्मप्लीहार्दितस्त्रीमद्यक्लिष्टानां 

सद्योबलजननो रसायनश्च (५)|
बलातिबलारास्नारग्वधमदनबिल्वगुडूचीपुनर्नवैरण्डाश्वगन्धासहचरपलाशदेवदारुद्विपञ्चमूलानि 

पलिकानि यवकोलकुलत्थद्विप्रसृतं शुष्कमूलकानां च जलद्रोणसिद्धं निरूहप्रमाणावशेषं कषायं 

पूतं मधुकमदनशतपुष्पाकुष्ठपिप्पलीवचावत्सकफलरसाञ्जनप्रियङ्गुयवानीकल्किकृतं 

गुडघृततैलक्षौद्रक्षीरमांसरसाम्लकाञ्जिकसैन्धवयुक्तं सुखोष्णं बस्तिं दद्याच्छुक्रमूत्रवर्चःसङ्गेऽनिलजे 

गुल्महृद्रोगाध्मानब्रध्नपार्श्वपृष्ठकटीग्रहसञ्ज्ञानाशबलक्षयेषु च (६)|

हपुषार्धकुडवो द्विगुणार्धक्षुण्णयवः क्षीरोदकसिद्धः क्षीरशेषो मधुघृततैललवणयुक्तः 

सर्वाङ्गविसृतवातरक्तसक्तविण्मूत्रस्त्रीखेदितहितो वातहरो बुद्धिमेधाग्निबलजननश्च (७)|
ह्रस्वपञ्चमूलीकषायः क्षीरोदकसिद्धः पिप्पलीमधुकमदनकल्कीकृतः सगुडघृततैललवणः 

क्षीणविषमज्वरकर्शितस्य बस्तिः (८)|
बलातिबलापामार्गात्मगुप्ताष्टपलार्धक्षुण्णयवाञ्जलिकषायः सगुडघृततैललवणयुक्तः 

पूर्ववद्बस्तिःस्थविरदुर्बलक्षीणशुक्ररुधिराणां पथ्यतमः (९)|
बलामधुकविदारीदर्भमूलमृद्वीकायवैः कषायमाजेन पयसा पक्त्वा मधुकमदनकल्कितं समधुघृतसैन्धवं 

ज्वरार्तेभ्यो बस्तिं दद्यात् (१०)|

शालिपर्णीपृश्निपर्णीगोक्षुरकमूलकाश्मर्यपरूषकखर्जूरफलमधूकपुष्पैरजाक्षीरजलप्रस्थाभ्यां सिद्धः 

कषायः पिप्पलीमधुकोत्पलकल्कितः सघृतसैन्धवः क्षीणेन्द्रियविषमज्वरकर्शितस्य बस्तिः शस्तः (११)|

स्थिरादिपञ्चमूलीपञ्चपलेन शालिषष्टिकयवगोधूममाषपञ्चप्रसृतेन छागं पयः शृतं पादशेषं 

कुक्कुटाण्डरससममधुघृतशर्करासैन्धवसौवर्चलयुक्तो वस्तिर्वृष्यतमो बलवर्णजननश्च |

इति यापना बस्तयो द्वादश||१६||

कल्पश्चैष शिखिगोनर्दहंससारसाण्डरसेषु स्यात्||१७||

सतित्तिरिः समयूरः सराजहंसः पञ्चमूलीपयः सिद्धः शतपुष्पामधुकरास्नाकुटजमदनफलपिप्पली 

कल्को घृततैलगुडसैन्धवयुक्तो बस्तिर्बलवर्णशुक्रजननो रसायनश्च (१)|

द्विपञ्चमूलीकुक्कुटरससिद्धं पयः पादशेषं पिप्पलीमधुकरास्नामदनकल्कं शर्करामधुघृतयुक्तं 

स्त्रीष्वतिकामानां बलजननो बस्तिः (२)|
मयूरमपित्तपक्षपादास्यान्त्रं स्थिरादिभिः पलिकैः सजले पयसि पक्त्वा क्षीरशेषं 

मदनपिप्पलीविदारीशतकुसुमामधुककल्कीकृतं मधुघृतसैन्धवयुक्तं बस्तिं दद्यात् 

स्त्रीष्वतिप्रसक्तक्षीणेन्द्रियेभ्यो बलवर्णकरम् (३)|

कल्पश्चैष विष्किरप्रतुदप्रसहाम्बुचरेषु स्यात्, अक्षीरो रोहितादिषु च मत्स्येषु (४)|

गोधानकुलमार्जारमूषिकशल्लकमांसानां दशपलान् भागान् सपञ्चमूलान् पयसि पक्त्वा 

तत्पयःपिप्पलीफलकल्कसैन्धवसौवर्चलशर्करामधुघृततैलयुक्तो बस्तिर्बल्यो रसायनः 

क्षीणक्षतस्य सन्धानकरो मथितोरस्करथगजहयभग्नवातबलासकप्रभृत्युदावर्तवातसक्तमूत्रवर्चश्शुकाणां

 हिततमश्च (५)|
कूर्मादीनामन्यतमपिशितसिद्धं पयो गोवृषनागहयनक्रहंसकुक्कुटाण्डरसमधुघृतशर्करा-सैन्धवेक्षुरकात्मगुप्ताफलकल्कसंसृष्टो बस्तिर्वृद्धानामपि बलजननः (६)|
कर्कटकरसश्चटकाण्डरसयुक्तः समधुघृतशर्करो बस्तिः; इत्येते बस्तयः परमवृष्याः उच्चटकेक्षुर-कात्मगुप्ताशृतक्षीरप्रतिभोजनानुपानात् स्त्रीशतगामिनं नरं कुर्युः (७)|
गोवृषबस्तवराहवृषणकर्कटचटकसिद्धं क्षीरमुच्चटकेक्षुरकात्मगुप्तामधुघृतसैन्धवयुक्तः किञ्चिल्लवणितो बस्तिः (८)|
दशमूलमयूरहंसकुक्कुटक्वाथात् पञ्चप्रसृतं तैलघृतवसामज्जचतुष्प्रसृतयुक्तं शतपुष्पामुस्तहपुषाकल्कीकृतः 

सलवणो बस्तिः पादगुल्फोरुजानुजङ्घात्रिकवङ्क्षणबस्तिवृषणानिलरोगहरः (९)|
मृगविष्किरानूपबिलेशयानामेतेनैव कल्पेन बस्तयो देयाः (१०)|
मधुघृतद्विप्रसृतस्तुल्योष्णोदकः शतपुष्पार्धपलः सैन्धवार्धाक्षयुक्तो बस्तिर्वृष्यतमो मूत्रकृच्छ्रपित्तवातहरः (११)|
सद्योघृततैलवसामज्जचतुष्प्रस्थं हपुषार्धपलं सैन्धवार्धाक्षयुक्तो बस्तिर्वृष्यतमो मूत्रकृच्छ्रपित्तव्याधिहरो रसायनः (१२)|

मधुतैलं चतुःप्रसृतं शतपुष्पार्धपलं सैन्धवार्धाक्षयुक्तो बस्तिर्दीपनो बृंहणो बलवर्णकरो निरुपद्रवो 

वृष्यतमो रसायनः क्रिमिकुष्ठोदावर्तगुल्मार्शोब्रध्नप्लीहमेहहरः (१३)|
तद्वन्मधुघृताभ्यां पयस्तुल्यो बस्तिः पूर्वकल्केन बलवर्णकरो वृष्यतमो निरुपद्रवो 

बस्तिमेढ्रपाकपरिकर्तिकामूत्रकृच्छ्रपित्तव्याधिहरो रसायनश्च (१४)|
तद्वन्मधुघृताभ्यां मांसरसतुल्यो मुस्ताक्षयुक्तः
पूर्ववद्बस्तिर्वातबलासपादहर्षगुल्मत्रिकोरुजानूरुनिकुञ्चनबस्तिवृषणमेढ्रत्रिकपृष्ठशूलहरः (१५)|
सुरासौवीरककुलत्थमांसरसमधुघृततैलसप्तप्रसृतो मुस्तशताह्वाकल्कितः सलवणो बस्तिः सर्ववातरोगहरः (१६)|
द्विपञ्चमूलत्रिफलाबिल्वमदनफलकषायो गोमूत्रसिद्धः कुटजमदनफलमुस्तपाठाकल्कितः 

सैन्धवयावशूकक्षौद्रतैलयुक्तो बस्तिः 

श्लेष्मव्याधिबस्त्याटोपवातशुक्रसङ्गपाण्डुरोगाजीर्णविसूचिकालसकेषु देय इति||१८||

अत ऊर्ध्वं वृष्यतमान् स्नेहान् वक्ष्यामः|
शतावरीगुडूचीक्षुविदार्यामलकद्राक्षाखर्जूराणां यन्त्रपीडितानां रसप्रस्थं पृथगेकैकं 

तद्वद्घृततैलगोमहिष्यजाक्षीराणां द्वौ द्वौ दद्यात्, 

जीवकर्षभकमेदामहामेदात्वक्क्षीरीशृङ्गाटकमधूलिकामधुकोच्चटापिप्पलीपुष्करबीजनीलोत्पलकदम्बपुष्प- पुण्डरीककेशरकल्कान् पृषततरक्षुमांसकुक्कुटचटकचकोरमत्ताक्षबर्हिजीवञ्जीवकुलिङ्गहंसाण्डरसवसामज्जादेश्च 

प्रस्थं दत्त्वा साधयेत्|
ब्रह्मघोषशङ्खपटहभेरीनिनादैः सिद्धं सितच्छत्रकृतच्छायं गजस्कन्धमारोपयेद्भगवन्तं वृषध्वजमभिपूज्य, 

तं स्नेहं त्रिभागमाक्षिकं मङ्गलाशीः स्तुतिदेवतार्चनैर्बस्तिं गमयेत्|
नृणां स्त्रीविहारिणां नष्टरेतसां क्षतक्षीणविषमज्वरार्तानां व्यापन्नयोनीनां वन्ध्यानां रक्तगुल्मिनीनां 

मृतापत्यानामनार्तवानां च स्त्रीणां क्षीणमांसरुधिराणां पथ्यतमं रसायनमुत्तमं वलीपलितनाशनं विद्यात् (१)|१९|

बलागोक्षुरकरास्नाश्वगन्धाशतावरीसहचराणां शतं शतमापोथ्य जलद्रोणशते प्रसाध्यं, तस्मिन् 

जलद्रोणावशेषे रसे वस्त्रपूते विदार्यामलकस्वरसयोर्बस्तमहिषवराहवृषकुक्कुटबर्हिहंसकारण्डवसारसाण्डरसानां 

घृततैलयोश्चैकैकं प्रस्थमष्टौ प्रस्थान् क्षीरस्य दत्त्वा 

चन्दनमधुकमधूलिकात्वक्क्षीरीबिसमृणालनीलोत्पलपटोलात्मगुप्तान्नपाकितालमस्तकखर्जूरमृद्वीकातामलकी-

 कण्टकारीजीवकर्षभकक्षुद्रसहामहासहाशतावरीमेदापिप्पलीह्रीबेरत्वक्पत्रकल्कांश्च दत्त्वा साधयेत्|

ब्रह्मघोषादिना विधिना सिद्धं बस्तिं दद्यात्|
तेन स्त्रीशतं गच्छेत्; न चात्रास्ते विहाराहारयन्त्रणा काचित्|
एष वृष्यो बल्यो बृंहण आयुष्यो वलीपलितनुत् क्षतक्षीणनष्टशुक्रविषमज्वरार्तानां व्यापन्नयोनीनां च पथ्यतमः (२)|१९|

सहचरपलशतमुदकद्रोणचतुष्ट्ये पक्त्वा द्रोणशेषे रसे सुपूते विदारीक्षुरसप्रस्थाभ्यामष्टगुणक्षीरं 

घृततैलप्रस्थं बलामधुकमधूकचन्दनमधूलिकासारिवामेदामहामेदाकाकोलिक्षीरकाकोलीपयस्यागुरुमञ्जिष्ठाव्याघ्रनख-

 शटीसहचरसहस्रवीर्यावराङ्गलोध्राणामक्षमात्रैर्द्विगुणशर्करैः कल्कैः साधयेत्|

बह्मघोषादिना विधिना सिद्धं बस्तिं दद्यात्|

एष सर्वरोगहरो रसायनो ललितानां श्रेष्ठोऽन्तःपुरचारिणीनां क्षतक्षयवातपित्तवेदनाश्वासकासहरस्त्रिभागमाक्षिको 

वलीपलितनुद्वर्णरूपबलमांसशुक्रवर्धनः (३)|
इत्येते रसायनाः स्नेहबस्तयः सति विभवे शतपाकाः सहस्रपाका वा कार्या वीर्यबलाधानार्थमिति||१९||

भवन्ति चात्र-

इत्येते बस्तयः स्नेहाश्चोक्ता यापनसञ्ज्ञिताः|
स्वस्थानामातुराणां च वृद्धानां चाविरोधिनाः||२०||
अतिव्यवायशीलानां शुक्रमांसबलप्रदाः|
सर्वरोगप्रशमनाः सर्वेष्वृतुषु यौगिकाः||२१||
नारीणामप्रजातानां नराणां चाप्यपत्यदाः|
उभयार्थकरा दृष्टाः स्नेहबस्तिनिरूहयोः||२२||

व्यायामो मैथुनं मद्यं मधूनि शिशिराम्बु च|
सम्भोजनं रथक्षोभो बस्तिष्वेतेषु गर्हितम्||२३||

तत्र श्लोकाः–

शिखिगोनर्दहंसाण्डैर्दक्षवद्बस्तयस्त्रयः|
विंशतिर्विष्किरैस्त्रिंशत्प्रतुदैः प्रसहैर्नव||२४||
विंशतिश्च तथा सप्तविंशतिश्चाम्बुचारिभिः|
नव मत्स्यादिभिश्चैव शिखिकल्पेन बस्तयः||२५||
दश कर्कटकाद्यैश्च कूर्मकल्केन बस्तयः|
मृगैः सप्तदशैकोनविंशतिर्विष्किरैर्दश ||२६||
आनूपैर्दक्षशिखिवद्भूशयैश्च चतुर्दश|
एकोनत्रिंशदित्येते सह स्नेहैः समासतः||२७||
प्रोक्ता विस्तरशो भिन्ना द्वे शते षोडशोत्तरे|
एते माक्षिकसंयुक्ताः कुर्वन्त्यतिवृषं नरम्||२८||
नातियोगं न वाऽयोगं स्तम्भितास्ते च कुर्वते|२९|

मृदुत्वान्न निवर्तन्ते यस्य त्वेते प्रयोजिताः||२९||
समूत्रैर्बस्तिभिस्तीक्ष्णैरास्थाप्यः क्षिप्रमेव सः|३०|

शोफाग्निनाशपाण्डुत्वशूलार्शःपरिकर्तिकाः||३०||
स्युर्ज्वरश्चातिसारश्च यापनात्यर्थसेवनात्|३१|

अरिष्टक्षीरसीध्वाद्या तत्रेष्टा दीपनी क्रिया||३१||
युक्त्या तस्मान्निषेवेत यापनान्न प्रसङ्गतः|
इत्युच्चैर्भाष्यपूर्वाणां व्यापदः सचिकित्सिताः||३२||
विस्तरेण पृथक् प्रोक्तास्तेभ्यो रक्षेन्नरं सदा|३३|

कर्मणां वमनादिनामसम्यक्करणापदाम्||३३||
यत्रोक्तं साधनं स्थाने सिद्धिस्थानं तदुच्यते|३४|

इत्यध्यायशतं विंशमात्रेयमुनिवाङ्मयम्||३४||
हितार्थं प्राणिनां प्रोक्तमग्निवेशेन धीमता|३५|

दीर्घमायुर्यशः स्वास्थ्यं त्रिवर्गं चापि पुष्कलम्||३५||
सिद्धिं चानुत्तमां लोके प्राप्नोति विधिना पठन्|३६|

विस्तारयति लेशोक्तं सङ्क्षिपत्यतिविस्तरम्||३६||
संस्कर्ता कुरुते तन्त्रं पुराणं च पुनर्नवम्|
अतस्तन्त्रोत्तममिदं चरकेणातिबुद्धिना||३७||
संस्कृतं तत्त्वसम्पूर्णं त्रिभागेनोपलक्ष्यते|
तच्छङ्करं भूतपतिं सम्प्रसाद्य समापयत्||३८||
अखण्डार्थं दृढबलो जातः पञ्चनदे पुरे|
कृत्वा बहुभ्यस्तन्त्रेभ्यो विशेषोञ्छशिलोच्चयम्||३९||
सप्तदशौषधाध्यायसिद्धिकल्पैरपूरयत्|
इदमन्यूनशब्दार्थं तन्त्रदोषविवर्जितम्||४०||
षड्विंशता विचित्राभिर्भूषितं तन्त्रयुक्तिभिः|४१|

तत्राधिकरणं योगो हेत्वर्थोऽर्थः पदस्य च||४१||
प्रदेशोद्देशनिर्देशवाक्यशेषाः प्रयोजनम्|
उपदेशापदेशातिदेशार्थापत्तिनिर्णयाः||४२||
प्रसङ्गैकान्तनैकान्ताः सापवर्गो विपर्ययः|
पूर्वपक्षविधानानुमतव्याख्यानसंशयाः||४३||
अतीतानागतावेक्षास्वसञ्ज्ञोह्यसमुच्चयाः|
निदर्शनं निर्वचनं सन्नियोगो विकल्पनम्||४४||
प्रत्युत्सारस्तथोद्धारः सम्भवस्तन्त्रयुक्तयः|४५|

तन्त्रे समासव्यासोक्ते भवन्त्येता हि कृत्स्नशः||४५||
एकदेशेन दृश्यन्ते समासाभिहिते तथा|४६|

यथाऽम्बुजवनस्यार्कः प्रदीपो वेश्मनो यथा||४६||
प्रबोधनप्रकाशार्थास्तथा तन्त्रस्य युक्तयः|४७|

एकस्मिन्नपि यस्येह शास्त्रे लब्धास्पदा मतिः||४७||
स शास्त्रमन्यदप्याशु युक्तिज्ञत्वात् प्रबुध्यते|
अधीयानोऽपि शास्त्राणि तन्त्रयुक्त्या विना भिषक्|
नाधिगच्छति शास्त्रार्थानर्थान् भाग्यक्षये यथा||४८||

दुर्गृहीतं क्षिणोत्येव शास्त्रं शस्त्रमिवाबुधम्|
सुगृहीतं तदेव ज्ञं शास्त्रं शस्त्रं च रक्षति||४९||
(तस्मादेताः प्रवक्ष्यन्ते विस्तरेणोत्तरे पुनः|
तत्त्वज्ञानार्थमस्यैव तन्त्रस्य गुणदोषतः)||५०||

इदमखिलमधीत्य सम्यगर्थान् विमृशति योऽविमनाः प्रयोगनित्यः|
स मनुजसुखजीवितप्रदाता भवति धृतिस्मृतिबुद्धिधर्मवृद्धः||५१||

(यस्य द्वादशसाहस्री हृदि तिष्ठति संहिता|
सोऽर्थज्ञः स विचारज्ञश्चिकित्साकुशलश्च सः||५२||
रोगांस्तेषां चिकित्सां च स किमर्थं न बुध्यते|
चिकित्सा वह्निवेशस्य सुस्थातुरहितं प्रति||५३||
यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित्|
अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते||५४||
सिद्धिस्थानेऽष्टमे प्राप्ते तस्मिन् दृढबलेन तु|
सिद्धिस्थानं स्वसिद्ध्यर्थं समासेन समापितम्)||५५||

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरितेसिद्धिस्थाने 

उत्तरबस्तिसिद्धिर्नाम द्वादशोऽध्यायः||१२||

इति चरकसंहितायां अष्टमं सिद्धिस्थानं सम्पूर्णम्|
समाप्तेयं चरकसंहिता|