श्रीगोविंदस्तोत्र
चिन्तामणिप्रकरसह्यसु कल्पवृक्ष- लक्षावृतेषु सुरभीरभिपालयन्तम् ।
लक्ष्मीसहस्त्रशतसम्भ्रमसेव्यमानं गोविन्दमादिपुरुषं तमहं भजामि ॥ १ ॥
वेणुं क्वणन्तमरविन्ददलायताक्षं बर्हावतंसमसिताम्बुदसुन्दराङ्गम् ।
कंदर्पकोटिकमनीयविशेषशोभं गोविन्दमादिपुरुषं तमहं भजामि ॥ २ ॥
आलोलचन्द्रकलसद्वनमाल्यवंशी रत्नाङ्गदं प्रणयकेलिकलाविलासम् ।
श्यामं त्रिभङ्गललितं नियतप्रकाशं गोविन्दमादिपुरुषं तमहं भजामि ॥ ३ ॥
अङ्गानि यस्य सकलेन्द्रियवृत्तिमन्ति पश्यन्ति पान्ति कलयन्ति चिरं जगन्ति ।
आनन्दचिन्मय सदुज्ज्वलविग्रहस्य गोविन्दमादिपुरुषं तमहं भजामि ॥ ४ ॥
अद्वैतमच्युतमनादिमनन्तरूप माद्यं पुराणपुरुषं नवयौवनं च ।
वेदेषु दुर्लभमदुर्लभमात्मभक्तौ गोविन्दमादिपुरुषं तमहं भजामि ॥ ५ ॥
पन्थास्तु सोऽप्यस्ति कोटिशतवत्सरसम्प्रगम्यो वायोरधापि मनसो मुनिपुंगवानाम् ।
यत्प्रपदसीम्न्यविचिन्त्यतत्त्वे गोविन्दमादिपुरुषं तमहं भजामि ॥ ६ ॥
एकोऽप्यसौ रचयितुं जगदण्डकोटिं यच्छक्तिरस्ति जगदण्डचया यदन्तः ।
अण्डान्तरस्थपरमाणुचयान्तरस्थं गोविन्दमादिपुरुषं तमहं भजामि ॥ ७ ॥
यद्भावभावितधियो मनुजास्तथैव सम्प्राप्य रूपमहिमासनयानभूषाः ।
निगमप्रथितैः स्तुवन्ति गोविन्दमादिपुरुषं तमहं भजामि ॥ ८ ॥
आनन्दचिन्मयरसप्रतिभाविताभि-सूक्तैर्यमेव गोलोक ताभिर्य एव निजरूपतया कलाभिः ।
एव निवसत्यखिलात्मभूतो गोविन्दमादिपुरुषं तमहं भजामि ॥ ९ ॥
प्रेमाञ्जनच्छुरितभक्तिविलोचनेन यं सन्तः सदैव हृदयेऽपि विलोकयन्ति ।
श्यामसुन्दरमचिन्त्यगुणस्वरूपं गोविन्दमादिपुरुषं तमहं भजामि ॥ १० ॥
रामादिमूर्तिषु कलानियमेन तिष्ठन् नानावतारमकरोद्भुवनेषु किंतु ।
कृष्णः स्वयं समभवत् परमः पुमान् यो गोविन्दमादिपुरुषं तमहं भजामि ॥ ११ ॥
यस्य प्रभा प्रभवतो जगदण्डकोटि कोटिष्वशेषवसुधादिविभूतिभिन्नम् ।
तद्ब्रह्म निष्कलमनन्तमशेषभूतं गोविन्दमादिपुरुषं तमहं भजामि ॥ १२ ॥
माया हि यस्य जगदण्डशतानि सूते त्रैगुण्यतद्विषयवेदवितायमाना
सत्त्वावलम्बिपरसत्त्वविशुद्धसत्त्वं गोविन्दमादिपुरुषं तमहं भजामि ॥ १३ ॥
आनन्दचिन्मयरसात्मतया मनस्सु यः प्राणिनां प्रतिफलन् स्मरतामुपेत्य ।
लीलायितेन भुवनानि जयत्यजस्त्रं गोविन्दमादिपुरुषं तमहं भजामि ॥ १४ ॥
गोलोकनाम्नि निजधानि तले च तस्य देवीमहेशहरिधामसु तेषु तेषु च ।
ते ते प्रभावनिचया विहिताश्च येन गोविन्दमादिपुरुषं तमहं भजामि ॥ १५ ॥
सृष्टिस्थितिप्रलयसाधनशक्तिरेका छायेव यस्य भुवनानि बिभर्ति दुर्गा ।
इच्छानुरूपमपि यस्य च चेष्टते सा गोविन्दमादिपुरुषं तमहं भजामि ॥ १६ ॥
क्षीरं यथा दधिविकारविशेषयोगात् संजायते नहि ततः पृथगस्ति हेतोः ।
यः शम्भुतामपि तथा समुपैति कार्याद् गोविन्दमादिपुरुषं तमहं भजामि ॥ १७ ॥
दीपार्चिरेव हि दशान्तरमभ्युपेत्य दीपायते विवृतहेतुसमानधर्मा ।
यस्तादृगेव च विष्णुतया विभाति गोविन्दमादिपुरुषं तमहं भजामि ॥ १८ ॥
यः कारणार्णवजले भजति स्म योग निद्रामनन्तजगदण्डसरोमकूपः
आधारशक्तिमवलम्ब्य परां स्वमूर्ति गोविन्दमादिपुरुषं तमहं भजामि ॥ १९ ॥
यस्यैकनिश्श्वसितकालमथावलम्ब्य जीवन्ति लोमविलजा जगदण्डनाथाः ।
विष्णुर्महान् स इह यस्य कलाविशेषो गोविन्दमादिपुरुषं तमहं भजामि ॥ २० ॥
भास्वान् यथाश्मसकलेषु निजेषु तेजः स्वीयं कियत् प्रकटयत्यपि तद्वदत्र ।
ब्रह्मा य एष जगदण्डविधानकर्ता गोविन्दमादिपुरुषं तमहं भजामि ॥ २१ ॥
यत्पादपल्लवयुगं विनिधाय कुम्भ द्वन्द्वे प्रणामसमये स गणाधिराजः ।
विघ्नान् निहन्तुमलमस्य जगत्त्रयस्य गोविन्दमादिपुरुषं तमहं भजामि ॥ २२ ॥
अग्निर्महीगगनमम्बुमरुद्दिशश्च कालस्तथाऽऽत्ममनसीति जगत्त्रयाणि ।
यस्माद् भवन्ति विभवन्ति विशन्ति यं च गोविन्दमादिपुरुषं तमहं भजामि ॥ २३ ॥
यच्चक्षुरेव सविता सकलग्रहाणां राजा समस्तसुरमूर्तिरशेषतेजाः ।
यस्याज्ञया भ्रमति सम्भृतकालचक्री गोविन्दमादिपुरुषं तमहं भजामि ॥ २४ ॥
धर्मोऽथ पापनिचयः श्रुतयस्तपांसि ब्रह्मादिकीटपतगावधयश्च जीवाः ।
यद्दत्तमात्रविभवप्रकटप्रभावा गोविन्दमादिपुरुषं तमहं भजामि ॥ २५ ॥
यस्त्विन्द्रगोपमथवेन्द्रमहो स्वकर्म बद्धानुरूपफलभाजनमातनोति ।
कर्माणि निर्दहति किंतु च भक्तिभाजां गोविन्दमादिपुरुषं तमहं भजामि ॥ २६ ॥
यं क्रोधकामसहजप्रणयादिभीति वात्सल्यमोहगुरुगौरवसेव्यभावैः
संचिन्त्य तस्य सदृशीं तनुमापुरेते गोविन्दमादिपुरुषं तमहं भजामि ॥ २७ ॥
॥ श्री गोविंदस्तोत्र सम्पूर्ण ॥